26 षड्विंशोऽध्यायः

षड्विंशोऽध्यायः


षड्विंशाध्यायः
उत्सवप्रायश्चित्तम्
अतः परं प्रवक्ष्यामि (1)प्रायश्चित्तमथोत्सवे।
(2)वस्त्रे प्रमाणही?ने च ध्वजदण्डे तथैव च (1.) प्रायश्चित्तं महोत्सवे. ख. (2.) वास्तु. आ. ॥ 26.1 ॥
ध्वजपटादीनां लक्षणहनौ
वीशे लक्षणहीने च चित्रकर्मविपर्यये।
गारुडं ध्वजदैवत्यं शतमष्टोत्तरं यजेत् ॥ 26.2 ॥
कृते सङ्गीर्णवर्णेन प्रायश्चित्तमथाचरेत्।
अस्पृश्यस्पर्शादौ कृते प्रतिष्ठासंस्कारे ध्वजे तत्र विशेषतः ॥ 26.3 ॥
संस्पृष्टे क्षत्रियैर्वैश्यैः प्रोक्षणैः प्रोक्ष्य चाऽहरेत्।
उच्छिष्टाशुचिभिर्विप्रैः शूद्रैः स्पृष्टे (3)तथैव च (3.) अथवा ध्वजे. आ. ॥ 26.4 ॥
सप्तभिः कलशैः प्रोक्ष्य जुहुयाध्द्वाजगारुडौ।
(सप्तविंशतिकृत्वः स्यादुच्छिष्टाशुचिभिर्नृपैः) ॥ 26.5 ॥
चतुर्विशतिभिः प्रोक्ष्य कलशैर्द्विगुणं यजेत्।
द्विगुणं तद्वणिक्स्पर्शे स्नपनं होममाचरेत् ॥ 26.6 ॥
उच्छिष्टाशुचिभिश्शूद्रैः प्रतिलौमैरूदक्यया।
स्पृष्टे सूतिकया वाऽथ कलशैस्माष्टकेश्शतैः ॥ 26.7 ॥
स्नापयित्वा तु पूर्वोक्तं होमं द्विगुणमाचरेत्।
पूर्ववध्द्वजदेवस्य प्रतिष्ठामाचरेत्पुनः ॥ 26.8 ॥
(सवर्णाख्यानुलोमेन संस्पृष्टे क्षत्रियोक्तवत्।
(आभषिक्ताख्यसस्पर्शे कुर्याद्वेश्योक्तनिष्कृतिम् ॥ 26.9 ॥
अन्यानुलोमसंस्पर्शे कुर्याच्छूद्रोक्तनिष्कृतिम्।
वर्णजातिविवेकेन यत्र नोक्ता तु निष्कृतिः ॥ 26.10 ॥
(4.) कुण्डलितो भागः ख. कोश एव दृश्यते.
तत्क्रमेणैव विहितं प्रायश्चित्तं समाचरेत्)।
पर्यग्निपञ्चगव्याभ्यां शुद्धिं सर्वत्र कारयेत् ॥ 26.82 ॥
ध्वजे
अधरोत्तरे ध्वजारोहणकाले तु ध्वजे तत्राधरोत्तरे।
महाशान्तिञ्च हुत्वा तु ध्वाजमष्टोत्तरं शतम् ॥ 26.12 ॥
गारुङञ्च तथा हुत्वा कलशैः प्रोक्ष्य सप्तभिः।
समभ्यर्च्य निवैद्यैव पुनरारोपयेध्द्वजम् ॥ 26.13 ॥
कृत्वैवं दण्डभङ्गे च ध्वजभङ्गे तथैव च।
भङ्गे च यष्ट्याधाराणां तद्वदन्यत्समाहरेत् ॥ 26.14 ॥
ध्वजपतनादौ
ध्वजे तु पतिते ध्वाजं गारुडं वैष्णवं यजेत्।
प्रोक्षणैः प्रोक्ष्य तत्पश्चाध्द्वजं तत्र सुयोजयेत् ॥ 26.15 ॥
ध्वजस्य नाशे भेदे च (1)आग्नेयं गारुडं तथा।
ध्वाजञ्च वैष्णवं हुत्वा कारयित्वैव तध्द्वजम् (1.) दा?हे छेदे तथैव च.ख. ॥ 26.16 ॥
आवाह्य गरुडं तत्र पुनरारोपयेद्ध्वजम्।
ग्रामप्रदक्षिणञ्चैव बलिदानञ्च नाचरेत् ॥ 26.17 ॥
(2)शिष्टाहेषु प्रपूर्णेषु ध्वजं तमवरोपयेत्।
ध्वजारोहणहीने
ध्वजारोहणहीने तु लोकपालकदैवतम् (2.) दशाहेषु.ख. ॥ 26.98 ॥
प्राजापत्य़ञ्च रौद्रञ्च विष्णुसूक्त यजेत्क्रमात्।
न ध्वजारोहणं कुर्यादेकाहे च दिनद्वये ॥ 26.19 ॥
दिनत्रायोत्सवे चापि न कुर्यादिति केचन।
अनुक्तेषु च दोषेषु प्रायश्चित्तं ध्वजस्य च ॥ 26.20 ॥
ध्वाजञ्च गारुडञ्चैव दशकृत्वो यजेत्पुनः।
कालोत्सवे
विध्नितेप्रत्यब्दक्रियमाणे तु हीने कालोत्सवे खिले ॥ 26.21 ॥
पौण्डरीके महाशान्तिं यावद्दिवसमुत्सवः।
दिनेषु तावत्सङ्ख्येषु जुहुयाद्भक्तिसंयुतः ॥ 26.22 ॥
(1)सवतृसास्तावतीर्गाश्च देवेशाय ददेन्मुदा।
उत्सवस्य च यन्मूल्यं द्रव्यं तद्वाऽथ सन्ददेत् (1.) सवत्सांगां ददेत्पश्चात्. ख.
