षष्ठोऽध्यायः
ॐ
षष्ठोऽध्यायः
ध्रुवबेरलक्षणम्
अतः परं प्रवक्ष्यामि ध्रुवबेरस्य लक्षणम्।
(1)तद्धामगर्भाधिष्ठानद्वारकर्तृवशात्तथा ॥ 6.1 ॥
लब्धाख्यमानमात्रंश्च बुद्धिमान् भाजयेत्समम्।
परिहत्याङ्गुलिच्छेदं वृद्ध्या हान्याऽथवा पुनः (1.) ई. धामगर्भस्वधिष्ठान ॥ 6.2 ॥
योज्यं त्याज्यं क्रमादेव युग्मायुग्माङ्गुलैः परम्।
(योज्यं युग्माङ्गुलादूर्ध्वं त्याज्यमेकाङ्गुलात्परम्।)
आयव्ययर्क्षवाराष्टयोन्यंशमशुभं त्यजेत् ॥ 6.3 ॥
बेरोदयेऽष्टनन्दाग्निहते चाष्टार्कभाजिते।
धनर्णयोनयः प्रोक्ताः आयाधिक्यं शुभं भवेत् ॥ 6.4 ॥
उत्सेधेऽष्टगुणे चैव सप्तविंशतिभांजिते।
शिष्टमश्वयुगाद्यन्तु नक्षत्रञ्च चतुर्गुणे ॥ 6.5 ॥
हृते नन्दैस्तदुद्दिष्टमंशकं तस्करादिकम्।
भुक्तिशक्तिधनोर्वीशक्लीबाभीत्यधनाऽऽह्वयाः ॥ 6.6 ॥
प्रेष्यश्चैव क्रमात्तेषां स्वनामसृशं (2)फलम्।
वारं नवगुणे तुङ्गं सूर्याद्यं सप्तभिर्हृते (2.) आ. फलम् ॥ 6.7 ॥
तदेव नवधा प्रोक्तं (1)त्र्यंशके तत्तदन्तरे।
(2)स्तम्भोत्सेधं सपादञ्च सार्धं चैवाधमं क्रमात् (1.) ख. त्र्यंशके न तदन्तरे. (2.) ख. ततोत्सेधं ॥ 6.11 ॥
तथा द्वारवशाच्चैव अधिष्ठानवशादपि।
(3)यजमानसमं चापि ध्रुवबेरमुदाहृतम् (3.) ई. यजमानवशात्. ॥ 6.12 ॥
हस्तेनाङ्गुलिभिश्चैव केचिदाहुर्ध्रुवोदयम्।
(तिथिपङ्क्तीषुहस्तैश्च श्रेष्ठमध्यकनिष्ठकाः।
एकत्रिंशाङ्गुलादूर्ध्वं षट्षङ्गुलवर्धनात् ।)
सप्ताधिंकाङ्गुलासीतिशतान्तं प्रतिमोदयम् ॥ 6.13 ॥
(4)अन्यांशेषु युगान्यर्क्षभागेषु स्थावरोदयम्।
जङ्गमबेरलक्षणम्
जङ्गमानां तदेकांश (5)मुत्सेधं परिकीर्तितम् (4.) ख. मुन्यंशेषु च गण्येकवेदांशं (5.) ख. एकांशं ॥ 6.14 ॥
ध्रुववेराग्निभागे तु द्विभागं परिगृह्य च।
तद्विभागं त्रिधा कृत्वा समस्तञ्चोत्तमं भवेत् ॥ 6.15 ॥
द्विभागं मध्यमं प्रोक्तमेकभागं तथाऽधमम्।
(6)कर्मार्चार्चोत्सवानाञ्च मानं वै रामकृष्णयोः (6.) ख. कर्मध्रुवार्चौत्सवानां
॥ 6.16 ॥
एकबेरं ध्रुवं चेत्स्यात्तत्समं चौत्सवं मतम्।
ध्रुवबेरामुखोत्सेधं बलिबेरं प्रकल्पयेत् ॥ 6.17 ॥
कौतुकार्धं त्रिभागैकभागं वा बलिबेरकम्।
यदाकरं ध्रुवाकारं तदाकारञ्च कौतुकम् ॥ 6.18 ॥
आसने स्थानकं वाऽथ शयने स्थानकासने।
