नवमोऽध्यायः
ॐ
अष्टमोऽध्यायः
रत्नयासः
प्रातस्स्नात्वा विधानेन जत्वा सूक्तानि पूर्ववत्।
प्रविश्य यागशालाञ्च देवदेवं प्रणम्य च ॥ 8.1 ॥
ततस्सुप्तं हरिं किञ्चिदोङ्कारेण प्रबोधयेत्।
प्रणम्य ‘भूः प्रप’ द्येति विष्णुसूक्तेन चोद्धरेत् ॥ 8.2 ॥
(कौतुकाद्यधिवासञ्चेर्त्कोतुके स्नानमाचरेत्।
उत्सवादिषु बेरेषु अधिवासं भवेद्यदि ।)
व्यपोह्म वस्त्रमाल्यादीन् पुनरन्यैश्च भूषयेत्।
त्रयोदशोपचौश्च समभ्यर्च्य यथाविधि ॥ 8.3 ॥
रत्नानि धातुबीजानि गृहीत्वाऽन्तः प्रविश्च च।
अर्चापीठेऽवटं कृत्वा सोपपीठपदं तथा ॥ 8.4 ॥
उपपीठपदञ्चेति पञ्चविंशत्पदं स्मृतम्।
‘तमेकने’ मिमित्युक्त्वा रत्नादीन्यभिमृश्य च ॥ 8.5 ॥
‘प्रजापतेः प्रथम’ मिति रौक्मं कूर्मन्तु सन्न्यसेत्।
‘तमेकनेमि’ मन्त्रेण सौवर्णं दन्तिनं न्यसेत् ॥ 8.6 ॥
‘शतधार’ मिति प्रोच्य(1) सौवर्णं गरुडं तथा।
ब्रह्मस्थाने ब्रह्ममणिं ‘ब्रह्मा देवा’ दिमुच्चरन् (1) प्राच्यां अ. ॥ 8.7 ॥
‘इन्द्रं प्रणयन्त’ रिति प्रोच्य त्वाग्नेय्यां मौक्तिकं क्षिपेत् ॥ 8.8 ॥
‘यमो दाधा’ मन्त्रेण याम्ये वैडूर्यमाक्षिपेत्।
‘वसवः प्रथम’ इत्युक्त्वा नैऋत्यां शङ्खजं क्षिपेत् ॥ 8.9 ॥
चतुर्भिर्वारुणैर्मन्त्रैः स्फाटिकं वारुणे न्यसेत्।
‘मरुतः परमा’ त्मेति वायव्ये पुष्यकं क्षिपेत् ॥ 8.10 ॥
‘सोमं राजान’ मित्युक्त्वा चन्द्रकान्तमथोत्तरे।
‘ईशानस्सर्व’ मन्त्रेण (1)नीलमीशानदिश्यपि (1.) तत्र नीलमणिं क्षिपेत् ई.
॥ 8.11 ॥
‘शन्नो निधत्त’ मित्युक्त्वा वासुकेरमृताश्मकम्।
‘धाता धातृणा’ मिति च साध्येभ्यो लोहिताश्मकम् ॥ 8.12 ॥
‘विश्वे देवस्य’ मन्त्रेण विश्वदेवेभ्य उत्पलम्।
‘अधिब्रह्मा यत’ तेति सिद्धानान्तु प्रवालकम् ॥ 8.13 ॥
‘इमां मूर्धन्या इत्युक्त्वा गन्धर्वेभ्यो मनश्शिलाम्।
‘अप्सरस्सु’ ब्रुवन्विद्वानप्सरोभ्योऽथ शुक्तिजम् ॥ 8.14 ॥
‘यं काद्रवेया’ इत्युक्त्वा नागेभ्यो विमलं माणिम्।
‘अर्यम्ण’ इति मन्त्रेण अर्यम्णे कुरुंविन्दकम् ॥ 8.15 ॥
‘तत्त्रीण्ये’ षेति च वदन् भूतेभ्यो नीलमुत्तमम्।
अमृताश्मकादिरत्नानि मध्येऽवान्तरदिक्ष्वपि ॥ 8.16 ॥
