तृतीयोऽध्यायः ॐ तृतीयोऽध्यायः विमानविधिः अतः परं प्रवक्ष्यामि विमानविधिमुत्तमम्। मूलालयादथैशान्यां सौम्ये वायव्य एव ता ॥ 3.1 ॥ प्रथमतरुणालयः बालालयं प्रकल्प्यैव प्रतिष्ठाप्य च केशवम्। ततोऽर्चनमविच्छिन्नं कुर्वन् धाम प्रकल्पयेत् ॥ 3.2 ॥ उत्सवं कर्तुकामश्च प्रथमे तरुणालये। ध्वजं बालालयाग्रे तु समारोप्योत्सवं चरेत् ॥ 3.3 ॥ जलान्तं वा शिलान्तं वा खात्वा भूमिं समन्ततः। वालुकाभिः प्रपूर्यैव जलेन सहितं शनैः ॥ 3.4 ॥ मुसलैर्हस्तिपादैश्च दारुतुण्डैर्बृहत्तरैः। दृढीकृत्य तु सर्वत्र जलेनैव प्रपूरयेत् ॥ 3.5 ॥ प्राचीसाधनम् तत्र शङ्कुं प्रतिष्ठाप्य दिक्परिच्छेदमाचरेत्। तेन प्राचीं विनिश्चित्य शङ्कुना श्रवणेन वा ॥ 3.6 ॥ यथोक्तविधिना तत्र कृत्वा च प्रथमेष्टकाम्। आरभेत विमानं तु पञ्चहस्तादिभेदतः ॥ 3.7 ॥ मानलक्षणम् परमाणुरणूरेणुः केशा लिक्षास्तिला यवाः। क्रमादष्ठगुणैरेतैर्मानाङ्गुलमुदाहृतम् ॥ 3.8 ॥ स्वहस्तेनाष्टतालो यस्स वै मध्यमपूरुषः। तस्य दक्षिणहस्तस्य मध्यमाङ्गुलिमध्यमम् ॥ 3.9 ॥ पर्व दीर्घं ततं वाऽपि मात्राङ्गुलमुदाहृतम्। मानमात्राङ्गुले चैते उत्तमे परिकीर्तिते ॥ 3.10 ॥ तदष्टांशैकहीनं तु मध्यमं परिकीर्तितम्। सप्तांशैकविहीनं तु कनिष्ठाङ्गुलमीरितम् ॥ 3.11 ॥ चतुर्विशत्यङ्गलिभिः हस्तः किष्कुरिति स्मृतः। अङ्गुलैः पञ्चविंशाद्भिः प्राजापत्य उदाहृतः ॥ 3.12 ॥ षड्विंशद्भिर्धनुर्मुष्टिः सप्तविंशैर्धनुर्ग्रहः। भूमेर्देवालयादीनां मानं मानाङ्गुलेन वै ॥ 3.13 ॥ गृहं शय्याऽऽसनं यानं पात्रमायुधमेव च। इध्मस्रुक्स्रुवजुह्वादीन् कुर्यान्मात्राङ्गुलेन वै ॥ 3.14 ॥ भेदो मात्राङ्गुलस्यैव शाखाङ्गुलसमाह्वयः। मुष्टिमध्यप्रमेयः स्यात्सोऽग्निकुण्डादिकल्पने ॥ 3.15 ॥ तस्य मात्राङ्गुलस्यैव मध्यमाधमकल्पने। पञ्चहस्तादहीनं तु विमानं परिकल्पयेत् ॥ 3.16 ॥ विस्तारद्विगुणोत्सेधं कल्पयेत्तु विधानवित्। एकांशकं तदष्टांशं दशमं च गलान्तकाः ॥ 3.17 ॥ अंशकौ पादशिखरौ कल्पयेच्छिल्पिनाऽऽलयम्। गण्यालंकारभेदादि वासाधिकरणोक्तवत् ॥ 3.18 ॥ गर्भन्यासोक्तमार्गेण गर्भन्यासं समाचरेत्। समाप्ते तु विमाने तु पुनर्मूर्धेष्टकां न्यसेत् ॥ 3.19 ॥ ध्रुवबेरकल्पनप्रकारः शूलस्थापनमार्गेण शूलं वा शैलमेव वा। संस्थाप्?