एवं कौतुकमुद्दिष्टं स्न्नापनं स्थानकं भवेत् ॥ 6.19 ॥
कौतुकं विष्णुमूर्तिस्स्याद् ध्रुवयोर्मत्स्यकूर्मयोः।
अन्येषामवताराणां तद्वद्वा विष्णुमेव वा ॥ 6.20 ॥
मत्स्यकूर्मवराहाणां नृसिंहस्य च कल्किनः।
विष्णुमेवौत्सवं कुर्याज्जमग्निसुतस्य च ॥ 6.21 ॥
ध्रुवे निरायुधे रामं कुर्यात्सायुधमौत्सवम्।
ध्रुवबरे तथा कृष्णे (1)सायुधे च निरायुधे (1.) विष्णौ. ख. ॥ 6.22 ॥
कृष्णरुपेष्वसंख्येषु क्रीडायष्टिधरं परम्।
पार्थसारथिरूपं वा कुर्यादौत्सवमत्र तु ॥ 6.23 ॥
स्नापनं सर्वमूर्तीनां स्थानकं स्याच्चतुर्भुजम्।
देवे स्थिते स्थिते देव्यावासीने स्थानकासने ॥ 6.24 ॥
विपरीतं न कुर्वीत यदि कुर्याद्विनश्यति।
सर्वत्र देवीसंयुक्तौ कारयेत्कौतुकौत्सवौ ॥ 6.25 ॥
सदार्चां बलिबेरञ्च देवीरहितमाचरेत्।
पौरणिकस्थलबेरेषु विशेषः
पौराणिकेषु स्थानेषु यथापूर्वं तथा चरेत् ॥ 6.26 ॥
अविधिकमलक्षण्यमप्रयुक्तं न दोषकृत्।
आयादि षट्शुभापेक्षा (2)नेष्यते कौतुकादिषु (2.) अन्येषां आ. ॥ 6.27 ॥
परिवारबेरलक्षणम्
बाह्वन्तं वा स्तनान्?तं बा नाभ्यन्तं वा ध्रुवस्य च।
भक्तानां परिवाराणां ध्रुवबेरोदयं मतम् ॥ 6.28 ॥
तत्तद्ध्रुवानुरूपाणि कौतुकानि च कारयेत्।
देव्योर्मानलक्षणम्
देवस्य कर्णसीमान्तं बाह्वन्तं वा यथाविधि ॥ 6.29 ॥
हिक्कान्तं वाऽथ नाभ्यन्तं देवीमानपुदाहृतम्।
बलिबेरार्चयोर्देव्यौ नैव कुर्याद्विचक्षणः ॥ 6.29 ॥
एवं बेराणि कृत्वैव शिल्पशास्त्रोक्तमार्गतः।
पीठसङ्घातः
प्रभां पीठञ्च कृत्वैव तत्तदुक्तप्रकारतः ॥ 6.39 ॥
नवरत्नानि स्न्न्यस्य पीठे सङ्घातमाचरेत्।
के चित्पद्मादधः पीठं पृ?थगिच्छन्ति सत्तमाः ॥ 6.32 ॥
स्थापिते तु पृथक्कृत्वा (1)न पुनर्योजयेत्सुधीः।
(2)अमन्त्रकाक्ष्युन्मेषान्ते प्रतिष्ठां पुनराचरेत्(3) (1.) न पीठे योजपेद् ध्रुवं (2.) अत्राक्ष्युन्मेषणान्ते तु. अ. (3.) अत्र 8 अध्यायसमाप्तिः ख. ॥ 6.33 ॥
प्रतिष्ठामुहूर्त विचार मासेषु फाल्गुने चैत्रे ज्येष्ठे वैशाखतिष्ययोः।
(4)उत्तमं श्रावणे मध्यं कार्तिकाश्वयुजोरपि (4.) उत्तरायणकाले तु उत्तमं समुदीरितम्। दक्षिणे श्रावणे चैव कार्तिकाश्वयुजोरपि। एवं मध्यममुद्दिष्टं प्रतिष्ठादिषु कर्मसु. ख.
