पञ्चमोऽध्यायः
ॐ
पञ्चमोऽध्यायः
आद्येष्टकान्यासः
वक्ष्याम्याद्येष्टकान्यासं विमानादिप्रकल्पने।
वास्तुहोमावसाने तु पञ्चाग्नीन् परिकल्पयेत् ॥ 5.1 ॥
आघारान्ते यजेत्तेषु देवं ध्यायंश्च वैष्णवम्।
होतव्यं पौरुषं सूक्तमैन्द्रमाहवनीयके ॥ 5.2 ॥
आग्नेयं च विधानेन(1) व्याहृत्यन्तं पृथक् पृथक्
अन्वाहार्ये विष्णुसूक्तं याम्यं नैऋतमेव च (1.) आ. होतव्यं च. ॥ 5.3 ॥
वैष्णवं गार्हपत्याग्नौ वारुणं वायुदैवतम्।
सौम्यमीशानदैवत्यमावसथ्ये सवैष्णवम् ॥ 5.4 ॥
सभ्ये तु सर्वदैवत्यं विष्णुसूक्तं सवैष्णवम्।
प्राच्यामाहवनीयाग्नेः श्वभ्रे संस्थाप्य ताश्शिलाः ॥ 5.5 ॥
समभ्यर्च्य चतुर्वेदांस्तासु वै प्रागुपक्रमात्।
संस्नाप्य सप्तकलशैरिष्टकास्ताः पृथक् पृथक् ॥ 5.6 ॥
पश्चिमस्यां ततस्मभ्याद्धान्यराश्यपुरि क्रमात्।
पञ्चवस्त्राणि चास्तीर्य वाससा वेष्टयेच्च ताः ॥ 5.7 ॥
समारोप्यार्चयेत्तत्र चतुर्वेदाधिदेवताः।
बद्ध्वा प्रतिसरं तासां शाययेत्ताः पृथक् पृथक् ॥ 5.8 ॥
द्वाराग्रे पुष्पसंयुक्तं वस्त्रैराच्छाद्य चोपरि।
प्रातः स्नात्वा विधानेन मुहूर्ते तु (2)शुभे बले (2.) ख. शुभोज्ज्वले ॥ 5.9 ॥
गृहीत्वा स्थापकास्तास्ताः ग्राममालयमेव वा।
जपन्तः शाकुनं सूक्तं स्वस्तिसूक्तसमन्वितम् ॥ 5.10 ॥
परीत्यान्तः प्रविश्यैव देवं ध्यायन्त एव वै।
द्वारदक्षिणभागे तु स्थापयेदिष्टकाश्शिलाः ॥ 5.11 ॥
एकाक्षरात्सूक्तान्ते (1)चतुर्वेदादिमन्त्रतः।
उत्तराग्रं तु पूर्वस्यां प्रागग्रं चैवदक्षिणे (1.) ख. चतुर्वेदादिमन्त्रकैः अ. ॥ 5.12 ॥
प्रतीच्यामुत्तराग्रं स्यादुदीच्यां पूर्वशीर्षकम्।
मध्ये रत्नं सुवर्णं वा ध्रुवसूक्तं जपन्न्यसेत् ॥ 5.13 ॥
अथातः शयनात्प्राच्यामग्नावाहवनीयके।
पौरूषं विष्णसूक्तं च वैष्णवं च तत्रः परम् ॥ 5.14 ॥
एकाक्षरादिसूक्तं च दिग्दैवत्यसमन्वितम्।
(2)दशकृत्वस्तथा हुत्वा सर्व पूर्ववदाचरेत् (2.) आ. दक्षिणाग्नौ तथाहुत्वा.॥ 5.15 ॥
तथैव गोपुराणाञ्च सन्न्सोद्वारदक्षिणे।
प्रवेशदक्षिणे न्यासो गोपुराणां विशिष्यते ॥ 5.16 ॥
प्राकाराणां च सर्वेषामैशान्ये नैर्ऋतेऽथवा।
प्राग्द्वाराद्दक्षिणे कुर्यादिष्टकास्स्नपनालये ॥ 5.17 ॥
आस्थानमण्डपादीनामैशान्ये प्रथमेष्टकाम्।
(3)नास्ति चेत्तत्र तद्भित्तिः भित्त्यैशान्येऽथवा न्यसेत् (3.) आ. अस्यश्लोकार्धस्य स्थाने एवमेव प्रकारेण हीशान्यां भित्तिरेव वा. इति ख कोशे दृश्यते। ॥ 5.18 ॥
शालाश्रयाणां सर्वेषां नाचरेत्प्रथमेष्टकाम्।
महानसस्य चाग्नेय्यां कल्पयेत्प्रथमेष्टकाम् ॥ 5.19 ॥
(4) शालादीनां तु सर्वेषां सभ्यमौपासनं तु वा।
प्राकारेषु यजेत्तत्तत्परिवाराधिदैवतम् (4.) सालाश्रय. इत्यादि. ॥ 5.20 ॥
द्वारेषु द्वारपालानां यजेन्मन्त्रांश्च गोपुरे।
चतुर्वेदादिमन्त्रांश्च वारुणं स्नपनालये ॥ 5.21 ॥
श्रीभूमिसूक्तमन्त्रास्तु यजेदास्थानमण्डपे।
हवीरक्षकदैवत्यं श्रीभूसूक्तं महानसे ॥ 5.22 ॥
वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च।
प्राकारादिषु सर्वेषु चैकामेव शिलां न्यसेत् ॥ 5.23 ॥
आलये परिवाराणां तत्तन्मन्त्रं सवैष्णवम्।
अष्टोत्तरशतं हुत्वा सन्न्यसेच्चतुरिष्टकाः ॥ 5.24 ॥
एष एव विशेषः स्यादन्यत्सर्वं खिलोक्तवत्।
गर्भन्यासप्रकारः
गोपुरव्यतिरिक्तानां गर्भन्यासं प्रकल्पयेत् ॥ 5.25 ॥
केचिन्महानसस्यापि गर्भमाहुर्मुनीश्वराः।
न्यसेद्गोपुरगर्भे तु सौवर्णद्वारदेवताः ॥ 5.26 ॥
गर्भे महानसस्यापि पञ्चाग्नीन् हविरक्षकम्।
गर्भाणि चालयोक्तानि फेलायां पूर्ववन्न्यसेत् ॥ 5.27 ॥
खिलोक्तेनैव मार्गैण गर्भफलां प्रकल्प्य च।
गर्भद्रव्याणि चाहृत्य तत्र सन्न्यस्य मन्त्रतः ॥ 5.28 ॥
पिधाय च पिधानेन धान्यराश्युपरि न्यसेत्।
रात्रावेव निधातव्यं शुभांशे च स्थिरोदये ॥ 5.29 ॥
ऊर्ध्वानने शुभैर्युक्ते राशौ शुद्धेऽष्टमे व्यये।
ब्राह्मणः पट्टिकोर्ध्वे तु उपानोर्ध्वे तु भूमिपः ॥ 5.30 ॥
तथैकैकांगुलन्यूने सन्न्यसेद्वैश्यशूद्रयोः।
द्वारस्य दक्षिणे भागे भित्तिमध्ये त्रिभागतः ॥ 5.39 ॥
धातुस्समीपे न्यस्तव्यमिति शास्त्रस्य श्निश्चयः।
तत्र विष्णुं स्मरन् बुद्ध्या स्नपनं चार्चनं तथा ॥ 5.32 ॥
अधिवासं च होमं च खिलोक्तिविधिना चरेत्।
मूर्धेष्टकान्यासः
समाप्ते तु विमाने तु पुनर्मूर्धेष्टकां न्यसेत् ॥ 5.33 ॥
पूर्वोक्तलक्षणोपेताः शिला वा पञ्चवेष्टकाः।
गृहीत्वा स्थूपिशूलं च सर्वमाद्येष्टकोक्तवत् ॥ 5.34 ॥
अधिवासं च होमं च स्नपनं चार्चनादिकम्।
न्यक्षादीन् धान्यपीठे तु पूजयेत्प्रागुपक्रमात् ॥ 5.35 ॥
(1)स्थूप्याधारेष्टकायां तु पूजयेत्प्रकृतिं पराम्।
प्रातः स्?नात्वा विधानेन (2)स्रग्वस्त्रालंकृतो गुरूः (1.) स्थूपिकायष्टिकायां ई. (2.) शुक्लवस्त्राद्यलङ्कतः ख. ॥ 5.36 ॥
पूर्वोक्तैरेवमन्त्रैस्तु सन्न्यसेन्मूर्ध्नि चेष्टकाः।
भूमिसूक्तं समुच्चार्य स्थूप्याधारेष्टकां न्यसेत् ॥ 5.37 ॥
‘आत्वाहर्षे’ ण सूक्तेन स्थूपिशूलं पुनर्न्यसेत्।
तत्तद्दिक्षु विमानेशान् समावाह्या र्चयेत्पुनः ॥ 5.38 ॥
विमानदेवता कल्पनम्
दक्षिणादिदिशि द्वारे द्वाराग्रे न्यक्षमर्चयेत्।
तद्वशेनेतरान्कुर्यात्सर्वानेतान्बहिर्मुखान् ॥ 5.39 ॥
द्वारेषु द्वारपालांश्च प्रकल्प्याऽवाह्य पूजयेत्।
द्वारापालान् प्रकुर्वीत किंचिद्द्वारनिरीक्षकान् ॥ 5.40 ॥
अन्तरालं यदि भवेत्तत्र वैपार्श्वयोः क्रमात्।
वक्रतुण्डं च दुर्गा च बहिर्भित्तौ प्रकल्पयेत् ॥ 5.41 ॥
अग्रमण्टपभित्तौ वा पादवर्गे प्रकल्पयेत्।
पादवर्गे गले चैव विमाने परितः क्रमात् ॥ 5.42 ॥
प्रागादि पुरुषार्दीस्तान् पादवर्गे प्रकल्पयेत्।
उपानार्धांशमात्रेण विमानेशान्प्रकल्पयेत् ॥ 5.43 ॥
(3)इन्द्रं च दक्षिणामूर्ति नारसिंहं पितामहम्।
प्रागादि कल्पयेदेतान् गले लक्षणसंयुतान् (3.) इन्द्रादिदिशि द्वारे वा द्वारदेवं समर्चयेत्. ई. ॥ 5.44 ॥
अथवा पुरुषादींस्तु वाराहं नारसिंहकम्।
सुखासीनं हयग्रीवं कल्पयेदथवा गले ॥ 5.45 ॥
(1)ध्रुवबेरसमं वापि पादहीनमथापि वा।
अर्धं त्रिभागादेकं वा तेषामुत्सेध उच्यते (1.) सुखासनं. आ.॥ 5.46 ॥
तथा कोणेषु गरुडं प्रस्तरोपरि कल्पयेत्।
आलयेष्वन्यदेवानां (2)वाहनानि प्रकल्पयेत् (2.) वाहनं. न च कल्पयेत्. आ.