य च यथामार्गं ध्रुवबेरं प्रकल्पयेत् ॥ 3.20 ॥ ध्रुवबेरानुरूपञ्च कौतुकं परिकल्पयेत्। प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ॥ 3.21 ॥ सद्यश्चेत्त्वरितः कर्तु शरीरानित्यतादिना। लौहं वा दारवं वापि बिम्बमर्चितमेव(1) वा (1.) याचितमेव, ॥ 3.22 ॥ यागशालां प्रकल्प्यैव पञ्चग्नीन्परिकल्प्य च। बालालयप्रतिष्ठार्थमाचार्यं परिकल्प्य च ॥ 3.23 ॥ बालालयप्रतिष्ठार्थमिष्टकार्थं तथैव च। शूलसंस्थापनार्थ च कल्पयेदृत्विजः पृथक् ॥ 3.24 ॥ सम्भृत्य सर्वसम्भारांस्तथा शूलांस्तथेष्टकाः। पूर्वरात्रौ विशेषेण कृत्वा सद्योऽङ्कुरार्पणम् ॥ 3.25 ॥ क्रमाच्च गार्हपत्यादिकुण्डेष्वाघारमाचरेत्। कृत्वा जङ्गुमबेरस्य नेत्रोन्मेषाधिवासने ॥ 3.26 ॥ कुम्भं संसाध्य विधिना सप्तभिः कलशैः पुनः। सोपस्नानैश्च संस्नाप्य कुम्भं (2)चापि प्रपूजयेत् (2.) प्रोक्षयेत्तथा ई ॥ 3.27 ॥ तत्कुम्भोदिततीर्थैश्च विधिना प्रोक्षणादनु। (बद्ध्वा प्रतिसरं तद्वच्छयने शाययेत्तथा) हौत्रं प्रशंस्य चाऽवाह्य निरुप्याज्याऽहुतीर्यजेत् ॥ 3.28 ॥ बालालयप्रतिष्ठोक्तहोमं पूर्वं जुहोति च। इष्टका वा शिला वाऽथ स्नापयेत्कलशैस्तथा ॥ 3.29 ॥ इष्टकाश्च पृथग्वेद्यामधिवास्य यथाविधि। प्रोक्तं यथेष्टकान्यासे तथा होमं समापयेत् ॥ 3.30 ॥ शूलं वा शैलबेरं वा स्नापयेत्कलशैस्तथा। बध्द्वा प्रतिसरं तद्वच्छयने शाययेत्पृथक् ॥ 3.39 ॥ नृत्तैर्गीतैश्च वाद्यैश्च रात्रिशेषं निनीय च। प्रातस्स्नात्वा विधानेन (सूक्तानि च जपेत्तथा ॥ 3.32 ॥ मुहूर्ते समनुप्राप्ते) पूर्वं भूमिं परीक्ष्य च। कर्षयित्वा समास्तीर्य तृणं गोभ्यो निवेद्य च ॥ 3.33 ॥ बालालये प्रतिष्ठाप्य पुनराद्येष्टकां न्यसेत्। (नित्यपूजामविच्छिन्नां तत्र सम्यक्प्रकल्पयेत्) गर्भगेहं विनिश्चित्य तद्घनं द्दढकुट्टिमम् ॥ 3.34 ॥ अधिष्ठानावसानान्तं कल्पयित्वा तु तत्र वै। शूलं वा शैलबेरं वा स्थापयेत्पूर्वत्सुधीः ॥ 3.35 ॥ परितः पञ्जरो कृत्वा विमानं कल्पयेद्वहिः। अथवा यागशालायां मध्ये देदीः पृथक्पृथक् ॥ 3.36 ॥ बालालयेष्टकाशूलस्थापनार्थं तथैव च। तस्य तस्य मुखे सभ्यं कुण्डं कृत्वा पृथक्पृथक् ॥ 3.37 ॥ कुम्भं संसाध्य संस्नाप्य हुत्वा संस्थापयेत्क्रमात्। एवं कर्तुमशक्तश्चेद्ध्रुवबेरं च कौतुकम् ॥ 