॥ 6.34 ॥
अधमं भाद्रपादेऽपि तथाऽऽषाढे तु मासि वै।
मार्गशीर्षञ्च माघञ्च वर्जयित्वा विचक्षणः ॥ 6.35 ॥
(शेषेष्वपि च कर्तव्यं त्वरितेनेति मे मतिः) शुक्लपक्षे तथा कृष्णे त्रिभागे त्य्रंशकं विना।
रेवतीरोहिणीतिष्यस्वातीश्रवणवासवाः ॥ 6.36 ॥
चित्राश्विनीशतभिषक्पुनर्वस्वैन्दवादिषु।
कृत्तिका नवमी शस्ता दुर्गायाः कार्तिकेऽपि च ॥ 6.37 ॥
प्रतिष्ठा भास्वतश्शस्ता खौ सिहंगते तथा।
फाल्गुनोत्तरुल्गुन्योः श्रीप्रतिष्ठा प्रशस्यते ॥ 6.38 ॥
(रौद्रं रुद्प्रतिष्ठायां माघमासं च कथ्यते।
श्रवणं चाश्वयुङ्मासं मत्स्यादिस्थापनाविधौ ॥ 6.39 ॥
अनन्धकाणनक्षत्रे करणे च शुभोदये।
त्रिजन्मसु प्रतिष्ठा स्याद्यजमानस्य भूपतेः ॥ 6.40 ॥
काव्यजीवज्ञवारांशहोराद्रेक्काणराशिषु।
बुधवारांशकादींस्तु प्रशंसन्ति मनीषिणः ॥ 6.41 ॥
तिथ्यः षष्ट्यष्टमीपर्वरिक्तानन्दातिथिष्वपि।
चरेषु करणेष्वेव शुभयोगेष्वविष्टिषु ॥ 6.42 ॥
तिथिवारर्क्षयोगादिदोषैरपि विवर्जिते(1)।
रव्यादयो ग्रहास्सर्वे चन्द्रे रिक्तेऽष्टमे ग्रहैः (1.) संसर्पाहरस्पती मासौ समदृष्टिश्च मन्त्रिणोः। मौढ्येन वाधितत्वे वा तयोरपि विशेषतः। अर्काद्यधिष्ठितर्क्षेभ्यो ये दोषाः कण्टकादयः। व्यपौह्यैव च तत्सर्वं राशावूर्ध्वोदये तथा इति अधिकं. आ. ॥ 6.43 ॥
त्रिषडायगतैः पापैः शुभैः केन्द्रत्रिकोणगैः।
शुभर्युक्तेऽथवा दृष्टे कामशुक्रविवर्जिते ॥ 6.44 ॥
प्रतिष्ठां देवदेवस्य कुर्यात्पूर्वाह्र एव वै।
क्रत्विग्वरणम्
तस्मात्तु दिवसात्पूर्वं वरयेद्गुरुमत्वरः ॥ 6.45 ॥
पूर्वोक्तलक्षणोपेतानृत्विजः स्थापकानपि।
श्वेतपुष्पानुलेपैश्च श्वेतवस्त्राङ्गुलीयकैः ॥ 6.46 ॥
आचार्यादीन् समभ्यर्च्च नमस्कृत्य स्वदेववत्।
‘कर्मेदं मे कुरु’ ष्वेति याच्रेदाचार्यमादरात् ॥ 6.47 ॥
‘तथि’ति तेऽपि सङ्कल्प्य कृत्वा चैवाङ्कुरार्पणम्।
ऋत्विजां नियमाःवापयित्वा ततस्सर्वे केशश्मश्रुनखानि च ॥ 6.48 ॥
शुद्धास्त्रिषवणस्नाताः सूक्ते पौरुषवैष्णवे।
जपन्तः पावमान्याख्यां यजूर्वेदस्य संहिताम् ॥ 6.49 ॥
ब्रह्मयज्ञं च कुर्वन्तस्सूक्तैर्द्वादशभिस्तथा।
द्वादशसूक्तानि जपे ‘दृतं च स्तयं च’ तथा ‘देवकृतस्य’ च ॥ 6.50 ॥
‘यन्मे गर्भा’ दि सूक्तं च ‘तरत्सम’ मतः परम्।
‘वसोः पवित्र’ मित्यादि ‘जातवेदस’ इत्यपि ॥ 6.51 ॥
विष्णेर्नुकादिसूक्तं च पौरुषं सूक्तमेव च।
एकाक्षरादिसूक्तं च ध्रुवसूक्तमतः परम् ॥ 6.52 ॥
‘त्वमग्ने रुद्र’ इत्यादि रुद्रसूक्तमतः परम्।
‘पवस्वा’ दि तथा सूक्तमेतद्दवादशसूक्तकम् ॥ 6.53 ॥
जपन्तः प्रत्यहं देवीं सावित्रीं तु सहस्त्रशः।
त्रिरात्रमुपवासं वा पादकृच्छ्रमथापि वा ॥ 6.54 ॥
