अथ द्विचत्वारिंशोऽध्यायः
श्रीकल्पः
अतः परं प्रवक्ष्यामि श्रीदेव्याः स्थापनक्रमम् ।
सर्वैर्देवगणैरीशः पूज्योऽमरवरो हरिः ।
पुरुषप्रवरो देवः पुरुषैः पूज्य इष्यते ॥ १ ॥
पुंसां यथोत्तमो विष्णुः स्त्रीणां श्रीरुत्तमा तथा ।
स्त्रीभिः पूज्या ततः श्रीर्हि काङ्क्षन्तिभिस्सुखं परम् ॥ २ ॥
साधारणौ दम्पती तौ सदा स्त्रीपुंसयोर्द्वयोः ।
तस्माच्छ्रियं विष्णुपत्नीं भूतिकामः समर्चयेत् ॥ ३ ॥
आलयनिर्माणं
देव्यै श्रियै ततः कुर्यादालयं पृथगिच्छता ।
अर्चयेदिष्टमाप्नोति इह लोके परत्र च ॥ ४ ॥
पुत्रार्थी लभते पुत्रं जयार्थी लभते जयम् ।
अर्थार्थी लभते चार्थं श्रीप्रसादात्सुदुर्लभम् ।
हरेरुक्तविधानेन कर्षणादीन् समाचरेत् ॥ ५ ॥
सह वै हरिणा स्थाप्या देवी केवलमेव वा
सह चेद् ब्रह्मभागे तु स्थाप्या देवी विशेषतः ॥ ६ ॥
परिवारः
जयाञ्च विजयाञ्चेति व्याजनी द्वे समाचरेत् ।
परितः परिवाराश्च यथायोगं प्रकल्पयेत् ॥ ७ ॥
[[५२४]]
दुर्गां सरस्वतीं ज्येष्ठामुमाञ्च क्रमशस्ततः ।
नन्दां कुर्यात्तथा देव्या नाम्ना निर्माल्यहारिणीम् ॥ ८ ॥
द्विभुजां पद्महस्ताञ्च सुखासीनां शशिप्रभाम् ।
मकुटालङ्कृताञ्चैव जपासुमनिभाम्बराम् ॥ ९ ॥
सर्वभद्रां प्रकुर्वीत देवीं देव्यास्तु वाहनम् ।
गन्धर्वमुख्या सा देवी गरुडेन सहोषिता ॥ १० ॥
विरूपाक्षश्च भूतेशः श्रियो द्वावनपायिनौ ।
एतेषामर्चनं कुर्यात्तत्तत्स्थाने विधानवित् ॥ ११ ॥
श्रीपञ्चकदिनानि
पर्वद्वयञ्च पञ्चम्यौ फल्गुनी चोत्तरा तथा ।
श्रीपञ्चकदिनं प्रोक्तं तेषु पूजा विशिष्यते ॥ १२ ॥
विमानं स्वस्तिकं वापि श्रीप्रतिष्ठितकं चरेत् ।
पुराकल्पोक्तमार्गेण बेरं कुर्याद्यथेप्सितम् ॥ १३ ॥
प्रतिष्ठाप्रकारः
प्रतिष्ठोक्तदिनात्पूर्वरात्रावङ्कुरमाचरेत् ।
भूमियज्ञञ्च कृत्वा तु दिशाहोमञ्च कारयेत् ॥ १४ ॥
कुम्भं संसाध्य विधिना देव्या आवाहनं चरेत् ।
देवीं पश्चादलङ्कृत्य कलशैस्सप्तभिः क्रमात् ॥ १५ ॥
स्नापयित्वा ततः पश्चात्कुर्याद् ग्रामप्रदक्षिणम् ।
आलयाद्दक्षिणे पार्श्वे अग्न्यगारे च दक्षिणे ॥ १६ ॥
वासोभिरहतैश्शुद्धैः प्रागग्रैः स्तरणं चरेत् ।
शयनं तत्र सङ्कल्प्य कौतुकं बन्धयेत्क्रमात् ॥ १७ ॥
[[५२५]]
शाययेच्च ततो देवीं हौत्रशंसनमाचरेत् ।
जुहुयाद्विधिना पश्चात्पद्माग्नौ तु समाहितः ॥ १८ ॥