॥ 5.47 ॥
मृगेन्द्रमथवा कुर्यात् सर्वदेवालयेषु च।
तेषामभिमुखे कुर्यात् कुण्डमैपासनं तथा ॥ 5.48 ॥
कुम्भं च साधयित्वैव कलशैः प्रोक्ष्य सप्तभिः।
हौत्रं प्रशंस्य विधिना तत्तन्मन्त्रं शताष्टकम् ॥ 5.49 ॥
वैष्णवेन समायुक्तं व्याहृत्यन्तं जुहोति वै।
प्रातः स्नात्वा समावाह्य समभ्यर्च्य निवेदयेत् ॥ 5.50 ॥
सप्तविंशतिभोगैश्च(3) नित्यमर्चनमुत्तमम्।
त्रयोदशोपचौश्च मध्यमं पूजनं स्मृतम् (3.) भेदैश्च ख. ॥ 5.51 ॥
पुष्पममन्नसमायुक्तं निर्वपेदधमे बलिम्।
यत्र यत्रैव वा भक्तिर्यजमानस्य जायते ॥ 5.52 ॥
प्रतिष्ठाप्यार्चनं नित्यं कारयेत्तत्र तत्र वै।
द्वारेशान् पादवर्गेषु गोपुरेषु प्रकल्पयेत् ॥ 5.53 ॥
गले विमाने तान् देवान् कल्पयित्वा समर्चयेत्।
अथवा नारसिंह वा दुर्गी वापि सुदर्शनम् ॥ 5.54 ॥
कल्पयित्वा समावाह्य नित्यं पूर्ववदर्चयेत्।
एतेषां कौतुकं चैव कर्तुमिच्छति चेत्तथा ॥ 5.55 ॥
कौतुकं च प्रतिष्ठाप्य तदग्रे नित्यमर्चयेत्।
(1)कल्पयित्वाऽथवा पीठं तत्तत्पर्श्वे समर्चयेत् (1.) अत्र कल्पयेद्वा यथोक्ते तु विष्वक्सेनं समर्चयेत्’ इति ख. कोशे दृश्यते. ॥ 5.56 ॥
प्रागादिचतुरो(2) वेदान् पूजयेत्स्नपनालये।
तथैव यागशालायां शक्रमास्थानमण्डपे (2.) आ. देवान्. ॥ 5.57 ॥
वरुणं यादसां नाथं जलक्रीडार्थमण्डपे।
मण्डपेष्वधवाऽन्येषु तत्तद्दिक्पालसंयुतम् ॥ 5.58 ॥
विष्वक्सेनं समभ्यर्च्य यथाशक्ति निवेदयेत्।
एतेषु च समाप्तेषु वास्तुहोमावसानके ॥ 5.59 ॥
कुम्भं संसाध्य विधिना तत्तन्मन्त्रं सवैष्णवम्।
व्याहृत्यन्तं यजित्वा तु पुनरावाह्य पूजयेत् ॥ 5.60 ॥
मण्डपादिषु देवेशं संस्थाप्य च शुभोदये।
सप्तविंशतिभोर्गश्च(3) सम्पूज्यान्तः प्रवेशयेत् (3.) आ. भेदैश्च ॥ 5.61 ॥
आधाय यागशालायां मुहूर्ते हव्यवाहनम्।
वैष्णवेन शतं हुत्वा नित्यहोमं समाचरेत् ॥ 5.62 ॥
हवीरक्षकमाग्नेय्यां पूजयेत्तु महानसे।
देवदेवं समभ्यर्च्य पश्चात्पाकक्रियां चरेत् ॥ 5.63 ॥
मण्डपादिषु कुड्येषु सुधाकर्मक्रियोपरि।
देवस्य विजयक्रीडाविग्रहेषु यथारुचि ॥ 5.64 ॥
यद्यदिच्छतिवै(4) कर्ता तत्तदाभासकर्मणा।
(5)सर्वलक्षणसंयुक्तं कल्पयित्वाऽतिसुन्दरम् (4.) कर्तु तत्र चैव स कर्मणा. (5.) ख. सर्वालङ्कार संयुक्तम्, ॥ 5.65 ॥
अमन्त्रकाक्ष्युन्मेषान्ते वास्तुहोमं जुहोति च।
अक्ष्युन्मेषं तथा कृत्वा पूर्वोक्तेन विधानतः ॥ 5.66 ॥
ध्रुवशुद्धिं च कृत्वा तु कुण्डमौपासनं न्यसेत्।
कुम्भं संसाध्य? विधिना कलशैः प्रोक्ष्य सप्तभिः ॥ 5.67 ॥
कुम्भं वेद्यां समारेप्य (तस्मिन्प्रतिसरं तथा।
औपासनं च कृत्वैव) हौत्रं चैव प्रशंसयेत् ॥ 5.68 ॥
वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च।
हुत्वा तदुक्तमन्त्रांश्च शतमष्टोत्तरं यजेत् ॥ 5.69 ॥
प्रातरावाह्य सम्पूज्य हवीं?षि च निवेदयेत्।
त्रिवेदिसहितं पीठं तत्तदग्रे प्रकल्पयेत् ॥ 5.70 ॥
तत्राऽवाह्य समभ्यर्च्य पूजनान्ते विसर्जयेत्।
एवमेव पटाभासबिम्बानां स्थापनार्चने ॥ 5.71 ॥
(1) एवं मूर्धेष्टकान्यासे विमानस्य कृते सति।
शूलग्रहणर्मोण गृहीत्वा शूलमत्र तु (1.) हेममूर्ध्वे तु सन्न्यस्य आ. ॥ 5.72 ॥
शूलं संस्थाप्य विधिवत् ध्रुवबेरं प्रकल्पयेत्(2)।
गृहीत्वा वा शिलां सम्यक्स्थापयित्वा तदुक्तवत् (2.) अत्र ॥ 5.73 ॥
बेरेषुयोगादिभेदाः
कारयेद्ध्रुवबेरं तु योगभोगादिभेदतः।
आसनं शयनं चैव स्थानकं चेति तत्त्रिथा ॥ 5.74 ॥
चतुर्विधं तदेकैकं योगं भोगं तथैव च।
वीरं च विरहं चैव पूर्वमेव मयोदितम् ॥ 5.75 ॥
चकुशङ्खधरं देवं योगं भोगं प्रकल्पयेत्।
चक्रशङ्खगदायुक्तं वीरमार्गेण कल्पयेत् ॥ 5.76 ॥
गदां (3)वामे वरे पाणौ कल्पयेद्विजयाय वै।
निरायुधं तथा देवं विरहं परिकल्पयेत् (3.) अध्यायसमाप्तिः दृश्यते. ख. कोशे (4.) पद्मं आ. ॥ 5.77 ॥
ताम्रजं ध्रुवबेरं चेद्व्यक्तं सर्वाङ्गसुन्दरम्।
कारायित्वा प्रतिष्ठाप्य तथा पर्वणि पर्वणि ॥ 5.78 ॥
सुद्धोदैरभिषिच्यैव वस्त्राद्यैरपि भूषयेत्।
एकबैरप्रतिष्ठा चेद्वर्णहीनं शिलामयम् ॥ 5.78 ॥
लौहं वा ब्राह्मभागे तु स्थापयित्वा समर्चयेत्।
एकबेरविधानेन लोहबेरे प्रतिष्ठिते ॥ 5.79 ॥
अर्च्यमाने पुनर्गुंप्ते चोरशत्रुभयादिभिः।
स्थाने तस्य यथालाभप्रमाणेन शिलामयम् ॥ 5.80 ॥
संस्थाप्य जङ्गमं तस्मिन् नित्यपूजां समाचरेत्।
चोरशत्रुभये शान्ते समुद्ध्रुत्य पुरातनम् ॥ 5.81 ॥
शिलाबेरात्समावाह्य लोहबेरे समर्चयेत्।
अथवा लौहबेरस्य प्रमाणेन शिलामयम् ॥ 5.82 ॥
कृत्वाऽचलं प्रतिष्ठाप्य ध्रुवार्चास्थापनोक्तवत्।
लैहबेरं च (1)तत्तस्मिन् उत्सवा परिकल्पयेत् (1.) यस्योक्तं । ख. ॥ 5.83 ॥
ध्रुवस्थित्यनुरोधेन परिवारांश्च तान् सर्वान् तत्तदावरणेषु च।
ध्रुवे स्थिते स्थितान्कुर्या दासीनानासने स्थितान् ॥ 5.84 ॥
आसीनान्वा स्थितान्वापि शयने परिकल्पयेत्।