एकाहमुपवासं वा चरेयुस्सर्व एव ते।
आचार्यो नियतात्मा वै चरेत्कृच्छ्रं विशुद्धये ॥ 6.55 ॥
अशक्तावुपवासादौ ब्राह्मणान्वाऽपि भोजयेत्।
‘यद्देवा’ दि चतुस्सूक्तैर्जुहुयादाज्यमन्वहम् ॥ 6.56 ॥
‘वैश्वानराये’ ति जपन्नुपतिष्ठेत पावकम्।
तथैव यजमानोऽपि चरेत्कृच्छ्रं विशुद्धये ॥ 6.57 ॥
अनन्यतत्परो भूयाद्धविष्याशी जितेन्द्रियः।
आचार्येणोक्तसम्भारान्यजमानस्समाहरेत् ॥ 6.58 ॥
यागशाला
षोडश स्तम्भसंयुक्तां यागशालां प्रकल्प्य च।
स्तम्भान्तरं चतुर्हस्तं त्रिहस्तं वा यथोचितम् ॥ 6.59 ॥
अग्निकुण्डानि वेदिं च कुर्यात्तत्र यथाविधि।
उदीच्यां (1)शयनाद्वापि सभ्यमत्रिरुवाच ह (1.) शयनं, आ. ॥ 6.60 ॥
(सभ्याद्दक्षिणपूर्वस्यां काश्यपोऽब्जाग्निमुक्तवान्)
अग्निकुण्डानि सर्वाणि पङ्क्तिमङ्कुरकर्मणि ॥ 6.61 ॥
स्त्रुवादिपात्राणीध्मादि चायुधान्यष्टमङ्गलान्।
मुष्टिमध्यप्रमाणेन कल्पयेदिति शासनम् ॥ 6.62 ॥
अक्षिमोचनम्
प्रतिष्ठोक्तदिनात्पूर्व पञ्चमेऽह्यक्षिमोचनम्।
प्रपायां मण्डपे वाऽथ कूटे वाऽभिमुखे कृते ॥ 6.63 ॥
औपासनाग्निमाधाय (1.)वास्तुहोमं यजेत्क्रमात्।
पर्यग्निपञ्चगव्याभ्यां कृत्वा बिम्बस्य शोधनम् (1.) ख. कृत्वाऽऽघारं यथाविधि। वास्तुहोमं यजित्वा तु बिम्बस्यातीव पार्श्वतः इति वर्तते, ॥ 6.44 ॥
देवं द्विरत्निविस्तारे धान्यपीठे निवेश्य च।
औपासनाग्निमाधाय कृत्वाऽऽघारं यथाविधि ॥ 6.65 ॥
कुण्डे वा स्थण्डिले वाऽपि चाङ्गहोमस्सुहूयताम्।
भूम्यादिपञ्चभूतानां मन्त्रैरपि च वैष्णवैः ॥ 6.66 ॥
सूक्तेन पौरुषेणापि जयाद्यैश्च तथैव च।
स्थूप्याद्युपानपर्यन्तमङ्गानां नामभिस्तथा ॥ 6.67 ॥
वर्णं सुवर्णपात्रेण हेमतूलिकयाऽऽहरेत्।
देवस्य दक्षिणे पार्श्वे स्थित्वाऽऽचार्य उदङ्मुखः ॥ 6.68 ॥
नवेनैवाम्बरेणैव प्रच्छाद्याभिमुखे हरेः।
वर्णे महीं समभ्यर्च्य तत्पात्रे च दिवाकरम् ॥ 6.69 ॥
तूलिकायां तथा चन्द्रमात्मसूक्तं जपेत्ततः।
वर्णं तूलिकयाऽदाय सूक्तं पौरुषमुच्चरम् ॥ 6.70 ॥
दक्षिणे नयने वामे ‘त्वतो दि वैष्णवम्।
पक्ष्म वर्म च रक्तं च शुक्लं कृष्णं च तैजसम् ॥ 6.71 ॥
मण्डलानि षडेतेषां महाभूतानि पञ्च च।
दैक्तं परमात्मानं क्रमात्स्मृत्वा समाचरेत् ॥ 6.72 ॥
प्रच्छन्नपटमुद्धृत्य दर्शनीयानि दर्शयेत्।
दर्शनद्रव्यदर्शनम्
धान्यराशिं तु कुत्वा तु तिलराशिं प्रकल्पयेत् ॥ 6.73 ॥
आज्यं दधि मधु क्षीरं प्रस्थमात्रं पृथक् पृथक्।
कांस्यपात्रे गृहीत्वैव सुवर्णकलशान्वितम् ॥ 6.74 ॥
दण्डके धान्यपीठे तु स्थापयेदुतृतरादिकम्।
सामवेदं यजुर्वेदमृग्वेदाथर्वेदकौ प ॥ 6.75 ॥
क्रमेण देवताः पूज्या गामेकां लक्षणान्विताम्।