सुवर्णेन स्रुवं कुर्यादाज्यस्थालीञ्च शक्तितः ।
स्रुवेण तेन जुहुयात्सहस्राहुतिमत्वरः ॥ १९ ॥
देवीमन्त्रैस्तु पूर्वोक्तैः पश्चाद्धोमं समाचरेत् ।
विष्णोस्सहस्रं जुहुयादष्टाशीतिञ्च हावयेत् ॥ २० ॥
श्रीशताष्टकमन्त्रैश्च दशवारं हुतैर्भवेत् ।
श्रियः सहस्रं तद्धुत्वा पृषदाज्यसमन्वितम् ॥ २१ ॥
मधुना घृतमिश्रेण पयसा मिश्रितेन वा ।
पुष्कलामाहुतिञ्चाज्यमधुमिश्राञ्च हावयेत् ॥ २२ ॥
होमान्ते स्थापयेद्देवीं सुमुहूर्ते सुलक्षणे ।
बृहस्पत्युदये चापि स्थिरराशौ बुधोदये ॥ २३ ॥
ककुदा काव्ययुक्तश्चे? दुत्तराफल्गुनीयुते ।
स्थापयेच्छ्ग्यिमुक्तेन रत्नन्यासक्रमेण वै ॥ २४ ॥
राजराष्ट्राभिवृद्ध्यर्थं ग्रामवृद्ध्यर्थमेव च ।
जयार्थं यजमानस्य कुलवृद्ध्यर्थमेव च ॥ २५ ॥
स्थापयेत्फलमाज्ञाय भक्तियुक्तो यथाविधि ।
पञ्चगव्यैस्समभ्युक्षेत् गायत्र्या प्रणवाद्यया ॥ २६ ॥
‘तमेकनेमिं जप्त्वा तु रत्नादीनभिमन्त्रयेत् ।
‘भूरसीत्यादि चोक्त्वा तु प्रत्येकं स्थापनं चरेत् ॥ २७ ॥
ब्रह्मस्थाने न्यसेच्छ्वभ्रे मध्ये ब्रह्ममणिं बुधः ।
अलब्धे तु मणौ तत्र पद्मरागं विनिक्षिपेत् ॥ २८ ॥
द्विचत्वारिंशोऽध्यायः
[[५२६]]
वज्रं श्रीहरितं नाम ऐशान्यां निक्षिपेत्ततः ।
आग्नेय्यामेव वैदूर्यं याम्ये वै शुक्तिजं क्षिपेत् ॥ २९ ॥
नैॠत्यां शङ्खजं दद्यात्पुष्यरागेण संयुतम् ।
वारुण्यां स्फटिकं दद्याद्वायव्यां पुष्यकं तथा ॥ ३० ॥
चन्द्रकान्तं ततस्सौम्ये चैशान्यां नीलमुत्तमम् ।
रत्नान्येवन्तु निक्षिप्य ततो धातून्विनिक्षिपेत् ॥ ३१ ॥
श्रीवत्सं पूर्णकुम्भञ्च भेर्यादर्शौ जलेचरौ ।
अङ्कुशं शङ्खमावर्तं न्यसेच्चैवाष्टमङ्गलान् ॥ ३२ ॥
सौवर्णं कूर्मरूपञ्च सन्न्यस्योपरि मन्त्रवित् ।
तस्योपरिष्टाच्छ्रीरूपं न्यसेद्धेममयं बुधः ॥ ३३ ॥
ततः श्वभ्रं समाच्छाद्य गोपयेत्क्षौमवाससा ।
फेलामिव समास्तीर्य सुधया परिलेपयेत् ॥ ३४ ॥
शुभे मुहूर्ते श्रीदेवीं ध्यायन्नादाय स्थापकैः ।
‘शं सा नियच्छति च श्रिये जात इतीरयन् ॥ ३५ ॥
स्थापयेत्परिवारांश्च तांस्तान्मन्त्रान्त्समुच्चरन् ।
जपेच्छकुनसूक्तञ्च विष्णुसूक्तञ्च वैष्णवम् ॥ ३६ ॥
जपेत्पुरुषसूक्तञ्च त ‘थाऽऽत्वा हार्ष’ इत्यपि ।
कुम्भस्थां शक्तिमादाय कूर्चयुक्तेन वारिणा ॥ ३७ ॥
पूर्वोक्तेनैव मन्त्रेणाऽवाहयेद्बिम्बमूर्धनि ।