विष्वक्सेनश्च विध्नेशो रोहिण्यो मातरस्तथा ॥ 5.85 ॥
ज्येष्ठा च सर्वदाऽऽसीना इति पूर्वजदर्शनम्।
वाह्वन्तं वा स्तनान्तं वा नाभ्यन्तं वा ध्रुवस्य च ॥ 5.86 ॥
ब्रह्मेशावमितं सूर्य तत्समान्वा प्रकल्पयेत्।
तत्त्रिभागैकभागादिमानैः कुर्याच्च कौतुकम् ॥ 5.87 ॥
देवेशाधिकमानेन परिवारान्न कल्पयेत्।
बेराणामुपादान द्रव्यनियमः
ध्रुवबेरं तु यद्द्रव्यं तद्द्रव्येण च पार्षदान् ॥ 5.88 ॥
विष्वक्सेनरविस्कन्दाः दुर्गा गरुड एव च।
शैलेऽपि (1)वा न दोषस्स्यादिति पूर्वजदर्शनम् (1.) ख. च. ॥ 5.89 ॥
ध्रुवकौतुकसंयुक्ते तथा वै परिषद्गणाः।
ध्रुवार्चनं ध्रुवार्चायां विपरीतं न कारयेत् ॥ 5.90 ॥
बेराणां स्थाननियमः
(एकबेरप्रतिष्ठा चेद्ब्राह्मे संस्थापयेदिति
ध्रुवकौतुकसंयक्ते मानुषे स्थापयेदिति
ब्राह्मे तत्कौतुकं स्थाप्यमिति पूर्वजदर्शनम्)
बेरविशेषाणां मुखनियमः
द्वारपालाः प्रकत्रव्याः किंचिद्वारनिरीक्षकाः।
बहिर्मुखा विमानेशाः प्रासादाश्रयमन्दिराः ॥ 5.91 ॥
ईशानसोमयोर्मध्ये दक्षिणाभिमुखोऽमितः।
श्रीभूतारिध्वजाम्भोजयूथेशाश्चाक्षहा तथा ॥ 5.92 ॥
कल्प्या बहिर्मुखा एव वीशस्त्वभिमुखो मतः।
देवाग्रे स्थापयेदेतांस्तत्तदावरणे पृथक् ॥ 5.93 ॥
अनपायिनः
श्रीभूतश्चैव गरूडः प्र?थमावरणे स्थितौ।
चक्रध्वजाब्जयूथेशा द्वितीयावरणादिषु ॥ 5.94 ॥
एतेऽनपायिनः प्रोक्ता विष्वक्सेनसमन्विताः।
प्राकाराश्रयवासाः स्युरन्ये वास्तुनिरीक्षकाः ॥ 5.15 ॥
तप्तहाटकसङ्काशां पद्मपत्रायतेक्षणाम्।
तिसृभिः पुष्पचूडाभिर्ललाटोपरिशोभिताम् ॥ 5.96 ॥
सपद्मवामहस्तान्तां कक्ष्याबद्धघनस्तनीम्।
प्रसारितेतरकरां सर्वाभरणभूषिताम् ॥ 5.97 ॥
श्रीवत्सादिमबीजां तां फाल्गुने चोत्तरोद्भवाम्।
श्रियं दक्षिणपार्श्वे तु हंसनिर्याख्यवाहिनीम् ॥ 5.98 ॥
वामपार्श्वे महीं श्यामां सर्वाभरणभूषिताम्।
वैशाखे रेवतीजातां दधतीं दक्षिणेऽम्बुजम्(1) (1.) अब्जकम्. आ. ॥ 5.99 ॥
प्रसारितेतरकरां प्रसन्नेन्दुनिभाननाम्।
महाचातकवाहां तां लक्ष्मीपूर्वाक्षरान्विताम् ॥ 5.100 ॥
श्रीभूम्योः केचिदिच्छन्ति व्यत्ययेन करद्वयम्।
मार्कण्डेयभृगू
एकजानुक्रमासीनो भित्तिमूले तु दक्षिणे ॥ 5.101 ॥
सोपवीतो जटामौलिः रोहिणीशोऽथ फाल्गुने।
तप्तहाटकसंकाशो मार्कण्डेयस्तु पूजकः ॥ 5.102 ॥
वामपार्श्वे भृगुः कार्यो जातिहिङ्गुलिकप्रभः।
वैशाखे रोहिणीजातः ख्यातीशः पुष्पपाणिकः ॥ 5.103 ॥
अत्रानुक्तं तु तत्सर्वं पुराणस्योक्तवद्भवेत्।
ब्रह्मशंङ्करौ पद्मासने समासीनो रुक्मवर्णश्चतुर्मुखः ॥ 5.104 ॥
कलशाक्षमालापाणिः जटामौलिश्चतुर्भुजः।
हंसोऽस्य वाहनं प्रोक्तं सावित्रभ्पतिरुच्यते ॥ 5.105 ॥
चैत्रेऽभिजिति सञ्जातोंऽबरीषश्शौषिकस्यतु (?)।
कमण्डलुध्वजश्चापि ब्रह्माख्यो दक्षिणे ध्रुवात् ॥ 5.106 ॥
उत्तरे ध्रुवबेरस्य प्रवालाग्निनिभो भवेत्।
टंकैणधृत् चतुर्बाहुर्व्याघ्रचर्माम्बरो हरः ॥ 5.107 ॥
सोऽर्धचन्द्रजटामौलिः पिङ्गनेत्रैस्त्रिभिर्युतः।
आर्द्राजो मार्गशीर्षे तु शिवश्चण्डीशशैषिकः ॥ 5.108 ॥
दक्षिणाभिमुखश्चैव वृषभध्वजवाहनः।
पार्वतीशश्शूलपाणिः(1) पूज्यश्चात्र पिनाकवान् (1.) शूकहेतिः ख. ॥ 5.109 ॥
कौतुकद्वितीयावरणे शिवादयः
शिवः शुभेश्वरः श्यामः सवारिकलशध्वजः।
भेरीशब्दरवो रक्तवासाश्च गजवावहनः ॥ 5.110 ॥
विश्वः श्यामनिभश्चैव शुद्देशो वेदिकेतुकः।
हयश्च वाहनं तस्य मित्रश्श्यामोऽरुणाम्बरः ॥ 5.111 ॥
स्रुवध्वजश्च मित्रेशः अत्रिः श्यामस्सतीश्वरः।
जुहुध्वजो रक्तवर्णो रुरुवाहन एव च ॥ 5.112 ॥
माघमासे तु रोहिण्यां जातास्ते तु बहिर्मुखाः।
सनत्कुमारसनकसनातनसन्दताः ॥ 5.113 ॥
हेमाभाः शुक्लवसनाः तैष्यमासे तु पुष्यजाः।
(2)कूर्चध्वजा इति ध्येयास्सर्वे ते ब्रह्मचखरिणः (2.) कूर्चचूडाः ख. ॥ 5.114 ॥
धात्रादयो द्वारदेवाः
वेणुपत्रनिभो धाता रथयान उदङ्मुखः।
(3)पुष्पकेतुः सन्धिनीशो रक्तवस्त्रञ्च दक्षिणे (3.) पुष्पकेतुश्च संन्धीशः ख.
॥ 5.115 ॥
विधाता शुकपत्राभ ऊर्ध्वेशो गजवाहनः।
सर्पध्वजः शुक्लवस्त्रः पूज्यावेतौ कवाटयोः ॥ 5.116 ॥
भुवङ्गो दक्षिणशिरा उत्तराङ्घ्रिः खलोचनः।
प्रीतीशोऽग्निशिखाकेतुर्नीलोत्पलदलप्रभः ॥ 5.117 ॥
हस्तजो माघमासे तु हदी वृषभवाहनः।
पतङ्गोऽधोमुखश्चोर्ध्वः शुक्लाभः पौष्यहस्तजः ॥ 5.118 ॥
भरणीश उत्तरशिराः अश्वयानध्वजस्तथा।
कवाटोर्ध्वशिलाश्लिष्टः (4)पूज्यो रक्ताम्बरोऽमलः (4.) पूजयेद्दक्षिणोत्तरे. ख.
॥ 5.119 ॥
पतिरो हेमवर्णाभः किञ्चिद्धाटकमिश्रितः।
उदङ्मुखो रक्तवस्त्रो वृषाङ्को गजवाहनः ॥ 5.120 ॥
नागेशो माघमासे तु तथा हस्तर्क्षजः स्मृतः।
वरणो हेमपद्माभः किञ्चिद्धाटकमिश्रितः ॥ 5.121 ॥
धरणीशः फाल्गुने तु हस्तजो रथवाहनः।
शरध्वजोऽत्र पूज्यश्च (1)द्वारभागे तु वामतः (1.) द्वारवामे यथाविधि. आ.