स्वर्णशृङ्गां रौप्यखुरां सवस्त्रां कांस्यदोहनाम् ॥ 6.76 ॥
सवत्सां पूर्णपुष्टांङ्गो देवाग्रे स्थापयेद्बुधः।
धान्यराशौ तथा सोमं तिलराशौ पितॄनपि ॥ 6.77 ॥
गोसावित्री जप्त्वा ‘शुद्धा इम इति गोसावित्रीमनुस्मरन्।
पूजयेत्तत्तदङ्गेषु तदुक्ता देवता अपि ॥ 6.78 ॥
ततृणमुष्टिं प्रदायाऽस्यै गोसूक्तेनाभिमृश्य च।
गोसूक्तम् अत्र ‘गावो हिम’ इति गोसूक्तमभिधीयते ॥ 6.79 ॥
‘इमा ओषधय’ इत्युक्ता तिलधान्ये च दर्शयेत्।
आज्यं सामादिमन्त्रेण यजुर्वेदादिना दधि ॥ 6.80 ॥
मध्व ‘ग्निमील’ इत्युकृता क्षीरं ‘शन्न’ इति ब्रुवन्।
गोदानसूक्तम् गोदानसूक्तमुच्चार्य ‘आगोदानात्पठे’ दिति ॥ 6.81 ॥
(सवत्सां चैव गामुक्तां दर्शयित्वाऽतिसुन्दरीम्)
देव्यौश्च दर्शनीयानि दर्शयेच्च पृथक् पृथक् ॥ 6.72 ॥
शैलबिम्बानां विशेषः
शैलस्य वर्णहीनस्य लोहजानां तथैव च।
कृत्वा दृढकरीं सूचीं ताभ्यां पक्ष्मादिमण्डलम् ॥ 6.83 ॥
मन्त्रेण कल्पयेदन्यत् ध्रुवबेरोकृतवद्भवेत्।
द्रव्याणि दर्शनीयानि पृथगेव प्रकल्पयेत् ॥ 6.84 ॥
परिवाराणामक्षिमोचनम्
मुन्यादिदिपरिवाराणां तत्तन्मत्रं पृथक् पृ?थक्।
हुत्वा तु दशकृत्वस्तु तन्म्न्त्रैरक्षिमोचनम् ॥ 6.85 ॥
पात्रेषु दर्शयेत्तेषां पञ्चगव्यं पृथक्पृथक्।
(1)सहदेवं न चेत्तेषां पृथग्धोमं न कारयेत् (1.) आ. गर्भदेवं न चेत्तेषां पृथग्धाम न कारयेत्? ॥ 6.86 ॥
शिल्पिस्पर्शशुद्धिः
शूलग्रहणमारभ्य यावदेवाक्षिमोचनम्।
शिल्पिस्पर्शविशुद्ध्यर्थमक्ष्युन्मेषादनन्तरम् ॥ 6.87 ॥
षोडशप्रस्थसम्पूर्णं कुम्भं सूत्रेण वेष्टयेत्।
पूरयित्वा तथा तोयैर्वस्त्राभ्यामभिवेष्टयेत् ॥ 6.88 ॥
पल्लवानि कुशाग्राणि दूर्वाग्राणि तथाऽक्षतम्।
सुवर्णं पुण्यपुष्पाणि विष्णुगायत्रिया न्यसेत् ॥ 6.89 ॥
उत्तराभिमुखः पश्चाद्वाह्ममासनमास्थितः।
चतुर्वेदादिमन्त्रांश्च ‘आप उन्दन्तु’ वै क्रमात् ॥ 6.90 ॥
जपन् पुरुषसूक्तञ्च मन्त्रानपि च वैष्णवान्।
कूर्चेनैव तु तत्तोयमभिमृश्य समाहितः ॥ 6.91 ॥
सकाञ्चनेन कूर्चेन तत्कुम्भस्थेन वारिणा।
‘आपो हिरण्यवर्णा द्यैः पवमानादिभिस्त्रिभिः ॥ 6.92 ॥
‘शन्नो देवी’ ति मन्त्रेण पुंसूक्तेन च वैष्णवैः।
शुद्द्यर्थं प्रोक्षयेद्वेरं पुण्याहमपि वाचयेत् ॥ 6.93 ॥
एवं चित्रप्रतिष्ठायां चित्राभासे च कारयेत्।
अधिवासाः
बिम्बानां कौतुकादीनामधिवासनमारभेत् ॥ 6.94 ॥
पञ्चगव्याधिवासः
आलयस्योत्तरे पार्श्वे प्रपायामवटे कृते।
लघुबेरं जलद्रोण्यां पञ्चगव्यादिभिःस्तृते ॥ 6.95 ॥
आज्यं ‘शुक्रम’ सीत्युक्त्वा षोडशंशं प्रगृह्य च।
‘दधिक्राव्ण्ण’ इत्युक्वा क्षिपत्वा तव्द्दिगुणं दधि ॥ 6.96 ॥