‘शन्नो निधत्ता’ मित्याद्यैर्मन्त्रैः क्षिप्त्वा यथाक्रमम्।
ततो बीजानि धातूंश्च न्यसेन्मध्यपदेऽष्टके ॥ 8.17 ॥
सौवर्णं गैरिकं मध्ये हरितालं मनश्शिलाम्।
अञ्जनं श्यामकासीसं रसं सौराष्ट्रकं तथा ॥ 8.18 ॥
गोरोचनं चतुर्दिक्षु तत्तन्मन्त्रैश्च सन्न्यसेत्।
सर्वगन्धयुतं सर्वबीजं ब्राह्मे तु सन्न्यसेत् ॥ 8.19 ॥
ऐन्द्रे तु पुष्टिकान्व्रीहीन्न्यसेन्माषकुलुत्थकौ।
याम्ये गोधूममुद्रौ च तिलतिल्वौ च नैर्ऋतौ ॥ 8.20 ॥
यवद्वयं तु वारुण्यां नीवारञ्च प्रियङ्गुकम्।
सौम्ये तु मुद्गगोधूमावीशान्ये सर्वबीजकम् ॥ 8.21 ॥
पूर्वोक्तैरेव मन्त्रैस्तु क्रमेणैतान्बहिर्न्यसेत्।
(1)ब्रह्मस्थानस्य परितः विन्यसेदष्टमङ्गलान् (1.) ब्रह्मस्थाने आ. ॥ 8.22 ॥
भूयाम’ इति मन्त्रेण श्रीवत्सं चैन्द्रके न्यसेत्।
आग्नेय्यां पूर्णकुम्भन्तु ‘नमस्सुलोमि’ मन्त्रतः ॥ 8.23 ॥
याम्ये भेरीं न्यसेत्तत्र ‘स एकोऽभू’ दिति ब्रुवन्।
नैर्ऋत्यां विन्यसेत्पश्चा ‘द्देवस्य’ त्वेति दर्पणम् ॥ 8.24 ॥
वैष्णवं मन्त्रमुच्चार्य वारुण्यां मत्स्ययुग्मकम्।
वायव्यामुङ्कुशं पश्चात् ‘क्ष्मामेका’ मिति च ब्रुवन् ॥ 8.25 ॥
‘तन्मा यशोग्र’ इत्युक्त्वा शङ्खं सौम्ये तु निक्षिपेत्।
‘ब्रह्मा देवे’ ति चैशान्?यामावर्तं निदधीत वै ॥ 8.26 ॥
गदाचक्रासिशक्तीश्च शरं मध्येऽथ दक्षिणे।
‘भूमाननोऽग्र’ इत्युक्त्वा प्रत्येकं च विनिक्षिपेत् ॥ 8.27 ॥
वामभागे तथा शखं शार्ङ्ग खेटकमेव च।
‘तन्मा यशोऽग्र’ इत्युक्त्वा प्रत्येकं च विनिक्षिपेत् ॥ 8.28 ॥
स्रुवादिवर्णचिह्रानि तत्तद्वर्णविवृद्धये।
श्रीरूपं च श्रियः स्थाने ‘श्रिये जात’ इति ब्रुवन् ॥ 8.29 ॥
हरिणीं हरिणीस्थाने मेदिन्यादि समुच्चरन्।
‘प्रजापति’ मिति प्रोच्य कूर्मं चोपरि विन्यसेत् ॥ 8.30 ॥
यथाशक्ति सुवर्णेन सर्वाण्येतानि कल्पयेत्।
अलाभे प्रतिनिधिः
रत्नलालाभे सुवर्णं वा बीजानां यवमेव वा ॥ 8.31 ॥
धातूनां पारदं वाऽपि तत्तत्प्रतिनिधिं हरेत्।
क्षौमेणाच्छाद्य तच्छ्वभ्रं सुधयोपरि लेपयेत् ॥ 8.32 ॥
पीठे पुरातने पूर्वं रत्नादौ सुप्रतिष्ठिते।
तत्तद्रत्नादिकं ब्रुध्द्वा मन्त्रांस्तान्त्समुदीर्य च ॥ 8.33 ॥