॥ 26.23 ॥
कलशैस्स्नापयित्वा तु शतेनाष्टाधिकेन च।
सर्वोपचारैरभ्यर्च्य निवेद्य च महाहविः ॥ 26.24 ॥
कृत्वा च महतीं पूजां पुण्याहमपि वाचयेत्।
संस्तूय विष्?णुसूक्तेन देवेशं पौरुषेण च ॥ 26.25 ॥
ब्राह्मणान् भोजयित्वा तु पुनश्चोत्सवमाचरेत्।
उत्सवं द्विगुणं सम्यक्कारयेदिति केचन ॥ 26.26 ॥
समूर्तार्चनयज्ञस्य प्रायश्चित्तमिदं स्मृतम्।
(2)ध्वजारोहणाले तु आचार्यो गर्भवान् यदि (2.) कुण्डलितो भागः ख. कोशे.
॥ 26.27 ॥
महोत्सवे पवित्रस्याद्वर्षे वर्षे (3)कृतो यदि।
नित्यकार्म तदाख्यातं गर्भदीक्षा न विद्यते (3.) कृते सति. आ. ॥ 26.28 ॥
प्रोक्षणाद्यानि कर्माणि नित्यान्यन्यानि चाऽचरेत्।
गर्भिणीपतिराचार्यस्त्रिमासात्प्रभृति द्विजाः ॥ 26.29 ॥
श्राद्धान्नं तिलहोमञ्चैव न कुर्यादिति वै विधिः।
सिन्धुस्नानं गयाश्रद्धं वपनं प्रेतवाहनम् ॥ 26.30 ॥
पर्वतारोहणञ्चैव न कुर्यादिति वै विधिः।
प्रतिसंवतृसरञ्चैव वर्धयित्वा तु कारयेत् ॥ 26.31 ॥
हीने दिने तथैकस्मिन् तस्य कालोत्सवस्य तु।
हुत्वा पुरुषसूक्तेन वैष्णवै षड्भिरेव च ॥ 26.32 ॥
कूष्माण्डैः ब्राह्ममन्त्राभ्यामैन्द्रैरपि च वैष्णवैः।
मूर्तिभिः परिवाराणां तदालयनिवासिनाम् ॥ 26.33 ॥
कलशैः स्नापयित्वा तु समभ्यर्च्य निवेदयेत्।
पूर्वोक्तेन क्रमेणै व चोत्सवं पुनराचरेत् ॥ 26.34 ॥
वर्ध?यित्वा चरेदेवं दिनंप्रति दिनंप्रति दिनंप्रति।
?अतीताहोत्सवं कृत्वा पुनश्शेषं समाचरत् ॥ 26.35 ॥
उत्सवं द्विगुणं केचिप्त्रातर्हीने दिने दिने।
एककालोत्सवे
हीने एककालोत्सवे हीने पूर्वोक्तं होममाचरे ॥ 26.36 ॥
उत्सवञ्च तथा कुर्याच्छेषं पूर्ववदाचरेत्।
(वीथीभ्रमणवेलायां देवे यानगतेसति ॥ 26.37 ॥
रथयात्रायां सम्भाव्यमानदोषेषु
कलहे रुधिरस्रावे महोत्पाते मृते जने।
रथचक्रग्रहे चैव नराणां मृतिसम्भवे ॥ 26.38 ॥
शेषवीथीं परिभ्रगाम्य प्रादक्षिण्यक्रमेण तु।
आलयञ्च प्रविश्यैचव देवेशमवरोप्य च ॥ 26.39 ॥
सप्तभिः कलशैर्देव संस्नाप्य च विधानतः।
पुण्याहं वाचयेद्विद्वान प्रोक्षणञ्चैव कारतेय् ॥ 26.40 ॥
(1)विशेषेणतु द देवाय मुद्गान्नं विनिवेदयेत्।
क्षमामन्त्रं समुच्चार्य प्रणाममपि कारयेत् (1.) विशेषतः आ. ॥ 26.41 ॥
क्षमामन्त्रप्रकार क्षमामन्त्रं प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः।
आज्ञानादर्थलोभाद्वा रागाद्दवेषात्प्रमादतः ॥ 26.42 ॥
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम।
मया वामज्जनैर्वाऽथ मम बन्धुभिरेव वा ॥ 26.43 ॥
(2.) गते. ख.
