02 द्वितीयोऽध्यायः

द्वितीयोऽध्यायः


द्वितीयोऽध्यायः
भूपरीक्षा
अङ्कुरार्पणकादूर्ध्व भूमिं सम्यक्परीक्षयेत्।
यजमानगृहे देवं सप्तविंशतिविग्रहैः ॥ 2.1 ॥
पूजयित्वा जपन्नग्रे ‘प्रियतां भगवा’ निति।
प्रणम्य देवदेवेशं ‘प्रसी’ देत्यनुमान्य च ॥ 2.2 ॥
वर्णजां कन्यकामेकामलङ्कत्य यथोचितम्।
पायसं प्राशयित्वा तां श्वेतवस्त्रानुलेपनाम् ॥ 2.3 ॥
पद्मदीपकरामग्रे गमयेत्सर्वमङ्गलैः।
शाकुनं सूक्तमुच्चार्य स्वस्तिसूक्तं समुच्चरन् ॥ 2.4 ॥
आचार्यो यजमानश्च तोयधारापुरस्सरम्।
गत्वा भूमिं समुद्दिष्टामारूढतरुजन्तुभिः ॥ 2.5 ॥
गन्धवर्णाकृतिरसैश्शकुनैश्च यथाविधि।
सम्यक्परीक्ष्य पृथिवीं भूसूक्तं भूमिदैवतम् ॥ 2.6 ॥
जपन् भूमिं गृहीत्वा तु शोभनां दोषवर्जिताम्।
‘अपक्रामन्तु भूतानि देवताश्चासुरादयः ॥ 2.7 ॥
विमानार्थं गृहीतेयं भूमिर्विष्णो’ रिति ब्रुवन्।
उद्वास्य देवतास्सर्वा भूमिं तत्र समर्चयेत् ॥ 2.8 ॥
विमानं शिल्पिना सार्धमग्रमण्डपसंयुतम्।
निश्चित्याऽवरणैर्युक्तं तृणगुल्मानि शोधयेत् ॥ 2.9 ॥
आचार्यवरणम्
भूमिः परीक्षिता येन गुरुणा विधिपूर्वकम्।
कर्षणादि प्रतिष्ठान्ते कर्म तेनैव कारयेत् ॥ 2.10 ॥
तदभावे तु तत्पुत्रं पौत्रं नप्तारमेव वा।
तथैव भ्रातरं शिष्यं प्रशिष्यं गुरुमेव वा ॥ 2.11 ॥
सब्रह्मचारिणं वापि पूर्वाभावे तथोत्तरम्।
तदनुज्ञातमन्यं वा आचार्यार्थं नियोजयेत् ॥ 2.12 ॥
अन्यथा चेन्महादोषो राजा राष्ट्रं विनश्यति।
क्षीयन्ते वर्णधर्माश्च जायते वर्णसंकरः ॥ 2.13 ॥
अग्नयश्च न सिद्ध्यन्ति स्वाध्यायो न प्रवर्तते।
विपरीतानि चान्यानि भविष्यत्यधरोत्तरम् ॥ 2.14 ॥
तस्मात्सर्वप्रत्नेन प्रायश्चित्तं खिलोक्तवत्।
कारयित्वा च तेनैव सर्वकर्माणि कारयेत् ॥ 2.15 ॥
सर्वत्र गुरुरित्युक्तः तत्तत्स्थानप्रवर्तकः।
सकथञ्चिदयुक्तश्चेद्मुक्तेनान्येन कारयेत् ॥ 2.16 ॥
तत्कर्मणोऽवसाने तु तस्मै दद्‌याच्च दक्षिणाम्।
स्थानाचार्यः प्रधानः स्यात्तन्नियुक्तोऽन्य एव वा ॥ 2.17 ॥
आचरेत्सर्वकर्माणि तद्वंशजनितोऽपि वा।