‘अपो हिष्ठा’ दिभिर्गन्त्रैः प्रोक्षयेच्च कुशोदकैः।
पूर्णाहुतिः महाशान्तिः
यज्ञशालां ततो गत्वा देवेशं सम्प्रणम्य च ॥ 8.34 ॥
जुहुयात्पौण्डरीकाग्नौ विष्णुगायत्रिया शतम्।
श्वेतपद्मं घृतासिक्तं रक्ताब्जं बिल्वमेव वा ॥ 8.35 ॥
नरसूक्तं वैष्णवं च ‘यद्देवा’ दि तथैव च।
ब्राह्मैन्द्रवारुणान् हुत्वा रात्रिसूक्तसमन्वितम् ॥ 8.36 ॥
जुहुयाद्विश्वजित्सूक्तं महाशान्तिरियं स्मृता।
(1)सभ्ये तु वैष्णवं विष्णुसूक्तं पुरुषसूक्तकम् (1.) सभ्ये तु नरसूक्तञ्च वैष्णवं विष्णुसूक्तकं आ ॥ 8.37 ॥
एकाक्षरादि हुत्वा तु व्याहत्यन्तं प्रतिप्रति।
समिद्घृताभ्यां जरुणा देवदेवमनुस्मरन् ॥ 8.38 ॥
(रात्रावेवाहतु?र्होमं प्रातर्नेवात्रिकाश्यपौ ।)
दक्षिणादानम्
दद्यादाचार्यपूर्वेभ्यो दक्षिणां च यथाविधि।
(समिद्घृताभ्यां चरुणा देवदेवमनुस्मरन् ॥
पूर्णाहुतिं प्रकुर्वीत सर्वकर्म समापयेत्।
ततस्तु पौण्डरीकाग्निं विसृजेद्विधिवद्वुधः ॥
सभ्यमग्निं सुसंरक्ष्य नित्यहोमाय विन्यसेत्।
आलयाद्दक्षिणे पार्श्वे कुण्डमौपासनाग्निवत् ॥
कुर्यान्महानसे वाऽथ नैर्ऋतेऽर्चकसद्मनि।
कृत्वा तत्र निधायाग्निं नित्यहोमं समाचरेत् ॥
नित्यहोमे त्वश्?ाक्तस्य विशेषस्संप्रवक्ष्यते।
तत्रस्थाग्निषु सर्वेषु यजेयुर्वैष्णवं पुनः ॥
षडग्निकुण्डहोमान्तेऽध्यावसथ्ये ततः परम्।
अन्तहोमं ततो हुत्वा स त्वाचार्यपुरस्सरम् ॥
समिध्यग्निं समारो ‘प्योपावरोहे’ ति च ब्रुवन्।
सामिधं तां समानीय आर्चाय समर्पयेत् ॥
समिधं गृहीत्वाप्याचार्यो हुनेदाहवनीयके।
तत्कुण्डेऽप्यन्तहोमान्ते समिध्यारोपये द्वुधः ॥
समिधं तां समानीयं आचार्याय समर्पयेत्।
आचार्यस्त्वरितः पश्चादन्वाह्यर्ये जुहोति च ॥
तत्कुण्डेऽप्यन्तहोमान्ते समिध्यारोपयेत्सुधीः।
समिधं तां ततो गृह्य आचार्याय प्रदीयताम् ॥
समिधं गृहीत्वाप्याचार्यो जुहुयाद्गार्हपत्यके।
तत्कुण्डेऽप्यन्तहोमान्ते समिध्यारोपये द्वुधः ॥
समिधं तां समानीय आचार्याय समर्पयेत्।
तत्कुण्डेऽप्यन्तहोमान्ते समिध्यारोपयै द्वुधः ॥
समिधं तां समानीय आचार्याय समर्पयेत्।
समिधं गृहीत्वाऽऽचार्यस्तां जुहुयात्पद्मकुण्डके ॥