॥ 5.122 ॥
(धात्राद्या हस्तजास्सर्वे क्रमादाश्वयुजादिषु)।
द्वारे द्वारे तु धात्रादीन् षडेतान्सम्यगर्चयेत्।
मणिकादयो द्वारपालाः
मणिकं रक्तवर्णं च (2)शुकपत्राम्बरं तथा (2.) शतपत्राम्बरस्तथा. ख. ॥ 5.126 ॥
उपवीताजिनोद्दीप्तं पिङ्गलाक्षं जटाधरम्।
हृदयेऽञ्जलिसंयुक्तं सन्ध्यानाथं स्रुवध्वजम् ॥ 5.124 ॥
स्थितं द्वारं समीक्ष्यैव द्वारनिर्गमदक्षिणे।
चैत्रे मासे च रोहिण्यां जातं द्विभुजमर्चयेत् ॥ 5.125 ॥
वामे सन्ध्यां च हेमाभां हृदयेऽञ्जलिसंयुताम्।
सौम्यजां श्रावणे मासि द्विभुजां कुसुमाम्बराम् ॥ 5.126 ॥
तस्य द्वितीयद्वारस्य बहिः पार्श्वे च दक्षिणे।
शातातपं च दिव्येशं कुशध्वजमृषीश्वरम् ॥ 5.127 ॥
चैत्रे तु रोहिणीजातं जटामौलिं चतुर्भुजम्।
स्फटिकाभं नीलवस्त्रं रुरुवाहनमर्चयेत् ॥ 5.128 ॥
(3)तापसं वामपार्श्वे तु श्यामाभं रुरुवाहनम्।
फाल्गुने पुष्यजं कूर्चध्वजं सन्धीशमर्चयेत् (3.) तापसो वामपार्श्वे तु श्यामवर्णेऽहिवाहनः आ. ॥ 5.129 ॥
श्रीभूतः रक्ताम्बरधरं चैव द्विभुजं जटिलं तथा।
सोपानमध्ये श्रीभूतमर्चयेद्वहिराननम् ॥ 5.130 ॥
विराजेशं भूतकेतुं ज्येष्ठमासे धनिष्ठजम्।
न्यक्षादयः
न्यक्षो दूर्वाङ्कुराभश्च प्रज्ञाप्तीशोऽरुणाम्बरः ॥ 5.131 ॥
(1)श्येनयानध्वजो दण्डपाणिर्वीररवध्वनिः।
रोहिण्यां मार्गशीर्षे तु मासि जातो बहिर्मुखः (1.) ख. श्येनवाहध्वज. ॥ 5.132 ॥
विवस्वान् रक्तवर्णश्च तथैवोत्सादिनीपतिः।
भिण्डिवालध्वजश्चैव (2)दण्डी गवयवाहनः (2.) ख. दिण्डिकारथवाहनः॥ 5.133 ॥
प्रोष्ठपादे मघोद्भूतो द्विभुजो नीलवस्त्रकः।
मित्रो बहुप्रजानाथो शरभाण्डनिभस्तथा ॥ 5.134 ॥
कपोतवाहनश्चैव मेघनादरवस्तथा।
द्विभुजो (3)रक्तवर्णश्च पूपकेतुर्हलायुधः (3.) ख. रक्तवस्त्रच ॥ 5.135 ॥
ज्येष्ठाजो मासि वैशाखे धामपालस्तु पश्चिमे।
एष (4)पङ्क्तीशनामां हि भित्तावभिमुखेऽर्चयेत् (4.) ख पङ्क्त्यां. ॥ 5.136 ॥
क्षत्ता पद्मनिभश्चैव वाणीनाथिस्सताम्बरः।
कुशध्वजश्चक्रहेतिस्सावाद्राण्?ाकवाहनः(5) (?) (5.) महिषवाहन इति केचित्.
॥ 5.137 ॥
श्रावणे श्रवणोद्भूतो ?द्विभुजः पूज्य उत्तरे।
हविःपाल. हविः पालोऽसितो विद्युत्पतिः कालाग्निशूलधृत् ॥ 5.138 ॥
रोहिण्यां मार्गशीर्षे तु जातो रक्ताम्बरस्तथा।
पुष्पेशः पुष्पेशः पुष्पवच्छ्यामः (6)तथापि नरवाहनः (6.) क. तथा विरलवाहन.
॥ 5.139 ॥
पुष्पायुधो मानकेतुः चेत्रेऽनूराधजस्तथा।
बलीशो (7)बालिकेशोऽद्रिध्वजो दण्डी सितासितः (7.) वालकेशः ख. ॥ 5.140 ॥
मृगेन्द्रवाहनश्चैत्रे सौम्यजो रक्तवस्त्रधृत्(1)।
इन्द्रादयो लोकपालाः
इन्द्रस्सस्यनिभः श्यामो द्विभुजः कुलिशायुधः (1.) अत्र अध्यायसमाप्तिः ख. कोशे.
॥ 5.141 ॥
शचीशः पीतवस्त्रश्च ज्येष्टाजः श्रावणे तथा।
(2)किरीटी मुकुटी दण्डी चखसीनश्चेन्निरायुधः (2.) ख. किरीटी मुकुटी दण्डी
॥ 5.142 ॥
सर्वाभरणभूषितः। वेणुध्वजो मेधरवो गजवाहश्शचीपतिः ॥ जकारबीजसयुक्तः इन्द्रश्शच्याः पतिस्तथा। पुरुहूतस्तथा प्रोक्तः पुरून्दरमथार्चयेत् ॥ अभ्यन्तरमुखञ्चैइमिन्द्र चैव समर्चयेत्। आग्नेय्या कार्तिके मासि वह्रिजाऽतस्स एव हि ॥ किंशुकीपुष्पसङ्काशश्शक्तिपाणिश्च कुण्डली। केयूराभरणश्चैव शुकपिञ्छाम्बरस्तथा ॥ कपिध्वजो मेषवाह. स्वाहापतिरथापि वा। रकारबीजसंयुक्तः सर्वदमुखस्तथा ॥ आसीनञ्च प्रणम्यैव पूजयेच्च विशेषतः। याम्ये मिथुनमासे तु भरण्यां जात एव च श्यामाभो रक्तवस्त्रश्य व्यालध्वजसमन्वितः। महिषो वाहनञ्चैव फकारं बीजमेव च ॥ शुकाङ्गीदेवीसहितः घण्टानादरवस्तथा। किरीटी मुकुटी दण्डी
पाशहस्तस्तथैव च ॥ इति पाठो दृश्यते।
कृत्तिकास्वनले जातो मार्गशीर्षे तु मासि वै।
किञ्जत्कपुञ्जसदृशो लोहिताक्षोऽजवाहनः ॥ 5.143 ॥
देव्यौ स्वाहा स्वधा तस्य शक्तिरायुधमस्य वै।
फाल्गुने भरणीजातो यमो नीलोत्पलप्रभः ॥ 5.144 ॥
सत्यव्रतापतिर्दण्डी पाशी महिषवाहनः।
आरम्भाधिपतिस्तैष्ये मूलजो (3)भञ्जनीपतिः (3.) रञ्जनीपतिः, ख. रजनीपतिः क.
॥ 5.145 ॥
शार्दूलवाहनश्चैव शूलपाणिस्त्रिलोचनः।
चैत्रे शतभिषग्जातो वरुणो नीलवर्णकः ॥ 5.146 ॥
दण्डपाशकरो रक्ताम्बरो द्विरदवाहनः।
कनकेशस्सिंहकेतुः प्रतीच्यां प्राङृमुखः स्थितः ॥ 5.147 ॥
वायुः स्वच्छाम्बुसङ्काशश्शूलपाणिश्च खड्गधृत्।
स्वातिजः कार्तिके मासि देवी तस्याञ्जना मता ॥ 5.148 ॥
पीताम्बरधरो वीरः कृष्णसाररथध्वजः।
कुबेरो दण्डपाणिस्तु सहंसरथवाहनः ॥ 5.149 ॥
त्रिपाद्यवनलानाथः श्रविष्ठाजश्च कार्तिके।
श्यामो रक्ताम्बरधर उदीच्यां दक्षिणामुखः, ॥ 5.150 ॥
आर्द्रायां मार्गशीर्षे तु जात ईशान उच्यते।
पाटलीकुसुमाभस्तु वृषभध्वज वाहनः ॥ 5.151 ॥
त्रिलोचनोऽम्बिकानाथः शूलपाणिश्चचर्मधृत्।
मार्ताण्डः पद्महस्तश्च पृष्ठे मण्डलसंयुतः ॥ 5.152 ॥
चतुष्पादो द्विपादो वा पलाशकुसुमप्रभः।
श्रावणे हस्तजो देव्यै रेणुका च सुवर्चला ॥ 5.153 ॥
सप्तसप्तिसमायुक्तो रथो वाहनमुच्यते।
(1)अनूरुस्सारथिस्सर्पो ध्वजस्तुरग एव वा (1.) ख. अरुणः ॥ 5.154 ॥
विष्वक्सेनः
शान्तस्सोमेशयोर्मध्ये ह्यासीनो दक्षिणामुखः।
श्रीवत्सं ब्रह्मसूत्रं च विना सर्वं हरेरिव ॥ 5.155 ॥
प्रलम्बसूत्र पदव्युत्पत्तिः
प्रलम्बासुरसङ्गामे ह्यपवीतं तु शार्ङ्गिणः।
तदायुधपरिच्छिन्नमेकसूत्रं प्रलाम्बितम् ॥ 5.156 ॥
(2.) आत्राव्यवहितोत्तरं अङ्गारकः संहितासु प्रस्तुत.
तदभ्यर्थनया तच्च तथैव धृतमेव हि।
(3)लम्बयज्ञोपवीतित्वं ततः प्रभृति शार्ङ्गिणः (3.) ख. प्रलम्ब ब्रह्मसूत्रित्वं.