अपराधः कृतो यस्तं क्षमस्व पुरषोत्तम।
आचार्येणार्चकेनाऽपि भक्तैर्वा परिचाकैः ॥ 26.44 ॥
अपराधः कृतो यस्तं क्षमस्व पुरषोत्तम।
राज्ञा वा राजभृत्यैर्वा तदमात्यैरथापि वा ॥ 26.45 ॥
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम।
ग्रामणीभिर्ग्रामिभिर्वा ग्रामपालैरथापि वा ॥ 26.46 ॥
अपराधः कृतो यस्तं क्षमस्व पुरुषोत्तम।
गायकैर्नर्तकैर्वाऽपि तथा वादित्रवादकैः ॥ 26.47 ॥
अपराधः कृतो यस्तं क्षमस्व पुरुषेत्तम।
अमन्त्रकार्चनायां यत् जातमज्ञातजन्मनः ॥ 26.48 ॥
अवद्यं ममयत्किञ्चित् क्षमस्व पुरुषोत्तम।
प्रणामांदिविसर्गान्तं क्रियासु विधिपूर्वकम् ॥ 26.49 ॥
अपराधः कृतो यस्तं क्षमस्व पुरषोत्तम्।
अर्पितन्तु यथाशक्ति पत्रं पुष्पं फलं जलम् ॥ 26.50 ॥
निवेदितञ्च नैवेद्यं स्वीकुरु त्वं जनार्दन।
(1)अबावाहनं न जानामि न जानामि विसर्जनेम् (1.) आवाहनविसर्गान्तं (?) क्रियासु विधिपूर्वकम्। अपराधः कृतो यस्तं क्षमस्व पुरुषेत्तम इत्यधिकम्. ई. ॥ 26.51 ॥
कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम।
अन्तश्चरसि भूतानां द्रष्टा त्वं जगदीश्वरः ॥ 26.52 ॥
नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम्।
तेषु तेष्वच्युता भक्तिरच्युतेऽस्तु सदा त्वयि ॥ 26.53 ॥
देवो दाता च भोक्ता च देवस्सर्वमिदं जगत्।
देवे जयति सर्वत्र त्वं देवः स्वयमेव हि ॥ 26.54 ॥
अशक्यं विधिवत्कर्तु ब्रह्माद्यैरपि पूजनम्।
न्यूनातिरेकव्याघातदोषहीनं जगत्पते ॥ 26.55 ॥
किमुतास्माभिरल्पज्ञैर्मनुष्यैरदृढात्मभिः।
तस्मान्नित्यार्चनायान्तु (1)यदुद्भूतमशोभ्?ानम् (1.) यदा भूतं. ख. ॥ 26.56 ॥
अनया पूजया विष्णो प्रशान्तं सर्वमस्तु नः।
उपचारापदेशेन कृतानहरहर्मया ॥ 26.57 ॥
अपचारानिमान् सर्वान् क्षमस्व पुरषोत्तम।
एवं नित्यार्चनान्ते तु प्रार्थयेत्सर्वनिष्कृतिः ॥ 26.58 ॥
पूजाभागं न नानामि त्वं गतिः पुरषोत्तम।
इति संस्तुत्य नृत्यन्ते (2)यागशाला प्रविश्य च (2.) यच्छामि. ख. ॥ 26.59 ॥
शान्तिहोमप्रकारः
पौण्डरीकाग्निमासाद्य घृतेन जुहुयात्यक्रमात्।
वैष्णव विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ॥ 26.60 ॥
जुहुयाद्विष्णुगायत्रीं शतमष्टोत्तरं तदा।
ईङ्कारादीश्च जुहुयाद्वास्तुहोमञ्च कारयेत् ॥ 26.61 ॥
पर्यग्निकरणम् वर्षबिन्दुपतनादौ
कुर्याद्वीथ्याञ्च पर्यग्निं प्रोक्षयेच्च विधानतः।
उत्सवे देवदेवस्य सेचने वर्षबिन्दुभिः ॥ 26.62 ॥
तथा बिम्बं समानीय समाच्छाद्यान्यदशुकम्।
परिधाप्य महाशान्ति हुत्वा स्नाप्य शताष्टकैः ॥ 26.63 ॥
भारतण्डुलसंयुक्तं दतर्धतिलसंयुतम्।
निष्कत्रयसुवर्णञ्च ताम्बूलसहितं पुनः ॥ 26.64 ॥
दत्वा कालोत्सवे प्रोक्तां निष्कृतिञ्च समाचरेत्।
द्विगुणार्चनादिहीने
देवदेवस्य देव्योश्च सायं प्रातस्तथोत्सवे ॥ 26.65 ॥
हविषि द्विगुणे हीने हीने च द्विगुणेऽर्चने।
वैष्णवं विष्णुसूक्तञ्च हुत्वा तत्र चतुर्गंणम् ॥ 26.66 ॥
अर्चयित्वा हविश्वचाऽपि सम्यग्दद्याच्चतुर्गुणम्।
हविषो द्विगुणे हीने वीशशान्तानपायिनाम् ॥ 26.67 ॥
द्विगुणं तान् समभ्यर्च्य द्विगुणञ्च निवेदयेत्।
उत्सवचक्रहीने
उत्सवं चक्रहीनन्तु नाचरेदिति शासनम् ॥ 26.68 ॥
कारयेदुत्सवार्थ तमथवा चानपायिनाम्।
(1)चक्रञ्च बलिबेरञ्च याचयेदिति केचन (1.) चक्राणां आ. ॥ 26.69 ॥
याचितं तत्क्रियान्ते तु नीत्वा पूर्वालयं पुनः।
संस्थाप्य शान्तिं हुत्वा तु पूर्वस्थाने निवेशयेत् ॥ 26.70 ॥
आवाह्य पात्रे पुष्पेषु वीशशान्तौ सुसन्न्येत्।
होमहीने तु जुहुयाद्द्विगुणन्तु यथाविधि ॥ 26.71 ॥
कुम्भस्थदेवनां पूजने हीने
जीने कुम्भस्थदेवानां सायं प्रातस्तथार्चने।
एकमादशोपचारेषु हीनेषु च तदर्चने ॥ 26.72 ॥
कारयेदर्चनाहीनप्रायश्चित्तोक्तनिष्कृतिम्।
कुम्भस्थानाञ्च देवानां नामभिश्च यजेत्पुनः ॥ 26.73 ॥
पुनर्द्विगुणमभ्यर्च्य द्विगुणञ्च निवेदयेत्।
कुम्भस्?यास्पृश्यस्पर्शादौ
कुम्भे स्पृष्टे श्वकाकाद्यैः अस्पृश्यैश्च तथैव च ॥ 26.74 ॥
प्रायश्चित्तं प्रतिष्ठोक्तं कृत्वाऽन्यं कुम्भमाहरेत्।
अनपायिनामर्चने हीने
वीशानपायिपङ्क्तीशासान्तानां यागमण्डपे ॥ 26.75 ॥
हीनेऽर्चने तु तन्मन्त्रै(2)स्तद्दिगग्नौ जुहोति च।
त्रेताग्निर्यदि शान्तस्य यजेदाहवनीयके (2.) तत्तदग्नौ. आ. ॥ 26.76 ॥
सर्वेषां जुहुयात्सभ्ये मन्त्रानेकाग्निकल्पने।
द्विगुणञ्च समभ्यर्च्य द्विगुणञ्च निवेदयेत् ॥ 26.77 ॥
(1)अतीतदिवसाद्येवं प्रायश्चित्तं समाचरेत्।
नित्याग्नावानादृते
(2)नित्याग्निव्यतिरिक्ताग्निर्यदि कुण्डे प्राणीयते (1.) आदित्यदिवसाद्येवं आ. (2.) नित्याग्निर्व्यतिरिक्त निवर्तते (?) ई.