तत्कुण्डेऽप्यन्तहोमान्ते समिध्यारोपयेतत्सुधीः।
समिधं तां समानीय आचार्याय समर्पयेत् ॥
समिधं गृहीत्वाऽऽचार्यस्तां हुनेत्सभ्याग्निकुण्डके।
सभ्यमग्निं सुसंरक्ष्य नित्यहोमाय विन्यसेत् ॥
नित्यहोमेऽप्यशक्तिं तां ज्ञात्वाऽऽचार्यो यथाक्रमम्।
कुम्भस्योत्थापनात्पूर्वं यजेत्पूर्णाहुतिं बुधः ॥
ध्रुवे आग्न्यारोपपक्षः
आचार्यः प्रयतो गत्वा अक्षतान्त्संप्रगृह्य च।
साक्षतेनैव हस्तेन ‘याते अग्न’ इति ब्रुवन् ॥
सभ्याग्निं च समारोप्य शक्तिं कुम्भेऽक्षतान्यसेत्।
ध्रुवस्यावाहनात्पश्चाद्देवेशं सम्प्रणम्य च ॥
कुर्चेनादाय तत्तोयं याते अग्न’ इति ब्रुवन्।
संस्राव्य बिम्बं परितः ध्रुवेऽग्न्यारोपणं चरेत् ॥
यद्यग्निः न गृहीतस्याद्भूणहा भवति ध्रुवम्।
तत्काले यजमानश्च श्रद्धया देवसन्निधौ ॥
दक्षिणादानम्
यथोक्तमाचार्यदिभ्यो दक्षिणां सोदकं ददेत् ।)
सदनप्रदक्षिणम्
देवं देवीसमायुक्तं सर्वालङ्करणैस्सह ॥ 8.39 ॥
जपन्वै शाकुनं सूक्तं तोयधारापुरस्सरम्।
आचार्यश्शिरसा कुम्भं गृहीत्वा पूर्वतो व्रजेत् ॥ 8.40 ॥
ततोऽनु देवं देव्यौ च नयन्ति स्थापकास्तथा।
बिम्बस्थापनप्रकारः
बहुबेरप्रतिष्ठा चेत्तत्तद्वेरक्रमान्नयेत् ॥ 8.41 ॥
बहुभुमिप्रतिष्टा चेत्तत्तद्वुद्धा समाहितः।
तले तले विधानेन यथोचितमथाचरेत् ॥ 8.42 ॥
परीत्य मन्दिरं पश्चाद्गर्भ?गेहं प्रविश्य च।
विष्णुसूक्तं समुच्चार्य स्थापयित्वा ततः परम् ॥ 8.43 ॥
ध्रुवसूक्तं ततो जत्वा पौरुषं सूक्तमेव च।
एकाक्षरादिसूक्तं च स्थापयेयुस्समाहिताः ॥ 8.44 ॥
दक्षिणे ब्रह्मसूत्रस्य बेरमध्यं यथा तथा।
देवदेवं जगद्योनिं स्थापयेद्विष्णमुव्ययम् ॥ 8.45 ॥
स्थापयेदन्यदेवास्तु तद्वामे बेरमध्यमम्।
सूत्रसन्धौ न कुर्वीत सर्वेषां बेरमध्यमम् ॥ 8.46 ॥
स्थापितं चेत्तदज्ञानात्सर्वमाशु विनश्यति।
औत्सवं कौत्तुकाद्वामे दक्षिणे स्नापनं तथा ॥ 8.47 ॥
औत्सवं दक्षिणे वामे स्नापनन्त्विति केचन।
गर्भालयस्य सङ्कोचे त्वथवा मुखमण्डपे ॥ 8.48 ॥
प्रतिष्ठाप्यान्तराले वा पूजयेदिति चाङ्गिराः।
आचार्यः पुरतः कुम्भं धान्यपीठे सुसन्यसेत् ॥ 8.49 ॥
व्यहतिन्यासादि