शिल्पिलक्षणम्
शिल्पिनस्त्रिविधाः प्रोक्तास्तत्तत्कर्मोपजीविनः ॥ 2.18 ॥
कुलालस्तक्षकश्चैव तथा पारशवस्त्विति।
त्रैवस्तुकानि वेराणि शैलोर्ध्वे चित्रकर्म च ॥ 2.19 ॥
सुधाकर्म विमानोर्ध्वे भित्तौ चित्रक्रियादिकम्।
एवं कुलालकः कुर्यान्मठाद्‌याभसकर्म यत् ॥ 2.20 ॥
तत्तु पारशवः कुर्यात्तक्षकस्सर्वमेव तत्।
लोहाश्मदारूबेराणि चाष्टबन्धादिकां क्रियाम् ॥ 2.21 ॥
ग्रामादिवास्तुविन्यासं वर्णिनां गृहकर्मं च।
प्रासादमण्डपद्वारप्राकाराणां च कल्पनम् ॥ 2.22 ॥
आचरेत्तक्षकस्सर्व कुर्युश्शिल्पिन एव तत्।
अन्यथा यदि स ग्रामो राजा राष्ट्रं च नश्यति(1) (1.) आद्यप्रभृति 23. श्लोकाएते आ, कोशसमुदाये न पठ्यन्ते, द्वितीयाध्यायारम्भश्चेतः पश्चात् दृश्यते। ॥ 2.23 ॥
कर्षणम्
अतः परं प्रवक्ष्यामि परं कर्षणलक्षणम्।
(उक्तेष्विष्टदिने शुद्धे कर्तुश्चाप्यनुकूलके) ॥ 2.24 ॥
षट्स्वाषाढादिमासेषु कर्षणं सम्यगाचरेत्।
युगलाङ्गलक्लृप्त्यर्थमुक्तवृक्षं समाहरेत् ॥ 2.25 ॥
संशोध्य वृक्षमूलं च गोमयेनोपलिप्य च।
रुद्रभूतेन्द्रकीनाशान् मातॄस्सोमं च वीरकम् ॥ 2.26 ॥
अष्टोपचारैरभ्यर्च्य बलिं दत्वा च तद्वने।
रुद्रेन्द्रयमवृक्षेन्द्रान्वृक्षमूले तथाऽर्चयेत् ॥ 2.27 ॥
वनस्पतिभ्य इत्युक्त्वा कुमारीभ्य उदीर्य च।
वृक्षराजेभ्य इत्युक्त्वा परितश्च बलिं ददेत् ॥ 2.28 ॥
सर्वकामप्रदेभ्यश्च पश्चाद्धोमं समाचरेत्।
अग्नये वनराजाय सोमायं च (2)यमाय च (2.) जयाय. आ. ॥ 2.29 ॥
(3)शाखाय स्थूललाक्षाय (4)व्याधाय मृगरूपिणे।
वनस्पतिभ्यः कुमारीभ्यो वल्लीभ्यः कुसुमाय च (3.) शङ्खय. आ. (4.) वायवे. आ.
॥ 2.30 ॥शलाटवे बृहत्त्वचे पुण्यायामृततेजस।
(5)सूर्याय हरिरूपाय श्रृङ्गिणे भूतरूपिणे (5.) सूर्यरूपाय. आ. ॥ 2.31 ॥
नागहस्ताय दिव्याय त्रिहस्ताय तथैव च।
विघ्नाय विध्नरूपाय विनायकमुदीर्य च ॥ 2.32 ॥
(1)प्रसारिणे मुरुण्डाय (2)न्यर्णायेति समुच्चरन्।
नागेभ्यो भूतराजेभ्यश्चारणेभ्य इति ब्रुवन् (1.) प्रासारिणे. आ. (2.) अग्रये. आ.