॥ 5.157 ॥
तदसाधारणं नाम लोकेऽस्मिन् प्रथितं पृथु(4)।
तत्सूत्रं लम्बितं छेदाद्गत्वाऽधो दक्षिणस्तनात् (4.) क. पृथक्. ॥ 5.158 ॥
आकुञ्च्य दक्षिणं पादं वामं पादं प्रसार्य च।
जयया सार्धमासीनः पुष्पहस्तोऽग्निसन्निभः ॥ 5.160 ॥
गदाशक्तिकरो वाऽथ पूज्यः स्थानाभिवृद्धये।
चतुर्भुजो यदि भवेन्च्छङ्खचक्रे गदावरौ ॥ 5.161 ॥
सस्यश्यामनिभौ देव्यौ सर्वमन्यच्च पूर्ववत्।
पूर्वाषाढासमुद्भूतो मासि भाद्रपदे तथा ॥ 5.162 ॥
ध्रुवकौतुकसंयुक्तमुत्तमं परिचक्षते।
मध्यमं चैकबेरं स्यादधमं पीठपूजनम् ॥ 5.163 ॥
ग्रामस्य यजमानस्य चानुकूलप्रमाणतः।
विष्वक्सेनं प्रकुर्वीत मूलबेरवशात्तु वा ॥ 5.164 ॥
आयादयो न कर्तव्या मूलबेरवशाद्यदि।
गरूत्मान् गरुडो वेदमूर्तिस्तु तप्तहाटकसन्निभः ॥ 5.165 ॥
शुपिञ्छाम्बरधरो झल्लरीखलायुतः।
किङ्किणीजालसंयुक्तः कुण्डलाङ्गदहारघृत् ॥ 5.166 ॥
(1)छन्नवीरोत्तराबद्धः कौबेरमकुटोज्जवलः।
तैष्ये स्वातिदिने जातः तथा श्वसनवाहनः (1.) ख. छत्रवीरोदरावद्धः. ॥ 5.167 ॥
त्रिवृत्तस्य शिरस्साम गायत्रं चक्षुरेव च।
आत्मा स्तोमाह्वयं साम वामदेव्यं तनुस्तथा ॥ 5.168 ॥
बृहद्रथन्तरे पक्षौ यज्ञायज्ञियपुच्छकः।
छन्दांस्यङ्गानि वै तस्य यजूंषि च शफाः स्मृताः ॥ 5.169 ॥
एवं ध्यात्वाऽर्चयेद्वीशं वाहनानां तु वृद्धये।
वक्रतुण्डः
प्रवालाभश्चतुर्बाहुरेकदंष्ट्रो गजाननः ॥ 5.170 ॥
चैत्रे मासे श्रविष्ठाजः कदलीमोदकेक्षुघृत्।
अनन्तः
दक्षिणे गोपुराद्वाह्ये वामेऽनन्तस्सितप्रभः ॥ 5.171 ॥
आश्रेषाजश्च वैशाखे द्विबाहुश्च सुरापतिः।
फणामण्डलमध्यस्थः प्राञ्जलिर्भुजगाधिपः ॥ 5.172 ॥
भौमः शक्तिपाणिस्तथा भौमः कदम्बकुसुमप्रभः।
देवी च कुमुदा तस्य वराहो वाहनं तथा ॥ 5.173 ॥
पूर्वाषाढासमुद्भूतो ज्येष्ठमासे कुजस्तथा।
शनैञ्चरः सौरिं कृष्णनिभं कुर्यात् (1)कुशचीराम्बरं तथा (1.) ख. शुकपिञ्छाम्बरं.
॥ 5.174 ॥
माघमासे तु रेवत्यां जातं नीलोत्पलध्वजम्।
स्यन्दनं वाहनं तस्य वराहोरगसंयुतम् ॥ 5.175 ॥
बृहस्पतिः कुर्याद्बुहस्पतिं पीतं कदलोवनमध्यगम्।
कुशध्वजं हंसरथं पुष्पश्यामाम्बरोज्ज्वलम् ॥ 5.176 ॥
आषाढे तिष्यसम्भूतं तारां देवीं च तस्य वै।
बुधः
बुधं (3)सस्यनिभं कुर्याच्छरबाणासनान्वितम् (3.) ख.श्यामनिभं
॥ 5.177 ॥
(4)बुद्धादेवीसमायुक्तं वामदेवाश्ववाहनम्।
श्रावणे च श्रविष्टातजं दर्पणं ध्वजमेव च (4.) ख. सिद्धा. ॥ 5.178 ॥
शुक्रः
शुक्रो रजितवर्णश्च जटाभृद्वल्कलाम्बरः।
(5)जयन्तीशोऽम्बररथो माघमासे तु भाग्यजः (5.) जयाधीशः ॥ 5.179 ॥
जाह्रवी
जाह्रवीं श्वेतरक्ताभां पीतवस्त्रां तथैव च।
विभज्यैकदलं हस्तेनाऽघ्रायन्तीं तदम्बुजम् ॥ 5.180 ॥
अश्वयुङ्मासि रेवत्यां जातां तां लोहितध्वजाम्।
सर्वाभरणसंयुक्तां गङ्गां कुर्याद्विचक्षणः ॥ 5.181 ॥
चन्द्रः आत्रेयं हरिवत्कुर्या(1) च्छीत्तमण्डलमध्यगम्।
तत्र रुवक्मनिभं श्वेतमिश्रमावर्तकं(2) स्मृतम् (1.) ख. सितमण्डल. (2.) ख. अहितकम्. ॥ 5.182 ॥
राजानं द्विभुजं कुर्याद्रोहिणीवल्लर्भं तथा।
चैत्रे मृगशिरोजातं साश्वस्यन्दनवाहनम् ॥ 5.183 ॥
पद्मपीठे समासीनां मण्डले चोर्ध्वकर्णिकै।
तथा प्रसृतिके कुर्याद्देर्वी धृतकुशेशयाम् ॥ 5.84 ॥
शातकुम्भमयैः कुम्भैर्दिग्गजैरभिषेचिताम्।
क्रीडन्तीं विष्णुना वाऽथ श्रीदेवीं कारयेदबुधः ॥ 5.185 ॥
सप्तरोहिण्यः
मयूरवाहा रोहिण्यः कृकलासध्वजप्रियाः।
पुष्पाम्बराः पुष्पहस्ताः शुककञ्चुकसंयौताः ॥ 5.186 ॥
रोहिणीसम्भवास्तैस्ये नितृयं लोकप्रसादकाः।
धात्री
(3.) चन्द्रादनन्तरं भवकुमारपपुरुषाणां वर्णनं पौर्वापर्येण लभ्यतेऽन्यत्र.
कुर्याद्धात्रीं महीरौद्रीं दंष्ट्राभ्यामप्यलङ्कताम् ॥ 5.187 ॥
बालमौल्युत्तरासङ्गां तां त्रिशूलां च षड्भुजाम्।
रक्तोग्रनयनापाङ्गीं भ्रूभङ्गविकटोग्रकाम् ॥ 5.188 ॥
(4)नरस्त्रीणामिव तनुमतिरौद्रीं समाचरेत्।
ज्येष्ठा कपालवामहस्तां च रक्तकुञ्चितमूर्धजाम् (4.) क. न स्त्रीणामिवतद्वक्त्रमतिरौद्रं, ॥ 5.189 ॥
उष्ट्रपीठे समासीनामट्टहाससमन्विताम्।
चैत्रे याम्यर्क्षसञ्जातामुल्काध्वजसमन्विताम् ॥ 5.190 ॥
त्रिपीठकाख्यापीठे च ज्येष्ठां कुर्याद्विचक्षणः।
(5)प्रसारासनगां स्थाने न (6)दैवे मानुषांशके (5.) ख. प्रसारध्नगतां. (6.) आ. न दैवे न च मानुषे. ॥ 5.191 ॥
वामहस्तेन सम्पूर्णं वहन्तीं निधिभाजनम्।
दक्षिणं पुष्पहस्तं च किंचिल्लम्बोदरीं शुभाम् ॥ 5.192 ॥
सरक्तपुष्पवस्त्रां तामतिपीनचलस्तनीम्।
तस्याश्च दक्षिणे पुत्रं तस्या वाहुप्रमाणतः ॥ 5.193 ॥
(1)पीतं समृषकं नाम शुक्लवर्णाऽहिताम्बरम्।
(2)तदासने सहासीनं दण्डपाणिकमुन्नतम् (1.) ख. पीतं स्पिष्टभगं नाम, (2.) आ. एकासने तथाऽऽसीनं. ॥ 5.194 ॥
(3)वृषभागं शिरस्तस्य पूर्वोक्तं किञ्चॢदुन्नतम्।
वामे सुमाञ्जलिं तस्यास्सुतां परमलालिताम् (3.) ख. पुष्पभद्रं शिरस्तस्य, ग. पृष्टभागंशिरस्तस्य. ॥ 5.195 ॥
अर्धसाचीकृते तस्याः स्वार्धासनसमा?स्थिते।
रक्तनीलपरीताङ्गीं (4)रक्तोत्पलकराम्बुजाम् (4.) ख. रक्तोत्पलकरामृवगम्.