‘आप्या’ स्वेति मन्त्रेण त्रिगुणं क्षीरमाहरेत्।
‘गन्धद्वा’ रेति मन्त्रेण गोमयञ्च चतुर्गुणम् ॥ 6.97 ॥
षड्गुणं चैव गोमूत्रं गायत्र्या तत्र निक्षिपेत्।
‘वसोः पवित्र’ मित्युक्त्वा तेनापूर्यावटं पुनः ॥ 6.98 ॥
पञ्चगव्ये ‘शिवं शर्वमीशमव्यक्त’ मर्चयेत्।
विष्णुसूक्तं समुच्चार्य प्राक्छिरस्तत्र शाययेत् ॥ 6.99 ॥
अतीते तद्दिने बिम्बं विष्णुसूक्तेन चोद्धरेत्।
‘वारी श्चतस्त्र’ इत्युक्त्वा शुद्धोदैरभिषिच्च च ॥ 6.100 ॥
क्षीराधिवासः संशोद्ध्यैव जलद्रोणीं ‘शन्नो देवी’ ति मन्त्रतः।
क्षीरेण पूरयित्वाऽत्र ‘अथर्वं क्षीर’ मित्यपि ॥ 6.101 ॥
‘पवित्रं पुण्य’ मित्युक्वा क्षीरेऽथर्वाणमर्चयेत्।
पद्मोत्पलादिपुष्पाणि समास्तीर्य च तत्र वै ॥ 6.102 ॥
शयनानि च पञ्चात्र समास्तीर्य कुशैस्सह।
क्षीरं क्षीरोदधिं तत्र शायिनं शेषशायिनम् ॥ 6.103 ॥
देवदेवं स्मरंस्तत्र पूर्ववच्छाययेद्धरिम्।
अतीते तद्दिने बिम्बं पश्चादुद्धृत्य पूर्ववत् ॥ 6.104 ॥
संस्नाप्य भूषयित्वैव नववस्त्रैश्च भूषणैः।
जलाधिवासः
नदीतटाकवापीषु पूर्वालाभे तथोत्तरे ॥ 6.105 ॥
प्रपां कृत्वा तु परितः पञ्चरं जालकाकृतिम्।
कारयित्वा तु रक्षार्थं वितानाद्युपशोभितम् ॥ 6.106 ॥
नववस्त्राणि चास्तीर्यदर्भपुष्पकुशैस्सह।
‘पुण्यं तोर्थ शिवं तोय’ मिति तत्र समर्चयेत् ॥ 6.107 ॥
पूर्ववच्छयने देवं शाययेदप्रमादतः।
(1)‘एवं कर्तुमशक्तश्चेत्त्रिदिनं केवले जले (1.) ‘एवं कर्तुमशक्तश्चेत्सद्यः कालो विधीयते। अधिवासमशक्तश्चेत्सद्यएवक्रियाद्यदि पञ्चगव्यैश्च क्षीरेण’ इति पाठः आ.
॥ 6.108 ॥
दिनमेकमहर्वाऽथ यामं वा कालमेव वा।
मन्त्रवद्विम्बशुद्ध्यर्थ?मधिवासं समाचरेत् ॥ 6.109 ॥
अशक्यवेरस्यस्नापनम्
पेञ्चगव्यैश्च क्षीरेण कुशोदैश्च पृथक्पृथक् ॥ 6.110 ॥
शतमष्टोत्तरं कुम्भान् पूरयित्वाऽत्र देवताः।
पूर्ववत्पूजयित्वैव मन्त्रैरेवाभिषेचयेत् ॥ 6.111 ॥
प्रतिष्ठादिनपूर्वदिनकृत्यम्
सायं होमावसाने तु आचार्याद्याः पृथक्पृथक् ॥ 6.112 ॥
प्राणायामशतं कृत्वा जप्त्वा सूक्तानि पूर्ववत्।
तथाऽनुष्टितकर्माणं यजमानं ततो गुरुः ॥ 6.113 ॥
‘अणोरणीया’ नित्युक्त्वा प्रोक्षयेव्द्दिजमत्वरः।
ऋत्विजस्तान्त्समाहूय नियुञ्जीत स्वकर्मसु ॥ 6.114 ॥
वास्तुशुद्धिः
तस्याऽऽलयस्योत्तरतः कुण्डे वा स्थण्डिलेऽथवा।
वास्तुहोमं तथा हुत्वा गर्भगेहादिसर्वतः ॥ 6.115 ॥
पर्यग्निपञ्चगव्याभ्यां पुण्याहेनापि शोधयेत्।
अग्निमथनम्
देवालयस्याभिमुखे पञ्चवर्णैरलङ्कते ॥ 6.116 ॥
धान्यराश्युपरि न्यस्य त्वरणी प्राङ्मुखश्शुचिः।
मन्थदण्डे हरिं ध्यायेदरण्यां मेदिनीं तथा ॥ 6.117 ॥