॥ 26.78 ॥
उत्सवो निष्फलस्तस्मादग्निं नित्यं प्रणीय च।
हुत्वा तद्द्विगुणं होमं पुनश्चोत्सवमाचरेत् ॥ 26.79 ॥
(3)आतीर्थदिवसादग्निमविच्छिन्नञ्च रक्षयेत्।
ग्रामबलौ हीने
हीने ग्रामबलौ तत्तद्देवानां मूर्तिभिस्सह (3.) कुण्डलितो भागः आ. कोशेष्वेव दृश्यते. ॥ 26.80 ॥
जुहुयाद्वैष्णवञ्चापि व्याहृत्यन्तं प्रतिप्रति।
पश्चाद्ग्राम बलिं दत्वा पुनश्चोत्सवमाचरेत् ॥ 26.81 ॥
आस्थानाचर्वनम्
आस्थानमण्डपं कुर्याद्विदिशासु दिशासु वा।
प्राङ्मुखं कल्पयेद्विद्वानथवा दक्षिणामुखम् ॥ 26.82 ॥
पञ्चहस्तादिभेदेन कल्पयेद्देशिकोत्तमः।
तत्र देवं प्रतिष्ठाप्य पाद्याद्यैर र्चयेत्क्रमात् ॥ 26.83 ॥
तन्मुखे नृत्तगीतादिविनोदकरणानि च।
कारयेत्तु विधानेन पादे पुष्पाञ्जलिं ददेत् ॥ 26.84 ॥
अन्यत्र कृत्यवैकल्ये राजा राष्ट्रञ्च नश्यतः।
तस्मात्सर्वप्रयत्नेन उक्तवत्सर्वमाचरेत्) ॥ 26.85 ॥
बलिभ्रमणकाले सम्भाव्यमानदोषेषु
बलिभ्रमणवेलायां(4) चण्डालस्सूतिकाऽथवा।
प्रमादात्प्रविशेत्सद्यश्चक्रादीनालयं नयेत् (4.) काले तु आ ॥ 26.86 ॥
चक्रशान्तौ च वीशञ्च बलिबेरं पूथक्पृथक्।
संस्नाप्य सप्तकलशैः प्रोक्षयित्वा बलिं तथा ॥ 26.87 ॥
चक्रवीशामितानाञ्च मन्त्रैरपि च वैष्णवैः।
बलिरक्षकमन्त्राभ्यां शतमष्टोत्तरं यजेत् ॥ 26.88 ॥
पर्यग्निपञ्चगव्याभ्यां शोधयित्वाऽथ वीथिकाम्।
दत्वा, शिष्टबलिं पश्चात्पुनः कर्म समापयेत् ॥ 26.89 ॥
उत्सवे वीथ्या शवपतने
पर्यग्निपञ्चगव्याभ्यां वीथीं संशोध्य सर्वतः ॥ 26.90 ॥
लोकपालकमन्त्रैश्च बलिं निर्वाप्य (1)पूर्ववत्।
हुत्वा बल्युत्सवादीनि पूर्ववत्परिकल्पयेत् (1.) नामभिः ख. ॥ 26.91 ॥
तद्ग्रामन्तर्मृतौ (2)सत्यां शीघ्रमुद्धृत्य तं शवम्।
प्रायश्चित्तञ्च पूर्वोक्तं कृत्वा शेषं समाचरेत् (2.) सद्यः. ख. ॥ 26.92 ॥
(3)शवञ्च केवलं नैव नयेत्केशवसन्निधौ।
नीतञ्चेत्स्याद्विनाशाय तद्ग्रामयजमानयोः (3.) कुण्डलितो भागः ख कोश एव.