॥ 5.196 ॥
एकपादप्रसारां तामेकमाकुञ्चितासनाम्।
पञ्चाशत्खरसंयुक्तरथस्तस्यास्तु वाहनम् ॥ 5.197 ॥
कृष्णकाकध्वजां ज्येष्ठासम्भवां मार्गशीर्षके।
भृग्वादयः सप्तर्षयः
नवार्धतालमानेन मां च कुर्याच्चतुर्भुजम् ॥ 5.198 ॥
ब्राह्ममासनमासीनं ब्रह्माञ्जलिकरद्वयम्।
अङ्के वाममथोत्तानं प्रसृतं तस्य चोपरि ॥ 5.199 ॥
हस्तं च दक्षिणं तस्मादुपर्युत्तानमाचरेत्।
(5)आत्मनासाग्रगा दृष्टिर्योगदृष्टिरिति स्मृता (5.) ख. स्वनासावाहिता दृष्टिरूर्ध्वदृष्टिरिति स्मृता. म. अर्धवृष्टिः ॥ 5.200 ॥
दक्षिणे चोर्ध्वगे हस्ते कलशं धारयेत् भृगुः।
वामे स शिक्यं संशुद्धं ब्रह्मदण्डं च वैणवम् ॥ 5.201 ॥
(6)जातिहिङ्गुलिकाभं वै सजटामकुटोज्जवलम्।
ताम्रास्यनयनं कुर्यात्सुमुखं (7)मृगचर्मिणम् (6.) ख. जातिहिङ्ग्वाकृतिभावैः मुखार्धमकुटे जटा. (7.) य. संवृतं मृगचर्मणा ॥ 5.202 ॥
(1)ब्रह्यासने समासीनं मरीचिमनलप्रभम्।
षडङ्घ्रिवाहनं (2)मालायुधं सुमतिमञ्जलिम् (1.) ख. ब्रह्ममासनमासीनं (2.) ख. चैव हलायुधसुसंस्थितम् म. हयरावं.॥ 5.203 ॥
तस्योत्पत्तिः तथाऽऽषाढे नक्षत्रं पूर्वफल्गुनी।
ध्वजश्च ब्रह्मणः प्रोक्तः सर्वमन्यद् भृगोरिव ॥ 5.204 ॥
पुलस्त्?यः काञ्चनाभोऽयमासीनो ब्राह्ममासनम्।
(3)प्रीतीशश्शङ्खहेतिश्च तथा षट्पदवाहनः ॥ 5.205 ॥
चैत्रेऽनूराधसञ्जातः (4)ऊर्वाणाख्यो ध्वजस्तथा।
पुलहस्ताम्रवर्णोऽयमासीनश्च पुलस्त्यवत् (4.) क. पर्वणाख्यध्वजस्तथा. (?)
॥ 5.206 ॥
(5.) क. यन्मनुष्याकृतिस्समः
क्षमाधीशः क्षमाधैर्यस्तुलाधारोऽस्य वाहनम्।
हस्तजश्चाश्वयुङ्मासि सर्वमन्यद्भृगोरिव ॥ 5.207 ॥
सन्नतीशः ऋतुश्शुक्लो वैशाखे मासि हस्तजः।
बडबा बाहनं प्रोक्तं सर्वमन्यद्भृगोरिव ॥ 5.208 ॥
वसिष्ठोऽथ हरिद्राभोऽरुन्घतीशस्तथैव च।
ऊर्वाण्?ाध्वजसंयुक्तो वषट्काराख्यवाहनः ॥ 5.209 ॥
तैष्ये पुष्यर्क्षसञ्जातो ब्रह्मदण्डायुधस्तथा।
अनसूयापतिस्त्वत्रिर्मधुवर्णोऽस्य वाहनम् ॥ 5.210 ॥
वषट्कारश्च ऊर्वाणध्वजः श्रवणसम्भवः।
(6)कार्तिक्यां मासि सम्भूतः सर्वमन्यद्भृगोरिव (6.) ख. श्रावण्यां. ॥ 5.211 ॥
द्विबाहवो मरीच्याद्या अङ्के वामकरं तथा।
तदूर्ध्वे दक्षिणं पाणिमूत्तानं परिकल्पयेत् ॥ 5.212 ॥
(7)मरीचिः पुलहश्चैव पुलस्त्यः क्रतुरेव च।
(8)वसिष्ठोऽत्रिरहं चैवमृषयः सप्त कीर्तिताः (7.) ख. भृगुश्च (8.) ख. वसिष्ठोऽत्रिर्मरीच्याद्याः ॥ 5.213 ॥
सम्भूतिश्च क्षमा प्रीतिः सन्नत्यूर्जाऽनसूयकाः।
(1)अरुन्धती क्रमादेताः कर्तव्यास्तैस्सहासने (1.) ख. अरुन्धतीति विख्याता ऋषिपत्न्यः प्रकीर्तिताः प्रकीर्तिताः ॥ 5.214 ॥
गविष्ठः ( आकाशः )
गविष्ठो हि महाभूतश्चेन्दीवरदलप्रभः।
मकुटी पीतवासाश्च सर्वाभरणसंयुतः ॥ 5.215 ॥
(2)स सत्यलोचनेशश्च दण्डी कुम्भकवाहनः।
भेरुण्डकेतुस्संप्रोक्तो मारुद्रवरसं तथा (?) (2.) ख. ससत्यलोचनः श्रीमान् गविष्टः कुम्भवाहनः ॥ 5.216 ॥
चैत्रे चित्रर्क्षसम्भूतो योषास्यात्सत्सत्यलोचना।
वायुः वायुश्श्यामोऽसिपाणिस्तु प्लवकाख्याहिवाहनः ॥ 5.217 ॥
शङ्खध्वजो ह्रंसरवो (3)माघे स्वातीदिनोद्भवः।
उदायिनीश्वरश्चैव पीतवस्त्र इति स्मृतः (3.) ख. मेषे ॥ 5.218 ॥
(4)अग्निस्सुवर्णर्णेऽयमर्चिष्केशश्च शक्तिभृत्।
वडबावाहनश्चैव स्वाहेशो वानरध्वजः (4.) ख. अग्निस्तु किंशुकाभस्तु अङ्गदैश्चाप शक्तिभृत् ॥ 5.219 ॥
प्रोष्ठपादेऽग्निभोद्भूतो नीलवस्त्रस्तथैव च।
एषां त्रयाणां (5)देव्यश्च पृथक्स्थाने समाचरेत् (5.) ख. देवानां पूर्वस्थाने समाचरेत्
॥ 5.220 ॥
तोयम्
तोयं चाञ्जनवर्णञ्च तथा वृषभवाहनम्।
हरिपिञ्जरवासः स्याद्भूतमेतच्चतुर्गुणम् ॥ 5.221 ॥
तोयं नपुंसकं चेति (6)मुनिश्शातातपोऽब्रवीत्।
गलकाख्यं ध्वजं चैव तथोदग्ररवध्वनिः (6.) ख. मुनयासनमेव च (?) ॥ 5.222 ॥
ऊर्म्यायुतं तथाऽऽषाढे सौम्यनक्षत्रसम्भवम्।
हरिणीं श्यामवर्णां तां श्वेतवस्त्रां किरीटिनीम् ॥ 5.223 ॥
पद्महस्तां क्षमां देवीं पद्मनेत्रां सुभूषिताम्।
सावित्री
(1.) ख. श्रीभूमृयोरिव शब्दिनीम्
सावित्रीं ध्वजिनीं चापि श्वेतवस्त्रां सुसंस्थिताम्।
(2)विद्यां चतुर्भुजां कुर्याद्रक्तामृतकुशेशयाम् (2.) क. सावित्रीं ॥ 5.225 ॥
दक्षिणे त्वक्षमालां च करे वामे कमण्डलुम्।
ज्ञानमुद्रां दक्षिणेऽथ करे वामेऽथ पुस्तकम् ॥ 5.226 ॥
तैष्ये पुनर्वसूद्भूता तत्र पूज्याधिकेन सा।
सर्वेश्वरः
सर्वेश्वरोऽम्बुवाहाभष्षङ्?िघध्वजवाहनः ॥ 5.227 ॥
(3)श्वेतवस्त्रधरो दण्डी कुम्भशब्दरवस्तथा।
(4)तैष्ये पुष्यभवः श्वेतवस्त्रश्चैवोरूष्ट्रवाहनः (3.) क. दण्डीविद्युन्निभेशश्च ढक्काः शब्दरवस्तया. (4.) ख. तैष्ये पुष्ये भवस्तत्र पश्चिमामुखमर्चयेत्. ॥ 5.228 ॥
सप्तमातरः
ब्रह्मणीं पिंगलाञ्चैव चतुर्वक्त्रां चतुर्भुजाम्।
(5)कलशाक्षमालां दधतीं जटामण्डलमण्डिताम् (5.) ख. कलशीमक्षमालाञ्च रत्नकुण्डलमण्डिताम्. ॥ 5.229 ॥
दर्भध्वजां हंसरथां चैत्रे याम्यदिनोद्भवाम्।
सरित्प्रियां श्यामवार्णां शूलहस्तां चतुर्भुजाम् ॥ 5.230 ॥
तस्या हंसो ध्वजः प्रोक्तः सौरभेयी च वाहनम्।
वैशाखे रेवतीजातां रक्तवस्त्रां त्रिलोचनाम् ॥ 5.239 ॥
(6.) ख. सुवर्णाभा.