न्यसेद्विम्बस्य मूर्धादि पादान्तं व्याहृतित्रयम्।
यकारं पादयोर्मध्ये त्वकारं हृदये न्यसेत् ॥ 8.50 ॥
प्रणवेन समावेष्ट्य मूध्निं च प्रणवं न्यसेत्।
(एकाक्षरादिमन्त्रैश्च सन्न्यसेत्तु विधानतः।
अकारादिक्षकारान्तं विन्यसेद्विधिना बुधः।)
आत्मसूक्तं ततो जप्त्वा कूर्चेनादागय वै ततः ॥ 8.51 ॥
आवहनप्रकारः
कुम्भाच्छक्तियुतं तोय ‘मायातु भगवा’ निति।
‘विष्णुमावाहया’ मीति स्रावयेद्विम्बमूर्धनि ॥ 8.52 ॥
प्रागादि ‘पुरुषं सत्यमच्युतं चानिरुद्धकम्’।
बिमृबमूर्ध्नि समावाह्य पीठे तु परितः क्रमात् ॥ 8.43 ॥
ततृतद्दिक्ष सुमावाह्य पुष्पन्यासोक्तदेवताः।
श्रीदेवीहृदये कृत्वा श्रीवत्सादिकमक्षरम् ॥ 8.54 ॥
लक्ष्मीपूर्वाक्षरं मन्त्रं हृदये चेव विन्यसेत्।
सानुस्वारञ्च विन्यस्य ‘श्रिये जात’ इति श्रियम् ॥ 8.55 ॥
मेदिन्यादीन् समुचचार्य महीमावाहयेतम्कमात्।
गर्भालयस्थितान् देवान् द्वारेशान् द्वारपालकान् ॥ 8.56 ॥
विमानेशान् लोकपालाननपायिन एव च।
तत्तन्मन्त्रैस्समावाह्य ततो वै कौतुकादिषु ॥ 8.57 ॥
कृत्वा मन्त्राक्षरन्यासौ ध्रुवादावाहयेत्क्रमात्।
भ्रावाहने विशेषःयद्यत्र लौकिकं बेरं प्रादुर्भावादयो ध्रुवाः ॥ 8.58 ॥
प्रतिष्ठाप्य क्रमात्तेषां तस्मादावाहयेद्ध्रुवात्।
यत्रालये तु यद्वेरं ध्रुवहीनं प्रतिष्ठितम् ॥ 8.59 ॥
आवाह्य तद्ध्रुवादेव तत्तद्विधिवदर्चयेत्।
पृथगेवाथवा कुम्भं संसाध्यावाहयेत्ततः ॥ 8.60 ॥
आसनादिभिरभ्यर्च्च हवींष्यपि निवेदयेत्।
प्रतिष्ठान्तोत्सवः
बलौ बल्युत्सवं कुर्यात्स्नापने स्नपनं चरेत् ॥ 8.61 ॥
तद्दिने सायमारभ्य चौत्सवे चोत्सवं चरेत्।
(1)घोषणं सद्य एवात्र कुर्यादित्याह पूर्वजः (1.) ब्रह्मघोषमकृत्यैव इति पूर्वजशासनम् आ. ॥ 8.62 ॥
अङ्कुरार्पणविकल्पाः
प्रतिष्ठान्तोत्सवारम्भध्वजस्नापकर्मसु।
नैवाङ्कुरार्पणं कुर्यादेकाहे बहुकर्मणाम् ॥ 8.63 ॥
पूर्वीस्मिन्नेव दिवसे चैकमेवाङ्कुरार्पणम्।
पृयक्पृथक्प्रकर्तव्यं भिन्नकर्तृककर्मणाम् ॥ 8.64 ॥
अङ्कुरार्पणकादूर्ध्वं प्रतिष्ठादिवसादधः।
कर्मणां क्रियमाणानां (2)न कुर्यात्पृथगङ्कुरम् (2.) न कुर्यादङ्कुरार्पणम् ई.
