४३ सूर्यकल्पः

अथ त्रिचत्वारिंशोऽध्यायः

सूर्यकल्पः

सूर्यस्य स्थापनं वक्ष्ये इहामुत्र फलप्रदम् ।
पूर्वोक्तेन विधानेन कर्षणादीन् समाचरेत् ॥ १ ॥
विज्ञाय वास्तुशास्त्रोक्तं सूर्यसंस्थापनोचितम् ।
विमानं विधिर्वत्कुर्याद्यथावित्तानुसारतः ॥ २ ॥
प्राङ्मुखं स्थापयन्मुख्यमथवा दक्षिणामुखम् ।
न कदापि रविं कुर्याद्दक्षिणोत्तरदिङ्मुखम् ॥ ३ ॥

[[५३३]]

सूर्यबिम्बलक्षणं

नवार्धतालमानेन कारयेत्प्रतिमां रवेः ।
देवीभ्याञ्च समायुक्तं द्विपादं द्विभुजं विभुम् ॥ ४ ॥
हस्तौ पद्मधरौ कुर्यात्स्थितं पद्मासने तथा ।
कारयेन्मण्डलं मूर्ध्नि प्रवालसदृशप्रभम् ॥ ५ ॥
सूर्यपरिवारः

पूजकौ च ॠषी चोभौ शैषिकं वाहनं तथा ।
भूतस्थाने च भूतेशं कृत्वा स्थापनमाचरेत् ॥ ६ ॥
ग्रामस्य यजमानस्य चानुकूले दिने शुभे ।
प्रतिष्ठाप्रयोगः

अङ्कुरानर्पयित्वा तु पूर्वोक्तविधिना ततः ॥ ७ ॥
प्रतिष्ठोक्तदिनात्पूर्वं सप्तमेऽह्न्यक्षिमोचनम् ।
अङ्गहोमञ्च कृत्वा ‘उदुत्यं चित्र’ मित्यपि ॥ ८ ॥
द्वाभ्यां तदुक्तमन्त्राभ्यां कारयेदक्षिमोचनम् ।
अधिवासादिकं सर्वं विष्णोरिव समाचरेत् ॥ ९ ॥
आग्नेय्यां प्रमुखे वाथ यज्ञशालां प्रकल्पयेत् ।
तत्र चाहवनीयादींश्चतुरोऽग्नीन् प्रकल्पयेत् ॥ १० ॥
चतुर्ष्वपि च कोणेषु कुर्यादौपासनानलान् ।
मध्ये शयनवेदिञ्च यथाविधि प्रकल्पयेत् ॥ ११ ॥
पूर्वेद्युरेव सायाह्ने भूमियज्ञं यजेत्क्रमात् ।
कुम्भमादाय विधिवत् कुम्भपूजनमाचरेत् ॥ १२ ॥
त्रिचत्वारिंशोऽध्यायः

[[५३४]]

निक्षिपेद्वर्णचिह्नानि तथाऽष्टौ मङ्गलानि च ।
निक्षिपेन्नव रत्नानि कूर्चान् कुम्भजले ततः ॥ १३ ॥
वेष्टयेद्वस्त्रयुग्मेन पल्लवैरपि भूषयेत् ।
आचार्यः सुप्रसन्नात्मा त्रयीमयमनामयम् ॥ १४ ॥
विश्वबोधात्मकं ध्यात्वा भानुमावाहयेज्जले ।
अधिवासैस्सुसंस्कृत्य बेरं तद्भास्करस्य वै ॥ १५ ॥
संस्नाप्य सप्तकलशैः वासोभिः परिधाय च ।
रक्तवर्णैः शालिधान्यास्तृते शयनमण्डपे ॥ १६ ॥
क्षिप्त्वा तु निम्बफलकाम् अण्डजादीनि पञ्च वै ।
शयनानि समास्तीर्य संस्थाप्य शयने रविम् ॥ १७ ॥
बध्नीयात्कौतुकं पश्चाच्छाययेद्विधिना प्रभुम् ।
रक्तवस्त्रेण चाच्छाद्य पश्चात् कर्म समाचरेत् ॥ १८ ॥
आचम्य होता शुद्धात्मा कूर्चहस्तस्समाहितः ।
अन्वाहार्यस्य पुरतः स्थित्वा हौत्रं समुच्चरेत् ॥ १९ ॥
अध्वर्युरावाह्य देवं परिवारैस्सहैव तु ।
जुष्टाकारेण निर्वाप्य जुहुयादाहुतीः क्रमात् ॥ २० ॥
जुहुयात् व्याहृतीः पश्चात् गायत्र्या भास्करस्य च ।
सहस्राहुतिः

‘भास्करायाथ सूर्याय मार्ताण्डाय विवस्वते ॥ २१ ॥
त्रिलोकमण्डनायाथ तमोघ्नाय विवस्वते ।
सर्वात्मने भगवते त्रिधाम्ने चण्डरोचिषे ॥ २२ ॥

[[५३५]]

त्रिगुणेशाय रुचये ज्योतिष्मत’ इतीरयन् ।
एतैस्सहस्रशो हुत्वा परिस्तीर्य च वै पुनः ॥ २३ ॥
होममन्त्राः

‘मित्रस्य चर्षणी’ ति त्रीन् त्रीन् मन्त्रा ‘नुद्वयादि’ कान् ।
‘यच्चिद्धी’ति च मनून् पञ्च जुहुयात्क्रमविद्गुरुः ॥ २४ ॥
हुत्वा चैवं प्रधानाग्नौ सर्वेष्वग्निषु वै पृथक् ।
‘मित्रस्य चर्षणी’ त्यादीन् षण्मन्त्रान् जुहुयात्तथा ॥ २५ ॥
अर्कापामार्गपालाशसमिद्भिश्च ततः परम् ।
जुहुयात्पौरुषं सूक्तं सर्वेष्वग्निषु वैष्णवम् ॥ २६ ॥
जुहुयाल्लोकपालानां मन्त्रैस्सर्वेषु चाग्निषु ।
मिन्दाहुती तथा हुत्वोपरिष्टात्तन्त्रमाचरेत् ॥ २७ ॥
सर्वदेवार्चनम्

आवाहयेत्तत्र देवान् सर्वदेवार्चनाविधौ ।
भास्करं मध्यमेऽभ्यर्च्य दक्षिणे च सुवर्चलाम् ॥ २८ ॥
वामे वै रेणुकां देवीं पार्श्वयोस्तु समर्चयेत् ।
स्थूलदण्डं शङ्खपालं पूजकौ दक्षवामयोः ॥ २९ ॥
द्वारदेवांश्च पूर्वोक्तान् सन्ध्ये द्वे द्वारपालिके ।
गायत्रीञ्चैव सावित्रीं द्वितीये द्वारि चार्चयेत् ॥ ३० ॥
अरुणञ्चानुजस्थाने (?) तपनं शैषिकालये ।
न्यक्षादीन् लोकपालांश्च हरेरिव समर्चयेत् ॥ ३१ ॥
तृतीयेऽभ्यन्तरद्वारे वसूनष्टौ समर्चयेत् ।
शक्राग्न्योर्मध्यमे स्थाने आदित्यान् पचने तथा ॥ ३२ ॥
त्रिचत्वारिंशोऽध्यायः

[[५३६]]

एकादश तथा रुद्रान् यमाग्न्योर्मध्यमेऽर्चयेत् ।
यमर्नैॠतयोर्मध्ये ग्रहान् नव समर्चयेत् ॥ ३३ ॥
नीलवारुणयोर्मध्ये पर्जन्यं श्याममर्चयेत् ।
वरुणानिलयोर्मध्ये नलिनीं सम्यगर्चयेत् ॥ ३४ ॥
कुबेरानिलयोर्मध्ये ध्रुवं सप्त ॠषींस्तथा ।
सोमशैषिकयोर्मध्ये अश्विनौ सम्प्रपूजयेत् ॥ ३५ ॥
तथेन्द्रेशानयोर्मध्ये पञ्च भूतानि चार्चयेत् ।
पृष्ठतश्चारुणस्यापि स्यन्दनाश्वान् समर्चयेत् ॥ ३६ ॥
भूतस्थाने तु भूतेशमेवं देवान्त्समर्चयेत् ।
वेदाध्ययनगानाद्यैः रात्रिशेषं नयेत्क्रमात् ॥ ३७ ॥
प्रतिष्ठा

प्रभाते तु विशुद्धात्मा यजमानुयुतो गुरुः ।
स्नात्वा स्नानविधानेन रत्नन्यासं समाचरेत् ॥ ३८ ॥
श्वभ्रे तत्रोत्तरे रौक्मप्रतिमां स्थापयेद्रवेः ।
मुहूर्ते समनुप्राप्ते स्थापकैस्सहितो गुरुः ॥ ३९ ॥
कुम्भं बिम्बं समादाय स्वस्तिसूक्तसमन्वितम् ।
देवागारं परित्यैव प्राणस्थानं प्रविश्य च ॥ ४० ॥
स्थापकैस्सहितो देवं देवीभ्यां स्थापयेत्प्रभुम् ।
कुम्भस्थां शक्तिमादाय बिम्बे चावाहयेद्गुरुः ॥ ४१ ॥
अनुक्तमत्र यत्सर्वं हरेरिव समाचरेत् ।
देवीभ्यां रहितं देवं केचिदिच्छन्ति स्थापितुम् ॥ ४२ ॥

[[५३७]]

नित्यार्चनाविधिः

अतः परं प्रवक्ष्यामि नित्यपूजाविधिं रवेः ।
स्नात्वा सम्यग्विशुद्धात्मा आदित्यं सम्प्रणम्य च ॥ ४३ ॥
‘उदुत्यं जातवेदे’ ति कुर्यात्स्थानप्रदक्षिणम् ।
द्वारपालान् नमस्कृत्य कवाटोद्घाटनं चरेत् ॥ ४४ ॥
ततोऽभ्यन्तरमाविश्य प्रणमेज्ज्योतिषां पतिम् ।
शुद्धमाधावमादाय समुत्पूय विनिक्षिपेत् ॥ ४५ ॥
सम्मार्ज्याभ्युक्ष्य तोयेन निर्माल्यं संव्यपोह्य च ।
‘तपनं सूर्यदासञ्च तथा लोकप्रवर्तकम् ॥ ४६ ॥
विघ्नहन्तार’ मित्युक्त्वा शैषिकन्तु प्रपूजयेत् ।
भास्करं सूर्यगायत्र्या स्नापयेद्गन्धवारिणा ॥ ४७ ॥
‘आया’त्विति समुच्चार्य पश्चादावाहनं चरेत् ।
‘एकाक्षरादि’ ना चैव दद्यात्पुष्पैरथाऽऽसनम् ॥ ४८ ॥
‘वितत्य बाण’ मित्युक्ता ‘त्वमग्ने रुद्र’ इत्यपि ।
स्वागतञ्चानुमानञ्च उपचारौ समर्पयेत् ॥ ४९ ॥
‘उद्वयं तमस’ इत्युक्ता पाद्यं दद्यात्ततः परम् ।
हस्ते दद्यादाचमनं ‘हिरण्यवर्णां’ समुच्चरन् ॥ ५० ॥
‘पवित्रन्त’ इति मन्त्रेण मूर्ध्नि पुष्पाणि निक्षिपेत् ।
‘अप्सरस्सु - इमे धूपा’ इति गन्धञ्च धूपकम् ॥ ५१ ॥
‘प्रवश्शुक्रा’ येति दीपमर्घ्यमाचमनं ततः ।
सर्वान् शेषोपचारांश्च विष्णोरिव समाचरेत् ॥ ५२ ॥
त्रिचत्वारिंशोऽध्यायः

[[५३८]]

चतुर्मूर्तिप्रकारः

‘आदित्यं भास्करं सूर्यं मार्ताण्डञ्चेत्यतः परम् ।
विवस्वन्त’ मिति प्रोक्ताः मूर्तयः पञ्च वै रवेः ॥ ५३ ॥
‘सुवर्चलामुषाञ्चेति श्यामलां सुप्रभा’ मिति ।
अर्चयेद्दक्षिणे देवीं सूर्यार्धाङ्गीं सुवर्चलाम् ॥ ५४ ॥
‘रेणुकां रक्तवर्णाञ्च तथा चैव रविप्रियाम् ।
श्वेतवस्त्रा’ मिति वदन् रेणुकां वामतोऽर्चयेत् ॥ ५५ ॥
‘स्थूलदण्डं - महानादं - प्रवालाभं शुचिं’ तथा ।
‘शङ्खपालं - शङ्खनिभं - कूर्चहस्तं - जटाधरम् ॥ ५६ ॥
स्थूलदण्डं - शङ्खपालं - दक्षिणोत्तरपार्श्वयोः ।
पूजकौ द्वौ समभ्यर्च्य द्वारे द्वारे हरेरिव ॥ ५७ ॥
धात्रादीन् षड् द्वारदेवान्

यथापूर्वं समर्चयेत् ।
‘प्राचीं - सन्ध्यां तथा रक्तां -

विश्वबोधाम् इतीरयन् ॥ ५८ ॥
प्राक्सन्ध्यां दक्षिणे चैव

तथा वामे ‘जगद्धिताम् ।
जगत्पूज्यां - धूम्रवर्णां -

तथा चैव ‘निशामुखीम्’ ॥ ५९ ॥
इत्युक्ता पूजयेद्वामे देवीं सन्ध्यान्तु पश्चिमाम् ।
‘गायत्रीं पावनीं जप्यां वेदगर्भा’ मुदीरयन् ॥ ६० ॥

[[५३९]]

‘गायत्रीं दक्षिणद्वारे ‘सावित्रीं वेदमातरम् ।
ब्रह्मपत्नीं जगत्प्रिया’ मिति द्वारे च वामके ॥ ६१ ॥
गायत्रीञ्चैव सावित्रीमर्चयेत्पालिके उभे ।
वामपार्श्वे मुनिं विद्वान् द्वितीयद्वारि चार्चयेत् ॥ ६२ ॥
सोपानमध्ये ‘सप्ताश्वान् - शुक्लवर्णान् - महाजवान् ।
तथा रत्नखुरां’ श्चेति सप्ताश्वान् सम्यगर्चयेत् ॥ ६३ ॥
‘अरुणं रश्मिहस्तञ्च काश्यपं सूर्यसारथिम्’ ।
अनुजस्थान आसीनं विश्रान्तं सम्यगर्चयेत् ॥ ६४ ॥
तपनं शैषिकस्थाने उक्तैर्मन्त्रैस्समर्चयेत् ।
न्यक्षादीन् लोकपालांश्च हरेरिव समर्चयेत् ॥ ६५ ॥
तृतीये द्वारपालांस्तु वसूनष्टौ समर्चयेत् ।
‘धरो ध्रुवश्व सोमश्च आपश्चेति तु दक्षिणे ॥ ६६ ॥
अनिलश्चानलश्चैव प्रत्युषश्च प्रभासकः’ ।
वामे चाभ्यर्चयेत्पश्चात् ‘भूतनाथं बहिर्मुखम् ॥ ६७ ॥
महोदरं महाभूत’मिति भूताधिपार्चनम् ।
रक्तपुष्पाणि पुण्यानि सङ्गृह्य रविमर्चयेत् ॥ ६८ ॥
जपापुष्पञ्च कनकं पुष्पं श्वेतं विवर्जयेत् ।
वर्जयेत्कृष्णपुष्पाणि गृह्णीयान्नीलमुत्पलम् ॥ ६९ ॥
गन्धद्रव्येषु सर्वेषु श्रेष्ठं स्याद्रक्तचन्दनम् ।
रवेः प्रियं ताम्रपात्रं तथा मृण्मयभाजनम् ॥ ७० ॥
यदपेक्ष्यमनुक्तञ्च हरेरिव समाचरेत् ।
जपेच्च सूर्यगायत्रीमर्चनान्ते समाहितः ॥ ७१ ॥
त्रिचत्वारिंशोऽध्यायः

[[५४०]]

स्नपनविधिः

अतः परं प्रवक्ष्यामि स्नपनं भास्करस्य वै ।
कुर्याद्द्वादशभिर्द्रव्यैरुपस्नानसमन्वितैः ॥ ७२ ॥
स्नपनं हरिदश्वस्य विष्णोरिव समीरितम् ।
श्वभ्रमध्ये प्रतिष्ठाप्य शालायां स्नपनालये ॥ ७३ ॥
तण्डुलैर्व्रीहिभिर्वापि

