प्रथमोऽध्यायः
ॐ
क्रियाधिकारः
प्रथमोऽध्यायः
नारायणः पिता यस्य यस्य माता हरिप्रिया।
भृग्वादिमुनयः शिष्यास्तस्मै विखनसे नमः ॥ 1.1 ॥
ऋषय ऊचुः
ऋषिप्रश्नोत्तरम्
आश्रमे सम्यगासीनमृषिं सर्वतितोद्यतम्।
ऋषयोऽभ्यागतास्सर्वे प्रणिपत्येदमब्रुवन् ॥ 1.2 ॥
भगवन् केन मार्गेण कं देवं पूजयन्ति वै।
आचक्ष्व सन्तो ब्रह्मर्षे सर्वमेतत्सविस्तरम् ॥ 1.3 ॥
भृगुरुवाच
युष्माभिः परिपृष्टं यत्तत्सर्वभृषिसत्तमाः।
वक्ष्यामि सावधानेन शृणुध्वं मत्प्रबोधितम् ॥ 1.4 ॥
हृदिस्थितिगतं पीठं चतुरश्रं हिरण्मयम्।
नानामणिगणज्वालादुष्प्रेक्ष्यं शुभमुज्ज्वलम् ॥ 1.5 ॥
तस्य मध्यगतं ध्यायेन्नारायणमनामयम्।
शुद्धस्फटिकसङ्काशं शङ्खचक्रधरं परम् ॥ 1.6 ॥
आसनाद्युपचाराणि मनसा तस्य भावयेत्।
एषा तु मानसी पूजा बेरपूजा तु वक्ष्यते ॥ 1.7 ॥
उक्तप्रमाणप्रतिमां हाटकादिविधिं(1) पराम्।
प्रतिष्ठाप्यार्चयेत्सा तु बेरपूजेति चोदिता(2) (1.) मर्यी आ. (2.) अग्निहोत्रादिहोमेषु सूत्रोक्तेन विधानतः-इत्यधिकं दृश्यते ई. ॥ 1.8 ॥
ध्यात्वाऽग्निमण्डलं तस्य ध्यायेन्मध्ये प्रभां शुभाम्।
प्रभामध्यगतं ध्यायेदासीनं वा जनार्दनम् ॥ 1.9 ॥
तप्तहाटकसङ्काशं चतुश्श्रृङ्गं द्विशीर्षकम्।
सप्तहस्तं त्रिचरणं दुष्प्रेक्ष्यं सप्तजिह्वकम् ॥ 1.10 ॥
स्रुक्स्रुवौ चाक्षमालां च शक्तिं दक्षिणपाणिषु।
चामरं व्यजनं चैव घृतपात्रं च वामतः ॥ 1.11 ॥
ध्यात्वा यथोक्तहविषा यजेत्तद्धोमपूजनम्।
यथोपयोगशक्यत्वात्कर्तं पुष्पादिपूजनम् ॥ 1.12 ॥
चक्षुषः प्रीतिकरणान्मनसो हृदयस्य च।
(3)प्रीत्या सञ्जायते भक्तिर्भक्तस्य सुलभो हरिः (3.) प्रत्यहं इ. ॥ 1.13 ॥
तस्मातत्त्रयाणामेतेषां बेरपूजा विशिष्यते।
बेरपूजाद्वैविध्यम्
गृहार्चा चाऽलयार्चेति बेरपूजा च सा द्विधा ॥ 1.14 ॥
बल्युत्सवादिभिर्दिव्यैः(4) पूर्णत्वात्सर्वविग्रहैः।
प्रमीते यजमानेऽपि त्वविच्छिन्नप्रवर्तनात् (4.) विम्बैः ई. ॥ 1.15 ॥
साधारणत्वात्सर्वेषां तद्ग्रामादिषु वासिनाम्।
मुख्यमाह पुरा ब्रह्मा बेरपूजनमालये ॥ 1.16 ॥
अलयार्चाद्वैविध्यम्
आलयार्चाविधिस्सोऽपि द्विधा विष्णोः प्रकीर्तितः।
वैखानसः पाञ्चरात्रो वैदिकस्तान्त्रिः क्रमात् ॥ 1.17 ॥
विधिस्तु वेदमूलश्च दीक्षायुक्तस्तु तान्त्रिकः।