ऊर्ध्वायामग्निभ्यर्च्च मौञ्जीरज्जौ च वासुकिम्।
जपन् वैश्वानरं सूक्तं रज्ज्वा मन्थं च वेष्टयेत् ॥ 6.118 ॥
‘जातवेदस’ मुचचार्य मथनं कारयेद्बुधः।
करीषं परितः कृत्वा तत्सूक्तेनाहरेत्पुनः ॥ 6.119 ॥
‘अयं त इध्म’ इत्युक्त्वा प्रक्षिपेदिन्धनानि च।
‘घृतप्रतीक’ इत्युक्त्वा प्रज्वाल्याग्निं प्रणम्य च ॥ 6.120 ॥
‘आयुर्दा’ इति मन्त्रेण त्वप्रमादं निधापयेत् ॥ 6.121 ॥
मथनाग्न्यलाभे कत्रव्यम्
अथवा श्रोत्रियागरादग्निमाहृत्य वै तथा।
तत्र वैश्वानरं सूक्तं यजेदिति च केचन ॥ 6.122 ॥
वास्त्वग्नेःकार्यान्तर योपयताभावः
तत्सर्वमशुभं कर्म तमग्निं च निरस्य च ॥ 6.123 ॥
मथितं श्रोत्रियागारादाहृतं वा निधाय च।
शान्तिहोमावसाने तु यथोक्तं होममाचरेत् ॥ 6.124 ॥
पञ्चग्निषु अग्निप्रणयनम्
‘गार्हपत्याग्नि’ मित्युक्त्वा ‘यज्ञदैवत’ मित्यपि ॥ 6.125 ॥
‘तर्त्रौ भूः पुरुषं’ चेति ‘अच्युतं’ चेति कीर्तयन्।
आवाह्य जुष्टाकारञ्च स्वाहाकारञ्च कारयेत् ॥ 6.126 ॥
तस्मादग्निं समादाय दक्षिणाग्नौ ततः परम्।
‘जातवेद’ इति प्रोच्य प्रणीयाग्निं यथाविधि ॥ 6.127 ॥
‘अन्वाहार्याग्नि’ मित्युक्त्वा ‘यज्ञदैवत’ मित्यपि।
‘ओं भुवः पुरुषं सत्यं’ कुर्यादावाहनादिकम् ॥ 6.128 ॥
अग्निं तु गार्हपत्याग्ने ‘रग्न आयाहि’ मन्त्रतः।
प्रणीयाऽहवनीयाग्नौ वदन्नाहवनीयकम् ॥ 6.129 ॥
‘यज्ञदैवत’ मित्युक्त्वा ओं सुवः परुषं’ त्विति।
उच्चरन् ‘पुरुषं’ चेति कुर्यादावाहनादिकम् ॥ 6.130 ॥
‘अयं ते योनि’ रित्यग्निमावसथ्ये प्रणीय च।
‘आवस्थ्याग्नि’ मित्युक्त्वा ‘यज्ञदैवत’ मित्यपि ॥ 6.139 ॥
‘ओं महः पुरुषं’ चेति देवम ‘प्यनिरुद्धकम्’।
इत्येवमावसथ्याग्नौ कुर्यादावाहनादिकम् ॥ 6.132 ॥
‘मिय गृहणामि’ मन्त्रेण सभ्ये चाग्निं प्रणीय च।
सभ्याग्निं यज्ञदे’ वेति ‘ओं जनः पुरुषं’ तथा ॥ 6.133 ॥
‘विष्णु’ मावाहयामीति सभ्यस्यावाहनादिकम्।
‘घृतप्रतीकं इत्यग्निं पौण्डरीके प्रणीये च ॥ 6.134 ॥
‘पौण्डरीकाग्नि’ मित्युक्त्वा ‘यज्ञदैवत’ मित्यपि।
‘ओं तपः पुरुषं’ चेति ‘वासुदेव’ मतः परम् ॥ 6.135 ॥
(अग्निं श्रामणकं प्रोच्य यज्ञदैवतमित्यपि)।
‘ओं तपः पुरुषं’ चेति ‘नारायण’ मिति ब्रुवन्।
एवमावाहनं कृत्वा निरुप्याज्याऽऽहुतीर्यजेत्(1) (1.) ख. औपासनाग्निमित्युक्त्वा यज्ञदैवतमित्यपि ॥ औपासनाग्नावन्येन आवाह्याज्यं जुहोति वै। तथाऽऽज्यं जुहुयादेवमित्याधारविधिः क्रमात् इत्यधिकं ख कोशे दृश्यते. ॥ 6.136 ॥
सर्वाग्नीनां प्रणयनं प्रकुर्याद्गार्हपत्यतः।
अग्निध्यानम्
(2.) क. इतः प्रभृति आध्यायान्तं ख. ग. कौशयोः न दृश्यते, अत्र अध्याय समाप्तिः ख. आ. 6.