मौलौ वेणीसमायुक्तां भीमरूपां भयानकाम्।
वैशाखिनी स्वर्णनिभा शक्तिहस्ता चतुर्भुजा ॥ 5.232 ॥
कृकलासध्वजा रक्तवसना (7)च गुहाधिपा।
ज्येष्ठमासे तथा देवी कृक्तिकर्क्षसमुद्भवा (7.) ख. गुहराडिव. ॥ 5.233 ॥
शङ्खचक्रधरा श्यामा वैष्णवी (8)नीलवासिनी
फाल्गुने श्रवणोद्भूता गरुडध्वजवाहना (8.) ख. कठिनस्तनी ॥ 5.234 ॥
वाराही कृष्णवर्णा च वराहवदना तथा।
शङ्खचत्रधरा चैव वराहध्वजवाहना ॥ 5.235 ॥
पौषे श्रवणसम्भूता (1)रक्तवस्त्रा सतुर्भुजा।
इन्द्रणी (2)यवसश्याभा वज्रहस्ता चतुर्भुजा (1.) श्नेतवस्त्ररः (2.) ख. श्यामवर्णाभा. ॥ 5.236 ॥
श्वेतवस्त्रसमायुक्ता शुकतुण्डाख्यवाहना।
(3)वेष्णुपत्रध्वजा माघे ज्येष्ठानक्षत्रसम्भवा (3.) ख. शुकतुण्डध्वजोपेता मेषे ज्येषृनुसम्भवा. ॥ 5.267 ॥
काली (4)करालवदना कालाङ्गी चोष्ट्रवाहना।
पिशाचाङ्कध्वजा चैव वह्रिज्वालाभमूर्धजा (4.) ख. करालदंष्ट्रा च. ॥ 5.238 ॥
प्रोष्ठपादे यमोद्भूता शूलपाशकपालिनी।
रक्तोग्रनयनापाङ्गा भूभङ्गविकृतानना ॥ 5.239 ॥
नरस्त्रीणामिव मुखं दंष्ट्राभ्यां समलङ्कतम्।
त्रिनेत्र्यर्धेन्दुमकुटा नागाभरणसंयुताः ॥ 5.240 ॥
प्रसारासनमासीनास्सप्तमातर ईरिताः।
प्रसारासनलक्षणम्
(5.) ख. तथा ज्येष्ठे मोद्भूता.
दक्षिणं पादमाकुञ्च्य वामं पादं प्रसार्य च ॥ 5.241 ॥
प्रसारासनमित्युक्तं स्त्रभ्णां सामान्यमेव तत्।
स्कन्दः
स्कन्दः पलाशपुष्पाभः षट्भुजो वा चतुर्भुजः ॥ 5.242 ॥
बालो मौलिसमायुक्तः देवयानीपतिस्तथा।
मयरवाहनश्श्?ाक्तिधरः कुक्कुटकेतुकः ॥ 5.243 ॥
फाल्गुने कृत्तिकोद्भूतो हस्ती वा तस्य वहनम्।
हस्ती
नवहस्तमितं कुर्यादुत्सेधं सप्तहस्तकम् ॥ 5.244 ॥
आयामार्धं ततः पादं शेषं नाहमुदाहृतम्।
प्रादेशिकं ततो विद्या (6)च्छिरसोरस्कतस्तयोः (6.) ख. उरसे सप्तकन्तथा (?)
॥ 5.245 ॥
नाहेनार्धपरीणाहं पादहीनं तु गात्रयोः (?)।
गात्रस्यार्धपरीणाहं पादहीनं करोर्ध्वगम् ॥ 5.246 ॥
(1)तस्मात्त्रिभागादेव स्यात्कराग्रे नाह उच्यते।
भूमिलम्बं तथा कुर्यात्करस्याग्रमनुच्छ्रितम् (1.) क. तस्य त्रिभाग एव स्यात्.
॥ 5.247 ॥
(मानं नखानां तस्यैव चतुरङ्गुलमिष्यते ।)
गात्रान्तरेषु तेषां वै सर्व बोद्धव्यमित्यतः ॥ 5.248 ॥
ऐरावतं विनाऽन्येषां नीलवर्णमुदाहतम्।
कण्ठेषु द्वादशायामं करिणां परिरुच्यते (?) ॥ 5.249 ॥
सतालनवहस्तः स्यादुत्सेधः करिणां पतेः।
प्रवालाभञ्चगण्डं च गात्रं श्वेतमुदाहृतम् ॥ 5.250 ॥
परिणाहे तथा तेषामूर्ध्व युक्त्या समाचरेत्।
तथा च नीलहस्ती स्यादिन्द्रनीलप्रभश्शुभः ॥ 5.252 ॥
वाराहस्य महाविष्णोर्वाहनं परिकीर्त्यते।
पञ्चहस्तायतं पृष्ठे सकोलं चार्धदेहकम् ॥ 5.253 ॥
तस्यार्धमूर्ध्वे कर्णः स्यान्नाहं तस्य षडङ्गुलम्।
अग्रे भागपरीणाहः शिखा स्यादंगुलास्तु षट् ॥ 5.254 ॥
(3)गोलकं विस्तृं तस्य (4)तुण्डं स्यात् चतुरङ्गुलम्।
भुजमात्रं तु पादं स्या (5)द्भुजमात्रे तले उभे (3.) ख. षट्रकोलं. (4.) ख. मण्डना. (5.) ख. भुजमात्रमुभे तले. ॥ 5.255 ॥
पञ्चाक्षरास्माख्याताः सुन्दराः पञ्चवर्णकाः।
(6)मयूरा एव दृश्यन्ते दृश्यन्ते मेचकास्त?था (6.) ख. मयूरा ये प्रदृश्यन्ते ते वै प्रकृतमानवाः म. तथा प्रकृतिमानकम्. ॥ 5.256 ॥
दिव्याश्चेदघिकं कायं देवानां चैवमाचरेत्।
हस्तं पादं तथाऽऽयामं त्रितयं तत्समं स्मृतम् ॥ 5.257 ॥
चूडं षडङृगुलं प्रोक्तं विस्तारं कालचोदितम्।
गलोत्मेधं च सौन्दर्य तथा कुर्याद्विचक्षणः ॥ 5.258 ॥
चक्रम् कुर्याच्चक्रं नराकारं चक्रचूलितमस्तकम्।
चक्रं बहिर्मुखं कुर्याच्छरोङ्गराग्निसन्निभम् ॥ 5.259 ॥
मुष्टिकेशं धूमकेतुं भानुहेतिं तथैव च।
(1)विवृत्तवाहनं चैव कार्तिके कृत्तिकोद्भवम् (1.) ख. प्रवृत्त. ॥ 5.260 ॥
पादहीनं वेनतेयाद्धीन(2) मध्यध्रमेव वा।
आस्थानमण्डपे चैव स्थापयेद्देशिकोत्तमः (2.) क. आर्धार्धं. ॥ 5.261 ॥
ध्वजस्थगरुडः
(3.) क. तावत् ध्वजस्यापि.
तस्मा त्ततो ध्वजस्थाने बिम्बं कुर्याद्यथाविघि।
ध्वजस्थं गरुडं कुर्यादासने चैकमर्पितम् ॥ 5.262 ॥
वामपादं समाकुञ्च्य सम्यक् प्रसृतबाहुकम्।
दक्षिणेनैकहस्तेन पद्मुत्पलमेव वा ॥ 5.263 ॥
अष्टांगुलमथो नालं भागं पुष्पस्य मण्डलम।
पुष्पापेक्षमुखं कुर्यात्सानन्दं स्मेर(4)गर्वितम् (4.) ख.गर्भितं. ॥ 5.264 ॥
एतद्ग्रामहितं प्रोक्तं जयार्थ (5)चान्यदिष्यते।
जानुना (6)पवीडितं पीठं सव्येनैवेतरेण वा (5.) ख. विजयाय. च. (6.) ख. पीड्य हस्तेन सव्येनैवोत्तरेण वा ॥ 5.235 ॥
वसुधां वापि जिघ्रन्तमूर्ध्वदृष्टिं च कारयेत्।
पद्मासने समासीनं (7)सुखस्यास्पदमव्ययम् (7.) ख. सुखं ध्यायन्तं. ॥ 5.266 ॥
ऋषीणां च हितार्थाय कुर्याद्देवं विचक्षणः।
ध्वजः
प्राङङ्गमुखं च ध्वजं कुर्यान्न देवं वीक्ष्य(8)सुस्थितम् (8.) ख. संस्थितं. ॥ 5.257 ॥
एवं ध्वजविधिं कर्तुमशक्तो मण्डपे तथा।
समालिख्यार्चयेत्तत्र ध्वजदेवं खगाधिपम् ॥ 5.268 ॥
ऊर्ध्वे शङ्खं च भेरीं वा वायुवाहनमत्र वै।
घण्टारवं च वैशाखे वायुभे जातमुत्तमम् ॥ 5.269 ॥
हाटकाभं नीलवस्त्रं ध्वजमेवं प्रकल्पयेत्।
शङ्खः जलजं चन्द्रवत्कुर्यान्मकुटे शङ्खसंयुतम् ॥ 5.270 ॥
शङ्ख्?ाभं नीलवस्त्रं च द्विभुजं वारुणीपतिम्।
वियद्गतिध्वजं चैव?(1)वियद्गत्यायुघं तथा (1.) ख. वियद्गत्यायुधं ॥ 5.271 ॥
भूतः
भूताकृतिं वायुभोत्थं हंसवाहनमेव च।
आषाढे रोहिणीजातं हृदयेऽञ्जलिसंयुतम् ॥ 5.272 ॥
मूलबेरवशात् परिवारकल्पनम्
(2)मूलबेरवशादेव परिवारान्प्रकल्पयेत्।
बाह्वन्तं वा स्तनान्तं वा नाभ्यन्तं वा ध्रुवस्य तु (2.) ख. मूलबेरप्रमाणेन.॥ 5.273 ॥
ब्रह्मेशावमितं सूर्यं तत्समान्वा प्रकल्पयेत्।
तत्त्रिभागैकंभागादिमानैः कुर्याच्च कौतुकम् ॥ 5.274 ॥
देवेशाधिकमानेन परिवारान्न कल्पयेत्।
एकबेरप्रतिष्ठाचेत् ब्राह्मे संस्थापयेत्पदे ॥ 5.275 ॥
बलिपीठं
बलिपीठं प्रवक्ष्यामि उत्तमाधममध्यमम्।
पद्मश्रीकुमृभबन्धाख्याश्चतुरश्राष्टवृत्तकाः ॥ 5.276 ॥
उपपीठादिकं (3)सर्वं प्रासादविधिवच्चरेत्।
अधिष्ठानोदयं धाम्नो बलिपीठस्य विस्तरम् (3.) इत आरभ्य सप्तमाध्याये 19 श्लोके दिक्षु इत्यन्तो ग्रन्थः ख. कोशे गलितः। ॥ 5.277 ॥
उत्तमं तत्तप्रमाणं स्यात्तदर्धं मध्यमं भवेत्।
तदर्धमधमं प्रोक्तं विस्तारं पादबाह्यतः ॥ 5.278 ॥
तद्विस्तारसमोत्सेधं पादांधिकमथापि वा।
अर्धाधिकं वा कुर्वीत विमानस्यानुरुपतः ॥ 5.279 ॥
द्वात्रिंशांशोत्तमोत्सेधं व्द्यंशकं पादुकं भवेत्।
सप्तांशा चगती प्रोक्ता षड्भागं कुम्भमेव च ॥ 5.280 ॥
एकांशमूर्ध्वपट्टी स्यात्पञ्चभागं दलं भवेत्।
व्द्यंशके (1)कर्णकम्पे च महापट्टी च अंशकम् (1.) ख. त्रिभागं कर्णकं भागं त्रिभागञ्चोर्ध्वपट्टिकाम्. ॥ 5.281 ॥
(2.) ख. मुखपट्टी स्यात्.
