एकोनत्रिंशोऽध्यायः ॐ एकोनत्रिंशोऽध्यायः महाशान्तिविधिः अतः परं प्रवक्ष्यामि महाशान्तिविधिं परम्। सर्वदोषोपशमनं सर्वव्याधिभयापहम् ॥ 29.1 ॥ सर्वाभीष्टप्रदं श्रेष्ठं सर्वाशुभविनाशनम्। आयुरारोग्यदं कर्तुः शान्तिपुष्टिसुखप्रदम् ॥ 29.2 ॥ महादोषेषु सर्वत्र महाशान्तिर्विधीयते। आलयाभिमुखे कुर्यात्पौण्डरीकं सलक्षणम् ॥ 29.3 ॥ दक्षिणस्यामथाग्नेय्यां पचनालय एव वा। अलङ्कत्य चतुर्दिक्षु पूर्णकुम्भाङ्कुरध्वजैः ॥ 29.4 ॥ कदलीक्रमुकैश्चैव मुक्तादामावलम्बनैः। मासं पक्षञ्च सप्ताहं त्रिदिनन्तु वा ॥ 29.5 ॥ एकाहं वाऽथ सङ्कल्प्य दोषाणां गुरुलाघवम्। ज्ञात्वा तदनुरूपाणि दिनानि जुहुयात्क्रमात् ॥ 29.6 ॥ आघारान्ते सुहोतव्ये सूक्ते वैष्णवपौरुषे। रुद्रसूक्तं ततो हुत्वा धातादीन् जुहुयात्क्रमात् ॥ 29.7 ॥ ‘नमो वाचे’ समुच्चार्य ‘शन्नो वात’ इतीर्य च। नारायणाय विद्मे’ ति तथा षड्भिश्च वैष्णवैः ॥ 29.8 ॥ आज्येन साज्यचरुणा समिधा च घृताऽक्तया। सक्तुलाजितिलापूपैः घृतमिश्रैर्यथाक्रमम् ॥ 29.9 ॥ संस्नाप्य कलशैर्देवं समभ्यर्च्य निवेदयेत्। त्रिकालमुत्तमो होमो रात्रिहीनश्च मध्यमः ॥ 29.10 ॥ सायंप्रताश्चे हीनश्चेदधमः परिकीर्तितः। पूर्वोक्तसर्वद्रव्यौश्चाप्युत्तमे जुहुयाद्बुधः ॥ 29.11 ॥ आज्येन साज्यचरुणा मध्यमे जुहुयात्क्रमात्। अधमे केवलाज्येन प्रतर्मध्याह्र एव वा ॥ 29.12 ॥ उत्तमे स्नपनं नित्यं मध्यमे केवलार्चनम्। अधमे केवलं होम इति प्रोवाच पूर्वजः ॥ 29.13 ॥ रक्षेदग्निमविच्छिन्नं यावत्कर्मावसानकम्। अन्तहोमं समाप्तौ च कृत्वा विप्राश्च भोजयेत् ॥ 29.14 ॥ अतिशान्तिः दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ। यद्देवादियुतत्वे तु अतिशान्तिरिति स्मृता ॥ 29.15 ॥ अद्भतशानितः सामान्यशान्तिः नवग्रहाधिदैवत्यैर्युक्ता चेदभुताऽह्वया। सामान्यशान्तिरित्युक्ता युक्ता सा चेज्जयादिभिः ॥ 29.16 ॥ उत्पातशान्तिः द्वादशाष्टाक्षराभ्याञ्च शताहुतिरथापि वा। उत्पतशान्तिरित्युक्ता तथा विष्णोर्नुकादिभिः ॥ 29.17 ॥ शान्तिः महाशान्तिः अथवा शान्तिरित्युक्ता केवलं वैष्णवं शतम्। महाशान्तरिति प्रोक्ता यद्देवादिसमन्विता ॥ 29.18 ॥ इति षट्च्छान्तयः प्रोक्ताः सर्वदोषोपशोशषणाः। अल्पदोषे यजेच्छान्तिं सर्वत्रापि च वैष्णवैः ॥ 29.19 ॥ मिन्दाहुती च विच्छिन्नं गायत्रीं वैष्णावीं पुनः। ‘शन्नो मित्र’ इतीत्युक्त्वा तथा विष्णोर्नुकादिभिः ॥ 29.20 ॥ अष्ठाशीतिः (1)(अष्टाशीतिं प्रवक्ष्यामि व्श्णिवे इति चोच्चरन्) विष्णवे स्वस्तिदायेति तथा सर्वेश्वराय च। विष्णवे सर्वगोप्त्रे च तथा सर्वात्मनेऽपि च (1.) अष्टाशीति प्रवक्षामि अष्टाशीत्याहुतीर्यजेत्। इत्येव मन्त्रप्रयोगक्रम्न दृश्यते आ. कोशेषु. ॥ सर्वदेवात्मने चेति सर्ववेदात्मने तथा। मुनीनामात्मने चेति योगसन्धारणाय च ॥ तथा सर्वप्रतिष्ठाय विष्णुशब्दादयो दश। विष्णुशब्देन तत्र स्यात्प्रयुक्तं सर्वमत्र तु ॥ नारायणाय च तथा तदाद्येनात्मने पुनः। सर्वदेवात्मने तद्वदिन्द्ररूपाय वै तथा ॥ संयमनाधिपतये सम्भोगपतये तथा। सर्वतृप्तिप्रदायेति (1)अनन्तात्मने च क्रमात् (1.) सर्वानन्दाय ख. ॥ (ब्रह्मेशानात्मने चेति प्रजापय इत्यपि)। अनन्तशयनायेति दश नारायणादयः ॥ पुण्यनारायणायेति त्रिदशाधिपतये तथा। (वटपत्रशायिने)(?) चेति तथा वटाक्षवासिने ॥ तथा पादार्चिषे चेति बालरूपाय वै पुनः। मायारूपिण इत्युक्त्वा प्रबोधिन इति ब्रुवन् ॥ सर्वाधिष्ठानकायेति (2)सर्वप्रवरणाय च। (3)मूर्धस्थानायेति दश पुण्यनाराणादयः (2.) सर्वप्रकारकाय च ख. (3.) मोक्ष ख. ॥ बालाय बालरूपाय तथा वटपत्रशायिने। सत्याय सत्यनिष्ठाय तथा सत्यात्मने पुनः ॥ सत्यनित्याय चंत्युक्वा देवदेवमनुस्मरन्। सर्वे सत्यं हि सत्यस्य सत्ये सत्यं प्रतिष्ठितम् ॥ चतुर्थ्यन्तमनेनैव सर्वलोकप्रवर्तिने। तथा सत्यात्मदेवाय सत्यमोदाय वै पुनः ॥ सत्यसोपानकायेति देवदेवमनुस्मरन्। दश त्वं सत्ये सत्यात्मन् सत्यनिष्ठोद्भवाय च ॥ पुरुषाय तथा पुरुषसंस्तुतायेति च क्रमात्। पुरुषसमधीतायेति पुस्षनिष्दाय वै पुनः ॥ पुरुषात्मने वै पुरुषपुरुषायेति चोच्चरन्। जगन्मित्राय जगदाधाराय च ततः परम् ॥ जगत्प्रवर्तिने चेति (1)जगद्धेतवे चेत्यपि। चत्वारः पुरुषायेति विष्णुक्रीडात्मने पुनः (1.) जगद्धिताय ख. ॥ भूमिसङ्कीडात्मन इति जगन्मोदाय वै पुनः। जगद्धिताय चेत्युक्त्वा तथा निखुर्यपाय च ॥ काय कस्मै कतमस्मै सर्वस्मै विष्णवे तथा। विष्णवे च तथा ब्रूयात् मन्त्रसन्द्रुहणाय च ॥ ध्रुवरूपिणा इत्युक्त्वा संवृतात्मन इत्यपि। सम्प्रीतिकरायेति सर्वशुभप्रदाय च ॥ अशुभनाशनायेति शुभसम्बर्हणाय च। पुण्यायेति ततो हुत्वा पुण्यशब्दादयोऽपरे ॥ बलोर्जिताय हुत्वा तु देवदेवमनुस्मरन्। तथा जयसमृद्धाय कामान्दजननाय च ॥ सर्वानन्दाय चेत्युक्त्वा समृद्धाय ततः परम्। श्रीविधानाय चेत्युक्त्वा ब्रह्मसन्द्रुहणाय च ॥ वरस्थानाय चेत्युक्त्वा लोकसमृभावनाय च। अद्भुताय यजेत्पश्चादनादिनिधनाय च ॥ तथाऽमितमहिम्नेति तथाऽत्यन्तहिताय च। चतुर्थ्यन्तेन तेनैव सर्वप्रतिष्ठायेति च ॥ सर्वलोकप्रतिष्ठाय सर्वलोकशुभावहाय च। सर्वातृमन इति प्रोक्ता अष्टादश समीरिताः ॥ विष्णुर्नारायणश्चैव पुण्यनारायणस्तथा। पुण्यश्चेति चतुर्थ्यन्तान् व्यस्तानेव प्रयोजयेत् ॥ अथवा विष्णुगायत्र्या आष्टाशीत्याहुतीर्यजेत्। विष्णुगायत्रिया साकं यत्राष्टाशीतिरीरिता ॥ न तत्र विष्णुगायत्र्या त्वष्टाशीत्याहुतीर्यजेत्। अङ्गहोमः अङ्गहोमं ततो वक्ष्ये निबोधत तपोधनाः ॥ शिरसे च ततोऽक्षिभ्यां कर्णाभ्यामिति चोच्चरन्। नासिकाभ्यामथौष्ठाभ्यां दन्तेभ्यौ जुहुयाद्बुधः ॥ जिह्वायै कण्ठायोरसे बाहुभ्यामिति च क्रमात्। कोष्ठाभ्याञ्चैव पाणिभ्यां नखेभ्य उदराय च ॥ कटये च तथोरुभ्यां जङ्खाभृयामिपि हूयते। लोमभ्यां मकुटायेति शिरश्चक्राय चै पुनः ॥ शङ्खायैव च चक्राय गदायै च ततः परम्। शार्ङ्गायासय इत्युक्त्वा चाम्बरायेति हूयताम् ॥ भूषणेभ्यः प्रभायै च छत्राय च जुहोति वै। दद्भ्यःस्वाहादिभिर्मन्त्रैर्हुत्वा तत्तदनुस्मरन् ॥ मौलिमालादिहोमः मौलिमालायै दिव्याय चोत्तराय ततः ततपरम्। सर्वोत्तराय सर्वस्मै विष्णवे प्रभविष्णवे ॥ त्वं यज्ञपुरुषायेति प्रणवाय च विष्णवे। शिरसे जुहुयात्पश्चात्तथैव प्रभविष्णवे ॥ दिव्याय सुवहायेति काय कस्मै ततः परम्। तमेव विष्णवे चेति निखुर्यपाय चैव हि ॥ ध्रुवस्माय चेत्युक्त्वा ललाटाय च विष्णवे। भ्रूभ्यामन्तरिक्षायेति सप्राणात्मभूवे तथा ॥ श्रोत्राभ्यां सञ्जुहोत्यन्ते पक्षमभ्यामिति चोच्चरन्। सञ्जुहोत्यक्ष्यङ्गभ्यश्च अक्षिभ्यामिति दूयते ॥ तारकाभ्यामपाङ्गाभ्यां कुवलयाभ्यां तथैव च। युगाभ्याञ्च कपोलाभ्यां तत्तदङ्गमनुस्मरन् ॥ जुहोति नासिकायै च पुटाभ्यामिति तृष्णवे (?)। अण्डाभ्यामिति दन्तेभ्यः कोष्ठाभ्यामपि हूयते ॥ निम्नेभ्यश्चाधारोष्टाय जिह्वायै च ततः परम्। सुवक्त्रायै च जुहुयात्तालवे विष्णवे पुनः ॥ हनुभ्यां कर्णपालिभ्यां छत्राभ्या कीकसाय च ॥ ग्रीवायै कनकायेति सुप्रग्रीवाय वै तथा। कण्ठनालाय कण्ठाय कर्णनालाय हूयताम् ॥ द्यौः शिरसे च हुत्वा तु तथा द्यौरक्षकाय च। सर्वाधिष्ठानकायेति तथा प्राणाश्रयाय च ॥ केशेभ्यश्शिरसे चेति जुहुयात्पुण्यवासिने। आहुभ्यो दिक्प्रबन्धेभ्यस्सर्वक्षत्रार्णकाय च ॥ सर्वदेशशरीरेभ्यः सर्वप्राणलयाय च। सर्वदुःखवियोगेभ्यः ॥ चलेभ्यस्सर्वलोकानां दुःखत्राणेभ्य इत्यपि। कण्छाय कण्ठनालीभ्यः कन्दाय च ततः परम् ॥ पृष्ठाग्रुलकायैव बाहुभ्योऽष्टाभ्य इत्यपि। कीकसेभ्यः कोर्परेभ्य कनिष्ठाभ्यस्तथैव च। सर्वेभ्यश्च नखेभ्यश्च वर्तिनीभ्य इति ब्रुवन्। जत्रुभ्यां ताट्यदेशाय पार्श्वमूलेभ्य इत्यपि ॥ पार्श्वाभ्यामुरसे हुतृवा भल्लकाय ततः परम्। उरस्याय शिरस्याय बाहुमुक्ताय हूयाम् ॥ हृदयाय पुण्डरीकाय चित्ताय च ततः परम्। चित्तेभ्य आकूतायेति आकूतिभ्यश्च हूयताम् ॥ तर्काय तर्कवासिभ्यो मतये प्रबलाय च। कीकसे साक्षवासाभ्यः (?) सूर्याय विष्णुचक्षुषे ॥ वामाय सोमनेत्राय विष्णवे प्रबुधाय च। अतलायादिलायेति महाबीजाय महात्मने ॥ आत्मने चेति हुत्वा तु तथा सर्वात्मने बुधः। सर्वोदानाय लोकानां व्याप्तये तृप्तये तथा ॥ जुहोत्यप्रकृतिरूपाय समानाय यमाय च। सर्वस्य सामरुपाय जुहुयात्प्राणिबन्धने ॥ तत्तदङ्गमनुस्मृत्य शिरस्तस्तु जुहोति च। जुहोति रोमकूपेभ्यः आन्त्रायेति तथैव च ॥ आन्त्ररूपाय जुहुयादान्त्रसञ्चारणाय च। दिवसाय कण्ठनित्याय नित्यबन्धाय वै पुनः ॥ बन्धोब्दन्धनस्पाय स्तनाभ्या मन्दकाय च। मर्मभ्यश्च प्रमर्मभ्यः पार्श्वस्थधिषणाय च ॥ सम्पत्तिभ्यः कुमारीभ्यः पुण्डरीकाय वै पुनः। नाभये हृल्लसायेति नासायै चेति हूयताम् ॥ आर्द्राय वर्तितायेति जुहुयात्तमनुस्मरन्। अनिरुद्धाय दृषते वत्सलायेति हूयताम् ॥ तथा यकृत्प्लीहाभ्याञ्च मुकुन्दाय तथैव च। न्यस्तायेति वरायेति चोर्वराय ततः परम् ॥ तथैवोदरबन्धाय नाडीभ्यामिति चोच्चरन्। वासिभ्यश्चैव वस्तुभ्यो वस्तिमुष्काय वै पुनः ॥ प्रजनाय जनितृभ्यः श्रोणीभ्यामिति वै पुनः। ताटिकायै च वंशाय वंशधारिभ्य एव च ॥ प्रजापतय इत्युक्त्वा विष्णवे चेति हूयताम्। शुक्राय शुक्रवासिभ्यः ऊरुभ्यामिति चोच्चरन् ॥ सिराभ्यश्चास्थिबन्धेभ्यो मुखेभ्यश्चेति हूयते। त्वगास्थिभ्यश्च हुत्वा तु जुहुयाच्च ततः परम् ॥ रूप स्पेभ्य इत्युक्त्वा प्रसेभ्य उरसाय च। रक्ताय रक्तवासिभ्यो मेदसे च तथा पुनः ॥ जीवाय तास्तनञ्चव चास्थिमज्जाय (?) वै पुनः। जुहुयान्मज्जावासिभ्य उत्तमाङ्गाय वै पुनः ॥ धातवे चैव धातुभ्यः धातुरूपेभ्य इत्यपि। जुहुयादुपधातुभ्यः पार्श्वत्वच इति ब्रुवन् ॥ सर्वरूपया ग्रीवायै धनदाय धनात्मने। सर्वेश्वराय यज्ञाय पुरुषायेति हूयताम् ॥ यत्राङ्गहोमो विहितस्त्वक्षयुन्मेषादिकर्मसु। तत्रैवमेवं जुहुयादिति पूर्वजशासनम् ॥ सर्वस्य साम्यरूपाय स्वाहेत्यादि विवर्जितः। मध्यमे मौलिमालायै स्वाहादिरहिऽतोऽधमः ॥ अष्टाशीत्यङ्गहोमोक्ते स्वाहान्तैस्तु पृथक्पृथक्। मौलिमालादिहोमोक्ते स्वाहान्तैस्तु पृथक्पृथक्। मौलिमालादिहोमञ्च वदन्त्यन्येऽन्यथा बुधाः ॥ भ्रूभ्यामिति समारभ्य जुहुयाद्दोषशान्तये। इत्यन्तं सर्वसामान्यप्रायश्चित्तमितीरितम् ॥ मौलिमालायै दिव्याय रत्नायाथोत्तराय च। सर्वौत्तराय सर्वस्मै विष्णवै प्रभविष्णवे ॥ मकुटाय च केशेभ्य उष्णीषाय तथैव च। मूर्ध्ने मुखललाटाभ्यां श्रोत्राभ्यञ्च ध्रुवोरपि ॥ अपाङ्गाभ्यामथाक्षिभ्यां पक्ष्मभ्यश्चाप्यनन्तरम्। पताकाभ्यां ज्योतिषे च ज्योतिरूपाय चेति तु ॥ गण्डाभ्याञ्च हनुभ्याञ्च नासिकाभ्यां तथैव। पुटाभ्यामपि चौष्ठाभ्यां दन्तेभ्यो जुहुयात्ततः ॥ जिह्वायै च सुवक्त्राय चुबुकयाऽधराय च। गलाय चाथ कण्ठाय ग्रीवायै कीकासय च ॥ जत्रुभ्यो जत्रुरूपेभ्यः अंसाभ्याञ्च तथैव च। दोषभ्याञ्चैव स्कन्धाभ्यां बाहुभ्यां कूर्पराय च ॥ प्रकोष्ठेभ्यस्तलेभ्यश्च अङ्गुलीभ्यस्तथैव च। पर्वभ्यश्च नखेभ्यश्च हृदयाय तथैव च ॥ स्तस्नाभ्या़ञ्चैव पार्श्वाभ्यामुदराय च नाभये। कृकाटिकायै नालीभ्यः वंशश्रेण्यै तथैव च ॥ कटिराय प्रजननाय प्रजात्यै वस्तये तथा। वस्तिमुष्काय सक्थिभ्यामूरुजानुभ्य एव च ॥ जङ्घाभ्याञ्चैव गुल्फेभ्यः पार्ष्णिपादेभ्य एव च। पादाङ्गुलिभ्यः पर्वभ्यः नखेभ्यस्सन्धिभ्यस्तथा ॥ सन्धानेध्यस्तु रोमभ्यो रोमकूपेभ्य एव च। मर्मभ्यो मर्मपालिभ्यः होत्रेभ्यः सिराभ्यस्तथा ॥ त्वग्रक्तमांसमेदोऽस्थिमज्जाशुक्लेभ्य एव च। शुक्लरूपेभ्य इति च तेजिष्काय च तेजसे ॥ धातुभ्यो धातुरूपेभ्यः वाग्भ्यश्चैवाक्षराय च। नादेभ्यश्चैव मनसे बुद्धये तदनन्तरम् ॥ अहङकारय चित्ताय स्वाहेति तदनन्तरम्। हृत्प्राणशब्दपूर्वनतु पुण्डरीकमुदीर्य च ॥ वायुर्जीवश्च जीवात्मा सत्याय समुदीर्य च। यत्यरूपस्तथा ज्ञान ज्ञानरूपस्तथैव च। ज्ञेयविज्ञात्रनन्ताश्च आनन्दो व्यक्त एव च। अव्यक्तः प्राणः प्राणात्माऽपानव्यानावनन्तरम् ॥ उदानश्च समानश्च महते च महात्मने। आत्माऽनात्मा च विश्वस्मै विश्वात्मा पर एव च ॥ परमात्मा तथा यस्मै तस्मैकस्मै तथैव च। सर्वस्मै च शिरश्चक्रं चक्रशङ्खौ तथैव च ॥ पादपीठं महाङ्गेभ्यः उपाङ्गेभ्यस्तथैव च। प्रत्यङ्गेभ्यश्च सर्वेभ्यः पुरुषाय च व्याहृतिः ॥ सूक्तपरिभाषा विष्णोर्नुकादिषण्मन्त्रैर्विष्णुसूक्तमुदाहृतम्। ‘जातवेदस’ इत्यादि सूक्तं द्रौर्गमुदाहृतम् ॥ ‘हिरण्यवर्णां हरिणी’ मिति श्रीसूक्तमीरितम्। ‘भूमिर्भूम्ने’ ति भूसूक्तं सर्वलोकशुभावहम् ॥ ?‘हिरण्यगर्भ’ इत्यादि ब्रह्मसूक्तमुदाहृतम्। ‘ओमासश्चर्षणी’ त्यादि सूक्तं सारस्वतं मतम् ॥ ‘परिणो रुद्र’ इत्युक्त्वा ‘स्तुहि श्रुत’ मिति ब्रुवन्। ‘मीढुष्टम शिवतमः - अर्हन् बिभ’ र्षीति च ॥ ‘त्वमग्ने रुद्र’ इत्युक्त्वा ‘आ वो राजान’ मित्यपि। एतैरपि च षण्मन्त्रैः रुद्रसूक्तमुदाहृतम् ॥ बलिपीठप्रतिष्ठा बलिपीठप्रतिष्ठाञ्च प्रवक्ष्यामि समासतः। तस्योत्सेधं समुद्दिष्टं गर्भागारसमं तथा ॥ 29.21 ॥ आयतं विस्तृतं वाऽपि गर्भागारस्य मध्यमे (?)। उत्सेद्ये दशभागे तु सप्तांशं समुदाहृतम् ॥ 29.22 ॥ सप्तविंशतिभागे तु विभक्ते तु समुच्छ्रये। द्व्यंशकं पादुकं ज्ञेयं जगती चतुरंशकम् ॥ 29.23 ॥ त्र्यंशकं कुमुदं ज्ञेयमेकांशं ?पट्टिका भवेत्। षड्भागंकण्ठमित्याहुः द्व्यंशकं बलकम्पयोः (?) ॥ 29.24 ॥ चतुरंशैकपादञ्च अंशं चैवाग्रवर्तिका। द्व्यंशार्धं पद्मपुष्पन्तु एकार्धं पद्मापुष्पकम् ॥ 29.25 ॥ एवं स्यग्विदित्वा तु भागे भागे विनिर्दिशेत्। त्र्यंशं हस्तप्रमाणेन त्रिहस्तादधिकञ्च वा ॥ 29.26 ॥ पञ्चहस्ताधिकं वाऽपि गोपुरात्प्राग्विधीयते। मध्ये भूतन्तु कर्तव्यं चतुस्तालप्रमाणतः ॥ 29.27 ॥ सुखासनमिदं श्रेष्इं परावृत्तन्तु कारयेत्। यदीच्छेत्स्वामिनं प्रेक्ष्य ग्रामनाशो भविष्यति ॥ 29.18 ॥ अथवा कारयेद्विद्वान् कारणांशे तु मध्यमे। यथान्यायं चतुर्दिक्षु तत्तत् दिक्षु समीक्ष्य वै ॥ 29.29 ॥ इत्येवं विधिना कृत्वा प्रतिष्ठां कारयेत्तु वै। प्रथमावरणादीनां मुखायामं यताक्रमम् ॥ 29.30 ॥ चतुर्थांशं विभज्यैव तृतीये प्रथमादिषु। नाक्रशङ्खध्वजान् यूथनाथपाकोर्जुनानपि ॥ 29.31 ॥ चतुर्थावरणञ्चैत्तु तद्द्वितीयतृतीययोः। यूथनाक्षाक्षहौ चैव स्थापयेदिति केचन ॥ 29.32 ॥ गुणावरणमात्रञ्चेत्ततीये प्रथमांशके। ध्वजं द्वितीये यूथेशमक्षहञ्च प्रकल्पयेत् ॥ 29.33 ॥ अन्तर्धारावासानञ्चेत्ततीयांशे विशेषतः। चक्रशङ्खध्वजांश्चैव भूतेशञ्च प्रकल्पयेत् ॥ 29.34 ॥ एकावरमात्रञ्चेदग्रमण्डपपूर्वतः। चतुर्भागं विभज्यैव तृतीये तु प्रकल्पयेत् ॥ 29.35 ॥ अथवा गोपुराद्वाह्ये मुखायामं प्रकल्प्य च। कल्पयेत्तत्र वा सर्वान् यूथेशं वाऽथ केवलम् ॥ 29.36 ॥ वास्तुहोमं ततो हुत्वा पर्यग्निकरणं तथा। पञ्चगव्यैस्समभ्युक्ष्य कुर्याच्चैवाक्षिमोचनम् ॥ 29.37 ॥ गवादीन् दर्शयित्वा तु पञ्चगव्यादिभिः पुनः। स्नापयित्वाऽधिवास्यैव तत्तन्मन्त्रैः पृथक्पृथक् ॥ 29.38 ॥ औपासनाग्निं संङ्कल्प्य तस्याग्रे दक्षिणेऽपि वा। आघारान्ते तु विधिना कुम्भं संसाध्य पूर्ववत् ॥ 29.39 ॥ संस्नाप्य सप्तकलशैः शुद्धोदैरभिषेचयेत् बध्नीयात्कौतुकञ्चापि प्रदक्षिणवशाद्गले ॥ 29.40 ॥ हौत्रं प्रशंस्य चाऽवाह्य निरुप्याज्याहुतीर्यजेत्। अष्टोत्तरशतं हुत्वा तन्मन्त्रन्तु सवैष्णवम् ॥ 29.41 ॥ प्रातः पीठे समावाह्य समभ्यर्च्य निवेदयेत्। एष एव विशेषस्स्यादन्यत्सर्व़ञ्च पूर्ववत् ॥ 29.42 ॥ गरुडप्रतिष्ठा अतः परं प्रवक्ष्यामि सुपर्णस्थापनं परम्। स्थानके मूलबेरे तु कुर्यात्स्थानकमेव वा ॥ 29.43 ॥ आसने शयने चापि आसीनं स्थानकन्तु वा। विपरीतं यदि भवेद्राजा राष्ट्रञ्च नश्यतः ॥ 29.44 ॥ त्रिषूत्तरेषु रोहिण्यां हस्ते स्वात्यां पुनर्वसौ। यजमानस्य जन्मर्क्षे राज्ञो नक्षत्र एव वा ॥ 29.45 ॥ तस्मात्तु दिवसात्पूर्वमङ्कुरानर्पयेत्तथा। अङ्करार्पणकादूर्ध्वं द्रव्यं सम्भृत्य पूर्ववत् ॥ 29.46 ॥ अक्षिमोचनमुद्दिश्य पूर्वाह्णे होममाचरेत्। अङ्गहोमञ्च हुत्वा तु मूर्तिहोमं तथा हुनेत् ॥ 29.47 ॥ ‘शतधा’ रेति मन्त्रेण ‘कदापिसृज’ तेति च। दशवारं ततो हुत्वा ताभ्यां कृत्वाऽक्षिमोचनम् ॥ 29.48 ॥ अन्तहोमं ततो हुत्वा भास्करं सम्प्रणम्य च। पञ्चगव्याधिवासादीन् कुर्यात्तदपराह्णके ॥ 29.49 ॥ गोमूत्रे गोमये चैव कुशोदे चाधिवासयेत्। अथवा कारयेद्विद्वान् पञ्चगव्यस्य कुण्डके ॥ 29.50 ॥ प्रतिष्ठादिवासात्पूर्वं रात्रौ होमं समाचरेत्। भूमियज्ञञ्च कृत्वा तु पर्यग्निञ्चैव कारयेत् ॥ 29.51 ॥ शय्यावेदिं प्रकल्प्यैव पूर्वोक्तविधिना पुनः। वेद्या दक्षिण्पार्श्वे तु दक्षिणाग्निं प्रकलल्पयेत् ॥ 29.52 ॥ औपासनाग्निमथवा कारयेदिति केचन। पुण्याहं वाचयित्वा तु भूमिशुद्धिं समाचरेत् ॥ 29.53 ॥ स्ननवेद्यां प्रतिष्ठाप्य कुम्भं संसाध्य पूर्ववत्। संस्नाप्य सप्तकलशैः प्लोतेन परिमृज्य च ॥ 29.54 ॥ वस्त्रादिभिरलङ्कत्य शय्यावेद्यां निवेश्य च। बद्ध्वा प्रतिसरञ्चैव शयनेषु च शाययेत् ॥ 29.55 ॥ ताभ्यामेव तु मन्त्राभ्यां सर्वमेतत्समाचरेत्। दक्षिणाग्निं परिस्तीर्य तद्दैवत्यं सुहूयताम् ॥ 29.56 ॥ होता हौत्रक्रमेणैव तन्मर्त्याऽऽवाह्य हूयताम्। ततो गरुडमन्त्राभ्यामष्टोत्तरशतं यजेत् ॥ 29.57 ॥ सामवेदादिनमन्त्रञ्च यजेद्वैष्णवसंयुतम्। नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेत्पुनः ॥ 29.58 ॥ ततः प्रभाते धर्मात्मा स्नात्वा तु स्थापकैस्सह। मुहूर्ते समनुप्राप्ते रत्नन्यासं समाचरेत् ॥ 29.59 ॥ देवं कुम्भं समादाय प्रविशेदालयं पुनः। श्वेतवर्णस्य पूर्णे वा कृष्णपार्श्वेऽथवा पुनः ॥ 29.60 ॥ प्रथमावरणे वाऽपि द्वितीयावरणेऽपि वा। मण्डपस्य ततो मध्ये स्थापयित्वा समन्त्रकम् ॥ 29.61 ॥ आचार्य पूजयित्वा तु सुवर्णपशुभूमिभिः। स्थापकान् पूजयेत्तद्वद्वस्त्राभरणकुण्डलैः ॥ 29.62 ॥ एवं संस्थापयेद्वीशं श्रद्धाभक्तिसमन्वितः। सन्ततीनां समृद्धिः स्याद्वाहनानां तथैव च ॥ 29.63 ॥ सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति। विष्कक्सेनप्रतिष्ठा अतः परं प्रवक्ष्यामि शान्तस्य स्थापनं परम् ॥ 29.64 ॥ (बिम्बं सलक्षणं कृत्वा स्थापनं सम्यंगाचरेत्। पूर्वोक्तमासनक्षत्रे शुक्लपक्षे शुभे दिने) ॥ 29.65 ॥ बिम्बं सलक्षणं कृत्वा कृत्वा शिल्पिविसर्जनम्। वास्तुहोमाङ्गहोमौ च हुत्वा मन्त्रैश्च भौर्तिकैः ॥ 29.66 ॥ विष्वक्सेनस्य मन्त्रौ द्वौ वैष्णवं व्याहृतीर्यजेत्। कुर्यात्क्रमात्तु मन्त्राभ्यां दक्षिणाद्यक्षिमोचनम् ॥ 29.67 ॥ पञ्चगव्याधिवासादि कल्पयेत्तदनुक्रमात्। तस्यालयस्याभिमुखे यागशालां प्रकल्प्य च ॥ 29.68 ॥ शय्यवेदिञ्च तन्मध्ये बिम्बाध्यर्धप्रमाणतः। कुर्यादौपासनाग्निञ्च तत्प्राच्यामग्र एव वा ॥ 29.69 ॥ दक्षिणे स्नपनश्वभ्रं कल्पयित्वा तु पूर्ववत्। वास्तुहोमं यजेत्कुर्यात्पर्यग्निकरणं तथा ॥ 29.70 ॥ पञ्चगव्योक्षणं कृत्वा सायं पूर्वेद्युरेव वा। अधिवासगतं देवमुद्धृत्य स्नापयेत्तदा ॥ 29.71 ॥ कुम्भं संसाध्य विधिन तत्राऽवाह्य समन्त्रकम्। संस्नाप्य सप्तकलशैरर्चयित्वाऽष्टविग्रहैः ॥ 29.72 ॥ ततः कौतुकबन्धान्ते शयने शाययेत्तदा। हौत्रं प्रशंस्?य चाऽवाह्य निरुप्याऽज्याहुतीर्यजेत् ॥ 29.73 ॥ सर्वदेवार्चनं हित्वा वेदाध्ययनमाचरेत्। विष्वक्सेनस्य मन्त्राभ्यां शतमष्टोत्तरं यजेत् ॥ 29.74 ॥ वैष्णवं मूर्तिमन्त्रञ्च (हुत्वा गायत्रिया तथा। प्रधानहोमं हुत्वा तु) हुत्वा रात्रिं निनीय च ॥ 29.75 ॥ प्रातस्संस्थाप्य चाऽवाह्य समभ्यर्च्य निवेदयेत्। दद्यादाचार्यपूर्वेभ्यो दक्षिणां देवसन्निधौ ॥ 29.76 ॥ सर्वेषां परिवाराणां प्रतिष्ठायां विशेषतः। आलयाभिमुखे तेषां यागशालां प्रकल्प्य च ॥ 29.77 ॥ शय्यावेदिञ्च तन्मध्ये तस्याग्रेऽग्निञ्च कल्पयेत्। एष एव क्रमः प्रोक्तो मन्त्र एव विशिष्यते ॥ 29.78 ॥ अष्टोत्तरशतं हुत्वा तत्तन्मन्त्रं सवैष्णवम्। प्रतिष्ठाप्य समावाह्य नित्यं विधिवदर्चयेत् ॥ 29.79 ॥ अनन्तप्रतिष्ठा अनन्तं सर्वनागानामधिपं चानिरुद्धवत्। बिम्बं सलक्षणं कृत्वा फणासप्तकसंयुतम् ॥ 29.80 ॥ प्रथमावरणे वाऽपि द्वितीयावरणेऽपि वा। वामलूरुसमीपे वा गोपुराब्दाह्यतोऽपि वा ॥ 29.81 ॥ स्थानं सङ्कल्प्य सम्भारान् सम्भृत्यैव ततः परम्। अङ्कुरार्पणमारभ्य प्रतिष्ठान्तोदिताः क्रियाः ॥ 29.82 ॥ शेषदैवत्यमन्त्राभ्यां तत्सूक्तेनाथवा पुनः। संस्थाप्य सौम्यमार्गेण नित्यं विधिवदर्चयेत् ॥ 29.83 ॥ अनन्तो गरुडश्चैव विष्व्क्सेनः पितामहः। अनादिवैष्णवाः पञ्च मुनिशड्विखना अपि ॥ 29.84 ॥ सुपर्णस्य च शान्तस्याप्यनन्तस्य तथैव च। त्रयाणां स्थापनञ्चोक्तमद्य सङ्क्षेपतो मया ॥ 29.85 ॥ विखनसः प्रतिष्ठा ब्रह्मणश्च त्रिधा प्रोक्तं स्थापनन्तु पृथङ्मया। गर्भालये च देवस्य पूजकलृवेन सम्मतः ॥ 29.86 ॥ त्रिमूर्तिस्थापने चैव द्विमूर्तिस्थापने तथा। मूर्तिमन्त्रेण सम्प्रोक्तो मण्डलान्तर्गतो विधिः(?) ॥ 29.87 ॥ प्राधान्येन तु सुप्रोक्तः पूथगेव प्रतिष्ठितुम्। अधुना सम्प्रवक्ष्यामि स्थापनं विखनोमुनेः ॥ 29.88 ॥ देवस्य दक्षिणे भागे श्रियो देव्यास्संमीपतः। शङ्खचक्रधरं सौम्यं चतुर्भुजधरं तथा ॥ 29.89 ॥ त्रिदण्डधारिणं विष्णोरर्चनासक्तमानसम्। कूर्मपीठे प्रतिष्ठाप्य नित्यं विधिवदर्चयेत् ॥ 29.90 ॥ देवदेवप्रतिष्ठावत्सर्वं सम्यक्समाचरेत्। स्थानके मूलबेरे तु चासने शयनेऽपि वा ॥ 29.91 ॥ आसीनमेव सर्वत्र तपोयुक्तं प्रकल्पयेत्। विपरीतं यदि भवेद्राजराष्ट्रविनाशानम् ॥ 29.92 ॥ त्रिषूत्तरेषु रोहिण्या हस्ते स्वात्या पुनर्वसौ। यजमानस्य नक्षत्रे राज्ञो नक्षत्र एव वा ॥ 29.93 ॥ तस्मात्तु दिवसात्पूर्वमङ्कुरानर्पयेत्तथा। अङ्कुरार्पणकादूर्ध्वं द्रव्यं सम्भृत्य पूर्ववत् ॥ 29.94 ॥ अक्षिमोचनमुद्दिश्य पूर्वाहृ होममाचरेत्। अङ्गहोमञ्च हुत्वा तु मूर्तिहोमस्सुहूयताम् ॥ 29.95 ॥ ‘अतो देवा-इदं विष्णु’ रिति हुत्वा सहस्रशः। कृत्वा ताभ्यामक्षिमोक्षमन्ते होमं यजेब्दुधः ॥ 29.96 ॥ अधिवासत्रयं वाऽपि अधिवासचतुष्टयम्। पूर्वोक्तविधिना कृत्वा बलिं निर्वाप्य पूर्ववत् ॥ 29.97 ॥ प्रतिष्ठादिवसात्पूर्वं रात्रौ होमञ्च कारयेत्। भूमियज्ञञ्च कृत्वा तु पर्यग्निमपि कारयेत् ॥ 29.98 ॥ शय्यावेदिं प्रकल्प्यैव पूर्वोक्तविधिना पुनः। शय्यावेद्याः पूर्वभागे श्रामणाग्निं प्रकल्पयेत् ॥ 29.99 ॥ औपासनाग्निमथवा केचिदाहवनीयकम्। पुण्याहमन्त्रैस्सम्प्रोक्ष्य भूमिशुद्धिमथाचरेत् ॥ 29.100 ॥ स्नानवेद्यां प्रतिष्ठाप्य कुम्भं संसाध्य पूर्ववत्। संस्नाप्य सप्तकलशैः प्लोतेन परिमृज्य च ॥ 29.101 ॥ वस्त्रादिभिरलङ्कृत्य शय्यावेद्यां निवेश्य च। बद्ध्वा प्रतिसरञ्चैव शयनेषु च शाययेत् ॥ 29.102 ॥ पूर्वाभ्यामेवमन्त्राभ्यां सर्वमेतत् समाचरेत्। श्रामणाग्निं परिस्तीर्य वैष्णवञ्च सुहूयताम् ॥ 29.103 ॥ होता हौत्रक्रमेण्?ौव तन्मूर्त्याऽऽवाह्य होमयेत्। पूजकश्रेष्ठरूपत्वे वक्ष्यन्ते मूर्तयोऽधुना ॥ 29.104 ॥ त्रिदण्डिनं तपोनिष्ठं पुण्डरीकविलोचनम्। हरिप्रियं समावाह्य चतुर्भिर्मूर्तिभिर्हुनेत् ॥ 29.105 ॥ द्वारपालकरपवे वक्ष्यन्त मूर्तयोऽन्यथा। पृथक्स्थापनकाले तु देवीसहितमाचरेत् ॥ 29.106 ॥ प्रलम्बसूत्रं श्रीवत्सं विनाऽन्यैर्विष्णुवच्चरेत्। लक्ष्मीनारायणस्येव बिम्बं तत्समुदाहृतम् ॥ 29.107 ॥ तस्य पत्नी च विख्याता दिव्याख्या परमर्षिभिः। विष्णुप्रियसुतञ्चेति विष्वक्सेनसखं तथा ॥ 29.108 ॥ कल्पसूत्रकृतञ्चेति श्रामणाग्निप्रियं तथा। परतत्त्वप्रवक्तारं मूर्तिभिः पञ्चभिः क्रमात् ॥ 29.109 ॥ पृथकत्वेन प्रधानत्वे तस्य पत्न्याश्च मूर्तयः। आदिवैष्णवमन्त्राभ्यां शतमष्टोत्तरं यजेत् ॥ 29.110 ॥ ‘यो वेदादिः परम’ इति यजेद्वैष्णवसंयुतम्। अष्ठोत्तरसहस्रं वा अष्टोत्तरशतन्तु वा ॥ 29.111 ॥ नृत्तैर्गेयैश्च वाद्यैश्च रात्रिशेषं नयेद्गुरुः। अर्चकोत्तमरूपत्वे देवदेवस्य सन्निधौ ॥ 29.112 ॥ द्वारपालकरूपत्वे द्वितीयद्वारदक्षिणे। पृथक्प्रधानरूपत्वे यमाग्न्योरन्तरे तथा ॥ 29.113 ॥ शङ्खचक्रधरो वाऽपि अपि ताभ्यां विवर्जितः। द्वारपालकरूपत्वे स विभुः प्रोच्यते बुधैः ॥ 29.114 ॥ शङ्खक्रधरस्साक्षादितरत्र प्रकीर्तितः। गर्भालये वा बाह्ये वा स्थापने चोत्तरामुखः ॥ 29.115 ॥ द्वारस्य दक्षिणे भागे स्थापयेद्देवराणमुखम्। ध्रुवसूक्तेन संस्थाप्य विष्णुसूक्तेन संस्पृशेत् ॥ 29.116 ॥ गोभूसुवर्णदानाद्यैः गुरुं सम्पूज्य भक्तिः। पूजयेत्स्थापकादींश्च वस्त्राभरणकुण्डलैः ॥ 29.117 ॥ गुरूत्तमस्य यः कुर्यात्स्थापनं भक्तिसंयुतः। वेदानाञ्च समृ?द्धिस्स्यात्समृद्धिः पुण्यकर्मणाम् ॥ 29.118 ॥ सर्वान्कामानवाप्यैव पुण्यलोकं स गच्छति। ‘अतो देवा-इदं विष्णु’ रिति मन्त्रद्वयेन च ॥ 