3.38 ॥ शैलं ध्रुवार्चाबेरं वा प्रतिष्ठाप्य समर्चयेत्। ब्राह्मादिपैशाचान्तेषु योगादीन् निक्षिपेत्क्रमात् ॥ 3.39 ॥ सर्वाङ्गसुन्दरं बेरं कृत्वा चोक्तप्रकारतः। अक्ष्युन्मेषाधिवासौ च कारयित्वा यथाविधि ॥ 3.40 ॥ शूलस्थापनमार्गेण पूर्वं संस्थाप्य शिल्पिना। महाप्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत् ॥ 3.41 ॥ (1.) कुण्डलितं आ. न दृश्यते। एकबेरप्रतिष्ठां च सद्यः कर्तुं यदीच्छति। पूर्वोक्तेनैव मार्गेण रात्रौ होमं समाप्य च ॥ 3.42 ॥ प्रातर्भूमिं परीक्ष्यैव कर्षयित्वा तथा भुवम्। घनभित्तिं च कृत्वा तु तत्र संकल्पयेत्पुनः ॥ 3.43 ॥ पञ्जरं परितः कृत्वा विमानं कल्पयेद्वहिः। (ब्रह्मस्थानप्रतिष्ठा चेद्वर्णयुक्तं न कारयेत्) दैविके मानुषे चैव स्थापयेच्चेद्विशेषतः वर्णयुक्तं यदीच्छेच्चेच्छर्करादिक्रमाच्चरेत् कौतुकं पूर्ववत्कृत्वा प्रतिष्ठां पुनराचरेत् एवमेव कृतं यत्तद्राजराष्ट्रविवर्धनम् तस्मात्सर्वप्रयत्नेन शर्करादीन्क्रमाच्चरेत्) विमानसमविस्तारमंग्रमण्डपमुत्तमम् ॥ 3.44 ॥ (1)तदर्धं मध्यमं प्रोक्तं व्द्यन्तरेऽष्टांशभाजिते। एकैकांशाधिकं चैव नवधा मुखमण्डपम् (1.) तदर्धमघमं. ई. ॥ 3.45 ॥ (2)त्रयाणामुत्तमादीनामन्तरालं प्रकल्पयेत्। मण्डपं तत्र(3) वर्गाढ्यं कल्पयित्वा यथाविधि (2.) षण्?णां चैव. ई. (3.) त्रिवर्गाढ़्यं. ई. ॥ 3.46 ॥ विमानसमविस्तारं प्रथमावरणं स्मृतम्। पुरस्ताद्दिवगुणं तस्मादग्रमण्डपपूर्वतः ॥ 3.47 ॥ द्विगुणं चश्चिमं केचिदिच्छन्ति मुनिसत्तमाः। विमानद्वारदिग्द्वारं प्रथमावरणं स्मृतम् ॥ 3.48 ॥ अन्यथा यदि कुर्वीत राजा राष्ट्रं विनश्यति। ग्रामस्य यजमानस्य महती च विपद्भवेत् ॥ 3.49 ॥ तस्मात्सर्वप्रपत्नेन प्रथमावरणक्रमम्। विमानद्वारदिग्द्वारं प्रासादार्धसमुच्छ्रयम् ॥ 3.50 ॥ अवकाशवशाद्दवारं द्वितीयावरणादिषु। विमानगर्भगेहस्य स्नापनस्यालयस्य च ॥ 3.51 ॥ तथैव यागशालायाः प्राकारेषु महानसे। द्वारमन्तर्मुखं विद्यादन्येषां तु बहिर्मुखम् ॥ 3.52 ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे भूपरीक्षादिप्रतिष्ठोक्तसर्वकर्मणां सद्योविधिर्नाम (1.) (4 अध्यायः। ई) तृतीयोऽध्यायः ॥ श्रीविखनसे नमः