॥ 26.93 ॥
तस्मत्तद्दोषशान्त्यर्थं वास्तुहोमञ्च कारयेत्।
शान्तिञ्चैव महाशान्तिं हुतृवा तत्र विचक्षणः ॥ 26.94 ॥
अलङ्करणहीने
ब्राह्मणान् भोजयित्वैव दक्षिणाञ्च ददेद्गुरोः।
भूषणैरपि सौवर्णैर्नानावर्णाम्बरैरपि ॥ 26.95 ॥
देवालङ्करणे हीने श्रीसूक्तं वैष्णवं यजेत्।
सुगन्धैर्बहुभिः पुष्पैर्माल्यैरपि विशेषतः ॥ 26.96 ॥
देवालङ्करणे हीने महीसूक्तञ्च वैष्णवंम्।
शिबिकादिहीने
रथरङ्गे डोलिकायां ?शिबिकायामथापि वा ॥ 26.97 ॥
हीनेषु देवदेवस्य चान्यालङ्ककरणेषुच।
?हविषि हीने
हविषि द्विगुणे हीने चोत्सवं नाचरेद्बुधः ॥ 26.98 ॥
यानालङ्करणे हीने वैष्णवं गारुडं यजेत्।
ध्वजहीने तु जुहुयाध्द्वजमन्त्रं सवैष्णवम् ॥ 26.99 ॥
परिकरान्तरहीने
नृत्तगेयविहीने तु (1)ब्राह्मं रौद्रञ्च वैष्णवम्।
(2)श्वेतच्छत्रादिहीने तु सौम्यवैष्णववारुणान् (1.) रौद्रं ब्राह्मं. ख. (2.) श्वेतच्छत्रविहीने तु सौम्यवैष्णववारुणान्. आ. ॥ 26.100 ॥
हीने परिच्छदेत्यस्मिन् श्रीमन्त्रं वैष्णवं यजेत्।
गन्धधूपविहीने तु बार्हस्पत्यं सवैष्णवम् ॥ 26.101 ॥
जुहुयादार्षकैर्मन्त्रैः ब्राह्ममन्त्रसमन्वितम्।
दीपहीने तु जुहुयात्सौरमाग्नेयवैष्णवौ ॥ 26.102 ॥
स्तोत्रहीने तु जुहुयाद्दिग्दैवत्यं सवैष्णवम्।
आचार्यादिषु हीनेषु बार्हस्पत्यं सवैष्णवम् ॥ 26.103 ॥
जुहुयादार्षकैर्मन्त्रैर्ब्राह्मन्त्रसमन्वितम्।
आचार्यगरिमा
उत्सवे च प्रतिष्ठायां स्नपनादौ तथैव च ॥ 26.104 ॥
गुरुदेवाचरेत्सर्वमलाभेऽन्यपदार्थिनाम्।
यथोक्ताऽचार्यहीने तु नारभेतोत्सवं हरेः ॥ 26.105 ॥
आचिनोऽति हि शास्त्रार्थमाचारे स्थापयत्यपि।
तस्मादाचार्य इत्युक्तस्सर्वकार्योपदेशकः ॥ 26.106 ॥
हीने परिजने हुत्वा विष्णुसूक्तं सवैष्णवम्।
विष्णोस्सूक्तेन जुहुयाद्धीने धामप्रदक्षिणे ॥ 26.107 ॥
स्नापनहीने
(स्नानहीने तु देवस्य तोयमन्त्रं सवैष्णवम्।)
वारुणं जुहुयाद्देवं पूर्ववत्स्नापयेत्पुनः ॥ 26.108 ॥
उत्सवे स्पर्शदोषाभावः
विष्णोरुत्सवसेवार्थमागतास्तत्र ये जनाः।
ते तु विपप्रसमास्सर्वे प्रतिलोमादयोऽपि च ॥ 26.109 ॥
तस्मादस्पृश्यसंस्पर्शो न दोषाय प्रकल्पते।
उत्सवे देवदेवस्य यस्स्नाति स्पर्शहेतुना ॥ 26.110 ॥
स्वर्गस्थाः पितरस्तस्य पतन्ति नरके ध्रुवम्।
उत्सवान्तोपचारहीने
उत्सवान्तेऽर्चनाहीने तथा हीने हविष्यपि ॥ 26.111 ॥
हुत्वा तं वैष्णवं मन्त्रं द्विगुणञ्च समर्चयेत्।
द्विगुणञ्च हविर्दद्यात् ‘क्षमस्वे’ ति प्रणम्यच ॥ 26.112 ॥
प्रायश्चित्तावसाने तु पूर्ववच्छेषमाचरेत्।
उत्सवे कालतिक्रमे
कालातीते तु जुहुयाच्छत ब्राह्मञ्च वैष्णवम् ॥ 26.113 ॥
मिन्दाहुती च विच्छिन्नं विष्णुसूक्तं यजेत्तथा।
अभिमतकालः
प्रातरुत्सवमारब्धं मध्याह्रे तु समाप्यताम् ॥ 26.114 ॥
सायं सायार्चनादूर्ध्व यामादर्वाकृ समाप्यताम्।
आसायं कर्मणः प्रातराप्रतास्सायमेव वा ॥ 26.115 ॥
गौणे न्यूने तु गौणन्तु प्रायश्चित्तं समाचरेत्।
(1)मुख्ये न्यूने तथा मुख्यमिति पूर्वजशासनम् (1.) कुण्डलितं ख कोश सव.