29.119 ॥ पूजकत्वे प्रधानत्वे षोडशैरुपचारकैः। सम्पूज्य विधिवद्विषष्णुं तन्निवेदितवस्तुभिः ॥ 29.120 ॥ माल्यैर्गन्धैश्च धूपैश्च दीपैश्च हविरादिभिः। अर्चयित्वा तु देहान्ते सायुज्यं पदमाप्नुयात् ॥ 29.121 ॥ वैखानसस्य नैवैद्यं विष्णुनैवेद्यवच्चरेत्। द्वारपालप्रतिष्ठायां तद्दैवत्यं जुहोति च ॥ 29.122 ॥ द्वारस्य दक्षिणे भागे स्थानकस्सुप्रतिष्ठितः। ‘वैखानसाय’ मन्त्रश्य तद्दैवत्यः प्रकीर्तितः ॥ 29.123 ॥ तिष्ठत्ययं त्रिरूपेण विष्णोराज्ञाविशेषतः। तत्कथा च निरुक्ताधिकारे प्रोक्ता सुविस्तदा ॥ 29.124 ॥ समिधादीनां लक्षणम् समिधां लक्षणं वक्ष्ये सर्वेषामपि कर्मणाम्। कण्टकं सुषिरं शुष्कं कृमियुक्तं पिपीलिकम् ॥ 29.125 ॥ ह्रस्वं दीर्घं कृश़्चैव स्थूलञ्चैव द्विपर्वकम्। हीनचर्म तथा दग्धं पुराणञ्च विवर्जयेत् ॥ 29.126 ॥ वृक्षे पक्षिगणावासे चैत्यवृक्षे तथैव च। तथा देवालये चैव श्मशाने चोषरे तथा ॥ 29.127 ॥ जीर्णालये तथा मूले सूतक्याशौचिसङ्गते। मैथुने चैव निद्रायामातुरे च विवर्जयेत् ॥ 29.128 ॥ कण्टकं सुषिरञ्चैव प्रोक्तं सर्वविनाशनम्। शुष्के भ्रातृविनाशस्स्यात्कृमिदष्टे मतिभ्रमः ॥ 29.129 ॥ पिपीलिकादौ त्वग्दोषः ह्रस्वः कुक्षिज्वरप्रदः। दीर्धे च मरणं विन्द्यात्कृशे क्लेशभयावहम् ॥ 29.130 ॥ स्थूलं दारिद्र्यदं प्रोक्तं द्विपर्वं पापरोगदम्। त्वचश्छेदे तु दौर्भाग्यं दग्धञ्चेत्सन्निपातकम् ॥ 29.131 ॥ पुराणे पुत्रनाशः स्यात् ज्ञानञ्चापि विनश्यति। पक्षिदेवालयेत्थञ्चेन्मातापित्रोर्विनाशनम् ॥ 29.132 ॥ श्मशानजं कुलं हन्ति ऊषरे राज्यनाशनम्। जीर्णालयसमीपस्थं शिरोरोगं प्रयच्छति ॥ 29.133 ॥ सूतक्याशौचिसंस्पृष्टे भार्यापुत्रविनाशनम्। मैथुनै स्पृष्यते चेत्तु वृक्षे वै व्याधिपीडनम् ॥ 29.134 ॥ निद्रातो निधनं याति चाऽतुरे तस्कराद्भयम्। एतैर्दोषैर्विमुक्तन्तु सर्वलक्षणसयुतम् ॥ 29.135 ॥ पालाशं बैल्वमथ च शमीजं खदिरन्तथा। अश्वत्थवटवृक्षोत्थं प्लाक्षमौदुम्बरं तथा ॥ 29.136 ॥ द्वादशाङ्गुलदीर्घन्तु ततश्शान्?ितकरं विदुः। त्रयोदशाङ्गुलञ्चैन्द्रं द्विसपताङ्गुलमार्षकम् ॥ 29.137 ॥ पञ्चदशाङ्गुलायाममाभिचारिकमुच्यते। विद्वेषेऽनामिकानाह प्रमाणमिति निंश्यतः’ ॥ 29.138 ॥ तथाविधाः परिधय उक्तायामसमन्विताः। नदीतटाकतीरोत्थास्समिधो दोषवर्जिताः ॥ 29.139 ॥ साग्रा अगर्भाः दर्भाः स्युरस्थूलकृशवामनाः। षट्त्रिंशदङ्गुलाः कूर्चाः परिस्तरणकर्मणि ॥ 29.140 ॥ द्वादशाङ्गुलमायामं ?पवित्रं समुदाहृतम्। हस्तमात्रमितः प्रोक्तः कूर्चः प्रोक्षणकर्मणि ॥ 29.141 ॥ ऋत्विजोरप्यभावे तु कल्पने ब्रह्मसोमयोः। अरत्निमात्रमायामं कूर्चं न्यस्येतु पार्श्वयोः ॥ 29.142 ॥ सर्वेषामपि कूर्चानामग्रन्तु चतुरङ्गुलम्। ग्रन्थिस्तु द्व्यङ्गुला प्रोक्ता शेषं लम्बं प्रकल्पयेत् ॥ 29.143 ॥ (वत्सजानुसमाकारो वेदः प्रोदेशसम्मितः। निर्मितश्शतदर्भैश्च शोधनार्थमथाध्वरे) ॥ 29.144 ॥ द्वाभ्यामगर्भदर्भाभ्यां परित्रं परिकल्पयेत्। चतुरङ्गुलं भवेदग्रं ग्रन्थिरेकाङ्गुला भवेत् ॥ 29.145 ॥ (1)द्व्यङ्गुलं मूलमित्युक्तमेवं कुर्याद्याथाविधि। सन्न्यस्यानामिकाङ्गुल्योः सर्वकर्माणि कारयेत् (1.) त्र्यङ्गुलं रज्जुवलयमेवं कृत्वा यथाविधि. ख. ॥ 29.146 ॥ अपवित्रकरः किञ्चन्नाचरेदिति शासनम् ॥ 29.146 ॥ इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे महाशान्तिविधानबलिपीठप्रतिष्ठादिविधिर्नाम एकोनत्रिंशोऽध्यायः।