केवलामुष्मिकफलो वेदवैदिकवर्धनः ॥ 1.18 ॥
कारयेद्वैदिकेनैव ग्रामादिषु च वास्तुषु।
नदीतीरेऽद्रिशृङ्गे वा वने वाऽन्यत्र निर्जने ॥ 1.19 ॥
पूजयेत्तान्त्रिकेणैव ग्रामादौ न कदाचन।
अनुलोमनिवासेषु तान्त्रिकेणैव पूजयेत्। ॥ 1.20 ॥
व्रात्यान्तरालप्रभृतिप्रतिलोमनिवासने।
उभाभ्यां नार्चयेद्विष्षुमिति पूर्वजशासनम् ॥ 1.21 ॥
आचार्यलक्षणम्
एवं मनसि सञ्जाते यजमानो मुदान्वितः।
वैखानसेन सूत्रेण निषेकादिक्रियान्वितम् ॥ 1.22 ॥
विप्रं स्वाध्यायसंयुक्तं वेदतत्त्वार्थदर्शिनम्।
सौम्यं जितेन्द्रियं शुद्धं विष्णवर्चनपरायणम् ॥ 1.23 ॥
ऊहापोहविधानेन ध्वस्तसंशयमानसम्।
पत्न्यपत्ययुतं शान्तं स्नानशीलं च धार्मिकम् ॥ 1.24 ॥
आहूय देववत्पूज्य सर्वकार्योपदेशकम्।
आचार्य वरयित्वा तु तेनोक्तं सर्वमाचरेत्(1) (1.) इतः परं ‘कृत्वा स्वार्थं त्रिधैकांशं कुटुम्बार्थ विशेषतः। द्वाभ्यां इत्यधिकं. इ. कोशे दृश्यते’ तत्र प्रथमाध्यायस्य समाप्तिश्च ई. ॥ 1.25 ॥
अङ्कुरार्पणम्
तस्मात्तु दिवसात्पूर्वं नवमे वाऽथ सप्तमे।
पञ्चमेऽहनि वा कुर्यात्तृतीये वाङ्कुरार्पणम् ॥ 1.26 ॥
अथवा त्वरयायुक्तः कुर्यात्तत्सद्य एव वा।
अमावास्याव्यवहिते कुर्यात्सद्योऽङ्कुरार्पणम् ॥ 1.27 ॥
सङ्क्रमव्यवधानेऽपि सद्य एवेति ?केचन।
कर्मणां साधिवासानां सद्यश्चेदङ्कुरार्पणम् ॥ 1.28 ॥
आरम्भकालात्पूर्वं तु पूर्वां (1)निश्चित्य कारयेत्।
अथवा स्थापन कालात्पूर्वमेव त्वरान्वितः (1.) निश्येव इ. ॥ 1.29 ॥
कृत्वाऽक्षिमोचनं सद्यो जलादिष्वधिवास्य च।
अग्न्याघारादि कर्माणि कृत्वावाऽऽह्य च पूर्ववत् ॥ 1.30 ॥
पुण्याहं विधिवत्कृत्वा पूजयेदिति केचन।
बहुक्रियाणामेकाहे त्वेकमेवाङ्कुरार्पणम् ॥ 1.31 ॥
(एकाहेऽपि पृथक्कार्यं भिन्नकर्तृककर्मणाम्)
तदर्थं पालिकाः कुम्भाञ्छरावानपि चाऽहरेत्।
षोडश द्वादशाऽष्टौ च चतुरश्च पृथक्पृथक् ॥ 1.32 ॥
वर्णानां ब्राह्मणादीनां सर्वेषां चतुरोऽथवा।
नव वा पञ्च वैकं वा सद्यः कालाङ्कुरार्पणे ॥ 1.33 ॥
दिनसंख्याक्रमात्केचिद्वदन्ति मुनिसत्तमाः।
पूर्वोक्तलक्षणोपेतान्कल्पयित्वा यथाबलम् ॥ 1.34 ॥
यजमानगृहे चापि (2)चैशान्येष्वितरेषु वा।
अन्यस्मिन्वा शुचौ देशे (3)गृहे वा ग्रामकर्तृके (2.) चालयेषु ई. (3.) प्रपायां ई.