पङ्क्तिं कुर्याद्यथोचिताम् ।
पूर्वेक्तेन विधानेन

पङ्क्तेः कुर्यादलङ्क्रियाम् ॥ ७४ ॥
पञ्चगव्यादिकलशान् संसाध्याभ्यर्चयेत्क्रमात् ।
तपनं पूर्वमभ्यर्च्य पङ्क्तीशञ्च समर्चयेत् ॥ ७५ ॥
सर्वेषां कलशानाञ्च सावित्र्याऽऽहरणं चरेत् ।
हरेरुक्तैरेव मन्त्रैस्स्नापयेद्भास्करं बुधः ॥ ७६ ॥
निवेदयेद्यथालाभं शुद्धान्नानि हवींषि च ।
पानीयादींस्ततो दद्याद्दक्षिणाञ्च समन्त्रकम् ॥ ७७ ॥
निवेदितं यदन्नादि तोयं तत्पूजकैर्जनैः ।
सूर्योपासनसिद्धैश्च भोज्यं पूज्यं विशेषतः ॥ ७८ ॥
बल्युत्सवादिकं सर्वं विष्णोरिव समाचरेत् ।
यत्र सम्पूज्यते सूर्यस्सप्तविंशतिविग्रहैः ॥ ७९ ॥
देवालये तु तद्वास्तुवासिनां भगवान् रविः ।
आयुरारोग्यमैश्वरं सकलं सम्प्रयच्छति ॥ ८० ॥

[[५४१]]

(गायत्री भास्करस्यैवमुद्धृता परमर्षिभिः ।
आदित्याय समुच्चार्य ततो विद्मह इत्यपि ।
मार्ताण्डायेति चोक्ता तु धीमहीति ततः परम् ।
सूर्यः प्रचोदयादित्यं जपहोमादिषु स्मृता ।
सूर्यबीजमिदं प्रोक्तं पूजकानां हिताय वै ।
यान्तारूढन्तु जीवान्तं षष्ठस्वरविभूषितम् ।
चतुर्दशेन सम्भिन्नं बिन्दुमस्तकशोभितम् ।
सूर्यबीजमिति प्रोक्तं सर्वतन्त्रविशारदैः ।)

(गद्यम् ॥) यान्तो हकारः तेनारूढः हकारेणारूढ इत्यर्थः । जीवान्तः

जीवः प्राणः इह शास्त्रे सकार इत्यर्थः । षष्ठस्वरसमन्वितः षष्ठेन

स्वरेण संयुतः चतुर्दशेन सम्भिन्नः बिन्दुना शिरसि भूषितः एवं भूतं

सूर्यबीजमिति विजानीयात् ।
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे सूर्यकल्पो नाम त्रिचत्वारिंशोऽध्यायः ।*

*उत्सवविधिर्न दृश्यते

त्रिचत्वारिंशोऽध्यायः

[[५४२]]

अनुबन्धः

वाग्देवीकल्पः - वाग्देवीप्रशंसा

अथातस्सम्प्रवक्ष्यामि वाग्देव्याः स्थापनक्रमम् ।
यां देवतां विना देवयक्षगन्धर्वराक्षसाः ॥ १ ॥
असुराः किन्नरा नागा मनुष्याश्चान्यजन्तवः ।
सर्वे मूकीभवन्त्यथा यान्ति कष्टतमां दशाम् ॥ २ ॥
यस्याः प्रसादात्सर्वे ते लभन्ते कृतकृत्यताम् ।
तां देवीं वाचमखिलपुरुषार्थार्थिनो नराः ॥ ३ ॥
उपासीरन् भक्तियुक्ता हृदये देवतागृहे ।
स्थानं

स्थापयेदर्चनार्थन्तु वाग्देवीं दिव्यरूपिणीम् ॥ ४ ॥
दिव्याम्बरपरीताङ्गीं दिव्याभरणभूषिताम् ।
दिव्यमाल्याकल्पधरां जगद्व्यापारकारिणीम् ॥ ५ ॥
ग्राममध्ये पूर्वपश्चिमयोस्संस्थाप्य चार्चयेत् ।
दक्षिणे मध्यमं तद्वदुत्तरेऽधममुच्यते ॥ ६ ॥
विदिशासु शुभं विद्यादारामे पर्वते वने ।
नदीतटाकाब्धिसरस्तीरेषु स्थापनं स्मृतम् ॥ ७ ॥
कुम्भाकारं त्रिकूटं वा हस्तिपृष्ठमथापि वा ।
नन्द्यावर्तं वा विमानं पीठगोपुरसंयुतम् ॥ ८ ॥
प्राकारादिसमायुक्तं वाग्देव्याः कारयेद्बुधः ।
अथवा भगवद्गेहे मण्डपे कूट एव वा ॥ ९ ॥

[[५४३]]

कृत्वाऽऽश्रयं शुभं स्थानं

तत्र संस्थाप्य चार्चयेत् ।
कर्षणादीनि कर्माणि

हरेरिव समाचरेत् ॥ १० ॥
बिम्बलक्षणम्

पूर्वोक्तविधिना कुर्याद्वाग्देवीं शुभलक्षणाम् ।
शिल्पशास्त्रोक्तमार्गेण शिलया चोत्तमा भवेत् ॥ ११ ॥
ध्रुवानुरूपां वै कुर्यात् कौतुकप्रतिमामपि ।
नवतालक्रमेणैव चित्रं चित्रार्धमेव वा ॥ १२ ॥
जटामण्डलसंयुक्तां स्वर्णवर्णां चतुर्भुजाम् ।
ऊर्ध्वदक्षिणहस्तन्तु अक्षमालाधरं तथा ॥ १३ ॥
मुद्राधरमधोहस्तं वरदं वापि कारयेत् ।
ज्ञानमुद्रा मुनिहिता वरदा भोगदा स्मृता ॥ १४ ॥
ज्ञानमुद्रा च मुद्रासु सदंशं (?) हृदयोन्मुखम् ।
सैव मुद्रा पराग्भूता ज्ञेया व्याख्यानमुद्रिका ॥ १५ ॥
कमण्डलुधरञ्चोर्ध्ववामहस्तं तथाऽधरम् ।
हस्तञ्च पुस्तकधरं कारयेत्तु विचक्षणः ॥ १६ ॥
पद्मपीठोपरि पुनः कल्पयेद्ब्राह्ममासनम् ।
कुर्यात्प्रसारितं पादं दक्षिणं कुञ्चितं परम् ॥ १७ ॥
सर्वाभरणसंयुक्तां श्वेतवस्त्रविभूषिताम् ।
कक्ष्याबद्धस्तनयुगां छन्नवीरोपशोभिताम् ॥ १८ ॥
अनुबन्धः (वाग्देवीकल्पः)

[[५४४]]

कुर्यात्सकलसौन्दर्यसंस्कृतां बुद्धिदेवताम् ।
शुक्लवस्त्रधरां शुक्लां शुक्लमाल्यानुलेपनाम् ॥ १९ ॥
शुक्लपद्मासनां देवीं केचिदाहुर्मनीषिणः ।
परिवारः - लक्षणं

दक्षिणे सुन्दरीं कुर्याद्धस्ते व्यजनधारिणीम् ॥ २० ॥
रक्तवर्णां सुरूपाञ्च सर्वाभरणभूषिताम् ।
वामे च विजयां कुर्याद्व्याजिनीं श्यामलां शुभाम् ॥ २१ ॥
दक्षिणोत्तरयोः ब्रह्मस्थानकुड्यद्वयान्तरे ।
शुक्रञ्च शौनकञ्चैव पूजकौ तु समाचरेत् ॥ २२ ॥
शुक्रं कुर्याद्रक्तवर्णं शौनकं श्वेतमेव च ।
सौम्यभावसमायुक्तौ जटामकुटधारिणौ ॥ २३ ॥
अशक्तौ परिवारांस्तु चित्रवर्णैस्समालिखेत् ।
पृष्ठे श्रियमुमाञ्चैवारुन्धतीञ्च कुमुद्वतीम् ॥ २४ ॥
एवं कर्तुमशक्तश्चेद्ब्रह्मभागे यथाविधि ।
एकबेरविधानेन प्रतिष्ठां कारयेद्बुधः ॥ २५ ॥
दक्षिणे प्रथमे द्वारे विशोकां श्यामरूपिणीम् ।
वामे चोत्पलकां कुर्यात्तप्तहाटकसन्निभाम् ॥ २६ ॥
जयां कुर्याद्रक्तवर्णां द्वितीयद्वारदक्षिणे ।
वामे च विजयां कुर्याच्छ्यामलाङ्गीं सूरूपिणीम् ॥ २७ ॥
सोपानमध्ये हंसञ्च कारयेच्छिलयाऽथ वा ।
तस्योत्तरे समासीनां रक्तवर्णां सुरोत्तमाम् ॥ २८ ॥

[[५४५]]

कुर्यादाभरणैर्युक्तां सुरूपांशुकधारिणीम् ।
प्रथमावरणे त्वेवं द्वितीयावरणे तथा ॥ २९ ॥
मण्डपानि च शक्तश्चेद्गोपुरादींश्च कारयेत् ।
बहिर्द्वितीयावरणाद्भूतपीठञ्च कारयेत् ॥ ३० ॥
स्थापनप्रकारः

एवं कृत्वा यथाशक्ति पश्चात् स्थापनमाचरेत् ।
स्थापनादिवसात्पूर्वं नवमे वाथ सप्तमे ॥ ३१ ॥
पञ्चमेऽहनि वा कुर्यात्पूर्ववच्चाङ्कुरार्पणम् ।
उद्दिष्टवर्त्मना कुर्याद्यागशालां विशेषतः ॥ ३२ ॥
तोरणैर्दर्भमालाद्यैरलङ्कुर्यात्समन्ततः ।
तन्मध्ये शयनस्थानं चतुर्हस्तं चतुर्दिशम् ॥ ३३ ॥
ततश्चोत्तरतः पार्श्वे पौण्डरीकं समाचरेत् ।
प्राच्यां श्रामणकं कुर्याद्दक्षिणाग्निञ्च दक्षिणे ॥ ३४ ॥
प्रतीच्यां गार्हपत्यञ्च कुण्डानेवं प्रकल्पयेत् ।
कुर्यादग्निषु चाघारं कुम्भपूजनमारभेत् ॥ ३५ ॥
पञ्च रत्नानि चिह्नानि वर्णानां मङ्गलानि च ।
सौवार्णानि क्षिपेत्कुम्भे सावित्रीं हृदि चिन्तयन् ॥ ३६ ॥
ब्रह्मस्वरूपिणीं देवीं सकलीकृत्य योगतः ।
कुम्भे शक्तिं समावाह्य तत्सूक्तेनाभिमन्त्रयेत् ॥ ३७ ॥
नवबिम्बप्रतिष्ठां चेदधिवासादिकं चरेत् ।
श्वभ्रं कुर्यात्तथैशान्यां प्रपायां विधिनोक्तवत् ॥ ३८ ॥
अनुबन्धः (वाग्देवीकल्पः)

[[५४६]]

श्वभ्रमध्ये न्यसेद्बिम्बं कुम्भं दक्षिणतो न्यसेत् ।
सप्तभिः कलशैर्देवीं स्नापयेत्पूर्ववत्क्रमात् ॥ ३९ ॥
प्लोतादीन् पूर्ववत्कृत्वा अण्डजादीनि चास्तरेत् ।
तत्र देवीं समारोप्य न्यसेत्कुम्भञ्च पूर्ववत् ॥ ४० ॥
पुण्याहं वाचयित्वा तु बद्ध्वा प्रतिसरं ततः ।
तत्सूक्तेनैव तच्चितः शाययीत विचक्षणः ॥ ४१ ॥
…………………………………….. ।
‘सुवर्भुवर्भूरि’ ति न्यसेत्सह बीजाक्षरेण वै ॥ ४२ ॥
ध्रुवसूक्तञ्चैव वसोः ‘पवित्र’ मिति चोच्चरन् ।
‘यकारं’ पादयोर्मध्ये हृदि बीजाक्षरं न्यसेत् ॥ ४३ ॥
वेष्टयेत्प्रणवेनैव ततो बीजाक्षरं न्यसेत् ।
‘सुवर्भुवर्भूरि’ ति न्यसेन्मूर्ध्नि नाभौ च पादयोः ॥ ४४ ॥
कुम्भस्थां शक्तिमादाय कूर्चयुक्तेन वारिणा ।
‘आयात्वि’ ति समुच्चार्य पश्चादावाहनं चरेत् ॥ ४५ ॥
देवानन्यान् पारिषद्यान् क्रमादावाहयेत्ततः ।
पुण्याहं वाचयित्वा तु स्तुत्वा स्तुतिभिरात्मवान् ॥ ४६ ॥
अर्चयित्वा यथामार्गं हविर्भिस्सन्निवेदयेत् ।
ॠत्विग्भ्यो दक्षिणां दद्याद्यजमानो मुदान्वितः ॥ ४७ ॥
दद्यादन्नं ब्राह्मणेभ्यो वैष्णवाश्च सुपूजयेत् ।
नित्यार्चनम्

अथ नित्यार्चनं देव्याः श्रृणुध्वमृषिसत्तमाः ॥ ४८ ॥

[[५४७]]

स्नात्वा स्नानविधानेन अर्चकः प्रयतश्शुचिः ।
कृत्वा नित्यानि कर्माणि गच्छेद्देव्यालयं प्रति ॥ ४९ ॥
‘पावका न’ इति ध्यायन् कृत्वा सद्मप्रदक्षिणम् ।
‘निरस्तं रक्ष’ मन्त्रेण समादाय तु यन्त्रिकाम् ॥ ५० ॥
‘दिवं विवृणो’त्वित्युद्घाट्याभ्यन्तरं प्रविशेत्ततः ।
त्रिस्सम्प्रहार्य पाणिभ्यां ‘सरस्व’ तीति समुच्चरन् ॥ ५१ ॥
घण्टानादं पुरस्कृत्य पुष्पन्यासान्तमेव च ।
पूर्वोक्तैरेव मन्त्रैस्तु हरेरिव समाचरेत् ॥ ५२ ॥
सूक्तं सारस्वतं प्रोच्य पादे पुष्पाणि सन्न्यसेत् ।
निर्माल्यहारिणीं देवीं निर्माल्येन समर्चयेत् ॥ ५३ ॥
‘भूः प्रपद्ये’ इति वदन् देवीमानम्य चादरात् ।
‘ॠतं सत्यं’ ब्रुवन्मन्त्रं पीठादादाय मन्त्रवित् ॥ ५४ ॥
‘सरस्वती’ ति मन्त्रेण स्नानपीठे सुसन्न्यसेत् ।
ततः सम्बन्धकूर्चन्तु पूर्वमन्त्रेण विन्यसेत् ॥ ५५ ॥
चतुर्मूर्तयः

‘सिद्धिं विश्वां तथा चैव ब्रह्मपत्नीं सरस्वतीम्’ ।
इति मूर्तिः समायोज्य नमोऽन्तेन चतुर्दिशम् ॥ ५६ ॥
पुष्पन्यासः

‘सुभगां सुन्दरीञ्चैव सुमुखीञ्च सुरप्रियाम्’ ।
आग्नेयादिषु कोणेषु पुष्पन्यासं ध्रुवे चरेत् ॥ ५७ ॥
जयाञ्च विजयां विन्दां पुष्टिकां नन्दकां तथा ।
कुमुद्वतीमुत्पलकां विशोकाञ्चाष्ट देवताः ॥ ५८ ॥
अनुबन्धः (वाग्देवीकल्पः)

[[५४८]]

आवाहयेद्दिक्ष्वष्टासु द्वितीयावरणे तथा ।
कर्मार्चायां शिवं विश्वं मित्रमत्रिमिति क्रमात् ॥ ५९ ॥
पश्चिमादि तथाऽऽभ्यर्च्य पीठान्ते च बहिर्मुखान् ।
सनत्कुमारं सनकं सनातनसनन्दनौ ॥ ६० ॥
वायव्यादिषु कोणेषु यथाविधि समर्चयेत् ।
पूजकौ