ब्राह्ममानसमासीनं कुण्डमध्ये हुताशनम् ॥ 6.137 ॥
प्रत्यङ्मुखं रक्तवर्णं तरुणादित्यसन्निभम्
स्वाहास्वधाभ्यामासीनं सर्वदेवात्मकं परम् ॥ 6.138 ॥
एकं वै हृदयं तस्य त्रयः पादाश्शिरोद्वयम्।
चतुश्श्रृङ्गं चतुर्नेत्रं सप्तजिह्वं द्विनासिकम् ॥ 6.139 ॥
दक्षिणाऽस्ये चतुस्त्रस्तु तिस्त्रो जिह्वास्तथोत्तरे।
सप्मतहस्तं स्मरन्नग्निं सर्वाभरणभूषितम् ॥ 6.140 ॥
कृष्णाजिनोत्तरासङ्गं मौञ्जीदण्डसमन्वितम्।
स्त्रुक्स्त्रुवाक्षस्रजश्शक्तिं दधतं दक्षिणैः करैः ॥ 6.141 ॥
चामरं व्यजनं चाऽज्यपात्रं वै वामबाहुभिः।
बिम्बञ्च यज्ञमूर्तेस्तु ध्यायेदेवमिति श्रुतिः ॥ 6.142 ॥
अग्नेः सप्तजिह्वाः
हिरण्या कनका रक्ता कृष्णा चैव वसुप्रभा।
अतिरक्ता बहुरूपा जिह्वास्सप्त प्रकीर्तिताः ॥ 6.143 ॥
ईशानेन्द्राग्निनिर्ऋतिवरुणानिलमध्यगाः।
आघारान्ते वैष्णवहोमः
आघारान्ते तु होतयं सप्तजिह्वासु वैष्णवम् ॥ 6.144 ॥
जिह्वाभेदेन हिरण्यायां समिद्धोमं कनकायां यजेद्धृतम्।
सर्षपांश्चैव रक्तायां कृष्णायां लाजमेव च ॥ 6.145 ॥
वसुप्रभायां देवन्तं ध्यात्वाऽऽपूपं जुहोति च।
होतव्यमतिरक्तायां तिलं चर्वामरप्रियम् ॥ 6.146 ॥
अन्यानि बहुरुपायां जुहोति मनसा स्मरन्।
हविर्विशेषहोमे अग्निभावनाप्रकारः
समिद्धोमे स्थितो वह्रिश्शेते स च घृताऽऽहुतौ ॥ 6.147 ॥
आसीनश्चरुहोमेऽपि तिलसर्षपसक्तुषु।
अन्यथाऽग्नौ हुतं यत्तत् सर्व भवति निष्फलम् ॥ 6.148 ॥
हविर्भेदेन आहुतिप्रमाणम्
चतुरङ्गुलिसंस्रावाप्यविच्दिन्ना घृताहुतिः।
अङ्गुष्ठपर्वमात्रा तु गृहीताऽन्नाहुतिः स्मृता ॥ 6.149 ॥
अन्नमक्षप्रमाणं स्याल्लाजं मुष्टिमितं भवेत्।
तिलसर्षपसक्तूनां शुक्तिमात्राऽहुतिर्भवेत् ॥ 6.150 ॥
होमद्रव्याधिदेवाः अतः पंर प्रवक्ष्यामि होमद्रव्याधिदेवताः।
सिकतायां मृदश्यैव पृथिवी आधिदेवता ॥ 6.151 ॥
स्थण्डिलं सोमदैवत्यं कुण्डवेद्या यथाक्रमम्।
ऊर्ध्ववेद्यधिपो ब्रह्मा मध्यवेद्याः प्रजापतिः ॥ 6.152 ॥
सभ्ये च पौण्डरीके च सोमोऽधोवोदिदेवता।
दलेषु वसवः प्रोक्ताः खननं पितृदैवतम् ॥ 6.153 ॥
लेखाः स्कन्दाधिदेवत्याः ऋषयस्सप्तबर्हिषाम्।
हव्यवाडिन्धनाधीशो विहारो वायुदैवतः ॥ 6.154 ॥
पञ्चभूताधिदैवत्यं करकं समुदाहृतम्।
कूर्चाग्रग्रंन्थिमूलेषु ब्रह्मविष्णवीश्वराः क्रमात् ॥ 6.155 ॥
चत्वारो विष्णुदैवत्याः परिस्तरणकूर्चकाः।
पश्चिमः परिधिः प्रोक्तस्तथा गन्धर्वदैवतः ॥ 6.156 ॥
दक्षिणश्चेन्द्रदैवत्यः परिधिः परिकीर्तितः।
उत्तरः परिधिः प्रोक्तो मित्रावरुणदैवतः ॥ 6.157 ॥
तथोर्ध्वसमिधोर्देवः (1)जुह्वादिषु दिवाकरः (1.) प्रजापतिरवी स्मृतो ख. ॥ 6.158 ॥
ब्रह्मसोमौ तु सम्प्रोक्तौ तथा प्रणिधिपात्रयोः।
वर्षिष्ठसमिधोरग्निराज्यस्थाल्यां वंसुन्धरा ॥ 6.159 ॥
तोयस्य वरुणो देवश्चाज्यस्य च हुताशनः।
चरुरिन्द्राग्निदैवत्य एवं ध्यात्वा जुहोति च ॥ 6.160 ॥
होमद्रव्यविशेषे पात्रविशेषः
वैष्णवं जुहुयाज्जुह्वा चरुणाऽग्निषु षट्स्वपि।
आज्यमप्यग्निकुण्डेषु स्रुवेण चजुहुयादिति ॥ 6.161 ॥