पूर्वोक्तेनैव विधिना अक्षराणि च सन्न्यसेत् ॥ ३८ ॥
पुण्याहं कारयित्वा च परिवारान्त्समाह्वयेत् ।
आज्येनोद्वर्तयेद्देवीं घृतमिश्रेण सर्वतः ॥ ३९ ॥
[[५२७]]
चित्रञ्चेद्ध्रुवबेरन्तु चरेत्स्नानादि कौतुके ।
वामतो भृगुपत्नीञ्च जयादीन् दिक्षु पूजयेत् ॥ ४० ॥
बल्यन्तमर्चनं कुर्यादर्चनोक्तेन वर्त्मना ।
दक्षिणाञ्च यथाशक्ति ॠत्विग्भ्यो दापयेत्ततः ॥ ४१ ॥
हिरण्यपशुभूम्यादीन् वासांसि विविधानि च ।
अर्चनक्रमः
अतः परं प्रवक्ष्यामिश्रीदेव्या अर्चनक्रमम् ॥ ४२ ॥
अर्चको नित्यकर्माणि कृत्वा सूत्रोक्तवर्त्मना ।
श्रीमन्त्रांश्च जपन्नेव विष्णुसूक्तञ्च वैष्णवम् ॥ ४३ ॥
‘श्रिये जा’ तेति चोच्चार्य आलयं प्रविशेद्बुधः ।
त्रिस्सम्प्रहार्य पाणिभ्यां शाम्यन्त्विति समुच्चरन् ॥ ४४ ॥
‘शं सा नियच्छ’ त्विति च प्रणम्यैवानुमान्य च ।
‘या गा वरिष्ठा’ इति च सम्भारान् सम्भ्रियेत च ॥ ४५ ॥
‘नमो ग्रहा’येत्युच्चार्य सर्वगन्धान् समाहरेत् ।
सावित्रीमन्त्रमुच्चार्य अर्घ्यद्रव्याणि चाहरेत् ॥ ४६ ॥
निर्माल्यं शोध्येत्पश्चात् ‘यो धूर्धुर’ मुदीरयन् ।
श्रीगायत्रीं समुच्चार्य पादपुष्पं न्यसेत्ततः ॥ ४७ ॥
‘परिलिखित’मिति च आम्लेन परिशोधयेत् ।
‘भूरानिलय’ मन्त्रेण स्नपनं सम्यगाचरेत् ॥ ४८ ॥
अभिषिक्तन्तु तत्तोयं तीर्थेभ्योऽप्यधिकं भवेत् ।
‘श्रियं धृतिं पवित्रीञ्च प्रमोदाधायिनीमिति ॥ ४९ ॥
द्विचत्वारिंशोऽध्यायः
[[५२८]]
पद्मासनाञ्च लक्ष्मीञ्च अतिकान्तां हरिप्रियाम्’
एतास्समर्चयेद्दिक्षु पुष्पासनविधौ क्रमात् ॥ ५० ॥
पुनर्वेद्या अधस्तात्तु जयादीरपि चार्चयेत् ।
आत्मसूक्तं ततो जप्त्वा पश्चादर्चनमारभेत् ॥ ५१ ॥
आवाहनादि
‘आ यातु भगवती’ त्युक्त्वा देवीमावाहयेत्ततः ।
पुष्पासनं ततो दद्या ‘दस्त्वासन’ मिति ब्रुवन् ॥ ५२ ॥
‘स्वाङ्कृतोऽसी’ ति मन्त्रेण स्वागतं सम्यगीरयेत् ।
‘अनुमन्यस्व पुण्ये’ चेत्यनुज्ञाञ्चैव याचयेत् ॥ ५३ ॥
पादप्रक्षालनार्थन्तु शुद्धं तोयं प्रकल्पयेत् ।
दद्यादाचमनीयन्तु ‘योगे योगे’ इतीरयन् ॥ ५४ ॥
‘इमास्सुमनस’ इति पुष्पं दद्यात्ततः परम् ।
‘इमे गन्धा’ इति गन्धं धूपं दीपञ्च दापयेत् ॥ ५५ ॥
‘सोमं राजान’ मित्युक्वा दद्यादर्घ्यं श्रियै ततः ।
‘रविपा’ मिति चोच्चार्य धृत्याः अर्घ्यं निवेदयेत् ॥ ५६ ॥
‘देवीष्षडुर्वी’ रित्युक्त्वा पवित्र्या अर्घ्यमर्पयेत् ।