दक्षिणोत्तरयोरर्च्यौ पूजकौ पार्श्वयोर्द्वयोः ॥ ६१ ॥
धात्राद्यर्चनं

धात्रादि भूतपर्यन्तं परिवारान्त्समर्चयेत् ।
सर्वेषां पूजनं प्रोक्तं विग्रहैर्दशभिस्त्रिभिः ॥ ६२ ॥
सम्भृत्य सर्वान् सम्भारान् अर्चनार्थांस्तु पूजकः ।
दक्षिणे वामभागे वा स्थित आसीन एव वा ॥ ६३ ॥
देवीं ध्यायेदर्चनादौ योगमार्गेण चिन्तयन् ।
देवीध्यानं

श्वेतपद्मासनासीनां देवीं श्वेताम्बरावृताम् ।
सर्वाभरणसंयुक्तां स्वर्णवर्णां चतुर्भुजाम् ॥ ६४ ॥
सुलोचनसमायुक्तां जटामकुटशोभिताम् ।
अक्षमालाधरकरां कमण्डलुकरां तथा ॥ ६५ ॥
आलोचितकरां दीप्तां सुभगामभयप्रदाम् ।
एवं ध्यायेद्विधानेन सर्वमावाहनं चरेत् ॥ ६६ ॥

[[५४९]]

निवेदनम्

मुद्गान्नं वाथ शुद्धान्नं प्रभूतं वा निवेदयेत् ।
बलिं दद्याद्यथान्यायं दक्षिणाञ्च ददेत्ततः ॥ ६७ ॥
विद्याकामो विशेषेण देवीं वाचं समर्चयेत् ।
सर्वान् कामानवाप्नोति इह चैव परत्र च ॥ ६८ ॥
स्नपनम्

अत ऊर्ध्वं प्रवक्ष्यामि वाग्देव्यास्स्नपनक्रमम् ।
उत्तमन्त्वत्र सम्प्रोक्तं कलशानां शताष्टभिः ॥ ६९ ॥
तथाऽष्टचत्वारिंशद्भिः मध्यमं स्नपनं स्मृतम् ।
अधमं स्याद्द्वादशभिः कलशैः स्नपनं तथा ॥ ७० ॥
पूर्वस्मिन् दिवसे रात्रौ कुर्याच्चैवाङ्कुरार्पणम् ।
प्रमुखे दक्षिणे चैव प्रपां पूर्ववदाचरेत् ॥ ७१ ॥
दर्भमालासमायुक्तां ध्वजादिभिरलङ्कृताम् ।
तन्मध्ये पूर्ववत्कुर्याच्छ्वभ्रञ्चापि विचक्षणः ॥ ७२ ॥
संस्थापयेत्तत्र देवीं श्वभ्रे पीठे समुन्नते ।
नीलवारुणयोर्मध्ये पङ्क्तीशञ्च समर्चयेत् ॥ ७३ ॥
इन्द्रादीनर्चयेदष्टौ दिगीशांश्च यथादिशम् ।
ईशानसोमयोर्मध्ये चार्चयेत्तु सुरोत्तमाम् ॥ ७४ ॥
सम्पूज्य च पुनः श्वभ्रे कृत्वाऽगारप्रदक्षिणम् ।
श्वभ्रमध्ये पुनः स्थाप्य पाद्याद्यैरभिपूज्य च ॥ ७५ ॥
सम्पूर्य कलशान्त्सर्वान् ‘पावका न’ इति न्यसेत् ।
वस्त्रादिभिरलङ्कृत्य अधिदेवान्त्समर्चयेत् ॥ ७६ ॥
अनुबन्धः (वाग्देवीकल्पः)

[[५५०]]

अधमे स्नपने नास्ति प्राक्पश्चात्करणक्रिया ।
स्नपनेषु तु सर्वत्र हारिद्रं चूर्णमिष्यते ॥ ७७ ॥
ततो देवीं समभ्यर्च्य पाद्याद्यर्घ्यान्तमेव च ।
स्नपनोक्तेन विधिना स्नापयेत्तामनुस्मरन् ॥ ७८ ॥
ततो ‘महो अर्ण’ इति उपस्नानैश्च स्नापयेत् ।
प्लोतादिभिः परिमृजेत्पूर्वोक्तविधिना ततः ॥ ७९ ॥
वस्त्राद्यैस्समलङ्कृत्य दीपान्तञ्च समर्चयेत् ।
वाद्यघोषयुतं नीत्वा कृत्वाऽगारप्रदक्षिणम् ॥ ८० ॥
यथास्थानं प्रतिष्ठाप्य नित्यपूजां समाचरेत् ।
पायसादीन् निवेद्यैव दद्यात् शक्त्या च दक्षिणाम् ॥ ८१ ॥
अपेक्षितमनुक्तं यत्तत्र देव्याश्च स्थापने ।
अर्चने चोत्सवे चैव स्नपने सर्वमाचरेत् ॥ ८२ ॥
विष्णोरुक्तविधानेन कारयेन्नात्र संशयः ।
त्रयोदश्यां प्रदोषे च देवीपूजा विशिष्यते ॥ ८३ ॥
विघ्नेशपूजां सह वै कुर्याद्देव्येति केचन ।
स्नपनफलश्रुतिः

एवं यः कुरुते भक्त्या वाग्देव्याः स्थापनादिकम् ॥ ८४ ॥
इह देवीप्रसादेन सर्वान् कामानवाप्नुयात् ।
अर्चनेन च होमेन ध्यानेन च जपेन च ॥ ८५ ॥
सकृत्कृतेन भक्त्या वै सर्वान् कामान् लभेन्नरः ।
किं पुनर्नित्यपूजायाः करणेन फलार्थिनाम् ॥ ८६ ॥

[[५५१]]

ज्ञानार्थी लभते ज्ञानं धनार्थी धनमाप्नुयात् ।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी मोक्षमाप्नुयात् ॥ ८७ ॥
किमत्र बहुनोक्तेन यदिच्छेत्तल्लभेत्फलम् ।
तस्माद्वाग्देवता नित्यं ध्येया पूज्या च वै भवेत् ॥ ८८ ॥
उत्सवः

अतः परं प्रवक्ष्यामि वाग्देव्या उत्सवं परम् ।
सप्ताहमुत्तमं प्रोक्तं मध्यमञ्च त्र्यहं भवेत् ॥ ८९ ॥
एकाहमधमञ्चेति देव्यास्त्रिविध उत्सवः ।
अयने चोत्तरे कर्तुरिष्टमासे विशेषतः ॥ ९० ॥
यजमानर्क्षपर्यन्तमथवा कारयेद्बुधः ।
हंसचिह्नं पटं कुर्यात्पूजयेच्च विधानतः ॥ ९१ ॥
वाचां देवीमलङ्कृत्य शिबिकामधिरोह्य च ।
ध्वजं पुरस्कृत्य देवीं वाद्यघोषसमन्विताम् ॥ ९२ ॥
छत्रपिञ्छादिसंयुक्तां बलिमादाय चादरात् ।
ऐशानीं दिशमभ्येत्य शुद्धदेशे विशेषतः ॥ ९३ ॥
मृत्सङ्ग्रहोक्तविधिना मृदं तत्र समाहरेत् ।
ग्रामप्रदक्षिणवशादारभ्यैन्द्रीं दिशं क्रमात् ॥ ९४ ॥
दिगीशांश्च समभ्यर्च्य बलिं दत्वोत्सवं वदेत् ।
(सर्गस्थितिविनाशानां कारणं जगदात्मकम् ॥ ९५ ॥
ब्रह्मस्वरूपं निर्द्वन्द्वं सर्वदेवात्मकं परम् ।
अर्चयित्वा देवदेवं वाग्देव्या उत्सवं चरेत्) ॥ ९६ ॥
अनुबन्धः (वाग्देवीकल्पः)

[[५५२]]

उत्सवफलश्रुतिः

ग्रामस्य यजमानस्य राज्ञो राष्ट्रस्य चैव हि ।
आधिव्याधिविनाशाय सर्वसम्पत्समृद्धये ॥ ९७ ॥
आद्यं तेजो विश्वसृजः प्रवेश्य ग्रामवीथिकाः ।
नेतव्यं ग्रामरक्षार्थं प्रदक्षिणमतः परम् ॥ ९८ ॥
अलङ्कुर्याद्ग्रामवीथीस्सर्वमङ्गलशोभिताः ।
कदलीक्रमुकस्तम्भैः गृहद्वाराणि शोभयेत् ॥ ९९ ॥
दीपाङ्कुरैः पूर्णकुम्भैः तथा सर्वत्र शोभयेत् ।
‘आयान्तु देवतास्सर्वास्साश्रितास्सपरिच्छदाः ॥ १०० ॥
ॠषिसङ्घास्तथाऽन्ये च बालवृद्धातुरैस्सह ।
प्रीतास्सन्तु सदाऽस्माभिरुत्सवे पूजितास्सुखम् ॥ १०१ ॥
प्रीयतां धिषणा देवी प्रसीदतु जगद्धिता’ ।
इत्युच्चैर्घोषयेद्भक्त्या सन्धौ सन्धौ क्रमेण वै ॥ १०२ ॥
पश्चाद्देवालयं गत्वा ध्वजमारोपयेत्क्रमात् ।
मृदा गुहीतया पुर्वम् अङ्कुरारोपणं चरेत् ॥ १०३ ॥
सन्धौ सन्धौ च तद्रात्रो प्रभूतं दापयेद्बलिम् ।
शिबिकायां समारोप्य देवीं वाचमलङ्कृताम् ॥ १०४ ॥
वाद्यघोषसमायुक्तं दीपिकाबलिसंयुतम् ।
उत्सवोचितसर्वाङ्गैः शोभनैस्समुपाहृतैः ॥ १०५ ॥
ग्रामं प्रदक्षिणं नीत्वा प्रविशेदालयं शनैः ।
तथा तीर्थदिनान्तञ्च सायं प्रातर्दिने दिने ॥ १०६ ॥

[[५५३]]

द्विकालमुत्सवञ्चैव बलिञ्चैवं समाचरेत् ।
सम्प्राप्ते तीर्थदिवसे नेयात्तीर्थं सरस्वतीम् ॥ १०७ ॥
सप्तभिः कलशैर्देवीमुक्तमन्त्रैश्च स्नापयेत् ।
तीर्थेऽवगाहेयच्चक्रं कुर्युस्स्नानं समागताः ॥ १०८ ॥
तीर्थोत्सवं समाप्यैवं यथास्थानं समानयेत् ।
ततो देवीं शुद्धतोयैस्समन्त्रमभिषेचयेत् ॥ १०९ ॥
उत्सवे त्र्यहक्लृप्ते तु न ध्वजारोहणं चरेत् ।
विनाऽङ्कुरं ध्वजारोहमेकाहोत्सवमाचरेत् ॥ ११० ॥
श्रद्धाभक्तिसमायुक्तस्त्वेवं कुर्वन् हि मानवः ।
सर्वविद्याकलापांश्च सम्प्राप्य दिवि मोदते ॥ १११ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे वाग्देवीकल्पः

ज्येष्ठाकल्पः - ज्येष्ठास्वरूपम्

अतः परं प्रवक्ष्यामि ज्येष्ठाकल्पं यथाक्रमम् ।
प्रकृतिः पुरुषश्चेति द्वावनादी स्मृतौ पुरा ॥ १ ॥
पुरुषः पञ्चधा भिन्नः प्रजाहेतुरतन्द्रितः ।
(रूपान्तरेषु प्राप्तेषु पुरुषः पञ्चधा भवेत्) ॥ २ ॥
मूलं नारायणो देवः परमः पुरुषस्स्मृतः ।
स वै विष्णुरभूद्विष्णोरजायत चतुर्मुखः ॥ ३ ॥
ब्रह्मणश्च शिवोजातस्तस्मादिन्द्रोऽप्यजायत ।
तस्मात् स्कन्दो महान् जातः पुरुषः पञ्चधा ह्यभूत् ॥ ४ ॥
अनुबन्धः (ज्येष्ठाकल्पः)

[[५५४]]

एवं हि पञ्चधा भिन्नो विष्णुः नारायणः पुरा ।
प्रकृतिः पञ्चधा भिन्ना ज्येष्ठा मूलं प्रकीर्तिता ॥ ५ ॥
तस्या जाता च भूर्देवी सावित्री च ततः परम् ।
उमा ततस्समाख्याता इन्द्राणी च ततः परम् ॥ ६ ॥
इन्द्राण्याः सुरभिश्चैव

प्रकृतिः पञ्चधाह्यभूत् ।
पूर्वा ज्येष्ठेति विख्याता

ज्येष्ठाया वच्मि सम्भवम् ॥ ७ ॥
ज्योष्ठोत्पतिः - लक्षणञ्च

भूर्ज्येष्ठा च भुवर्ज्येष्ठा सुवर्ज्येष्ठेति कीर्त्यते ।
सा देवी त्रिस्वरूपेति ब्रह्मणा परमेष्ठिना ॥ ८ ॥
भूलोके ज्येष्ठजन्मत्वात् भूर्ज्येष्ठेति तु विश्रुता ।
भुवर्लोके वरिष्ठत्वाद् भुवर्ज्येष्ठेति कथ्यते ॥ ९ ॥
सुवर्लोके वरिष्ठत्वात्सुवर्ज्येष्ठेत्युदाहृता ।
तां देवीमब्धिजातान्तु घोररूपां खगध्वजाम् ॥ १० ॥
उग्रां खररथाञ्चैव रक्तकौशेयवासिनीम् ।
वीक्ष्य सर्वे भयभ्रान्ताः दुद्रुवुः परितस्सुराः ॥ ११ ॥
ततस्सा वीक्ष्य भीतांस्तु रूपमन्यत्समाददे ।
तदा तां सौम्यरूपाञ्च सस्यवर्णां सुमध्यमाम् ॥ १२ ॥
पार्श्वावनतसंयुक्त मकुटेन विराजिताम् ।
सुरक्तनयनाञ्चापि कृष्णकुञ्चितमूर्धजाम् ॥ १३ ॥

[[५५५]]

भूषितां भूषणैः दिव्यैर्द्युतिमद्भिर्महागुणैः ।
नवबन्धसमायुक्तश्रोणीभासिसुमेखलाम् ॥ १४ ॥
सपश्यमाना देवास्तु पुनराजग्मुरादरात् ।
असुराश्चाब्धिमथने क्रोशन्तश्च पलायिताः ॥ १५ ॥
तत्काले मन्दरधरं विना विष्णुं जगत्पतिम् ।
सर्वेऽन्ये तेजसा हीनास्तस्थुश्चित्रार्पिता इव ॥ १६ ॥
तदा सा सहसा देवी दिव्यतेजोमयं प्रभुम् ।
सर्वदेवोत्तमं विष्णुं वीक्ष्य तत्पार्श्वमभ्यगात् ॥ १७ ॥
ज्येष्ठाविष्णुसंवादः

समीक्षमाणा देवेशं पद्मनाभमुवाच सा ।
‘त्वमादिदेवो देवेश ब्रह्मणस्त्वं पिता ह्यसि ॥ १८ ॥
मम त्वं देही पृच्छन्त्या वरं वरद वास्तवम् ।
विष्णोर्वरप्रकारपृच्छा

इत्युक्तो भगवान् विष्णुर्वरदानरतोऽच्युतः ॥ १९ ॥
तां स्तान्निव पप्रच्छ ‘कं ते दद्यामहं वरम्’ ।
ज्येष्ठादत्तोत्तरं

वरदेनैवमुक्ता सा प्रत्यभाषत वै प्रभुम् ॥ २० ॥
उत्पत्योत्पत्य सा ज्येष्ठा सर्वदैवतमध्यगा ।
नमस्कृत्य ततो प्रणयावनता तदा ॥ २१ ॥
अनुबन्धः (ज्येष्ठाकल्पः)

[[५५६]]