॥ 2.33 ॥
दिवा नक्तंचेरभ्यश्च (3)संध्याभ्यश्च तथैव च।
सन्ध्याचरेभ्य इत्युक्त्वा अप्सरोभ्यस्तथैव च (3.) सन्धिभ्य. आ. ॥ 2.34 ॥
यक्षीभ्यश्च कुमारीभ्योऽध्यासुरीभ्यस्तथैव च।
राक्षसीभ्यः पिशाचेभ्यो वनाय स्थलचारिणे ॥ 2.35 ॥
जुहुयाद्वृक्षदेवेभ्यः स्थानदेवेभ्य एव च।
रूपिभ्यो मिथुनेभ्यश्च सुखेभ्यश्च जुहोति च ॥ 2.36 ॥
व्याहतीश्च तथा हुत्वा ‘निर्दग्ध’ मिति चोच्चरन्।
पर्यग्निकरणं कृत्वा वृक्षस्य च पुनर्यतेत् ॥ 2.37 ॥
सर्वेश्वराय मातृभ्यो वक्रतुण्डाय मूर्तिभिः।
हुत्वा मातृस्तथा सोमं वक्रतुण्डं च पूजयेत् ॥ 2.38 ॥
पुण्याहं वाचयित्वा तु बध्द्वा प्रतिसरं तथा।
रात्रिशेषं ततो नीत्वा प्रातस्स्नात्वा यथाविधि ॥ 2.39 ॥
छेदयित्वा तरुं सम्यग्युगादीन्परिकल्पयेत्।
लक्षणं तु युगादीनां खिलोक्तविधिना चरेत् ॥ 2.40 ॥
प्राच्यामुदीच्यां वा स्थित्वा प्रागादिषु सुविन्यसेत्।
बलिं दत्वा समाहृत्य गन्धोदैरभिषिच्य च ॥ 2.41 ॥
देवदेवं समभ्यर्चेत् सप्तविंशतिविग्रहैः।
चतुर्विशतिमायामं चतुरश्रं सुलक्षणम् ॥ 2.42 ॥
षडङ्गुलसमुत्सेधं रत्निमात्रं त्रिमेखलम्।
अन्यत्रापि समुद्दिष्टं पीठमेवं तथार्चने ॥ 2.43 ॥
देवेभ्यश्चापि भूतेभ्यो नागयक्षेभ्य एव च।
पिशाचेभ्यर्स्वभूतेभ्यो राक्षसेभ्यस्तथैव च ॥ 2.44 ॥
वैरोचनगणेभ्यश्च परितो निक्षिपेद्वलिम्।
मध्ये नागबलिं दत्वा कृत्वा पुण्याहमत्वरः ॥ 2.45 ॥
बलीवर्दावलङ्कत्य रूप्यशृङ्गखुरौ शुभौ।
दक्षिणे पूर्वपादे तु बध्नीयात्कौतुकं तयोः ॥ 2.46 ॥
रात्रिशेषं निनीयैव प्रातः स्नात्वा विधानतः।
तस्य पश्चिमदेशे तं देवदेवं समर्चयेत् ॥ 2.47 ॥
चक्रवीशामितैस्सार्धमभ्यर्च्याऽचमनान्तकैः।
‘प्रियतां मेदि’ नीत्युक्तवा पञ्चभिर्भूमिदैवतैः ॥ 2.48 ॥
प्रणम्य भूमिं देवेशं प्रणम्यैवानुमान्य च।
‘नमो वरुण’ इत्यद्भिः कृत्वा सीमाविनिर्णयम् ॥ 2.49 ॥
‘अक्षैर्मादीव्य’ इत्युक्त्वा प्रोक्षयेत्कर्षकं पुनः।
दक्षिणे ‘त्वं वृषे त्युक्त्वा ‘सौरभेये’ ति वामतः ॥ 2.50 ॥
कुशरज्ज्वा युगे बध्द्वा ‘युगं यु’ इति ब्रुवन्।
युगे त्नाङ्गलमाबद्ध्य कुशरज्ज्वा स्मरन् हरिम् ॥ 2.51 ॥
‘षिं गृहणामि’ मन्त्रेण गृहणीयादृषिमत्वारः।
‘विष्णुर्मा’ मुच्चरन् मन्त्रमात्मरक्षां प्रकल्प्य च ॥ 2.52 ॥
‘येऽस्मिन्देशे’ इति जपन् कर्षणं तत्र कारयेत्।
सवर्ववीजानि चाऽहृत्य ‘इमे बीजा,’ इति स्पृशन् ॥ 2.53 ॥
‘देवि त्व’ यीति मन्त्रेण प्रदक्षिणवशेन तु।
(1)उप्त्वा तु सर्वबीजानि जलसेकं च कारयेत् (1.) क्षिप्त्वा, इ. ॥ 2.54 ॥