‘सो नो भूत्या’ इति प्रमोदायिन्यै अर्घ्यमर्पयेत् ॥ ५७ ॥
ततस्त्वाचमनं दद्यात्पूर्वोक्तमनुना तथा ।
स्नापयेच्छुद्धतोयेन ‘ॠतं सत्यं’ समुच्चरन् ॥ ५८ ॥
‘मित्रस्ये’ ति वदन् देवीं प्लोतेन विमृजेत्तथा ।
‘तेजो वत्स्याव’ इति च क्षौमं वस्त्रं दिशेद्बुधः ॥ ५९ ॥
[[५२९]]
‘हिरण्यरूप’ इत्युक्त्वा भूषणैरपि भूषयेत् ।
दीपान्तमर्चयित्वा तु हविर्भिस्सन्निवेदयेत् ॥ ६० ॥
फलान्नं वा गुडान्नं वा पायसं मौद्गिकं तथा ।
शुद्धान्नं वाथ दध्यन्नमुपदंशादिसंयुतम् ॥ ६१ ॥
‘भूरपा’ मित्यादिमन्त्रैः हविर्दानं विधीयते ।
‘धारा’ स्विति च मन्त्रेण दद्यात्पानीयमुत्तमम् ॥ ६२ ॥
‘शन्नो देवी’ रिति वदन् दद्यादाचमनोदकम् ।
‘घृतात्परी’ ति मन्त्रेण मुखवासं निवेदयेत् ॥ ६३ ॥
देव्या मूर्तिभिरायोज्य मन्त्रान् सर्वत्र चोच्चरेत् ।
अनुक्तं पूर्वविधिना सर्वमन्यत्समाचरेत् ॥ ६४ ॥
स्नपनक्रमः
अतः परं प्रवक्ष्यामि श्रीदेव्यास्स्नपनक्रमम् ।
पूर्वोक्तेन विधानेन अङ्कुरार्पणमाचरेत् ॥ ६५ ॥
पुण्यर्क्षेषु च सर्वेषु यजमानस्य जन्मभे ।
सर्वकायार्थसिद्ध्यर्थं श्रीदेव्यास्स्नपनं चरेत् ॥ ६६ ॥
तण्डुलैर्व्रीहिभिर्वापि दण्डवत्पङ्क्तिमाचरेत् ।
सोपस्नानांश्च कलशान् प्रधानान् नव चाहरेत् ॥ ६७ ॥
अपामुत्पवनं कुर्यात्पूरयेत्कलशांस्ततः ।
उत्तरादि न्यसेत्तांस्तु वेद्यां द्रव्यप्रपूरितान् ॥ ६८ ॥
घृतं दधि पयश्चैव अक्षतोदं कुशोदकम् ।
रत्नोदकं सर्वौषधिजलं हारिद्रचूर्णकम् ॥ ६९ ॥
द्विचत्वारिंशोऽध्यायः
[[५३०]]
सर्वगन्धोदकञ्चेति नवद्रव्याणि चक्षते ।
सकूर्चान् कलशान् कृत्वा सापिधानान्त्स्वलङ्कृतान् ॥ ७० ॥
वस्त्रैरावेष्ट्य यत्नेन उत्तराग्रैर्विशेषतः ।
श्वभ्रोपरि यथापूर्वं जयादीः परिपूजयेत् ॥ ७१ ॥
पश्चाद्देवीमनुज्ञाप्य ‘परं रंह’ इतीरयन् ।
देवीमादाय शुद्धात्मा स्वस्तिसूक्तं समुच्चरन् ॥ ७२ ॥
श्वभ्रमध्ये बैल्वपीठे देवीं संस्थापयेच्छियम् ।
‘अग्न आयाहि’ मन्त्रेण घृतेन स्नापयेच्छ्रियम् ॥ ७३ ॥
‘इषे’ त्वोति विधानज्ञः दध्ना संस्नापयेत्ततः ।
‘शन्नो देवी’ रिति वदन् क्षीरेणैवाभिषेचयेत् ॥ ७४ ॥
अक्षतोदकमादाय ‘इमा ओषधयो’ ब्रुवन् ।
सिञ्चे ‘च्चत्वारि वा’ गिति कुशोदेनाभिषेचयेत् ॥ ७५ ॥
‘दाक्षायण्या’ इति देवीं निशाचूर्णेन सेचनम् ।