वरप्रार्थना

‘नमस्करोमि देवेश भूयः कृत्वा प्रदक्षिणाम् ।
अनुगृह्णीष्व मां देव वरं देहि ममानघ ॥ २२ ॥
सत्यमूर्तिः स्वयं त्वं वै सर्वादिस्सर्वतोमुखः ।
सहस्रशीर्षा देवेशः सहस्राक्ष इति श्रुतिः ॥ २३ ॥
सर्वेषाञ्च वरिष्ठस्त्वं सर्वदा सर्वथाऽच्युत ।
त्वं देहि मे वरं दिव्यं भूयश्चैव वरो भव’ ॥ २४ ॥
वरदानम्

इत्युक्तो भगवान् प्रीतः परमानन्दमास्थितः ।
वरिष्ठामाह ‘देवानां ज्योतींषि म्लापयन्त्यसि ॥ २५ ॥
यदि नेच्छसि लोकेऽस्मिन् देवानप्यसुरानपि ।
सुखं वस त्वं लोकेऽत्र नित्यसौख्यवरप्रदा ॥ २६ ॥
मनुजान् राक्षसानन्यान् दनुजान् भृतचारणान् ।
नाशयिष्यसि चैवेष्टान् सुखं संवासयिष्यसि ॥ २७ ॥
एवं दत्तो वरो मुख्यस्ते मया चारुलोचने’ ।
एवमुक्ता भगवता ज्येष्ठा पुनरचोदयत् ॥ २८ ॥
वरनिर्वाहप्रकारप्रार्थना

‘भर्तारं कमहं देव वृणुयां ब्रूहि ते मतम्’ ।
इत्युक्तो भगवान् देवः कलिमाहूय चात्वरः ॥ २९ ॥
‘एनं वृणीष्व भद्रं ते सुखयिष्यति त्वामसौ ।
इति श्रुत्वा तदा देवी तथा चेदद्यदीयताम् ॥ ३० ॥

[[५५७]]

तवाधिकारं राज्येऽस्मिन् देहि भर्तृश्च मे मम ।
‘ततः प्राह पुनर्देवः सम्भाव्यात्मानमात्मना ॥ ३१ ॥
‘तथाऽस्त्वि’ति वरं दत्वा कले राज्यमदाद्धरिः ।
अभिषिच्य कलिं यौवराज्ये प्रोवाच वै हरिः ॥ ३२ ॥
सर्वान् देवान् समाहूय सान्त्वयन् श्लक्ष्णया गिरा ।
‘यूयमद्यारभ्य देवास्स्याला भवत वै कलेः’ ॥ ३३ ॥
इति सम्भाविता देवा ज्येष्ठादेव्यनुजाः कृताः ।
वरुणालयमेवास्याः पितरं पर्यकल्पयत् ॥ ३४ ॥
तदा प्रभृति सा ज्येष्ठा सर्वलोकेषु पूज्यते ।
पूजानीयाऽभवत्पूज्यैस्सर्वैरेव सुखाार्थिभिः ॥ ३५ ॥
दारिद्र्यभीरुभिश्चैव पूजनीया शुचिव्रतैः ।
अर्हणीया वरारोहा शुभदा सर्वकामदा ॥ ३६ ॥
लक्ष्मीप्रादुर्भावः

ज्येष्ठावतरणे जाते अब्धावप्सरसां गणैः ।
सहिता चानुजाता सा देवी कलमलोचना ॥ ३७ ॥
इन्दिरा श्रीवत्सरूपा सुप्रमोदेति कीर्तिता ।
सुरा तामनुजाता च तां देवी जगृहुस्तदा ॥ ३८ ॥
आहूय वरुणो देवं कौस्तुभेन सहैव ताम् ।
देवीं प्रादाद्विष्णवे तु ब्रह्मेशानपुरस्कृतः ॥ ३९ ॥
देवतास्सङ्गतास्तत्र मेनिरे परमं हरिम् ।
सर्वलोकहितार्थं ते प्रार्थयामासुरीश्वरम् ॥ ४० ॥
अनुबन्धः (ज्येष्ठाकल्पः)

[[५५८]]

‘एषा न प्रम्लायमाना त्रीन् लोकान् स्वश्रिया सह ।
लोकक्षेमङ्करी भूत्वा चिरं कालं समेधताम् ॥ ४१ ॥
तथैनां शाधि देवे’ ति विरेमुस्ते मुदऽन्विताः ।
ज्येष्ठां प्रति विष्णुवचनम्

एवं सम्प्रार्थितो विष्णुः ज्येष्ठामाहूय चावदत् ॥ ४२ ॥
‘अनवद्याय लोकानां देवि त्वमनघा वस’

ज्येष्ठादत्तमुत्तरम्

इत्युक्तवति देवेशे ज्येष्ठा विष्णुमुवाच ह ॥ ४३ ॥
ममानुजायाश्च नराः येऽपकुर्वन्ति दारुणम् ।
नाशयिष्यामि तानेव ममैषा स्याद्वशे स्थिता ॥ ४४ ॥
यस्य कुप्याम्यहं देव न कदाऽप्यत्र सा वसेत् ।
यस्य तुष्याम्यहं सैषा तत्र तिष्ठेत्प्रतिष्ठिता’ ॥ ४५ ॥
इत्युक्ता तु वरारोहा लक्ष्मीं सन्दीप्ततेजसम् ।
अङ्कमारोप्य चालिङ्ग्य ददौ तां विष्णवे मुदा ॥ ४६ ॥
ज्येष्ठानामनिर्वचनं

तदा प्रभृति सा देवी देवज्येष्ठेति कीर्तिता ।
भूर्ज्येष्ठेत्युदिता ह्यादौ भुवर्ज्येष्ठेति वै ततः ॥ ४७ ॥
सुवर्ज्येष्ठेति स्वर्लोकान्नित्यं सम्पूज्यते ततः ।
कलेः राज्ञो प्रदानाच्च कलिराज्ञीति संस्मृता ॥ ४८ ॥
कलेः पत्नी तथा भूता कलिपत्नीति च स्मृता ।

[[५५९]]

ज्येष्ठायास्सन्ततिः - वृषभाङ्कसुकन्ये

सुमेध्यं यज्ञमकरोत्कलिरेष तु दीक्षितः ॥ ४९ ॥
तस्मिन् यज्ञवरे जातः पुत्रमुख्यो महाबलः

वृषभाङ्क इति ख्यातो बलवान् वृषभाननः ॥ ५० ॥
तस्यानुजा च सञ्जाता सुकन्येति च नामतः ।
जगतामतिपुण्या च सर्वशोभनतां गता ॥ ५१ ॥
आभ्यां सुताभ्यां द्वाभ्यां वै देवीं ज्येष्ठां सदा शुभाम् ।
मन्त्रैर्यथोक्तैस्संस्थाप्य यथोक्तविधिनाऽर्चयेत् ॥ ५२ ॥
आलयनिर्माणम्

‘उद्यानवनमध्ये वा तटाकतट एव वा ।
कुल्यातीरे नदीतीरे केदारान्तर एव वा ॥ ५३ ॥
ग्रामस्य र्नैॠते भागे यत्र चापि मनोहरे ।
स्थाने तत्राऽलयं कुर्यात् वास्तुशास्त्रोक्तमार्गतः ॥ ५४ ॥
भूमिं परीक्ष्य विधिना भूशुद्धिं प्रथमं चरेत् ।
कपित्थं वा मधूकं वा लाङ्गलार्थं तरुं हरेत् ॥ ५५ ॥
वायुरेणुसवर्णौ (?) तु गृह्णीयाद्वृषभौ तथा ।
एकवर्णौ तथा सौम्यौ अनस्यूतावनिन्दितौ ॥ ५६ ॥
पूर्वोक्तेन विधानेन ताभ्यां वै कर्षणं चरेत् ।
तत्र चोप्य यवादीनि बीजान्युक्तानि पूर्ववत् ॥ ५७ ॥
प्रवृद्धेषु च सस्येषु अर्धपक्वेषु तानि तु ।
गोगणेभ्यो निवेद्यैव ततो भूम्यै निवेदयेत् ॥ ५८ ॥
अनुबन्धः (ज्येष्ठाकल्पः)

[[५६०]]

वास्तुदेवानर्चयेच्च यथा पूर्वं समीरितम् ।
तत्र कुम्भं प्रतिष्ठाप्य भूमियज्ञं यजेत्क्रमात् ॥ ५९ ॥
ततः पूर्वोक्तमार्गेण ज्येष्ठामूर्तिं प्रकल्पयेत् ।
तथैव धृष्णुकायास्तु निवासं परिकल्प्य च ॥ ६० ॥
ब्रह्मपद्मविधानेन खनित्वा कार्यमारभेत् ।
ब्रह्मपद्मादि

आदित्योदयकाले तु ब्रह्मपद्मं चरेत्तथा ॥ ६१ ॥
पद्माभावे तथा ग्राह्यं कुमुदं नीलमुत्पलम् ।
सुस्पष्टं फुल्लमाहृत्य प्रक्षिपेत्प्राङ्मुखः क्रमात् ॥ ६२ ॥
सिद्ध्यसिद्ध्यौ समीक्षेत शुभञ्चाशुभमेव च ।
परीक्ष्य सिद्धौ कुर्वीत नारभेतान्यथा क्रियाम् ॥ ६३ ॥
काले पुनरतीतेऽब्दत्रये सिद्धौ यतेत च ।
दुर्निमित्तेषु तत्रापि कार्यारम्भं न कारयेत् ॥ ६४ ॥
कुम्भाकारे त्रिकूटे वा स्वस्तिके हस्तिपृष्ठके ।
विमाने स्थापयेद्देवीं ज्येष्ठां तत्र च पूजयेत् ॥ ६५ ॥
बालागारे प्रतिष्ठाप्य पूर्वं शक्तस्समर्चयेत् ।
समृद्धिकायास्स्थानन्तु देव्यग्रे परिकल्पयेत् ॥ ६६ ॥
समृद्धिका तु सा देवी देवमानुषपालिनी ।
पालयन्ती तु सा ज्येष्ठां समर्था प्रभविष्यति ॥ ६७ ॥
सुदृढं कारयित्वा तु मूलस्थानं प्रमीय च ।
द्वितलं वैकभूमिं वा सर्वालङ्कारसंयुतम् ॥ ६८ ॥
निर्मितं बिम्बमादाय शिलया माषवर्णया ।

[[५६१]]

ज्येष्ठाबिम्बलक्षणम्

आकाशसस्यवर्णाञ्च रक्तवर्णाम्बरां तथा ॥ ६९ ॥
उरस्थललसद्धारां ग्रैवैयादिविभूषिताम् ।
शिरोवर्तनसंयुक्तां शिरोमाल्यैरलङ्कृताम् ॥ ७० ॥
ईषत्कृष्णान्तनयनां शुद्धकृष्णान्ततारकाम् ।
निधियुक्तं वाऽभयदं दक्षिणं हस्तमाचरेत् ॥ ७१ ॥
वाममुत्पलसंयुक्तं द्विभुजामेवमाचरेत् ।
दैविके मानुषे वाथ स्थाने स्थापनमाचरेत् ॥ ७२ ॥
प्रतिष्ठाप्रयोगः

प्रतिष्ठोक्तविधानेन भूमियज्ञादि कारयेत् ।
धातून् रत्नानि बीजादीन् कूर्मं श्रीवत्समेव च ॥ ७३ ॥
स्वस्तिकं वर्णचिह्नानि निक्षिपेच्च यथाविधि ।
सहस्राहुतिपूर्वन्तु हुत्वा होमांश्च पूर्ववत् ॥ ७४ ॥
मुहुर्ते समनुप्राप्ते स्थापयेद्विष्णुभामिनीम्? ।
गन्धोदकैस्तथा शुद्धैः पद्मकिञ्जल्कवासितैः ॥ ७५ ॥
उशीरागरुसंयुक्तैः गव्यैश्चैवोष्णवारिभिः ।
पञ्चभिः कलशैश्चापि स्नापयित्वा समर्चयेत् ॥ ७६ ॥
ज्येष्ठाया अर्चनम्

अत ऊर्ध्वं प्रवक्ष्यामि ज्येष्ठाया अर्चनक्रमम् ।
यथोक्तविधिना स्नात्वा सावित्रीं समनुस्मरन् ॥ ७७ ॥
आलयं सम्प्रविश्याथ कवाटोद्घाटनं चरेत् ।
‘यैषाऽमराणां’ गुरवे ‘याम्या’नीति समीरयन् ॥ ७८ ॥
अनुबन्धः (ज्येष्ठाकल्पः)

[[५६२]]

उपचारानथान्यांश्च यथाशक्ति ददेत्ततः ।
नमस्कृत्य ततो देवीं पूजाद्रव्याणि सम्भरेत् ॥ ७९ ॥
पुनः पुनश्च तावेव मन्त्रावावर्त्य कारयेत् ।
पञ्चभिर्मूर्तिमन्त्रैश्च योजितैरर्चनं चरेत् ॥ ८० ॥
हविर्विशेषदानं

लाजैस्सतिलचूर्णैश्च युक्तं पुष्कलमोदनम् ।
आम्लपुष्पफलैर्युक्तं शाकमूलफलैर्युतम् ॥ ८१ ॥
निष्पावयवसम्पृक्तं तिलसक्तुसमन्वितम् ।
आज्यसम्प्लावितान्नं वा शुद्धं वाऽन्नं निवेदयेत् ॥ ८२ ॥
शुद्धान्नं पुष्कलान्नञ्च आम्लमन्नञ्च शस्यते ।
मधुरान्नप्रिया देवी नित्यमाम्लरसप्रिया ॥ ८३ ॥
दीपप्रिया सदाऽऽमोदा नित्यं धूपप्रिया तथा ।
कृष्णपुष्पप्रिया कृष्णविकासिकुमुदप्रिया ॥ ८४ ॥
सुपवित्रप्रिया देवी यतस्सा भोगवर्जिता ।
आश्रितदेवाः

मदो मोह इति द्वौ तु देवीं तामभिसंश्रितौ ॥ ८५ ॥
प्रकृतेः पररूपत्वात् सर्वज्येष्ठा हि सा स्मृता ।
कलिं भजति सा देवी शापाज्जन्मनि जन्मनि ॥ ८६ ॥
मुख्या चापि वरारोहा पूजार्हा सर्वशोभना ।
लोकेषु विचरन्ती सा इष्टरूपा भविष्यति ॥ ८७ ॥
पूजकानाञ्च सर्वेषां सर्वमिष्टं प्रयच्छति ।
सर्वत्रैव च क्रीडन्तीं पुण्यां देवीं समर्चयेत् ॥ ८८ ॥

[[५६३]]

परिवारचतुर्नामानि

‘ॠषभाङ्क कुमारञ्च सर्वविघ्नापहं तथा ।
विघ्ननाश’ मिति प्रोच्य पुत्रं मूर्तिभिरर्चयेत् ॥ ८९ ॥
‘सुकन्यां मेदिनीञ्चेति सदानन्दां जगद्धिताम्’ ।
इत्येवं मूर्तिमन्त्रैस्तु सुकन्याञ्च समर्चयेत् ॥ ९० ॥
परिवारान्तराणि

खलतिञ्चैवामृतजां द्वारे द्वारे समर्चयेत् ।
द्राविलामर्चयेच्चैव देव्या निर्माल्यहारिणीम् ॥ ९१ ॥
अर्चयेत्सप्त च खरान् वाहनस्थानमास्थितान् ।
खनञ्च निगलञ्चैव व्यावृत्तं प्रहृतं तथा ॥ ९२ ॥
समावृत्तञ्च कुण्डौघं निकारञ्चार्चयेत्खरान् ।
‘काकुकाके’ ति काकञ्च ध्वजस्थाने समर्चयेत् ॥ ९३ ॥
सम्मार्जनरताञ्चैव भूतपीठे समर्चयेत् ।
प्राच्यामिन्द्रस्य देवीञ्च स्वधामाग्नेयकोणके ॥ ९४ ॥
याम्यां समर्चयेच्चैव सुवर्णां यमभामिनीम् ।
र्नैॠत्यामर्चयेच्चैव कालरात्रीं निशीथगाम् ॥ ९५ ॥
वारुण्यां रजनीमर्च्य तमिस्रां वायुसंश्रिताम् ।
यक्षिणीप्रवरां यक्षीं कौबेर्यामर्चयेद्दिशि ॥ ९६ ॥
मन्त्रदेवीञ्च वाग्देवीमैशान्यां पूजयेत्क्रमात् ।
एता अष्टौ समाख्याता ज्येष्ठायाः परिचारिकाः ॥ ९७ ॥
सर्वत्राग्रे समभ्यर्च्यं सावित्रीं सर्वशान्तिदाम् ।
एतास्समर्चयेद्भक्त्या सुशान्तिं समनुस्मरन् ॥ ९८ ॥
अनुबन्धः (ज्येष्ठाकल्पः)