(2)दक्षिणोक्तविधानेन दद्यादाचार्यदक्षिणाम्।
सद्यःकर्षण्
एवं कर्तुमशक्तश्च सद्यः कुर्यात्त्वरान्वितः (2.) रक्षां सम्यग्विधायैव। इ. ॥ 2.55 ॥
भूमिं परीक्ष्य सद्यस्तु कर्षयित्वा यथाविधि।
बीजानि च समाहृत्य ब्राह्मणेभ्यः प्रदाय च ॥ 2.56 ॥
तृणपूजलं पलालं वा समास्तीर्य च सर्वतः।
गोगणांस्तत्र चानीय गोगणेभ्यो निवेदयेत् ॥ 2.57 ॥
‘भुञ्जन्तु देवा’ इत्युक्त्वा बलिं तत्र समर्पयेत्।
देवायार्ध्यं निवेद्यैव प्रणम्यैवानुमान्य च ॥ 2.58 ॥
पदकत्पनम्
एकाशीतिपदं कृत्वा सम्पूज्य पददेवाताः।
गर्भालयं समुद्दिश्य उपपीठपदं नयेत् ॥ 2.59 ॥
नागादि पञ्चभूतान्तं पञ्च पञ्च पदाभिपाः।
प्रागुदक्पञ्चसूत्रस्थास्सन्धिस्था देवता इमाः ॥ 2.60 ॥
शेषादीन् बहिरभ्यर्च्य पश्चिमादि वहिर्मुखान्।
कुस्तुरुण्डादयः पुज्या आग्नेयादि प्रदक्षिणम् ॥ 2.61 ॥
(प्रागुदग्वेदसूत्रस्थाः पदे पूज्या विशेषतः)
किष्किन्धादि हितान्ताश्च मध्ये प्रागादि दिक्ष्वपि।
अङ्कणे तु समभ्यर्च्य सक्त्वपूपैर्बलिं ददेत् ॥ 2.62 ॥
पिशाचेभ्यश्च भूतेभ्यो बलिं दत्वा जलान्वितम्।
ब्रह्मपद्मविधिं कृत्वा परीक्ष्य च शुभाशुभे ॥ 2.63 ॥
अशुभे शान्तिहोमान्ते शुभे कर्म सामाचेरत्।
ग्रामकल्पनम्
ग्राममानं विनिश्चित्य कृत्वाऽऽयादिपरीक्षणम् ॥ 2.64 ॥
प्रागुत्तराननैस्सूत्रैर्दशभिस्सप्तभिर्युतैः।
पदं कृत्वा विधानेन चतुष्षष्टिं चतुर्गुणम् ॥ 2.65 ॥
त्यक्त्वा ब्राह्मं च पैशाचं विप्रावासं प्रकल्पयेत्।
ब्राह्मे वायव्यभागे तु प्राङ्गुखं विष्णुमन्दिरम् ॥ 2.66 ॥
ईशानानलनीलेषु सभागोष्ठापणान् क्रमात्।
पश्चिमे यदि कुर्याच्चेद्ब्रह्मसूत्रात्तथोत्तरे ॥ 2.67 ॥
विसृज्य भागं पैशाचं बहिरन्तरथापि वा।
विमानं प्राङ्मुखं कुर्यादिति पूर्वजशासनम् ॥ 2.68 ॥
यदि पैशाचभागस्थं देवदेवस्य मन्दिरम्।
आधिव्याध्यादिभिस्सर्वे पीड्यन्ते वास्तुवासिनः ॥ 2.69 ॥
चतुष्षष्टिविभागे तु बहिरावरणे तथा।
भद्रकालीं हरं चापि शास्तारं बहिरंशके ॥ 2.70 ॥
बहिर्मुखान् क्रमात्कुर्यात्सर्वेऽन्ये तद्वहिः स्थिताः।
मानुषेऽभ्यन्तरेऽर्धांशे गृहश्रेणीं प्रकल्प्य च ॥ 2.71 ॥
(पैशाचे बहिरर्धे तु गृहवाटीं प्रकल्य च)
पैशाचे बहिरर्धेतु गृहनाडीं प्रकल्पयेत्।
एवं देशं विनिश्चित्य विमानं परिकल्पयेत् ॥ 2.72 ॥
इत्यार्षे श्रीवैखानसं भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
क्रियाधिकारे
कर्षणादिपदविन्यासविधिर्नाम
द्वितीयोऽध्यायः(1) (1. 3 अध्यायः ई.) ॥
श्रीविखनसे नमः ॥