॥ 1.35 ॥
चतुर्दिशं चतुर्हस्तं गोमयेनोपलिप्य च।
प्रागन्तं चोतृतरान्तं च षट्सूत्राणि समर्पयेत् ॥ 1.36 ॥
उपपीठे पदं चैकं ब्रह्मपीठाय कल्पयेत्।
चर्यार्थं परितोऽष्टौ च पङ्क्त्यर्थ षोडशेतरे ॥ 1.37 ॥
तत्पदान्तर्गतं पङ्क्त्यां ब्रह्मपीठं प्रकल्पयेत्।
शेषादीनां तु पीठानि पङ्क्त्यामेव प्रकल्पयेत् ॥ 1.38 ॥
मरीचिः चङ्क्तिबाह्येऽपि तेषां पीठानि चोक्तवान्।
षडङ्गुलसमुत्सेधं षोडशाङ्गुलमायतम् ॥ 1.39 ॥
त्रिवेदिसहितं कुर्यात् षण्णां वीठं पृथ्?ाक्पृथक्।
यजमानगृहार्चायां स्थण्डिले वा तथैव च ॥ 1.40 ॥
देवदेवं समभ्यर्च्य सप्तविंशतिविग्रहैः(1)।
पादौ प्रक्षाल्य चाचम्य मध्ये ब्रह्माणमर्चयेत् (1.) पङ्क्तिमध्ये तथा पीठे ब्रह्माणमपिपूजयेत्। विनैव देवदेवेशं पूजयेदत्रिणोक्तवत्। इत्यधिकं, ई. ॥ 1.41 ॥
प्राग्द्वारादुत्तरे शेषं वक्रतुण्डन्तु दक्षिणे।
दक्षिणद्वारपूर्वे तु गरुडं च समर्चयेत् ॥ 1.42 ॥
सुदर्शनं पश्चिमे च ?विधिनैव समर्चयेत्।
षङ्क्तीशं पश्चिमद्वाराद्दक्षिणे च विधानतः ॥ 1.43 ॥
उत्तरे भूतभर्तारमर्चयित्वा यथाविधि।
पूर्वस्मिन्नुत्तरद्वारात्सोमं शान्तं समर्चयेत् ॥ 1.44 ॥
ऐन्द्रादि च तथैशान्तं जयाद्यप्सरसोऽर्चयेत्।
हविषा च समायुक्तं सर्वेषामुत्तमं पृथक् ॥ 1.45 ॥
ब्रह्मादीनां तु षण्णां वै मध्यमं तत्प्रकीर्तितम्।
ब्रहृमणश्च तु शेषाणां बलिरेवाधमं भवेत् ॥ 1.46 ॥
(ब्रह्मा सोमश्च विघ्नेशः षङ्क्तीशश्शान्तसोमकौ।
षडेते मध्यमे प्रोक्ता देवा मध्यमपूजने ॥
वाह्येऽष्टाङ्गुलविस्तारे पीठे स्थण्डिल एव वा।
पूर्वोक्तमूर्तिभिर्मध्ये ब्रह्माणं प्राङ्मुखं यजेत् ॥
शोषादींश्च जयादींश्च पूर्वोक्ताभिश्च मूर्तिभिः।
संपूज्य विधिना पश्चान्निवेदनमथाऽचरेत् ॥
हविर्निवेदयेत्तेभ्यस्तदलाभे बलिं ददेत्।
अपनीय तु निर्माल्यं प्रोक्षणैः प्रोक्षयेत्ततः ॥)
मृद्धिर्वा सिकताभिर्वा पालिकादीन्द्रपूरयेत्।
तेषां मध्ये कुशैर्वापि वेष्टयेत्तन्तुनाऽथवा ॥ 1.47 ॥
प्राङ्मुखः प्रयतो भूत्वा विन्यसेत्तु क्रमेण वै।
ब्रह्मणः परितः पङ्क्त्यां गायत्रीं वैष्णवीं जपन् ॥ 1.48 ॥
चिन्तयेन्मेदिनीं देवीं तां सर्वेषु समर्चयेत्।
(ईशानादिषु कोणेषु पालिकास्थापयेद्बुधः।
द्वारदक्षिणपार्श्वेषु छिद्रकुंभांश्च विन्यसेत् ॥
द्वाराणां वामपार्श्वेषु शरावानथ विन्यसेत्।
प्रधानाभिमुखद्वारं तद्वशात्परिकल्पयेत् ॥