॥ 8.65 ॥
विनियुक्तसम्भाराणां विनियोगः
देवयागोपयुक्तानि तानि द्रव्याणि यानि वै।
गृहणीयादुपयोज्यानि गुरुरेवाखिलानि च ॥ 8.66 ॥
स्रुक्स्रुवादीनि पात्राणि त्वरणी मङृगलाष्टकम्।
पुनश्च कर्मयोग्यानि यानमासनमेव च ॥ 8.67 ॥
वितानं च ध्वजं छत्रं चामरव्यजनादिकम्।
ग्राह्यं पुनश्च कर्मार्थ हविरहर्यादिपात्रकम् ॥ 8.68 ॥
अन्यान्यनुपयोज्यानि दाह्यान्याहुर्मनीषिणः।
ब्रह्मस्थाने शिलाबेरप्रतिष्ठा
एवं कर्तुमशक्तश्चेद्वर्णहीनं शिलामयम् ॥ 8.69 ॥
ब्रह्मस्थानेप्रतिष्ठाप्य पूजयेदिति केचन।
वक्ष्यामि तत्क्रमं बेरं चित्रं सर्वाङ्गसुन्दरम् ॥ 8.70 ॥
कृत्वाऽक्षिमोचनं पश्चादमन्त्रकमतः परम्।
(पञ्चगव्याधिवासादीन् कृत्वा चैवमतः परम् ।)
तत्तत्पदे प्रतिष्ठाप्य शिलास्थापनमार्गतः।
पर्यग्निपञ्चगव्याभ्यां शुद्धिं कृत्वा तु तत्र वै ॥ 8.71 ॥
समन्त्रकाक्षिमोक्षान्ते पञ्चगव्यादिपूरितान्।
कुम्भांस्त्रियष्टियोगेन सरन्ध्रान्बेरमूर्धनि ॥ 8.72 ॥
पतेद्धारा यथा तस्मात्तथा सन्न्यस्य तान्क्रमात्।
अधिवासक्रियां कुर्यादभिषेकान्वितं पृथक् ॥ 8.73 ॥
अथवाऽभिमुखे कृत्वा पञ्चगव्यादिपूरितान्।
अष्टोत्तरशतं जत्वा तत्तन्मन्त्रान्यथाक्रमम् ॥ 8.74 ॥
अभ्युक्ष्य स्नापयेद्देवं प्रत्येकं भावयेज्जलैः।
महाप्रतिष्ठामार्गेणा प्रतिष्ठां पुनराचरेत् ॥ 8.75 ॥
औत्सवे बलिबेरे च तस्मादावाहनं स्मृतम्।
अथवा त्वरितः कर्तुमेकबेरविधिं यदि ॥ 8.76 ॥
बेरं कृत्वाऽक्षिमोक्षान्ते गव्यादिष्वधिवास्य च।
प्रतिष्ठोक्तक्रमेणैव कुम्भपूजादिकाः क्रियाः ॥ 8.77 ॥
रात्रौ समाप्य विधिना प्रातः स्नात्वा यथाविधि।
ब्रह्मस्थाने प्रतिष्ठाप्य रत्नन्यासपुरस्सरम् ॥ 8.78 ॥
शिल्पिस्पर्शविशुद्ध्यर्थ वास्तुहोमावसानके।
ध्रुवबेरोक्तवच्छुद्धिं कृत्वा बेरस्य मन्त्रवित् ॥ 8.79 ॥
कुम्भाच्छक्तिं समावाह्य समभ्यर्च्य निवेदयेत्।
ब्रह्मस्थनेऽथवा कृत्वा रत्नादिन्यासमत्वरः ॥ 8.80 ॥
पीठसंङ्घातर्मोण तत्र संस्थाप्य शिल्पिना।
अमन्त्रकाक्षिमोक्षं च कृत्वोद्वास्य च शिल्पिनम् ॥ 8.81 ॥
अष्टबन्धे दृढे पश्चादनुकूले शुभे दिने।
अक्ष्युन्मेषाधिवासादि प्रतिष्ठामाचरेत्तथा ॥ 8.82 ॥
राष्ट्रान्तरानीत बिम्बादिप्रतिष्टा
राजा राष्टान्तरं जित्वा बेरं यदि समानयेत्।
तद्विम्बञ्च समुद्दिश्य स्वराष्ट्रे च मनोरमे ॥ 8.83 ॥
ध्रुवं तस्यानुरूपं च विमानमपि कारयेत्।
संस्थाप्य पूर्ववत्तत्र कुर्यात्तत्रार्चनं बुधः ॥ 8.84 ॥
ध्रुवबेरानुरूपञ्चेदथवा मन्दिरे क्वचित्।
