४१ तन्त्रसङ्करप्रायश्चित्तम् - द्विविधं वैष्णवशास्त्रम्

अथ एकचत्वारिंशोऽध्यायः

तन्त्रसङ्करप्रायश्चित्तम् - द्विविधं वैष्णवशास्त्रम्

अतः परं प्रवक्ष्यामि तन्त्रसङ्करनिष्कृतिम् ।
विष्णोस्तन्त्रं द्विधा प्रोक्तं सौम्यमाग्नेयमित्यपि ॥ १ ॥
सौम्यं वैखानसं प्रोक्तमाग्नेयं पाञ्चरात्रकम् ।
सौम्याग्नेये तथा प्रोक्ते शास्त्रे वैदिकतान्त्रिके ॥ २ ॥
तल्लक्षणम्

भुक्तिमुक्तिप्रदं सौम्यं तान्त्रिकं मुक्तिमात्रदम् ।
एकचत्वारिंशोऽध्यायः

[[५२०]]

(वैलक्षण्यं बिम्बक्लृप्तौ मुख्यमित्थं प्रदृश्यते ।
शङ्खचक्रकरावूर्ध्वावधस्ताद्दक्षिणं करम् ।
साभयं वरदं वापि वामं कट्यवलम्बितम् ।
एवं चतुर्भुजं सौम्ये देवदेवस्य दृश्यते ।
पूर्वोक्तलक्षणैर्युक्तमधो वामकरं यदि ।
गदायुक्तं तदाग्नेयं तान्त्रिके ब्रुवते बुधाः) ।
सौम्यं सर्वत्र सम्पूज्यं ग्रामादिषु च सर्वशः ॥ ३ ॥
सौधेष च तथा राज्ञां गृहेषु गृहमेधिनाम् ।
आग्नेयन्तु ग्रामबाह्ये नदीतीरेऽथ पर्वते ॥ ४ ॥
नगे समुद्रतीरेषु नदीसागरसङ्गमे ।
आश्रमेपु यतीनाञ्च विविक्तेषु स्थलेषु च ॥ ५ ॥
अनुष्ठेयं विशेषेण मुक्तिमात्रफलार्थिभिः ।
अधिकारिणः

वैखानसेन सूत्रेण निषेकाद्यैस्सुसंस्कृतैः ॥ ६ ॥
ब्राह्मणैरेव कर्तव्यं वैदिकाराधनं सदा ।
चतुर्वर्गफलं सौम्यपूजनात्फलति ध्रुवम् ॥ ७ ॥
वैदिकाराधनं नान्यसूत्रसंस्कारसंस्कृताः ।
अर्हन्ति कर्तुमर्हन्ति विखनस्सूत्रसंस्कृताः ॥ ८ ॥
तान्त्रिकीं कुर्वते दीक्षां प्राप्य सर्वे द्विजातयः ।
न तत्र शाखासूत्रादिनियमः परिकल्पितः ॥ ९ ॥
सर्वसाधारणं शास्त्रं केवलं तान्त्रिकं स्मृतम् ।

[[५२१]]

तन्त्रसाङ्कर्यस्वरूपं

कर्षणादिप्रतिष्ठान्तकर्माणि सकलानि च ॥ १० ॥
आदौ यच्छास्त्रमाश्रित्य निर्वृत्तानि ततः परम् ।
तेनैव शास्त्रेण सदा निर्वर्त्यानि प्रयत्नतः ॥ ११ ॥
नान्यत्तन्त्रन्तु गृह्णीयात्प्रमादेनापि तत्र तु ।
तन्त्रसङ्करदोषोऽयं सर्वतन्त्रेषु दूषितः ॥ १२ ॥
दोषस्वरूपं

तन्त्रसङ्करदोषेण राजा राष्ट्रञ्च नश्यति ।
आग्नेये त्वर्चनाहीने मासमेकं प्रमादतः ॥ १३ ॥
यदीच्छेत्सौम्यपूजां वै कर्तुं सौम्येन वर्त्मना ।
संस्थाप्य देवं सौम्योक्तविधिना पूजनं चरेत् ॥ १४ ॥
न तत्र दोषो यत्सौम्य आग्नेयादुत्तमः स्मृतः ।
तुल्यन्यायात् न सौम्यन्तु संस्कुर्यादितरेण तु ॥ १५ ॥
सौम्येन स्थापितं बिम्बं सर्वं सौम्येन चाचरेत् ।
महत्यापदि च प्राप्ते कुर्यान्नान्येन सङ्करम् ॥ १६ ॥
सौम्येन स्थापिते स्थाने सौम्येनैव सदा चरेत् ।
सौम्यं सर्वत्र सम्पूज्यं वैदिकत्वाद्विशेषतः ॥ १७ ॥
तस्मात्तान्त्रिकपूजायां चलितायामथान्यथा ।
नष्टायां वा सौम्यमार्गप्रवेशो नैव दुष्यति ॥ १८ ॥
तन्त्रसङ्करदोषे तु सद्यश्शान्तिं समाचरेत् ।
अङ्कुरञ्चाधिवासादीन् प्रतिष्ठोक्तक्रमेण वै ॥ १९ ॥
एकचत्वारिंशोऽध्यायः

[[५२२]]

कृत्वा शान्तिं यथोक्तान्तु कारयेत्त्वरया बुधः ।
पश्चद्यथाधिकारञ्च पूजां सम्यक् प्रवर्तयेत् ॥ २० ॥
प्रायश्चित्तप्रयोगः

वैष्णवेतरतन्त्रैस्तु साङ्कर्ये दोषगौरवात् ।
कल्पयित्वा यागशालां कुम्भस्थापनपूर्वकम् ॥ २१ ॥
जुहुयात्पौण्डरीकाग्नौ विष्णुसूक्तं शताष्टकम् ।
सप्तभिः कलशैर्देवं स्नापयित्वा विशेषतः ॥ २२ ॥
भृगूक्तविधिना कुर्याल्लघुसम्प्रोक्षणं बुधः ।
पूजयेच्च यथापूर्वं नान्यथा पूजनं चरेत् ॥ २३ ॥
सङ्करः सम्भवेद्बुद्ध्वा ॠत्विजामन्यसूत्रिणः ।
प्रतिष्ठादिषु कार्येषु पूर्वोक्तां निष्कृतिं चरेत् ।
दोषापनोदनञ्चैव सम्पाद्यान्यत्समाचरेत् ॥ २४ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे तन्त्रसङ्करप्रायश्चित्तविधिर्नाम एकचत्वारिंशोऽध्यायः ॥

[[५२३]]