चरस्थिरद्विदेहेषु पालिकादीन् यथाक्रमम्।
मेषादिराशिवशतः स्?थापयेदिति केचन ॥
पालिकादिषु पात्रेषु मेदिनीभभिपूजयेत्।
पुण्याहं स्वस्तिमृद्धिं च वाचयित्वा यथाक्रमम् ॥
प्रोक्षणैः प्रोक्षयेदेष पुण्याहो दैविकः, स्मृतः)।
सौवर्णे राजते पात्रे ताम्रे(1) कांस्यमये तथा (1.) कांस्येऽथ मृण्मये, ई. ॥ 1.49 ॥
उद्धृत्य तोयमग्नानि क्षीरप्रक्षालितानि वै।
बीजानि पूरयित्वा तु सोमं तत्र समर्चयेत् ॥ 1.50 ॥
तत्काले तूर्यघोषैश्च घोषयित्वा समाहितः।
परिधायाहतं वस्त्रं सोत्तरीयाङ्गुलीयकः ॥ 1.51 ॥
आचार्यो यजमानो वा वापयेदङ्कुरान् शुभान्।
‘सोमं राजान’ मित्युक्त्वा विष्णुसूक्तं च सञ्जपन् ॥ 1.52 ॥
स्त्रीशूद्रौ कारयेतां चेत्ताभ्यां वापं न कारयेत्।
वारुणं मन्त्रमुच्चार्य जलसेकं च कारयेत् ॥ 1.53 ॥
नववस्त्रेण सञ्छाद्य पुण्याहं वाचयेत्ततः।
जलेन सेचयोन्नित्यं दीपं च परिरक्षयेत् ॥ 1.54 ॥
यथाङ्कुरस्सुसंपंन्नस्तथा यत्नेन रक्षयेत्।
श्यामलाश्च तथा रक्ता ये च तिर्यग्गता अपि ॥ 1.55 ॥
अङ्कुराश्चाप्ररूढाश्च वर्जनीयाः प्रयत्नतः।
श्यामेषु द्रव्यनाशः स्याद्रक्तेषु कलहो भवेत् ॥ 1.56 ॥
तिर्यग्गर्तेषु रोगस्स्यादप्ररूढेषु वै मृतिः।
शुभं पीतेषु शुक्लेषु ऋजूर्ध्वगतिरोहिषु ॥ 1.57 ॥
कर्तुः कारयितुश्चापि भवत्येव न संशयः।
एवमेव क्रमेणैव मङ्गलायाङ्कुरार्पणम् ॥ 1.58 ॥
पञ्चमेऽहन्ययुक्ते तु सद्यः कर्ता त्वरान्वितः।
तृतीयेऽहनि वा तद्वदङ्कुरानर्पयेद्बुः ॥ 1.59 ॥
अशक्तस्तण्ड्डुलैश्शुद्धैः सद्यश्चैव शुभाङ्कुरैः।
पालिकादीन्प्रपूर्यैव पञ्चभिर्वाऽथ वर्णकैः ॥ 1.60 ॥
अलङ्कत्य च पद्माद्यैः पुष्पैर्वाऽऽपूर्य विन्यसेत्।
अङ्कुरोक्तिक्रियास्सर्वास्तैस्तैरेव समाचरेत् ॥ 1.61 ॥
अङ्कुराणां तु सर्वेषां चन्द्रः प्रोक्तोऽधिदैवतम्।
नैव प्रीणाति भगवानङ्कुरार्पणमह्रि चेत् ॥ 1.62 ॥
तस्मात्सर्वप्रयत्नेन रात्रावेवाङ्कुरार्पणम् ॥ 1.63 ॥
(अर्पयेत्तण्डुलान् शुद्धान् सद्यः कालाङ्कुरार्पणे।
गृह्णीयात्पालिकास्तत्र पञ्च सप्त नवापि वा ॥
ब्रह्माणोऽभिमुखे पङ्क्तौ परितो दिक्षु देवताः।
तत्तद्दिगीशानभ्यर्च्य तत्तन्मन्त्रेण चार्पयेत् ॥
एष एव विशेषः स्यादन्यत्सर्वं खिलोक्तवत्।)
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे अग्निध्यानाऽचार्यत्नक्षणाङ्कुरार्पणविधिर्नाम