‘पुण्याञ्च पुण्य’ इत्युक्त्वा सर्वगन्धाभिषेचनम् ॥ ७६ ॥
प्रतिद्रव्यं विशेषेण घण्टानादञ्च कारयेत् ।
श्वेतपुष्पैरर्चयेच्च पूजयेदष्टविग्रहैः ॥ ७७ ॥
यथा शुद्ध्यति वै बिम्बं शुद्धतोयेन शोधयेत् ।
प्लोतेन विमृजेच्छुद्धैः वस्त्रैराभरणैस्तथा ॥ ७८ ॥
गन्धमाल्यादिभिरलङ्कुर्याच्च स्वस्तिसूक्तं समुच्चरन् ।
यथाकालार्चनादीनि यथोक्तानि समारभेत् ॥ ७९ ॥
[[५३१]]
श्रीप्रसादक्रतुः
अतः परं प्रवक्ष्यामि श्रीप्रसादकरं क्रतुम् ।
श्रियं समर्चयेद्देवीं श्वेतपद्मैर्विशेषतः ॥ ८० ॥
अब्जाग्निं साधयित्वा तु आघारं जुहुयाद्बुधः ।
प्रज्वाल्याग्निं परिस्तीर्य देवीञ्चापि चिकीर्षितम् ॥ ८१ ॥
ध्यायन् क्षीरौदनेनाथ कापिलेन घृतेन वा ।
श्वेतपद्मैर्विशेषेण बिल्वपत्रैरथापि वा ॥ ८२ ॥
बिल्वाश्वत्थपलाशानां समिद्भिर्वा हुनेत्क्रमात् ।
घृताप्लुतैरेव सदा द्रव्यैर्होमं समाचरेत् ।
श्रीशताष्टकमन्त्रैस्स्यादत्र होमविधिस्स्मृतः ॥ ८३ ॥
श्रीशताष्टकम्
(पद्मिन्यै चैव पद्मायै मन्त्रास्स्युश्श्रीशताष्टकम् ।
‘शं सा नियच्छतु’ तथा ‘भूयाम इति वै यजेत् ।
देवी पवित्री चेत्युक्त्वा जुष्टं कामवहेति च ।
सुप्रीता च वराङ्गी च पद्मिनी चेति हूयताम् ।
सन्धारणा वरिष्ठेति पुण्यानीत्येव च क्रमात् ।
पुण्याङ्गी पुण्यरूपा समुद्वहन्ती शुभाङ्गना ।
आप्यायस्व शुभा चेति अस्मानध्यापयेति च ।
इन्दुजुष्टेति देवीति मन्त्रैरेतैश्च हूयताम् ।
एवं हुत्वा त्रिधा वापि दशधा वा यथाक्रमम् ।
असङ्कुलैस्तु तैर्मन्त्रैः शुद्धैस्सञ्जुहुयादिति ।
एवं यः कुरुते भक्त्या सोऽक्षयां श्रियमाप्नुयात् ।
द्विचत्वारिंशोऽध्यायः
[[५३२]]
अनश्नन् दशसाहस्रं जुहुयाद्यदि कामतः ।
सर्वान् कामानवाप्नोति शान्तिञ्चैव तु विन्दति ।
स्वप्ने च दर्शयत्येषा विश्वरूपधरा रमा ।
कोटिहोमेन वै देवी सर्वदा वशगा भवेत् ।
‘किं करोमी’ ति श्रीर्देवी सान्निध्यं सम्प्रयच्छती ।
वरानिष्टांश्च सकलान् प्रददाति न संशयः ।
साधकस्य कुले चैव पाश्चात्याः पुरुषा दश ।
दरिद्रा नैव जायन्ते भवेयुश्चैव श्रीयुताः ।
यजमानः किं पुनस्स लोकेऽस्मिंश्च परत्र च ।
सुवर्णपशुभूम्यादीन् दासदासीपरिच्छदान् ।
आचार्याय ददेद्भक्त्या कर्मसाफल्यहेतवे)
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे श्रीकल्पो नाम द्विचत्वारिंशोऽध्यायः ॥