औत्सवं स्नापनं वाऽथ स्थापयेदिति केचन ॥ 8.85 ॥
अथवा नानुरूपं चेल्लौकिकं वाऽथ कुत्रचित्।
स्थाप्य त्रयाणां बिम्बानां स्थानादन्यत्र पूजयेत् ॥ 8.86 ॥
स लभेदिष्टकादिनां फलं द्विगुणमेव च।
नीतमाग्नेयबिम्बं चेत्सप्ताहं पद्मकुण्डके ॥ 8.87 ॥
महाशान्तिं च जुहुयादधिवासादि पूर्ववत्।
कारयित्वा तु विधिना लौकिकं स्थापयेत्पुनः ॥ 8.88 ॥
कुम्भं संसाध्य विधिना समावाह्यार्कमण्डलात्।
कुम्भात्तस्मिन्त्समावाह्य पूजयेदिति शासनम् ॥ 8.89 ॥
भूमिं परीक्ष्य विधिना सद्यः कर्तु त्वरान्वितः।
ब्रह्मापद्मावसाने तु गर्भगेहे विशेषतः ॥ 8.90 ॥
अधिष्ठानोदयान्ते तु घनं भित्तिं प्रकल्पयेत्।
पञ्चरं च बहिः कृत्वा तत्र बेरं यथाविधि ॥ 8.91 ॥
(प्रतिष्ठाप्यर्चनं कुर्वन्नारभेदालयक्रियाम्।
तत्र प्रायश्चित्त पतिते चौत्सवे बिम्बे राजराष्ट्रविनाशकृत् ॥
तदर्थ वै महाशानितं महास्नापनमुत्तमम्।
कुर्याच्च पौण्डरीकाग्नावब्जपत्रं घृताप्लुतम् ॥
अष्टोत्तरसहस्रं वा शतष्टोत्तरन्तु वा।
यजेद्वै विष्णुगायत्र्या राजराष्ट्राभिवृद्धये ॥)
प्रायश्चित्तविशेयाः
श्रद्धाभक्ती पुरस्कृत्य त्वरितो येन केनचित्।
अकृत्वा भूपरीक्षादिन् विनाऽचार्यं पदार्थिभिः ॥ 8.92 ॥
स्थापनानुक्तनक्षत्रमासादौ स्थापयेद्यदि।
सुमासपक्षनक्षंत्रमुहूर्तेषु यथाविधि ॥ 8.93 ॥
मासं पक्षं चप्ताहं पञ्चाहं वा त्र्यहन्तु वा।
त्रिकालं पौण्डरीकाग्नौमहाशान्तिं जुहोति वै ॥ 8.94 ॥
तत्तन्मन्त्रजपं कुर्याद्भूपरीक्षादकर्मणाम्।
कृत्वाऽङ्करार्पणं पश्चान्नयनोन्मीलनं तथा ॥ 8.95 ॥
पञ्चगव्याधिवासादि कुर्याद्यत्नेन पूर्ववत्।
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ॥ 8.96 ॥
स्नापनौत्सवयोः पश्चात्प्रतिष्ठामाचरेद्यदि।
सभ्यञ्च पौण्डरीकञ्च द्वावग्नी इति केचन ॥ 8.97 ॥
बलिबेप्रतिष्ठायां सभ्यमेकाग्निमेव वा।
तत्र प्रणीय नित्याग्निं होमं हुत्वा यथाविधि ॥ 8.98 ॥
आदधीत प्रतिष्ठान्ते नित्यकुण्डे तु पूर्ववत्।
नास्ति चेत्तत्र नित्याग्निः पञ्चाग्नीम् परिकल्पयेत् ॥ 8.99 ॥
तत्कुण्डाद्गार्हपत्याख्यात्प्रणीय जुहुयात्तथा।
देव्योः पश्चात्प्रतिष्ठायां कुण्डमौपासनोक्तवत् ॥ 8.100 ॥
प्रत्येकं कल्पयित्वा तु तन्त्रयित्वैकमेव वा।
स्नपनं कुम्भपूजाञ्च शयनञ्च गृथक्पृथक् ॥ 8.101 ॥
तत्तत्सूक्तञ्च तन्मन्त्रं वैष्णवेन शतं यजेत्।
एष एव विशेषस्स्यात्सर्वमन्यत्समं भवेत् ॥ 8.102 ॥
ध्रुवार्चायां विशेषः
विमानारम्भतः पूर्व स्थापिते चेद्ध्रुवार्चनम्।