॥ 26.116 ॥
अन्नबलौ पतिते पतितेऽन्नबलौ वाऽपि तथाऽभ्यर्च्य बलौ पुनः।
सम्यगभ्यर्च्य देवेशं हविश्चैव निवेद्य च ॥ 26.117 ॥
बलिरक्षकमभ्यर्च्य हेमञ्च जुहुयाद्द्वयोः।
विधिना बलिमाराध्य पुनरन्यं समुद्धरेत् ॥ 26.118 ॥
पतित बिम्बे
भूमौ निपतिते बिम्बे शीघ्रमुध्दृत्य तत्पुनः।
संस्नाप्य शुद्धतोयेन नमस्कृत्यसमर्च्य च ॥ 26.119 ॥
संस्तूय विष्णुसूक्तेन सूक्तेनैकाक्षरादिना।
चतुर्विशतिभिर्देवं कलशैरभिषिच्य च ॥ 26.120 ॥
समभ्यर्च्य निवेद्यैव वैष्णवं जुहुयाच्छतम्।
विष्णोर्नुकादिभिः स्तुत्वा क्रमादुत्सवमाचरेत् ॥ 26.121 ॥
भूमौ निपतिते बिम्बे वीशशान्तानपायिनाम्।
संस्नाप्य तत्तन्मन्त्रैश्च तत्तन्मूर्तिभिरेव वा ॥ 26.122 ॥
वैष्णवैर्विष्णुसूक्तेन कृत्वा तद्दोषशान्तये।
अर्चयेत्तञ्च देवेशमुत्सवञ्च समाचरेत्) ॥ 26.123 ॥
पीठे वियोजिते
यानान्निपतिते बिम्बे पीठे बिम्बाद्वियोजिते।
भिन्नं पीठं प्रभां छत्रमायुधाभरणादिकम् ॥ 26.124 ॥
आलक्ष्य तद्विम्बगतां शक्तिं कुम्भे निवेश्य च।
भिन्नन् च्युतांश्च संयोज्य बिम्बशुद्धिं समाचरेत् ॥ 26.125 ॥
वास्तुहोमञ्च हुत्वा तु स्नपनञ्च समाचरेत्।
मह्मशान्तिञ्च हुत्वा तु प्रतिष्ठां पुनराचरेत् ॥ 26.126 ॥
(समभ्यर्च्य निवेद्यैव पुनरुत्सवमाचरेत्)
पतनादङ्गहीने
पतनादंङ्गहीने चेध्द्रुवे शक्तिं निवेश्य च ॥ 26.127 ॥
जीर्णबेरपरित्यागविधिं कृत्वा (1)विसृज्य च।
पुनर्बि?म्बञ्च कृत्वा तु प्रतिष्ठाप्य यथाविधि (1.) विचक्षणः आ. ॥ 26.128 ॥
उत्सवं पुनरारभ्य कारयेदिति शासनम्।
अथोत्सवस्य शेषन्तु कौतुकेनार्चयाऽथवा ॥ 26.129 ॥
आचरेदुत्सवं बिम्बं कारयेदिति केचन।
चक्रवीशामितादीनामेवमेव समाचरेत् ॥ 26.130 ॥
सहस्रकृत्वो जुहुया(2) दुक्तमन्त्रैश्च मूर्तिभिः।
यानानां पतने
(3)यानानां पतने चैव गारुडं होममाचरेत् (3.) रङ्गादि ख. रथादीनाञ्च पतने. ई.
॥ 26.131 ॥
रथरङ्गादिपतने ब्राह्मं वैष्णवसंयुतम्।
हुत्वा तु कारयेत्तानि पूर्ववद्धिधिकोविदः ॥ 26.132 ॥
गायकादीनां पतनादौ
गातुर्नर्तुश्र्व पतने श्रीदेव्या होममाचरेत्।
ऋत्विगाचार्यसंङ्क्षोभे (1)भर्त्सने शपने तथा (1.) पतने व्याधितेऽपि वा। बार्हस्पत्यं चतुर्भिः ध्रुवानां पतने भवेत्। (?) कुण्डलितः ख कोश एव.॥ 26.133 ॥
केनचिद्धनने तेषां चतुर्दशभिरार्षकैः।
षड्भिश्र्व वैष्णवैर्हुत्वा पुनः कर्म प्रवर्तयेत् ॥ 26.134 ॥
केनचिद्धनने तेषां चतुर्दशभिरार्षकैः।
षड्भिश्र्व वैष्णवैर्हुत्वा पुनः कर्म प्रवर्तयेत् ॥ 26.134 ॥
दीपपात्रादीनां पतनादौ
(दीपानां पतने चैव आग्नेयं वैष्णवं यजेत्।
बार्हस्पत्यैश्र्वतुर्भिश्र्व धूपादिपतने यजेत्) ॥ 26.135 ॥
पतने चामरादीनां दहने येन केनचित्।
तद्धारकाणां पतने व्यजनानां तथैव च ॥ 26.136 ॥
मायासंह्लादिनी चैव किष्किन्धं सुन्दरं तथा।
अभ्यर्च्य वायुदैवत्यं वैष्णवं होममाचरेत् ॥ 26.137 ॥
ध्वजस्याग्निस्पर्शादौ
ध्वजपातेऽग्निदाहे च (2)यजेद्ध्वाजञ्च वैष्णवम्।
कलहे ब्राहृमणादीनां भक्तनां ब्राह्मवैष्णवो (2.) ध्वजमन्त्रं सवैष्णवं. ई. ॥ 26.138 ॥
वादित्रवादकादीनां पतने नन्दीशमर्चयेत्।
ब्राह्मञ्च वैष्णवं सौरं हुत्वा कर्म समारभेत् ॥ 26.139 ॥
कलहे पदार्थिनाम्
कलहे (3)रुधिरस्त्रावे चान्योत्पातान्मृते जने।
तत्सर्वञ्चैव चान्योत्पातान्मृते जने।
तत्सर्वञ्चैव संशोध्य वास्तुहोमावासनके (3.) ब्राह्मणादीना भक्तानां ब्राह्मवैष्णवौ।
वादित्रवादकादीनां पाते नन्दीशमर्चयेत्। ब्राह्मच्च वैष्णवं सौरं हुत्वा कर्म समाचरेत्।
कालहे रुधिरस्त्रावे वह्रिना दीहिते जने। तत्सर्व मित्यादि. ख. ॥ 26.140 ॥
जुहुयाद्विष्णुसूञ्च वैष्णवं पौरुषं क्रमात्।
परिषद्गणमन्त्रैश्च देवदेवमनुस्?मरन् ॥ 26.141 ॥
उकवानामुत्सवाङ्गानां मन्त्रैरपि च हूयते।
कातुकबन्धनहीने
पूर्वरात्रे च तीर्थार्थे, बध्नीयात्कौतुकं तथा ॥ 26.142 ॥
प्रमादात्तु न बधीयात्प्रातः प्रतिसरं तथा।
वारुणं वैष्णवं मन्त्रं हुत्वा तद्दिनदैवतम् ॥ 26.143 ॥
कृत्वा प्रतिसराबन्धं कारयेत्तु पुनस्तथा।
शयने हीने
शयने तत्र हीने तु देव्योर्होमं समाचरेत् ॥ 26.144 ॥
उत्सवञ्चौत्सवाभावे कौतुके (1)कारयेद्यदि।
प्रातस्सन्ध्यार्चनान्ते तु सद्यः कौतुकबन्धनम् (1.) कारयेद्बुधः ई. ॥ 26.145 ॥
कृत्वोत्सवञ्च तीर्थञ्च सद्य एव समाचरेत्।
विषुवादौ विशेषः
विषुवे चायने चापि ग्रहणे सोमसूर्ययोः ॥ 26.146 ॥
करोत्सवभृथं चेत्तत्सद्यः कौतुकबन्धनम्।
कृत्वोत्सवञ्च तीर्थञ्च (2)लत्काले सम्यगाचरेत् (2.) तत्काले सम्यगाचरेत्. आ.