[[५६४]]

यत्रेच्छेत् क्षिप्रशान्तिं वै सर्वलोकसमृद्धिदाम् ।
तत्राभ्यर्चेच्छुभां देवीं सावित्रीं वेदमातरम् ॥ ९९ ॥
शान्तिं पुष्टिं काङ्क्षमाणः सावित्रीं वै जपेन्मनुम् ।
ज्येष्ठां वाऽप्यर्चयेद्देवीं सकलेष्टवरप्रदाम् ॥ १०० ॥
येषामिच्छति सा देवी प्रसादं कर्तुमक्षयम् ।
ददाति तेषां प्रसन्ना श्रियमत्यन्तदुर्लभाम् ॥ १०१ ॥
विविधानि च दुःखानि नाशयत्याशु नास्ति भीः ।
एतादृशी वरिष्ठायाः ज्येष्ठायाः शक्तिरीरिता ॥ १०२ ॥
इष्टान् कामानवाप्यैव लोकेऽस्मिन्नुत्तरे जनौ ।
देवीप्रसादाद्धर्मात्मा राजराजो भविष्यति ।
इति सङ्क्षेपतः प्रोक्तं ज्येष्ठाया अर्चनक्रमम् ॥ १०३ ॥
ज्येष्ठायाः स्नपनम्

अत ऊर्ध्वं प्रवक्ष्यामि ज्येष्ठायाः स्नपने विधिम् ॥ १०४ ॥
पञ्चगव्यं घृतञ्चैव क्षीरं पुष्पोदकं तथा ।
सर्वौषध्युदकञ्चैव कपित्थफलवारि च ॥ १०५ ॥
सर्वगन्धोदकञ्चैव सोपस्नानानि वै पृथक् ।
आहृत्य कलशेष्वेतान् स्नपनोक्तवदास्तरेत् ॥ १०६ ॥
‘यैषाऽमराणा’ मित्युक्त्वा पञ्चगव्येन सेचयेत् ।
‘गौर्धेनुभ’ व्येत्याज्येन स्नापयेत्तदनन्तरम् ॥ १०७ ॥
‘शन्नो देवी’ रिति वदन् क्षीरेण स्नापयेत्ततः ।
‘इमास्सुमनस’ इत्युक्त्वा पुष्पोदेन च स्नापयेत् ॥ १०८ ॥

[[५६५]]

‘इमा ओषधय’ इति सर्वौषध्युदकेन वै ।
स्नापयेत्तत ‘आप्याय’ स्वेति सिञ्चेत् फलोदकैः ॥ १०९ ॥
‘अप्सरस्स्वि’ ति मन्त्रेण गन्धोदैरभिषेचयेत् ।
स्नापयेदुष्णतोयेन ततः शुद्धोदकेन च ॥ ११० ॥
विमृज्य प्लोतवस्त्रेण वासोभिः परिधाय च ।
भूषणैस्समलङ्कुर्या‘दुच्चैर्वादि’ समुच्चरन् ॥ १११ ॥
अर्घ्यान्तमर्चयित्वा तु हविर्भिः सन्निवेदयेत् ।
हविः प्रक्षिप्य पात्रेषु गायत्रीमन्त्रमुच्चरन् ॥ ११२ ॥
देव्यै निवेदयेन्मन्त्रं ‘सुभूस्स्वय’मिति ब्रुवन् ।
एलालवङ्गादियुतं मुखवासं निवेदयेत् ॥ ११३ ॥
एतन्त्तु स्नपनं देव्याः सर्वशान्तिकरं भवेत् ।
पूर्वोक्तेनैव विधिना बलिञ्चैव समाचरेत् ॥ ११४ ॥
ज्येष्ठायाः उत्सवः

अथोत्सवक्रमं वक्ष्ये ज्येष्ठायाश्शान्तिकारणम् ।
यदा हि सम्भवेद्दोषो हेतुना येन केन वा ॥ ११५ ॥
दुष्टैर्ग्रहैः तथाऽन्यैर्वा विविधैः पापयोनिभिः ।
तद्दोषशमनाकाङ्क्षी ज्येष्ठाया उत्सवं चरेत् ॥ ११६ ॥
कृष्णपक्षे चतुर्दश्यां तीर्थकालं प्रकल्पयेत् ।
निष्पावराजमाषादि धान्यसक्तु समाहरेत् ॥ ११७ ॥
पचेत्तेन पुलाकान्नं बहुलं तदुपाहरेत् ।
तदन्नं विविधैर्धूपैः धूपयित्वा विशेषतः ॥ ११८ ॥
अनुबन्धः (ज्येष्ठाकल्पः)

[[५६६]]

रथ्यासु राजमार्गेषु तथा सन्धिषु सन्धिषु ।
खरेभ्यः कुक्कुटेभ्यश्च समुत्कीर्य बलिं क्षिपेत् ॥ ११९ ॥
पिण्डीकृत्य ददेद्वाऽपि तत्र तत्र बहूदकम् ।
क्षिपेत्पानाय पात्रेषु तथा पानीयदायिभिः ॥ १२० ॥
वीथीषु स्रावयेयुश्च भूततृप्त्यै समाहिताः ।
दध्योदनञ्चापि दद्यात् एवं देवालये तथा ॥ १२१ ॥
आलयं परितश्चान्नमङ्कणे च विशेषतः ।
ततः प्रभाते धर्मात्मा शोधयेन्मन्दिरं शनैः ॥ १२२ ॥
द्वारतोरणसंयुक्तं पूर्णकुम्भसमन्वितम् ।
ध्वजमेकं समुद्धृत्य उच्छिते च वनस्पतौ ॥ १२३ ॥
तोरणध्वजसंयुक्तमालयं ध्वजसंयुतम् ।
अलङ्कुर्याद्यथाशक्ति सर्वालङ्कारशोभितम् ॥ १२४ ॥
पूर्वोक्तेन प्रकारेण सायमुत्सवमाचरेत् ।
तथा कुर्याच्च तीर्थान्तं प्रतिवासरमुत्सवम् ॥ १२५ ॥
औत्सवान्तन्तु सर्वेषामन्नदानञ्च कारयेत् ।
शक्त एवान्नदाने तु ज्येष्ठादेव्युत्सवं चरेत् ॥ १२६ ॥
न दरिद्रो न वा लोभी नावदान्यो महोत्सवम् ।
ज्येष्ठादेव्याः प्रकुर्वीत कुर्याच्चेत्स विनश्यति ॥ १२७ ॥
अशक्तः कर्तुकामश्चेदेकाहोत्सव इष्यते ।
सर्वं पूर्वोक्तवत्कुर्याद्दद्यादन्नञ्च शक्तितः ॥ १२८ ॥
उत्सवान्ते अलङ्कृत्य पुष्पमालाभिरेव तु ।
अलङ्कुर्यात् गन्धधूपदीपांश्च परिदर्शयेत् ॥ १२९ ॥

[[५६७]]

शय्यागारमलङ्कृत्य शाययेच्छयने शुभे ।
वीणावेणुमृदङ्गाद्यैर्वाद्यैर्नानाविधैस्तथा ॥ १३० ॥
नयेद्रात्रिं नृत्तगीतैस्स्तोत्रैश्च सुखसङ्गताम् ।
ततो गतायां रात्र्यान्तु शनैः देवीं प्रबोधयेत् ॥ १३१ ॥
प्रभातबोधनैर्वाद्यैरुपचारैस्तथोचितैः ।
देवीं निवेश्याऽन्दोलिकायां नीत्वा ग्रामप्रदक्षिणम् ॥ १३२ ॥
चूर्णोत्सवविधानेन कृत्वा चूर्णोत्सवं ततः ।
तीर्थस्थानं ततो गत्वा शान्तिसूक्तानि वै पठन् ॥ १३३ ॥
तीर्थे निमज्जयेद्देवीं यथास्थानं प्रवेशयेत् ।
सप्तभिः कलशैर्देवीं पूर्ववत्स्नापयेत्ततः ॥ १३४ ॥
महाहविः प्रभूतं वा निवेद्य च समापयेत् ।
दुर्भिक्षे सङ्कटे चैव शान्तिपुष्ट्यादिसिद्धये ॥ १३५ ॥
एवं सङ्क्षेपतः प्रोक्तो ज्येष्ठादेव्या महोत्सवः ।
ज्येष्ठाव्रतम्

अथ वक्ष्ये विशेषेण ज्येष्ठाव्रतमनुत्तमम् ॥ १३६ ॥
न्यूनातिरेकशान्त्यर्थं सर्वकर्मसु कारयेत् ।
ज्येष्ठमासं समारभ्य कुर्यादेतद्व्रतं बुधः ॥ १३७ ॥
ज्येष्ठमासे यदा ज्येष्ठानक्षत्रं याति चन्द्रमाः ।
तस्मिन्नह्ननि वै कार्यं व्रतमेतत्सुखार्थिभिः ॥ १३८ ॥
पूर्वेद्युरेव पूर्वाह्णे शुक्लदन्तश्शुचिर्नरः ।
शुक्लवस्त्रपरीधानः शुक्लमाल्यानुलेपनः ॥ १३९ ॥
अनुबन्धः (ज्येष्ठाकल्पः)

[[५६८]]

बद्धा तु माल्लकां (?) कक्षे घृतं प्राश्य तथा शुचि ।
ज्येष्ठां देवीञ्च सम्प्रार्थ्य ब्रह्मचारी व्रती भवेत् ॥ १४० ॥
परेद्युरुषसि स्नात्वा देवीं ज्येष्ठां प्रणम्य च ।
सम्पूज्य विधिना देवीं यथाविभवविस्तरम् ॥ १४१ ॥
ॠत्विजो वरयित्वा च यथार्हं तान् प्रपूजयेत् ।
स्वयञ्चैव निराहार उपवासव्रतं चरेत् ॥ १४२ ॥
उपोषितोऽर्चयेद्देवीं मूर्तिमन्त्रैश्च सादरम् ।
निष्पावपुलकान्नादीन् मुद्गान्नं पुष्कलन्तु वा ॥ १४३ ॥
निवेद्य दद्यात्ताम्बूलं पुण्याहमपि वाचयेत् ।
ॠत्विजो ब्राह्मणानन्यान् स्त्रियश्चापि सुमङ्गलीः ॥ १४४ ॥
सम्पूजयेद्यथाशक्ति मिष्टमन्नञ्च दापयेत् ।
तिलपूर्णे लोहपात्रे सौवर्णीः प्रतिमा न्यसेत् ॥ १४५ ॥
तासु देवीञ्च पुत्रौ च रुक्मिणीमाह्वयेत्स्मरन् ।
पूजयित्वा यथाशास्त्रं श्रद्धया परया व्रती ॥ १४६ ॥
पूजान्ते प्रतिमां दद्यात् सुवासिन्यै यतेन्द्रियः ।
ततोऽनुमान्य तां देवीं विधिना पारणं चरेत् ॥ १४७ ॥
कृत्वैवं प्रतिमासन्तु वैशाखे पारयेद्व्रतम् ।
देवीं पूर्ववदभ्यर्च्य ज्येष्ठायामह्नि चात्वरः ॥ १४८ ॥
प्रभूतञ्च निवेद्यैव फलापूपसमन्वितम् ।
ब्राह्मणान् भोजयित्वा तु शक्तितो दक्षिणां ददेत् ॥ १४९ ॥
अनाथान् कृपणानन्यान् व्रतिनस्स्त्रिय एव च ।
अन्नाद्यैस्तर्पयेत्सर्वान् उत्सवार्थं समागतान् ॥ १५० ॥

[[५६९]]

सौवर्णे राजते पात्रे तथा कांस्यमयेऽपि वा ।
शालितण्डुलसम्पूर्णे तिलानुपरि निक्षिपेत् ॥ १५१ ॥
तत्र देवीं समभ्यर्च्य सर्वालङ्कारसंयुताम् ।
द्वादशाहीनसङ्क्याभिः स्त्रीभिश्च पुरुषैरपि ॥ १५२ ॥
परीतां वाद्यघोषैश्च परिवारैस्समावृताम् ।
धृत्वा वै शिरसा देवीं नीत्वा ग्रामं प्रदक्षिणम् ॥ १५३ ॥
नदीं गत्वा निमज्यात्र प्राणस्थानं प्रवेश्य च ।
पुनस्संस्नाप्य विधिना रात्रिपूजां समाचरेत् ॥ १५४ ॥
स्तोत्रैः पुण्यैश्च गाथाभिः नृत्तगीतादिभिस्तथा ।
नेयाद्रात्रिं प्रभाते वै यथापूर्वं समर्चयेत् ॥ १५५ ॥
व्रतमुद्दिश्य यद्द्रव्यं मासि मासि निधीयते ।
तत्सर्वमन्ते चाहत्य पूजकेभ्यः प्रदापयेत् ॥ १५६ ॥
सहिरण्यार्चनापात्रं वस्त्रयुग्मञ्च सादरम् ।
सुमङ्गल्यै स्त्रियै दद्याच्छ्रद्धाभक्तिसमन्वितः ॥ १५७ ॥
यद्यद्ददाति यो भक्त्या धनं धान्यं तथेतरत् ।
नरः पारणकाले तु तत्तच्चामितमाप्स्यति ॥ १५८ ॥
पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात् ।
जयार्थी जयमाप्नोति ज्ञानार्थी ज्ञानवान् भवेत् ॥ १५९ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे ज्येष्ठाकल्पः

अनुबन्धः (ज्येष्ठाकल्पः)

[[५७०]]

दुर्गाकल्पः - दुर्गामहिमा

अतः परं प्रवक्ष्यामि दुर्गाकल्पं यथाक्रमम् ।
साक्षाद्या वैष्णवी माया योगनिद्रेति कीर्तिता ॥ १ ॥
सूक्ष्मा शाक्तिः प्रकृतिस्सा परमा समुदाहृता ।
जगतो रक्षणायैषा पृथक् क्लृप्ता त्रयीमयी ॥ २ ॥
सैव दुर्गा समाख्याता ब्रह्माद्यैर्दुर्गमा च सा ।
यथा नारायणस्सर्वान् सदेवासुरमानवान् ॥ ३ ॥
लोकान्नित्यं पालयति भगवान् निर्वहन् स्थितिम् ।
तथा तच्छक्तिरीशाना तदिच्छाक्लृप्तविग्रहा ॥ ४ ॥
एषा दुर्गाऽप्यात्मशक्त्या कल्पे कल्पेऽवतीर्य वै ।
महिषासुरसंहारं काङ्क्षमाणैस्तथाऽकरोत् ॥ ५ ॥
जगन्त्यवति ब्रह्माद्यैरर्चिता कृपया पुरा ।
पूजामहिमा

एैहिकामुष्मिकं सर्वमिच्छन् देवीं प्रपूजयेत् ।
ब्रह्मवृद्धिमभीत्सुभिः ब्राह्मणैः क्षत्रियैस्तथा ॥ ६ ॥
काङ्क्षमाणैः शत्रुजयमर्चनीया नृपाङ्गणे ।
यतः सा वैष्णवी शक्तिः तामुद्दिश्य कृतार्चनम् ॥ ७ ॥
भवेत्सिद्धिदमित्यत्र नैव कार्या विचारणा ।
ग्रामे वा नगरे वापि पत्तने कुटिकेऽपि वा ॥ ८ ॥
पर्वताग्रे नदीतीरे कान्तारे वा सरित्तटे ।
कारयेदालयं तत्र कर्षणादीनि चादरात् ॥ ९ ॥

[[५७१]]

हरेरुक्तविधानेन कारयेद्भक्तिमान्नरः ।
राज्ञां गृहार्चनाय स्याद्वेश्माभिमुखमालयः ॥ १० ॥
धनाधिपदिशः पूर्वे तथा द्वारस्य दक्षिणे ।
आचार्यवरणं