एकांशंचोर्ध्वपट्टी स्याद्वेदांशं लम्बपङ्कजम्।
व्द्यंशकं चोर्ध्वुपद्मं स्याच्चतुर्द्वारं चतुर्मुखम् ॥ 5.282 ॥
एतादृशैरलङ्कारैरुक्तमुत्तममुच्यते।
मध्यमे च तदुत्सेधे षड्विंशद्भागभाजिते ॥ 5.283 ॥
द्व्यांशकं पादुकं चैव षड्भागं जगतीं विदुः।
पञ्चांशं कुमुदं विद्यादेकांशं पट्टिका भवेत् ॥ 5.284 ॥
(3)कर्णं चैव चतुर्भागमेकभागं तु पट्टिका।
पहापट्टी द्विभागं स्यादेकांशं चोर्ध्वपट्टिका (3.) क. कर्ण.॥ 5.285 ॥
द्विभागं स्यादेकपट्टी द्विभागं लम्बपद्कम्।
द्व्यंशकं लम्बपद्मं तु पद्मूर्ध्वन्तु द्व्यंशकम् ॥ 5.286 ॥
एवं प्रमाणसंयुक्तं मध्यमं पीठमुच्यते।
अधमे तु तदुत्सेधं भागं विंशतिकं भवेत् ॥ 5.287 ॥
पादुकं चैकभागन्तु जगती पञ्चभागिका।
कुमुदन्तु प्रतिष्ठांशं पट्टिका भागमिष्यते ॥ 5.288 ॥
त्रिभागं कण्ठमित्युक्तमेकांशं चोर्ध्वपट्टिका।
महापट्टी द्विभागं स्याद्विभागं लम्बपद्मकम् ॥ 5.289 ॥
ऊर्ध्वपद्मं तथैकांशं कनिष्टं पीठलक्षणम्।
गोपुरात्पुरतः कुर्यान्मध्यसूत्रस्थितं यथा ॥ 5.290 ॥
( अधिष्ठानतलात्तुङ्गं बलिपीठं न कल्पयेत् ।)
यूथाधिपपीठम्
यूथाधिपं समुद्दिश्य द्वितीयावरणेऽथवा ॥ 5.291 ॥
गोपुरायाममानं तु?(1)द्विगुणं समनिर्गमम्।
अथवा कारयेद्विद्वान् प्रथमावरणे तथा (1.) ख. द्वितीये मण्डपेऽपि वा. ॥ 5.292 ॥
वीशगोपुरयोः कुर्यात्तावन्मानं चतुर्गुणम्।
(2)यूथाधिपं समुद्दिश्य पीठं सम्यक् समाचरेत् (2.) ख. यूथाधिपं च संस्थाप्य विधिनाऽपि समर्चर्यत्। एवं यूयाधिपं कृत्वा प्रमुखे तु सलक्षणम् —- इति अत्र श्लोकः व्यत्ययेन दृश्यते — पञ्चंशं वेति श्लोकार्ध नास्ति. ॥ 5.293 ॥
(ञ्चांशं वा प्रकुर्वीत पीठं सम्यक्सलक्षणम्)
द्वितीयावरणे कुर्यात् तृतीयावरणेऽपि वा ॥ 5.294 ॥
विष्णुभूतं समुद्दिश्य (3)पीठं सम्यक्प्रकल्पयेत्
सर्वदेवमयं पीठं सर्वलोकमयं तथा (3.) ख. विधिनाऽपि बनिलं ददेत्। एवमेव प्रकारेण कारयेद्विष्णुभूतकम् — इति दृश्यते. ॥ 5.295 ॥
सर्वलोकस्य रक्षार्थं कारयेल्लक्षणान्वितम्।
रक्षः पिशाचभूतानां शाशनं धान्यवर्धनम् ॥ 5.296 ॥
श्रीसौभाग्याभिवृद्धिश्च भवेत्पीठे कृते नृणाम्।
प्रमुखे पृष्ठतो वाऽपि कारयेद्यत्र यत्र हि ॥ 5.297 ॥
(तत्र तत्र च संस्थाप्य तत्र तत्र समर्चयेत्।
शिल्पशास्त्रोक्तमार्गेण कुर्यात्पीठं सलक्षणम्।
अष्टाक्षं षोडशदलमथवा कारयेद्बुधः।
कुर्वीतचतुरश्रं वा वृत्तं वाऽपि च कारयेत् ॥ 5.298 ॥
(द्वारं समुदितं तस्य तव्द्दारमुखमुच्यते।
एवञ्च त्रिविधं कुर्याद्भूतपीठस्य तक्षणम्) ॥
अथवा कारयेद्विद्वान् विमानस्यानुरूपकम्।
आयामं च विमानस्य पञ्चधा विभजेत्पुनः ॥ 5.299 ॥
द्व्यंशं पीठस्य विस्तारं त्र्यांशकं वाऽपि कारयेत्।
(1)चतुर्धाशं तु कृत्वा तु प्रासादस्यानुरूपकम् (1.) ख.चतुर्थाशन्तु कृत्वा तु प्रासादस्य बहिःकृतम्। विंशद्भागं चतुर्विशद्भागं चैवं प्रकल्पयेत्। षङ्विंशतिविभागं वा द्वात्रिंशद्वाऽपि कारयेत् इति पाठो भिद्यते. ॥ 5.300 ॥
व्द्यंशकं यत्र कुर्वीत भागं षङ्विंशदासचरेत्।
चतुर्धाशंन्तु यत्रैव द्वात्रिंशद्भागमुच्यते ॥ 5.309 ॥
पूर्वोक्तेन विधानेन भागं भागेन योजयेत्।
नित्यनृत्तं च यत्र स्याद्गोपुरात्प्रमुखेऽपि च ॥ 5.302 ॥
गोपुरस्यैव पार्श्वे तु दक्षिणोत्तरतः क्रमात्।
सूत्रं कृत्वा तु यत्रैव गृहभागं विभज्य च ॥ 5.303 ॥
वीथिं दक्षिणतः कुर्यात्सूत्रस्यैव तु दक्षिणे।
पीठस्योत्तरतः कुर्यात्सूत्रस्यैव तथोत्तरे ॥ 5.304 ॥
चतुर्दण्डं समारभ्य यावद्विस्तारसंयुतम्।
गृहभागं विभज्यैव देवदासीश्च कल्पयेत् (?) ॥ 5.305 ॥
अन्तर्वीथ्यान्तु यत्रैव मध्यसूत्रं तु मध्यतः।
पूर्वोक्तेन विधानेन पीठं कुर्याद्विचक्षणः ॥ 5.306 ॥
इन्द्रादिषु चतुर्दिक्षु भूतरूपं प्रकल्पयेत्।
शङ्खनादसमायुक्तं पञ्चतालेन कारयेत् ॥ 5.307 ॥
तन्मध्ये चाधिरूढस्स्यात् दण्डपाणिर्बहिर्मुखः।
महाभूतस्य तद्रूपं जत्रोरूर्ध्वं सितेतरम् ॥ 5.308 ॥
जत्रोरधो रक्तवर्ण रुक्माभोरुयुगं तथा।
जान्वोरधस्तथा श्वेतमेवं वर्णसमन्वितम् ॥ 5.309 ॥
विरजेशो भूतकेतु र्महाचातकवाहनः।
ज्येष्ठे मासि धनिष्ठायां जातस्तोकोऽस्य शैषिकः ॥ 5.310 ॥
सर्वेषां परिवाराणां ध्रुवकौतुकसंयुतम्।
उत्तमं चैकबेरन्तु मध्यमं समुदाहृतम् ॥ 5.311 ॥
भागतालोन्नताभिस्तु वेदिभिस्तिसृभिर्युतम्।
हस्तविस्तारसंयुक्तं पीठं कृत्वा तु तत्र वै ॥ 5.312 ॥
अर्चनं त्वधमं प्रोक्तं पीठं चेदालयाश्रयम् ॥ 5.313 ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
क्रियाधिकारे परिवारलक्षण्?ाबलिपीठविधिर्नाम पञ्चमोऽध्यायः
(1.) ख. ई. (7 अध्यायः)