॥ 26.147 ॥
(3.) कुण्डलितः ई कोशेषु नास्ति.
अतीते तीर्थकालः स्यात्) तु (वारुणं स्कन्दर्देवतम्।
विष्णुसूक्तं ततो हुत्वा तीर्थस्नानं समाचरेत् ॥ 26.148 ॥
मध्याह्रे तीर्थकालः स्यात्) पूर्वाहेण वा गुणान्विते।
(4)तीर्थान्तस्नपने हीने दिग्दैवत्यं सवैष्णवम् (4.) तीर्थे तु. ॥ 26.149 ॥
विष्णुसूक्तञ्च हुत्वा तु पुनः स्नपनमाचरेत्।
महाहविषि हीने च विष्णुसूक्तेन वैष्णवैः ॥ 26.150 ॥
सूक्तेन वैष्णवेनाऽपि प्राजापत्येन हूयते।
पुनरभ्यर्च्य देवेशं निवेद्यैव महाविः ॥ 26.151 ॥
संस्तूय विष्णुसूक्तेन पौरुषेण च वैष्णवैः।
“क्षमस्वे” ति च तैर्मन्त्रैर्दद्यात्पुष्णाणि पादयोः ॥ 26.152 ॥
उत्सवदीक्षाया माशोचाभावः
उत्सवार्थन्तु देवस्य प्रतिष्ठार्थमथापि वा।
(1)कृतेऽङ्कुरार्पणे पूर्व तत्तत्कर्मावसानतः (1.) अङ्कुरार्पणमारभ्य. ई. ॥ 26.153 ॥
नैवाऽशौचं गुरोर्विद्यात्सूतकं प्रेतकन्तु वा।
(2)वृतानमृतिवजां तत्तत्कर्मारम्भात्परं न हि (2.) वरणे. ई. ॥ 26.164 ॥
तत्तत्कर्मावसानान्तमिति पूर्वजशासनम्।
जात्युक्ताशौचभाजः स्युः क्षत्रियाद्याश्च सर्वशः ॥ 26.155 ॥
मन्त्रवद्वरणं तेषां नास्ति दीक्षा च नान्यतः।
शूद्रणामपि भक्तानां क्षत्रियाणं विशामपि ॥ 26.156 ॥
देवकार्याभियुक्तानां नास्त्येवाशौचलाघवम्।
अवताराणामुत्सवः
यदीच्छेदवताराणामर्चनं मुनिसत्तमाः ॥ 26.157 ॥
पूर्वेषामेव पञ्चानामुत्सवं कल्किनस्तथा।
चतुर्णामपि शेषाणामुत्सवं कारयेद्भुधः ॥ 26.158 ॥
(3)तेषामपि च वीशाङ्कध्वजमारोपयेदिति।
दीक्षाविशेषः उत्सवार्थन्तु देवस्य प्रतिष्ठाऽर्थमथापि वा (3.) कुण्डलितः ई कोशेषु न
दृश्यते. ॥ 26.159 ॥
राष्ट्रक्षोभमहोत्पात दुर्भिक्षभयपीडनैः।
एवं प्रकारैर्विघ्नश्चेदुत्सवस्य दिनस्य वा ॥
तद्दिनेशु व्यतीतेषु राजा राष्ट्रं विनश्यति।
तस्मात्सर्वप्रयत्नेन दिनेषूक्तेषु कारयेत् ॥
तद्दिनेष्वर्धरात्रे तु यदीच्छेदुत्सवं नृपः।
आचार्यस्यर्त्विजाञ्चापि क्षौरकर्म विधीयते ॥
अर्धरात्रेऽपि कार्य स्यादिति शातातपोऽब्रवीत्)।
देवकार्ये न दोषस्स्यादिति पूर्वजशासनम् ॥
देवोत्सवस्य मध्ये तु तत्तीर्थादूर्ध्वमेव वा।
देव्युत्सवे विशेषः
देव्युत्सवं विधानेन सम्यगेव समाचरेत् ॥ 26.160 ॥
(1)पूर्वं देवेशामभयचर्य पश्चाद्देव्यौ समर्चयेत्।
तेषां पृथक्पृथक्कुर्यादङ्कुरार्पणमुत्सवे (1.) ‘पूर्वं दैव्यौ समभ्यर्च्य ’ दिति अस्य श्र्लोकार्धस्य स्थाने दृश्यते. ई ॥ 26.161 ॥
पूर्वरात्रौ तु देवेशं समभ्यर्च्य विशेषतः।
सुवर्णादिमये पात्रे तण्डुलोपरि कौतुकम् ॥ 26.162 ॥
न्यस्यालङ्कारसंयुक्तं ग्राममालयमेव वा।
शिरसैव वहन्त्सम्यक्कारयित्वा प्रदक्षिणम् ॥ 26.133 ॥
सन्न्यस्य देवाभिमुखे पुण्याहान्तेऽभिमृश्य च।
बद्ध्वा प्रतिसरं पश्याच्छयने शाययेत्तथा ॥ 26.164 ॥