निर्मित्सुरालयं देव्या यजमानो मुदाऽन्वितः ॥ ११ ॥
आचार्यं वरयेत्पूर्वं मन्त्रकल्पविचक्षणम् ।
श्रीवैखानससूत्रेण निषेकादिक्रियाऽन्वितम् ॥ १२ ॥
सकलात्मगुणोपेतं शान्तं दान्तं जितेन्द्रियम् ।
तदाज्ञामनुसृत्यैव सर्वकार्याणि चाचरेत् ॥ १३ ॥
बालागारादि

आलयं कर्तुकामस्तु बालागारं प्रकल्पयेत् ।
भूमियज्ञञ्च कृत्वा तु दुर्गासूक्तेन होमयेत् ॥ १४ ॥
शताधिकं समावर्त्य पद्माग्नौ दोषशान्तये ।
शुभे मुहूर्ते दुर्गां तां तथा निर्माल्यहारिणीम् ॥ १५ ॥
बालागारप्रतिष्ठोक्तविधिना स्थापयेद्गुरुः ।
बिम्बमानं

नवार्धतालमानेन देवीं कुर्याच्चतुर्भुजाम् ॥ १६ ॥
दधतीमूर्ध्वहस्ताभ्यां शङ्खचक्रे समुज्ज्वले

अन्याभ्यां दधतीं देवीमञ्जलिं हृदये पुनः ॥ १७ ॥
केयूरहारमकुटदिव्याभरणभूषिताम् ।
पीताम्बरधरां देवीं कक्ष्याबद्धपयोधराम् ॥ १८ ॥
अनुबन्धः (दुर्गाकल्पः)

[[५७२]]

ताम्रेण दारुणा वाथ देवीं रम्यां प्रकल्पयेत् ।
परिवारः

नवतालेन च जयां शैषिकीं परिकल्पयेत् ॥ १९ ॥
कुर्याच्चतुर्भुजां देवीं विजयार्थी विशेषतः ।
कुर्याद्दौवारिकं भूतं मृगेन्द्रञ्चैव वाहनम् ॥ २० ॥
द्वारं पालयतो देव्यौ गङ्गा च यमुना तथा ।
एभिः परिवृतां देवीं बालागारे समर्चयेत् ॥ २१ ॥
एवं विधाय विधिना विमानं कारयेद्बुधः ।
विमानं कारयित्वा तु शूलस्थापनमाचरेत् ॥ २२ ॥
बिम्बलक्षणं

चतुर्भुजां तडिद्वर्णां मकुटेन स्वलङ्कृताम् ।
शङ्खचक्रधरां देवीं बद्धाञ्जलिपुटां तथा ॥ २३ ॥
सस्यश्यामनिभां कुर्यात्कक्ष्याबद्धपयोधराम् ।
सौम्यरूपमिदं प्रोक्तं सर्वसम्पत्समृद्धिदम् ॥ २४ ॥
अथवाऽष्टभुजां कुर्यादिच्छन् शत्रुविनाशनम् ।
शक्तिशार्ङ्गासिचक्राणि शरलाङ्गलमुद्गराः ॥ २५ ॥
खेटकञ्चायुधानि स्युः रूपं घोरतमं भवेत् ।
महिषासुरमूर्धस्थसव्यापादाम्बुजां तथा ॥ २६ ॥
तथा कुञ्चितवामाङ्घ्रिं वीर्यार्थी कारयेत्सदा ।
देव्या बेरं ध्रुवाख्यं स्यादेवं लक्षणसंयुतम् ॥ २७ ॥

[[५७३]]

अथ वा सुखमासीनां कुर्यात्सिंहासने शुभे ।
सौम्यरूपां क्रियाद्देवीं सस्यश्यामां चतुर्भुजाम् ॥ २८ ॥
सर्वप्राणिहिता ह्येषा प्रतिमा पुष्टिदायिनी ।
स्थापनदेशः

दुर्गायाः स्थापनं ग्रामे नगरे च विशेषतः ॥ २९ ॥
सर्वकामसमृद्धिञ्च सर्वशान्तिञ्च यच्छति ।
स्थापयेद्ब्रह्मणः स्थाने पृथक् देवीं चतुर्भुजाम् ॥ ३० ॥
केवलं शिलया कुर्यान्मोक्षार्थी प्रतिमां तथा ।
उक्तेष्वेकेन मार्गेण देवीं पारिषदैर्युताम् ॥ ३१ ॥
शिल्पशास्त्रोक्तविधिना कारयेच्छिल्पिना बुधः ।
परिवारकल्पनं

कुर्याच्चामरधारिण्यौ पार्श्वयोरुभयोरपि ॥ ३२ ॥
भित्तेरूर्ध्वमुखे कुर्याद्विन्दां पुष्टिं क्रमेण वै ।
यक्षा विद्याधरा देव्यै दद्युस्ते परिचारिके ॥ ३३ ॥
दक्षिणे भित्तिपार्श्वे तु पद्मां पद्मकरां तथा ।
उमां तथा वामकरे पुष्पमालाधरां चरेत् ॥ ३४ ॥
ॠषिराङ्गिरसश्चैव मृकण्डुश्च तथाऽपरः ।
पूजकौ पुष्पहस्तौ तौ मुनिमुख्यौ प्रकीर्तितौ ॥ ३५ ॥
अन्तर्द्वारे तथा कुर्याद्वामदक्षिणपार्श्वयोः ।
नन्दगोपं यशोदाञ्च प्रसन्ननयनावुभौ ॥ ३६ ॥
अनुबन्धः (दुर्गाकल्पः)

[[५७४]]

चित्राभासौ च कर्तव्यावष्टतालेन तावुभौ ।
एकस्मिन् जन्मनि च तौ देव्यास्तु पितरौ स्मृतौ ॥ ३७ ॥
गङ्गा च यमुना चैव प्रथमद्वारपालिके ।
अदितिञ्च दितिञ्चैव द्वितीयद्वारि कारयेत् ॥ ३८ ॥
मृगेन्द्र वाहनस्थाने कल्पयेच्च विचक्षणः ।
न्यक्षादीन् लोकपालांश्च स्वे स्वे स्थाने प्रकल्पयेत् ॥ ३९ ॥
शैषिकीञ्च जगत्सेनां स्वस्थाने परिकल्पयेत् ।
उक्तांस्तु परिवारांस्तान् युक्तवर्णायुधादिभिः ॥ ४० ॥
क्रमेण कारयेच्चैव विधिना विधिकोविदः ।
शिलया ध्रुवबेरञ्चेत्कल्पितं शिलयैव हि ॥ ४१ ॥
परिवारांश्च कृत्वा तु चित्रकर्म समाप्य च ।
सङ्कल्प्य स्थापनञ्चैव सर्वकर्माणि चाचरेत् ॥ ४२ ॥
कर्ता कल्पज्ञमासाद्य तमाचार्यं प्रकल्पयेत् ।
प्रतिष्ठाक्रमः

प्रतिष्ठादिवसात्पूर्वं नवमे वाथ सप्तमे ॥ ४३ ॥
पञ्चमेऽहनि वा कुर्याद्विधिना चाङ्कुरार्पणम् ।
सम्भ्रियेत च द्रव्याणि यथोक्तगुणवन्ति वै ॥ ४४ ॥
स्थापकान् ॠत्विजोऽन्यांश्च वरयेद्विधिपूर्वकम् ।
कौतुकं कारयेद्बेरं ध्रुवबेरानुरूपतः ॥ ४५ ॥
कृत्वा तु पीठसङ्घातमक्षिमोचनमाचरेत् ।
अङ्गहोमादिकं कृत्वा दुर्गासूक्तं शताधिकम् ॥ ४६ ॥

[[५७५]]

पाञ्चभौतिकमन्त्रांश्च जुहुयाद्वैष्णवं तथा ।
हुनेद्विमानाङ्गहोमं हरेरुक्तविधानतः ॥ ४७ ॥
अन्यांस्तानधिवासांश्च पूर्ववत्कारयेद्बुधः ।
पूर्वेद्युः कारयेद्विद्वान् ध्रुवबेराक्षिमोचनम् ॥ ४८ ॥
‘जातवेदस’ इत्युक्त्वा लोचने विनिमीलयेत् ।
अमन्त्रकं शिल्पिकृतमाचार्यो मन्त्रवच्चरेत् ॥ ४९ ॥
अधिवासान् समाप्यैवं श्वभ्रे बिम्बानि विन्यसेत् ।
सूत्रोक्तेन विधानेन वास्तुहोमं समाचरेत् ॥ ५० ॥
पुण्याहं वाचयित्वाऽग्रे देवागारस्य मध्यतः ।
उक्तलक्षणसम्पन्नं पवित्राधावपूरितम् ॥ ५१ ॥
कुम्भमादाय वेद्यान्तु संस्थाप्यार्चनमारभेत् ।
अष्टमङ्गलजातञ्च वर्णचिह्नानि चायुधान् ॥ ५२ ॥
देव्या विशिष्टान् सौवर्णान् दुर्गासूक्तं जपन् क्षिपेत् ।
नवरत्नानि चान्यानि क्षिपेत्पूर्वोक्तवत् क्रमात् ॥ ५३ ॥
पूर्वोक्तेन क्रमेणैव आसने सम्यगास्थितः ।
ध्यायन् देवीं ततो दुर्गां गुरुरावाहनं चरेत् ॥ ५४ ॥
‘आयात्वि’ ति मनुं बुद्ध्या ऊहित्वा समुदीरयेत् ।
कुम्भं श्वभ्रे बिम्बपार्श्वे न्यसेत्पल्लवभूषितम् ॥ ५५ ॥
कलशैरष्टभिर्देवीं स्नापयेत्तदनन्तरम् ।
कुशोदैस्स्नापयेत्पूर्वं पश्चाद्गन्धोदकेन च ॥ ५६ ॥
सिद्धार्थोदैः ततः पश्चात्ततश्च फलवारिभिः ।
सर्वौषध्युदकेनाथ पुण्यपुष्पोदकेन च ॥ ५७ ॥
अनुबन्धः (दुर्गाकल्पः)

[[५७६]]

ततो गङ्गाम्भसा चापि तथा जप्योदकेन च ।
प्रतिद्रव्यमुपस्नानेनाचरेत्स्नापनं क्रमात् ॥ ५८ ॥
एकाक्षरादिमन्त्रैर्वा दुर्गासूक्तेन वा पुनः ।
परिधायाहतैर्वस्त्रैरलङ्कुर्याच्च भूषणैः ॥ ५९ ॥
आलयाभिमुखे कुर्याद्यज्ञालयमलङ्कृतम् ।
अग्निकुण्डांश्च परितः शय्यावेदिञ्च मध्यमे ॥ ६० ॥
कल्पयित्वा विधानेन वेद्यां शय्यां प्रकल्पयेत् ।
व्रीहिभिस्तण्डुलैर्वापि वेदिमास्तीर्य चोपरि ॥ ६१ ॥
पञ्चभिश्शयनैरुक्तैर्वस्त्रैः पञ्चभिरेव वा ।
उपधानद्वयं मूर्धपादयोरनुयोजयेत् ॥ ६२ ॥
आरोपयेत्तत्र देवीं कक्ष्याक्षुरिकया युताम् ।
कुम्भं ततस्समादाय बिम्बपार्श्वे च विन्यसेत् ॥ ६३ ॥
पुण्याहं वाच्य बध्नीयात् कौतुकं शाययेत्ततः ।
चक्रञ्च शाययेद्विद्वान् मन्त्रं सौदर्शनं जपन् ॥ ६४ ॥
चक्रमन्त्रेण चान्यानि शाययेदायुधानि च ।
देवीमष्टभुजाञ्चापि शाययेदेवमेव वै ॥ ६५ ॥
उत्तराच्छादनं कृत्वा परितो मङ्गलान् न्यसेत् ।
व्यजनैर्वीजयन्तीश्च कामिनीः परिकल्पयेत् ॥ ६६ ॥
प्रधानहोमः

मुहूर्ते परितश्चाग्नीन् अग्निकुण्डेषु साधयेत् ।
प्राच्यामाहवनीयञ्च अन्वाहार्यञ्च दक्षिणे ॥ ६७ ॥

[[५७७]]

गार्हपत्यं प्रतीच्यान्तु आवसत्थ्यं तथोत्तरे ।
तस्यैव दक्षिणे पार्श्वे सभ्यकुण्डञ्च कारयेत् ॥ ६८ ॥
आघारञ्च ततः कृत्वा होतारमभिपूज्य च ।
होत्रं क्रमेण चाश्राव्य मूर्त्यावाहनमाचरेत् ॥ ६९ ॥
आवाहयेत्पारिषद्यान् निर्वापं होममाचरेत् ।
दुर्गासूक्तन्तु जुहुयादावर्त्याष्टशतं ततः ॥ ७० ॥
(वैष्णवं विष्णुसूक्तञ्च ब्राह्मं रौद्रं तथैव च ।
जुहुयाद्भौतिकञ्चैव पञ्चवारुणमेव च ॥ ७१ ॥
मूलहोमञ्च कूश्माण्डमन्त्रान् धातादिकान् यजेत् ।
सहस्रहोमं सावित्र्या सहस्राहुतिमेव च ॥ ७२ ॥
हुत्वैवन्तु प्रधानाग्नौ यजेत्सर्वत्र वैष्णवम् ।
अष्टकृत्वस्तु चरुणा पयसा च तथा यजेत् ॥ ७३ ॥
विष्णुसूक्तेन पालाशसमिद्भिस्सर्ववह्निषु ।
हुत्वा स्विष्टकृतं पश्चात्सर्वत्र जुहुयाद्बुधः ॥ ७४ ॥
अन्तहोमं ततः कृत्वा सर्वानग्नीन् विसर्जयेत् ।
सभ्यमेकन्तु संरक्षेन्नित्यहोमाय शाश्वतम् ॥ ७५ ॥
सर्वदेवार्चनं कृत्वा रात्रिशेषं ततो नयेत् ।
रत्नन्यासः

पुनः प्रभाते त्वाचार्यः स्थापकाद्यैस्समन्वितः ॥ ७६ ॥
स्नात्वा स्नानविधानेन नित्यकर्माणि चाचरेत् ।
रत्नन्यासक्रमैणैव श्वभ्रे रत्नानि निक्षिपेत् ॥ ७७ ॥
अनुबन्धः (दुर्गाकल्पः)

[[५७८]]

क्षत्रियो यजमानश्चेत् नामगोत्रादिविस्तरम् ।
सुवर्णरूप्यताम्रादिपट्टेष्वालिख्य तत्र च ॥ ७८ ॥
श्वभ्रे संस्थापयेत्पश्चात् परिताः पञ्च चायुधान् ।
क्षिपेत्प्रयुञ्जीत गुरुः मङ्गल्यानि बहूनि च ॥ ७९ ॥
राजा स्याद्विजयी तस्य जयस्स्यात् सततं तथा ।
आचन्द्रतारार्कमस्य वंशस्तिष्ठति वृद्धिमान् ॥ ८० ॥
ततः श्रीप्रतिमां तत्र पद्ममध्ये तु स्थापयेत् ।
सुवर्णेनैव कृत्वा तु गर्तप्रच्छादनं चरेत् ॥ ८१ ॥
पद्मपत्रैरथाच्छाद्य सुधया परिपूरयेत् ।
गर्भन्यासोक्तमार्गेण फेलाश्चात्र प्रकल्पयेत् ॥ ८२ ॥
स्थापनं

सर्वानेतान् विनिक्षिप्य पीठमध्ये विनिक्षिपेत् ।
अनेनैव विधानेन ध्रुवार्चामपि कल्पयेत् ॥ ८३ ॥
यागशालां प्रविश्यातः सुप्तां देवीं प्रणम्य च ।
‘जातवेदस’ इत्युक्ता चोत्थाप्य शयनात्ततः ॥ ८४ ॥
वस्त्रैराभरणैर्माल्यैरलङ्कुर्यान्मनोरमम् ।
प्राप्ते मुहूर्ते सभ्याग्नौ पद्मैरष्टशतैर्यजेत् ॥ ८५ ॥
वैष्णवं मन्त्रमावर्त्य होमद्रव्यैर्घृतादिभिः ।
कृत्वाऽन्तहोमं सर्वत्र सर्वानग्नीन् विसर्जयेत् ॥ ८६ ॥
यजमानश्च धर्मात्मा आचार्यं पूजयेत्तदा ।
वस्त्रोत्तरीयाभरणैः गन्धमाल्यादिभिः क्रमात् ॥ ८७ ॥

