४० दुर्निमित्तशान्तिः - दुर्निमित्तानि

अथ चत्वारिंशोऽध्यायः

दुर्निमित्तशान्तिः - दुर्निमित्तानि

अतः परं प्रवक्ष्यामि दुर्निमित्तप्रतिक्रियाम् ।
देवागारेऽग्निना दग्धे मधुलिड्भिः पराहते ॥ १ ॥
रक्तस्त्रीदर्शने चैव कवकादिसमुद्भवे ।
बिम्बादीनां रोदने च रक्तस्रावे च कम्पने ॥ २ ॥
हसने चाश्रुपतने रूपान्तरसमुद्भवे ।
चैत्यवृक्षप्रपतने छेदे भेदे च शोषणे ॥ ३ ॥
भूमिकम्पे दिव्यकाले मेघनिर्घोषसम्भवे ।
तडित्स्फूर्जितयोगे च दिग्दाहे पांसुवर्षणे ॥ ४ ॥
गन्धर्वनागरे दृष्टे दिवा नक्षत्रदर्शने ।
अपर्वणि ग्रस्तयोस्तु गगने चन्द्रसूर्ययोः ॥ ५ ॥
अकाले शक्रधनुषि श्वजम्बुकविरोदने ।
दुर्भिक्षे सागरक्षोभे वियोनिप्रसवे भये ॥ ६ ॥
राष्ट्रक्षोभे शत्रुभये महाव्याधिभये तथा ।
चन्द्रादित्यप्रतिच्छायाप्रातिकूल्यसमुद्भवे ॥ ७ ॥
आलयेषु शान्तिकर्तव्यता

ग्रहयुद्धेऽरिष्टराशौ ग्रहकूटसमागमे ।
सहोत्पातेषु शास्त्रोक्तेष्वन्येषु विविधेषु च ॥ ८ ॥
एवमादिषु शास्त्रोक्तदुर्निमित्तेषु यत्नतः ।
शान्तिं कुर्वीत विधिवदालये दोषशान्तये ॥ ९ ॥

[[५१७]]

साधारणी शान्तिः

पौण्डरीकाग्निमाधाय वायव्यं वैष्णवं तथा ।
रौद्रं ब्राह्मं महाशान्तिहोमञ्च जुहुयाद्गुरुः ॥ १० ॥
आलयस्थितदेवानां महास्नापनमाचरेत् ।
निमित्तभेदेन शान्तिभेदः

अग्निदाहे तु वायव्यमाग्नेयं वारुणं तथा ॥ ११ ॥
ऐन्द्रं ब्राह्मं वैष्णवञ्च महाशान्तिं हुनेत्ततः ।
विशेषस्नपनं कृत्वा प्रभूतञ्च निवेदयेत् ॥ १२ ॥
दद्याद्भूतबलिञ्चैव ग्रामे सर्वत्र शान्तये ।
मक्षिकैर्मधुनि क्षिप्ते घूकगृध्राद्यधिष्ठिते ॥ १३ ॥
रक्तस्त्रीदर्शने चैव कवकाद्युद्भवे तथा ।
भूमियज्ञेन संशोध्य स्थानं दोषविदूषितम् ॥ १४ ॥
दिग्देवत्यं वैष्णवञ्च रौद्रं सौम्यञ्च वारुणम् ।
कौबेरं ब्राह्ममाग्नेयं हुत्वा गव्यैश्च प्रोक्षयेत् ॥ १५ ॥
कलशैस्स्नापयेत्कुर्याद्विप्रभोजनमादरात् ।
पायसं विनिवेद्यैव सर्वतो निर्वपेद्बलिम् ॥ १६ ॥
स्थावरभ्रमणे देवत्यं प्रतिमारोदनादिषु ।
भूमियज्ञं च कृत्वा तु महाशान्तिं हुनेत्ततः ॥ १७ ॥
जुहुयात्सर्वदेवत्यं सहस्राहुतिपूर्वकम् ।
वैष्णवं जुहुयाद्ब्राह्मं रौद्रं सौरञ्च सौम्यकम् ॥ १८ ॥
पुण्याहं वाच्य गोदानसूक्तं वैष्णवमेव च ।
पौरुषं द्वादशान्यानि जपेत्सूक्तानि संयतः ॥ १९ ॥
चत्वारिंशोऽध्यायः

[[५१८]]

वेदानध्यापयेच्चापि महास्नपनमाचरेत् ।
प्रभूतञ्च निवेद्यैव कुर्याद्ब्राह्मणभोजनम् ॥ २० ॥
भूतचैत्यबलिं दद्याद्ग्रामे सर्वत्र सन्धिषु ।
लाजापूपहरिद्रान्नैरर्धरात्रौ बलिस्स्मृतः ॥ २१ ॥
चैत्यवृक्षादिपाते चाकालशोषादिदर्शने ।
आग्नेयं वारुणं सौम्यं महाशान्तिं तथा हुनेत् ॥ २२ ॥
वनाधिदेवपूजाञ्च कुर्यात्स्नपनमाचरेत् ।
सहस्रकलशैस्स्नानं देवदेवस्य चेष्यते ॥ २३ ॥
महाहविः प्रभूतञ्च स्नापनान्ते निवेदयेत् ।
ग्रामे सर्वत्रार्धरात्रौ महाभूतबलिं क्षिपेत् ॥ २४ ॥
दानानि दद्याद्विप्रेभ्याो भोजयेच्च विशेषतः ।
छायाप्रतिवशे काले? महाशान्तिं हुनेत्क्रमात् ॥ २५ ॥
ब्राह्मञ्च वैष्णवं रौद्रमाग्नेयं वारुणं तथा ।
सौरं सौम्यञ्च वायव्यं हुत्वा संस्नापयेद्विभुम् ॥ २६ ॥
अन्येषु च निमित्तेषु दृष्टेष्वेवं समाचरेत् ।
ग्राममध्ये शान्तिप्रकारः

राज्ञां जन्मदिनेष्वेषु दृष्टेषु तु विशेषतः ॥ २७ ॥
यजमानस्य ग्रामस्य तथा राष्ट्रस्य जन्मभे ।
ग्राममध्ये तु शान्त्यर्थं कुर्याच्छान्तिं विधानतः ॥ २८ ॥
न कुर्याच्चेदनर्थस्स्यादवश्यं शान्तिमाचरेत् ।

[[५१९]]

शान्त्या आवश्यकता

उत्पातेषु तु दृष्टेषु तत्क्षणे शान्तिमारभेत् ॥ २९ ॥
कालक्षेपो न कर्तव्यः उत्पाता घोरभीतिदाः ।
संहितान्तरविस्तरः

मरीचिना विशेषेण प्रोक्त उत्पातविस्तरः ॥ ३० ॥
विशेषस्तत्र द्रष्टव्यो मया सङ्ग्रह ईरितः ।
सर्वोत्पातेषु जातेषु यत्र कुत्रापि वस्तुनि ॥ ३१ ॥
तद्ग्रामे संहितग्रामे देवागारे विशेषतः ।
सर्वदेवात्मभूतस्य विष्णोः शान्तिविधायिनः ।
शान्तिहोमादिकं सर्वमुक्तं विधिवदाचरेत् ॥ ३२ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे जीर्णबेरपरित्यागविधिर्नाम चत्वारिंशोऽध्यायः ॥