प्रातर्देवं समर्भ्य संस्थाप्याऽस्थानमण्डपे।
स्त्र्नापयित्वा समभ्यर्च्य प्रभूतञ्च निवेद्य च ॥ 26.165 ॥
अलङ्कृत्य च वस्त्राद्यैः भूषणैर्विविधैरपि।
अन्यमुत्सवकालोक्तमुत्सवं सम्यगाचरेत् ॥ 26.166 ॥
पुनश्च स्नापयित्वा तु समभ्यर्च्यं निवेदयेत्।
अनन्तरदिने तस्मादलङ्कारप्रभामपि ॥ 26.167 ॥
योजयित्वोत्सवं कृत्वा स्नापयित्वा तु पूर्ववत्।
समभ्यर्च्य (2)निवेद्यैव जीवस्थाने तु सन्न्यसेत् (2.) तु तं देवं. ई. ॥ 26.168 ॥
(3.) परम्. ई.
अवतारक्रमात्तेषां चतुर्णामुत्सवं चरेत्।
यत्रालयेऽवताराणां क्रियते नित्यमर्चनम् ॥ 26.169 ॥
अवताराक्रमात्तत्र कुर्या(4) दुत्सवमत्वरः।
तदवस्था(5) क्रमादेवमचर्येब्दहुविग्रहैः (4.) अर्चनं. ख. (5.) क्रमादेकं.ख.
॥ 26.170 ॥
उत्सवं लौकिकानाञ्च कर्तुं भक्त्या यदीच्छति।
एवमेवाचरेत्सर्वमङ्कुरार्पणकादिकम् ॥ 26.171 ॥
लौकिकेष्ववतारेषु क्रियमाणेऽपि चोत्सवे।
नित्यञ्चैवौत्सवे बिम्बे सायं प्रातस्समाचरेत् ॥ 26.172 ॥
अन्यदेवोत्सवनेषेधः
उत्सवे क्रियमाणे तु देवदेवानां न कुर्यादुत्सवं पुनः ॥ 26.173 ॥
अन्यवास्तुगतानाञ्च न दोषश्चोत्सवे(1) भवेत्।
अरोपिते ध्वजे विष्णेरुसवार्थन्तु तत्र वै (1.) उत्सवः ई. ॥ 26.174 ॥
अर्वाक्तदवसानात्तु प्रतिष्ठां नाचरेब्दुधः।
तदालयेत्सवाङ्गांश्च स्थापयेदिति केवच (?) ॥ 26.175 ॥
ग्रामे उत्सवान्तरनिषेधः
ग्रामे तत्र मनुष्याणामुत्सवं (2)न समाचरेत् (2.) न च कारयेत्. ख. ॥ 26.176 ॥
अन्यदेवोत्सवे विष्णोरुत्सवो नैव दोषदः।
तस्याग्नेयोत्सवेनैव (?) (3)दूषितस्सौम्य उत्सवः दोषदः ई. ॥ 26.177 ॥
ग्रामवासिनामन्यत्रगमननिषेधः
आरोपिते ध्वजे विष्णोरुत्सवार्थ विशेषतः।
उत्सवावभृथात्पूर्वं सर्वे तद्ग्रामवासिनः ॥ 26.178 ॥
अन्यत्र यदि गच्छन्ति भवनित व्याधयो ध्रुवम्।
(4)भवन्ति नैव तद्ग्रामवास्तुबाह्ये निवासिनाम् (4.) तद्ग्रामे वास्तुबाहृये तु वासिनां नैव देषदः ई. ॥ 26.179 ॥
(5)स्वप्रधानं यदि भवेदुत्सवस्य विधिक्रमे।
विशेषमत्र वक्ष्यामि शृगुध्वं मुनिसत्तमाः (5.) कुण्डलितः ख कोश एव. ॥ 26.180 ॥
यागाशालामलङ्कुर्यान्मध्ये वेदिञ्च कारयेत्।
एकं कुम्भञ्च सन्न्यस्य तत्पूर्वे गरुडं तथा ॥ 26.181 ॥
दक्षिणे वाहनञ्चपि (?) पश्चिमे चक्रमेव च।
उत्तरे विष्वक्सेनञ्च कल्पयित्वा विधानतः ॥ 26.182 ॥
कुम्भे तथैव देव्यौ च समावाह्य समर्च्य च।
परिवारपीठे तद्देवान् समभ्यर्चेद्यथाविधि ॥ 26.183 ॥

एवमेव विधाने सायं प्रातदिंने दिने।
कुम्भवेद्यान्तु तत् प्राच्यां तत्तदग्निं प्रकल्पयेत् ॥ 26.184 ॥
एष एव विशेषः स्यादन्यत्सर्वं खिलोक्तवत्,।
इत्योर्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहिताथां क्रियाधिकारे महोत्सवप्रा?यश्चित्तविधिर्नाम षड्विंशोऽध्यायः