[[५७९]]

गोभूपशुहिरण्याद्यैर्यथोक्तं दक्षिणां ददेत् ।
ॠत्विग्भ्यः स्थापकेभ्यश्च दद्यादुक्ताञ्च दक्षिणाम् ॥ ८८ ॥
निष्काधिकं सुवर्णं हि ॠत्विजां दक्षिणा भवेत् ।
स्थापनावसरे काले कुम्भमादाय चात्वरः ॥ ८९ ॥
आचार्यश्चाग्रतो गच्छेत् स्थापकास्तदनन्तरम् ।
जपन्तश्शकुनं सूक्तं बिम्बमादाय संयताः ॥ ९० ॥
सर्ववाद्यसमायुक्ता नीत्वा गेहं प्रदक्षिणम् ।
गर्भागारं प्रविश्यैव गुरुः कुम्भं विनिक्षिपेत् ॥ ९१ ॥
गुप्ते देशे स्थापकास्तु देवीमादाय चादरात् ।
दुर्गासूक्तं जपन्तश्च ध्रुवसूक्तेन सङ्गतम् ॥ ९२ ॥
स्थाने प्रतिष्ठापयेयुः देवीध्यानपरायणाः ।
सावित्रादीनि सूक्तानि जपेयुस्तदनन्तरम् ॥ ९३ ॥
आचार्यः पुरतः कुम्भं संस्थाप्याऽऽवाहनं चरेत् ।
ध्रुवे पूर्वं समावाह्य कौतुके तत आवहेत् ॥ ९४ ॥
दुर्गाबीजं हृदि न्यस्य न्यसेदन्यानि च क्रमात् ।
तथा पारिषदान् स्थाप्य क्रमेणाभ्यर्चयेद्बुधः ॥ ९५ ॥
हवींषि पायसापूपपूर्वाण्यपि निवेदयेत् ।
अपेक्षितमनुक्तञ्च विष्णोरुक्तवदाचरेत् ॥ ९६ ॥
कल्पस्साधारणो ज्ञेयः स्थापने चार्चने तथा ।
उत्सवे चाङ्गदेवानां सर्वेषां परिकीर्तितः ॥ ९७ ॥
व्यक्तिभेदे देवतानां मूर्तिमन्त्रो विभिद्यते ।
विशेषेण तु दुर्गायाः कल्पोऽत्र समुदीरितः ॥ ९८ ॥
अनुबन्धः (दुर्गाकल्पः)

[[५८०]]

यतस्सा देवदेवस्य विष्णोश्शक्तिः श्रुता बुधैः ।
यागस्य दक्षिणा जीवो दातव्या दक्षिणा ततः ॥ ९९ ॥
हिरण्यं नववस्त्राणि धनं धान्यमनेकशः ।
यथाशक्ति च दातव्या शक्तिं तत्र न गूहयेत् ॥ १०० ॥
यागोपयुक्तद्रव्याणि आचार्याय प्रदापयेत् ।
एवं यः कुरुते भक्त्या कामानाप्नोति वाञ्छितान् ॥ १०१ ॥
इति सङ्क्षेपतेः प्रोक्तो दुर्गायाः स्थापनक्रमः ।
….. …… …… ……

नित्यार्चनम्

अथ नित्यार्चनं वक्ष्ये दुर्गादेव्या यथाक्रमम् ॥ १०२ ॥
अर्चनार्थांश्च सम्भारान् यथाशक्ति समाहरेत्

स्नात्वा स्नानविधानेन नित्यकर्माणि चाचरेत् ॥ १०३ ॥
प्रविश्य देवताऽगारं ‘जातवेदस’ ईरयन् ।
गेहं प्रदक्षिणं गत्वा प्रणम्य द्वारपलिके ॥ १०४ ॥
उद्घाट्य च कवाटौ तु प्रणमेच्चैव देवताम् ।
घण्टां सन्ताड्य निर्माल्यं शोधयेन्मन्त्रपूर्वकम् ॥ १०५ ॥
निर्माल्यैश्शोधितैरर्चेत्ततो निर्माल्यधारिणीम् ।
वदन् ‘जयाञ्च सुखदामानन्दां भोगदायिनीम्’ ॥ १०६ ॥
‘धारास्वि’ त्यादिना तोयमप्पवित्रेण शोधयेत् ।
सुगन्धैर्द्रव्यनिचयैर्भावयेत्तीर्थमुत्तमम् ॥ १०७ ॥
‘इदमाप’ स्समुच्चार्य तीर्थं तदभिमन्त्रयेत् ।
‘भूरानिलय’ मन्त्रेण देवीं संस्नापयेत्ततः ॥ १०८ ॥

[[५८१]]

‘भूरसि भू’ रिति वदन् जीवस्थाने च स्थापयेत् ।
धात्रादीन् पूर्वमभ्यर्च्य पश्चाद्देवीं समर्चयेत् ॥ १०९ ॥
पञ्चशुद्धिञ्च कार्त्स्येन हरेरिव समाचरेत् ।
यद्रूपा वर्तते देवी तद्रूपां मनसा स्मरेत् ॥ ११० ॥
आत्मानं तां स्पृशन् ध्यायेद्दक्षिणं पार्श्वमाश्रितः ।
‘भूः प्रपद्य’ इति ध्यायन् देवीं तां सम्प्रणम्य च ॥ १११ ॥
‘आयातु भगवती’ देवी ‘ध्वजिनी हंसवाहिनी ।
सेनावरूधिनी दुर्गे’ त्यावाहनमथाचरेत् ॥ ११२ ॥
ततः पुष्पासनं ‘दद्यादस्त्वासन’ मिति ब्रुवन् ।
‘सुस्वागतं’ समुच्चार्य स्वागतं समुपाचरेत् ॥ ११३ ॥
‘अनुमन्यस्व’ मन्त्रेण अनुमान्य सुरेश्वरीम् ।
‘विराज’ इति मन्त्रेण दद्यात्पाद्यं शुभं जलम् ॥ ११४ ॥
‘आपो हि ष्ठे’ ति मन्त्रेण दद्याच्चाचमनीयकम् ।
‘इमास्सुमनस’ इति पुष्पं दद्याद्यथोदितम् ॥ ११५ ॥
‘इमे गन्धा’ इति ब्रुवन् गन्धं दद्यान्मनः प्रियम् ।
‘बृहस्पति’रिति प्रोच्य धूपमादाय धूपयेत् ॥ ११६ ॥
‘शुभ्राज्योति’ रिति प्रोच्य दीपं सन्दर्शयेत्ततः ।
‘हिरण्यगर्भ’ इत्युक्ता युक्तमर्घ्यं निवेदयेत् ॥ ११७ ॥
दद्यादाचमनीयञ्च पूर्वोक्तमनुना बुधः ।
‘अभित्वा शूर’ इत्युक्त्वा स्नापयेच्छुद्धवारिणा ॥ ११८ ॥
‘मित्रस्सुपर्ण’ इत्युक्ता प्लोतेन विमृजेत्ततः ।
‘तेजो वत्स्याव’ इति च दद्याद्वस्त्रं सुशोभनम् ॥ ११९ ॥
अनुबन्धः (दुर्गाकल्पः)

[[५८२]]

उत्तरीयं ततो दद्यात्सोमस्ये’त्यादि तु ब्रुवन् ।
‘भूतो भूतेषु’ मन्त्रेण दद्यादाभरणं ततः ॥ १२० ॥
पाद्यामाचमनं पुष्पं गन्धं दद्यादथाञ्जनम् ।
‘यदाञ्जन’मिति प्रोक्तो मन्त्र अञ्जनकर्मणि ॥ १२१ ॥
‘देवस्य त्वे’ ति मन्त्रेण आदर्शञ्चापि दर्शयेत् ।
ततो दद्याद्धूपदीपौ हविरादाय पायसम् ॥ १२२ ॥
मौद्गिकं वा यथालाभं ‘सुभूस्स्वय’ मिति ब्रुवन् ।
निवेदयेन्मूर्त्रिमन्त्रैर्नित्यहोमञ्च हावयेत् ॥ १२३ ॥
बलिं दद्यात्तोयपूर्वं सर्वेषां बलिकाङ्क्षिणाम् ।
प्रातरर्घ्यबलिं वाथ गन्धपुष्पाक्षताम्बुधि ॥ १२४ ॥
हविर्बलिन्तु मध्याह्ने दधिमण्डसमायुतम् ।
दद्यादपूपसुबलिं सायमेवं बलिक्रमः ॥ १२५ ॥
प्रक्षाल्य पादावाचम्य प्रविशेद्गर्भमन्दिरम् ।
पानीयाचमने दत्वा ताम्बूलं दक्षिणां ददेत् ॥ १२६ ॥
उपचारप्रसङ्गे तु मन्त्रान्ते तु पृथक् पृथक् ।
मूर्तिमन्त्रांश्च संयोज्य चतुर्थ्यन्तान् समर्चयेत् ॥ १२७ ॥
मूर्तिमन्त्रक्रमं वक्ष्ये दुर्गादेव्यर्चनाविधौ ।
‘दुर्गां कात्यायनीञ्चेति वैष्णवीं विन्ध्यवासिनीम् ॥ १२८ ॥
इति त्वभ्यर्चयेद्देवीं परिवारांस्ततोऽर्चयेत् ।
‘रमां प्रीतिं पवित्रीञ्च तथा पद्मासना’मिति ॥ १२९ ॥
रमां दक्षिणतोऽभ्यर्च्य उमां वामे समर्चयेत् ।
‘उमाञ्च पार्वतीञ्चेति रुद्रपत्नीं सुखप्रदाम्’ ॥ १३० ॥

[[५८३]]

ततोऽर्चयेदाङ्गिरसं मृकण्डुञ्चेति पूजकौ ।
‘तपोनिधिञ्चाङ्गिरसमग्निवर्णं तपोमयम्’ ॥ १३१ ॥
‘मृकण्डुं मुनिमुख्यञ्च तापसञ्च पुरातनम्’ ।
नन्दगोपं यशोदाञ्च पार्श्वयोरर्चयेद्युवयोः ॥ १३२ ॥
अभ्यन्तरद्वारदेशे देवीवीक्षमतत्परौ ।
अर्चयेच्चित्ररूपौ तु तत्तद्वर्णाम्बरौ वरौ ॥ १३३ ॥
स्वनामसंयुतौ पूज्यौ देव्यास्तु पितरौ हि तौ ।
‘गङ्गाञ्च पावनीञ्चेति पुण्यां त्रिपथगामिनीम्’ ॥ १३४ ॥
इति गङ्गां द्वारदेशे दक्षिणेऽभ्यर्च्य वामतः ।
‘यमुनाञ्च नदीमुख्यां नीलवर्णां यशस्विनीम्’ ॥ १३५ ॥
अर्चये ‘ददितिं पुण्यां तथा दाक्षायणीमिति ।
देवमातर’ मित्युक्त्वा द्वितीयद्वारदक्षिणे ॥ १३६ ॥
अदितिं वामपार्श्वे तु ‘दितिञ्चासुरमातरम् ।
प्रजावतीमिति तथा कश्यपस्य प्रिया’मिति ॥ १३७ ॥
‘मृगेन्द्रं मृगराजञ्च महानादं महाबलम्’ ।
इति सोपानमध्ये तु वाहनं सम्यगर्चयेत् ॥ १३८ ॥
शैषिकीञ्च जयत्सेनामर्चयेदुक्तमूर्तिभिः ।
न्यक्षादिलोकपालांश्च स्वस्वमूर्तिभिरर्चयेत् ॥ १३९ ॥
‘उग्रसेनं महावीर्यं शूलपाणिं सुरप्रियम्’ ।
‘जयन्तं धर्मनिष्ठञ्च दण्डहस्तं तथैव च ॥ १४० ॥
यक्षमुख्य’ मिति द्वारे तृतीये द्वारपालकौ ।
‘कुम्भोदरं महाभूतं दुर्गाभक्तं बलोत्कटम्’ ॥ १४१ ॥
अनुबन्धः (दुर्गाकल्पः)

[[५८४]]

इति कुम्भोदरञ्चैव पुष्पाद्यर्घ्यान्तमर्चयेत् ।
अर्चनान्तेऽर्चको देवीं प्रणम्य सुसमाहितः ॥ १४२ ॥
यजमानर्द्धिमुद्दिश्य देव्यै तं विनिवेदयेत् ।
यथाशक्ति स्तुतिपदैः स्तुत्वा नत्वा पुनः पुनः ॥ १४३ ॥
अनुज्ञां प्रार्थ्य गन्तुं वै रक्षां देव्या विधाय च ।
गृहं गच्छेदर्चकश्च देवीं ध्यायन्निरामयम् ॥ १४४ ॥
मार्गमेनं समुल्लङ्घ्य यः कुर्यात्काममार्गतः ।
नोक्तं स फलमाप्नोति विपरीतञ्च विन्दति ॥ १४५ ॥
स्नपनम्

अथातस्स्नपनं वक्ष्ये दुर्गादेव्यास्समासतः ।
अङ्कुरानर्पयित्वा तु सम्भारानुपकल्प्य च ॥ १४६ ॥
स्नानालयेऽष्टौ कलशान् विन्यसेत्सूत्रवेष्टितान् ।
पद्मकिञ्जल्कसङ्घातवासिताम्बु न्यसेत् पुरः ॥ १४७ ॥
मधुमिश्रं घृतञ्चैव क्षीरञ्चैवाक्षतोदकम् ।
बिल्वपल्लवतोयञ्च कुशोदकमतः परम् ॥ १४८ ॥
गन्धोदकञ्च कर्पूरोद्धृततैलं परिष्कृतम् ।
तैलालाभे तु कर्पूरभावितोदकमाहरेत् ॥ १४९ ॥
व्रीहिभिस्तण्डुलैर्वापि पङ्क्तिं कृत्वा च तत्र वै ।
ऐन्द्राद्यैशान्यपर्यन्तं क्रमेण कलशान्न्यसेत् ॥ १५० ॥
उपस्नानेषु तावत्सु गङ्गाञ्चैव समर्चयेत् ।
दिक्पालकान् जयादींश्च यथास्थानं समर्चयेत् ॥ १५१ ॥

[[५८५]]

स्नापनात्पूर्वरात्रौ तु सन्न्यस्यैवं विधानतः ।
कलशानामुत्तरस्यां दिशि शय्यां प्रकल्पयेत् ॥ १५२ ॥
रात्रिपूजासमाप्तौ तु देवीमादाय सादरम् ।
आरोपयेच्च शयने कौतुकं बन्धयेत्तदा ॥ १५३ ॥
पूजयित्वा च पङ्क्तीशं शयने सोपधानके ।
शाययेच्च ततो देवीं रात्रिशेषञ्च नाययेत् ॥ १५४ ॥
अलङ्कृते च द्वे कन्ये वीजनाय नियोजयेत् ।
रात्रिं नयेन्नृत्यगीतवाद्याद्यैरुदयावधि ॥ १५५ ॥
पुनः प्रभाते त्वाचार्यः देवीमुत्थाप्य चादरात् ।
उत्सवं परिकल्प्यैव ग्रामं कुर्यात्प्रदक्षिणम् ॥ १५६ ॥
निशाचूर्णैः कुङ्कुमेन देवीमभ्युक्ष्य वै जलैः ।
निमज्य विकिरेच्छेषं भक्तानां मूर्ध्नि पावनम् ॥ १५७ ॥
रथे वा शिबिकायां वा देवीमारोप्य वै गजे ।
रथ्यास्संशोध्य सर्वत्र कुर्याद्ग्रामप्रदक्षिणम् ॥ १५८ ॥
समर्चयेच्च विधिना सर्वसम्पत्समृद्धये ।
फलैर्मूलैस्तथा पुष्पैरपक्वान्नैः निवेदयेत् ॥ १५९ ॥
एवं प्रदक्षिणं नीत्वा आलयं सम्प्रवेश्य च ।
स्नानपीठे तु संस्थाप्य स्नपनं सम्यगाचरेत् ॥ १६० ॥
सावित्रीमन्त्रमुच्चार्य कलशानुद्धरेत्तदा ।
द्वर्गासूक्तोक्तमन्त्रैस्तु चतुर्भिः प्रोक्ष्य वै पृथक् ॥ १६१ ॥
पूर्वार्धैरुत्तरार्धैस्तु स्नपनञ्च समाचरेत् ।
सर्वोपस्नानकलशैः पञ्चम्या स्नापयेदृचा ॥ १६२ ॥
अनुबन्धः (दुर्गाकल्पः)