परितः पञ्चरं कृत्वा शिल्पिस्पर्शनिवारणम् ॥ 8.103 ॥
तथाऽऽलयगतान् देवान् तथैवाऽऽवाह्य पञ्जरे।
विमानं कारयेच्छीघ्रं परितः पञ्जराहिः ॥ 8.104 ॥
शिल्पिस्पर्शविशुद्ध्यर्थ तत्क्रियोपरतौ पुनः।
वास्तुहोमं ततः कृत्वा पर्यग्निञ्चैव कारयेत् ॥ 8.105 ॥
पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपि वाचरेत्।
स्नापयेत्कलशैर्देवं यथाशक्ति मुदान्वितः ॥ 8.106 ॥
देवालयस्याभिखे पौण्डरीके विशेषतः।
महाशान्तिं तथैकाहं हुत्वा विप्रांश्च भोजयेत् ॥ 8.107 ॥
सभ्याब्जकुण्डे कृत्वाऽग्रे तत्राघारं जुहोति च।
रात्रिपूजावसाने तु देवं कुम्भे निवेश्य च ॥ 8.108 ॥
संस्नाप्य सप्तकलशैर्बिम्बं कुम्भसमन्वितम्।
धान्यपीठे प्रतिष्ठाप्य बिम्बं स्न्न्यस्य पश्चिमे ॥ 8.109 ॥
हौत्रं प्रशंस्य विधिना होता हौत्रक्रमेण वै।
तदलयगतान्देवान्त्समावाह्य यथाविधि ॥ 8.110 ॥
आवाहनक्रमेणैव निरुप्याज्याहुतीर्यजेत्।
वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ॥ 8.111 ॥
वैष्णवं श्रीमहीसूक्तं पञ्चवारुणसंयुतम्।
जयादिभिश्च कूष्माण्डैस्सहस्राहुतिभिस्तथा ॥ 8.112 ॥
तदालयगतानाञ्च मन्त्रैः परिषदामपि।
मिन्दाहुतिभ्यां विच्छिन्नैर्विष्णुसूक्तेन वैष्णवैः ॥ 8.113 ॥
तथैव विष्णुगायत्र्या पद्महोमं जुहोति च।
तथाऽऽग्नेय्यान्तु पद्माग्नौ जुहुयात्पारमात्मिकम् ॥ 8.114 ॥
प्रातः स्नात्वा विधानेन कुमृभमन्तः प्रगृह्य च।
कुम्भाद्विम्बे समावाह्य समभ्यर्च्य निवेदयेत् ॥ 8.115 ॥
तदालये समावाह्य देवान्पञ्जरगानपि।
व्यपोह्य पञ्जरं सर्वं शेषं पूर्ववदाचरेत् ॥ 8.116 ॥
ध्रुवार्चादिनिरुक्तिः
ध्रुवकौतुकसंयुक्तं ध्रुवार्चनमिति क्रमात्।
स्थापनं तद्दिवधा प्रोक्तं देवदेवस्य शाङ्गिर्णः ॥ 8.117 ॥
पतनादिषु सर्वेषु प्रायश्चित्तमिदं स्मृतम्।
ध्रुवस्य कौतुकस्यापि विधिवत्स्थापनञ्च यत् ॥ 8.118 ॥
ध्रुवकौतुकसंयुक्तं तदुवाच पितामहः।
पदेषूक्तेषु यत्स्थाप्यं तद्ध्रुवार्चनमीरितम् ॥ 8.119 ॥
ध्रुवञ्च कौतुकञ्चैकं ध्रुवार्चनमुदाहृतम्।
तदेव देवीहीनञ्चेदेकबेरमिति स्मृतम् ॥ 8.120 ॥
एकबेरञ्च तत्प्राहुः केवलामुष्मिकप्रदम्।
इति सङ्क्षेपतः प्रोक्तं स्थापनं मुनिसत्तमाः ॥ 8.121 ॥
इति :श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तयां संहितायां
क्रियाधिकारे महाप्रतिष्ठा रत्नन्यासावाहनाग्निसमारोपण राष्ट्रान्तरानीत
बेरस्थापनानुक्तकालप्रतिष्ठा प्रायश्चित्तादि विधिर्नामाष्टमोऽध्यायः(1) (1.) एकादशोऽध्यायः ख. (1.) अध्यायः ई.