[[५८६]]

प्रतिद्रव्यं तथाऽर्घ्यान्तं घण्टां सन्ताड्य चार्चयेत् ।
स्नानपीठात्समादाय संस्थाप्य परमासने ॥ १६३ ॥
उष्णोदैः शुद्धतोयेन बिम्बशोधनमाचरेत् ।
प्लोतेन च विमृज्यैव वस्त्राभरणधातुभिः ॥ १६४ ॥
अलङ्कृत्य यथाशक्ति सेवां देव्यास्समादिशेत् ।
प्राणस्थाने प्रतिष्ठाप्य नित्यार्चामथचाचरेत् ॥ १६५ ॥
हीनकालहविर्भिश्च पार्थक्येन समाचितैः ।
विशेषतस्सन्निवेद्य प्रणामान्तं समर्चयेत् ॥ १६६ ॥
देव्यास्स्नापनकालन्तु श्रृणुत द्विजसत्तमाः ।
अयनान्ते तथाऽब्दान्ते ग्रहणे सोमसूर्ययोः ॥ १६७ ॥
यजमानस्य जन्मर्क्षे राजजन्मदिने तथा ।
दुर्गापञ्चकवारेषु मासि मासि विशेषतः ॥ १६८ ॥
उत्पन्नेषु निमित्तेषु अनावृष्ट्यादिकेषु च ।
विधिना स्नपनं देव्याः कारयेत्सर्वसिद्धये ॥ १६९ ॥
चतुर्दशी द्वे नवमी द्वे तारा कृत्तिका इति ।
दुर्गापञ्चदिनं प्रोक्तमृषिभिस्तत्वदर्शिभिः ॥ १७० ॥
स्नपनं कारयेत्तत्र यजमानस्समाहितः ।
आचार्यमृत्विग्भिस्साकं वरयित्वाऽभिपूजयेत् ॥ १७१ ॥
शान्तिकं पौष्टिकञ्चेति तृतीयञ्चाभिचारिकम् ।
त्रिविधं सर्वकर्म स्यात्स्नपनञ्च तथा भवेत् ॥ १७२ ॥
आचार्यः केवलं कुर्याच्छान्तिकञ्चैव पौष्टिकम् ।
आभिचारस्नापनन्तु न कदापि समाचरेत् ॥ १७३ ॥

[[५८७]]

यदि शत्रुविनाशार्थं यजमानश्चिकीर्षति ।
तन्नानुमन्येताऽऽचार्यः शान्तिकं पौष्टिकं विना ॥ १७४ ॥
सर्वेषामेव देवानां दुर्गापूजा हिताभवेत् ।
दुर्गायाः पूजनात्पूर्वमसुरानजयन्त्सुराः ॥ १७५ ॥
अत्रानुक्तञ्च यत्सर्वं प्रायश्चित्तादिकं बुधः ।
हरेरुक्तविधानेन यजमानस्समाचरेत् ॥ १७६ ॥
उत्सवः

अतः परं प्रवक्ष्यामि दुर्गायाश्चोत्सवं क्रमात् ।
प्रतिष्ठान्ते तथा कुर्याद्दुर्गापञ्चदिनेषु च ॥ १७७ ॥
नृपस्य जन्मदिवसे तथा शुभसमागमे ।
उग्रे निमित्ते चोत्पन्ने यजमानस्य जन्मभे ॥ १७८ ॥
विषुवायनसङ्क्रान्तिकालेषूत्सवमाचरेत् ।
नवाहमथ सप्ताहं पञ्चाहं त्रियहन्तु वा ॥ १७९ ॥
द्व्यहञ्चैव तथैकाहं सङ्कल्प्योत्सवामाचरेत् ।
त्रिगुणीकृत्योत्सवाहस्सङ्ख्यमादौ समृद्धये ॥ १८० ॥
घ्वजस्यारोहणं कुर्यान्मुहूर्ते मङ्गलप्रदे ।
एकाहद्व्यहयोर्वै नोत्सवयोरङ्कुरध्वजौ ॥ १८१ ॥
(ध्वजार्थं चम्पकं वेणुं क्रमुकं वा समाहरेत् ।
सलक्षणं तरुमृजुं तद्विमन्त्रसमायतम् ॥ १८२ ॥
पादाधिकं पादहीनं गृह्णीयादर्धमेव वा ।
यथालाभपरीणाहं ध्वजदण्डं प्रशस्यते) ॥ १८३ ॥
अनुबन्धः (दुर्गाकल्पः)

[[५८८]]

ध्वजवस्त्रं यथालाभविस्तारायतमाहरेत् ।
तन्मध्ये सिंहमालिख्य छत्रचामरसंयुतम् ॥ १८४ ॥
प्रतिष्ठोक्तप्रकारेण ध्वजसंस्कारमाचरेत् ।
आलयात्प्रमुखे वाऽथ दक्षिणे वाऽथ मण्डपम् ॥ १८५ ॥
प्रपां वा समलङ्कृत्य वितानाद्यैर्विशेषतः ।
धूपदीपादिभिः पूर्णकुम्भाङ्कुरमुखैस्ततः ॥ १८६ ॥
तण्डुलैर्व्रीहिभिश्चापि पीठं तत्र प्रकल्प्य च ।
तस्य मध्ये तु संस्थाप्य तत्र सिंहध्वजं क्रमात् ॥ १८७ ॥
सेनान्यञ्च जयत्सेनां वृषभं तत्र चार्चयेत् ।
भेरीं न्यस्य समर्भ्यर्च्य पुण्याहमपि वाचयेत् ॥ १८८ ॥
उक्तैः परिवृतैस्सर्वैराचार्यः शिष्यसंयुतः ।
सर्ववाद्यसमायुक्तः बलिनिर्वापणाय वै ॥ १८९ ॥
ग्रामप्रदक्षिणं नीत्वा सन्धौ सन्धौ समाहितः ।
दिगीशेभ्यो बलिं दद्यात् घोषयेत्पटहादिभिः ॥ १९० ॥
गद्यैः पद्यैस्समाघोष्य ध्वजस्थानां प्रवेशयेत् ।
(गर्तं कृत्वा शनैर्विद्वान् चतुस्तालप्रमाणतः) ॥ १९१ ॥
धिष्ण्याधारे च दण्डाग्रे ध्वजयष्टिं निधाय च ।
संस्थापयेद्ध्वजं तत्र दुर्गासूक्तं समुच्चरन् ॥ १९२ ॥
वेदिन्तु परितः कुर्याद्दार्ढ्यार्थं सुधया ततः ।
हस्तमात्रसमुत्सेधां तावद्विस्तारसंयुताम् ॥ १९३ ॥
ध्वजदारौ समारोप्य सिंहध्वजपटं क्रमात् ।
निवेदयेत्पायसान्नं यावत्स्यादवरोहणम् ॥ १९४ ॥

[[५८९]]

आलयाद्दक्षिणे पार्श्वे कूटमेकं प्रकल्पयेत् ।
प्राक्पश्चिमायतञ्चार्धविस्तृतं दशहस्ततः ॥ १९५ ॥
चतुर्द्वारसमायुक्तं द्वादशस्तम्भसंयुतम् ।
प्रपां तथाविधां वापि पार्श्वे कुर्यात्तु दक्षिणे ॥ १९६ ॥
वेदिकां कारयेत्तत्र चतुर्हस्तां चतुर्दिशम् ।
तालमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ॥ १९७ ॥
औपासनविधानेन प्राच्यामग्निं प्रकल्पयेत् ।
द्वारेषु पूर्णकुम्भाद्यैः कदलीक्रमुकाङ्कुरैः ॥ १९८ ॥
अलङ्कुर्यात्पताकाभिः मुक्तादामभिरेव च ।
दर्भमालाभिरन्तश्च भूषयेद्विविधैर्गृहम् ॥ १९९ ॥
वितानैरूर्ध्वमाच्छाद्य वस्त्रैः स्थूणाश्च वैष्टयेत् ।
उत्सवादिदिने सायं मृगं गुह्याङ्कुरं चरेत् ॥ २०० ॥
अग्निमाधाय जुहुयान्मूर्तिमन्त्रसमन्वितम् ।
दुर्गासूक्तेनर्चयित्वा देवीं भूतबलिं ददेत् ॥ २०१ ॥
राजधान्यामिन्द्रबलिं प्रमुखे राजवेश्मनः।
दद्यात्तथाऽऽयुधागारे श्रियै देव्यै बलिं क्षिपेत् ॥ २०२ ॥
वायव्ये चाश्वशालायां गजस्थाने विवस्वते ।
उत्सवोक्तेन विधिना बलिं सर्वत्र निक्षिपेत् ॥ २०३ ॥
आस्थाने स्थापयेद्देवीं सर्वाभरणभूषिताम् ।
चित्रकक्ष्यादिभिश्चैव अलङ्कुर्याद्यथोचितम् ॥ २०४ ॥
पञ्चायुधानि च न्यसेत्पार्श्वयोरुभयोरपि

एलालवङ्गकर्पूरैर्मुखवासं निवेदयेत् ॥ २०५ ॥
अनुबन्धः (दुर्गाकल्पः)

[[५९०]]

अनुमान्य ततो देवीं नेयाद्ग्रामं प्रदक्षिणम् ।
सर्ववाद्यसमायुक्तं नृत्तगीतसमन्वितम् ॥ २०६ ॥
रथं गजं हयं वाऽऽन्दोलिकां वा शिबिकां तथा ।
आरोप्य देवीं गच्छेयुः पञ्चायुधपुरस्सरम् ॥ २०७ ॥
छत्रचामरपिञ्छैश्च पताकाभिर्ध्वजैस्तथा ।
अलङ्कारैस्तथाऽन्यैश्च धूपदीपादिकैस्तथा ॥ २०८ ॥
नीत्वा प्रदक्षिणं ग्राममालयञ्च प्रवेशयेत् ।
गन्धोदकैश्च संस्नाप्य पूजयेदष्टविग्रहैः ॥ २०९ ॥
जीवस्थाने प्रतिष्ठाप्य सन्ध्यापूजां समाचरेत् ।
आस्थाने वेदिपार्श्वे तु स्थापयेदायुधानि तु ॥ २१० ॥
प्रातः कालार्चनं कृत्वा प्रातरुत्सवमाचरेत् ।
होमञ्चापि तथा कुर्यात्सायमुत्सवमाचरेत् ॥ २११ ॥
उत्सवाहस्सु सर्वेषु अयमेवोत्सवक्रमः ।
तीर्थाहःपूर्वरात्रौ तु रात्रिपूजां समाप्य च ॥ २१२ ॥
बद्ध्वा प्रतिसरं देवीं शयने शाययेन्निशाम् ।
नयेन्नृत्यैश्च गानैश्च वेदघोषादिभिस्तथा ॥ २१३ ॥
प्रातस्तीर्थदिने कुर्यात्पूर्वोक्तं बलिमेव च ।
आस्थाने स्थापयेद्देवीं सर्वालङ्कारसंयुताम् ॥ २१४ ॥
ग्रामप्रदक्षिणं कृत्वा पुनरास्थानमाव्रजेत् ।
हारिद्रेणैव चूर्णेन देवीं चक्रञ्च स्नापयेत् ॥ २१५ ॥
चूर्णशेषञ्च भक्तेभ्यो दद्यात्पापापनुत्तये ।
ग्रामप्रदक्षिणं कृत्वा तीर्थस्थानं प्रवेशयेत् ॥ २१६ ॥

[[५९१]]

नद्यां वाऽथ तटाके वा तीरे कुत्वा प्रपां शुभाम् ।
तन्मध्ये वेदिकां कृत्वा अलङ्कृत्य विशेषतः ॥ २१७ ॥
देवीन्तु पश्चिमे तत्र स्थापयेद्वेदिकातटे ।
व्रीहिभिस्तण्डुलैश्चापि संस्तीर्यात्र च विन्यसेत् ॥ २१८ ॥
कलशान् पञ्च मध्यादि प्रदक्षिणक्रमेण वै ।
पद्मोदकं कुशोदञ्च गन्धोदञ्चाक्षतोदकम् ॥ २१९ ॥
फलोदकञ्च सम्पूर्य तन्मन्त्रैश्चाभिमन्त्रयेत् ।
वस्त्रैरावेष्ट्य तान्त्सर्वांस्तत्तद्द्रव्यैश्च पूरितान् ॥ २२० ॥
द्रव्याधिपान्त्समभ्यर्च्य पाद्याद्यर्घ्यान्तमेव च ।
‘आपो हिष्ठा’ दिभिर्मन्त्रैरब्लिङ्गैः प्रोक्षणं चरेत् ॥ २२१ ॥
स्नापयेत्पद्मतोयेन ‘जातवेदस’ ईरयन् ।
चतुर्भिः शिष्टकलशैर्मन्त्राञ्छिष्टान्त्समीरयन् ॥ २२२ ॥
संस्नापयेत्क्रमेणैव तीर्थे चैव निमज्जयेत् ।
चक्रञ्च स्नापयेत्पश्चादलङ्कुर्याद्यथोचितम् ॥ २२३ ॥
ततश्चालयमानाय्य स्नानपीठे निवेश्य च ।
कलशैस्स्नापयेद्देवीं चतुर्विंशतिभिस्तदा ॥ २२४ ॥
स्नपनान्ते समभ्यर्च्य प्रभूतञ्च निवेदयेत् ।
मुखवासं ततो दद्यात्कर्पूरैलादिसंयुतम् ॥ २२५ ॥
सन्ध्यापूजां ततः कुर्यान्नित्यपूजाविधानतः ।
अत्रानुक्त्रच यत्सर्वं हरेरिव समाचरेत् ॥ २२६ ॥
यस्माद्भगवतीं दुर्गां हरेरंशसमुद्भवा ।
यजमानः प्रसन्नात्मा वस्त्रहेमाङ्गुलीयकैः ॥ २२७ ॥
अनुबन्धः (दुर्गाकल्पः)

[[५९२]]

शक्तितो दक्षिणां दद्यादाचार्याय नयान्वितः ।
ॠत्विजामपि सर्वेषां भक्त्या निष्काधिकं पृथक् ॥ २२८ ॥
यज्ञेऽस्मिन् विधिवद्देव्या उपयुक्तं परिच्छदम् ।
देयमाचार्याय सर्वं भक्त्या वै फलकाङ्क्षिणा ॥ २२९ ॥
स्त्रुक्स्त्रुवादीनि सर्वाणि जले वै विसृजेत्पुनः ।
ध्वजस्थानं समासाद्य ध्वजदेवं प्रणम्य च ॥ २३० ॥
मुद्गान्नं विनिवेद्यैव बलिद्रव्यं प्रगृह्य च ।
यत्र यत्र बलिस्थानं तत्र तत्र च घोषयेत् ॥ २३१ ॥
ग्रामरथ्यासु सर्वासु सन्धौ सन्धौ तथैव च ।
शून्यालयेषु सर्वेषु चैत्यवृक्षेषु वै तथा ॥ २३२ ॥
वापीकूपतटाकादौ बलिं दद्याद्विधानतः ।
स्नात्वाऽऽलयं सम्प्रविश्य ध्वजं तमवतारयेत् ॥ २३३ ॥
भक्त्या तु कुरुते यस्तु दुर्गायाश्च महोत्सवम् ।
सर्वान् कामानवाप्नोति तथा शत्रॄन् जयिष्यति ॥ २३४ ॥
काले वर्षति पर्जन्यस्सस्यवृद्धिर्भविष्यति ।
यानवाहनपश्वादिसमृद्धिश्च भविष्यति ।
इति सङ्क्षेपतः प्रोक्तो दुर्गाया उत्सवक्रमः ॥ २३५ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे दुर्गाकल्पः

* * *