३९ जीर्णबेरपरित्यागविधिः - प्रयोगः

अथ एकोनचत्वारिंशोऽध्यायः

जीर्णबेरपरित्यागविधिः - प्रयोगः

अथ वक्ष्ये जीर्णबेरपरित्यागविधिं क्रमात् ।
जीर्णबेरमनर्च्यं स्यात्तस्मात्तं परिवर्जयेत् ॥ १ ॥
जीर्ण बेरार्चने दोषो राजराष्ट्रभयावहः ।
तस्माद्यथोक्तविधिना शान्तिं कृत्वा परित्यजेत् ॥ २ ॥
शान्त्या शान्तो भवेद्दोषः व्याधयश्चौषधैर्यथा ।
जीर्णं बेरन्तु स्वस्थानात्पीठाद्भक्त्या समुद्धरेत् ॥ ३ ॥
वृषभेण गवाऽश्वेन ब्राह्मणैर्वापि मन्त्रतः ।
सूत्रेणाबद्ध्य बिम्बन्तु चालयेत्प्रथमं लघु ॥ ४ ॥
ततश्च साधनैस्तीक्ष्णैरुत्पाट्य बहिरानयेत् ।
पूर्वोक्तविधिना कुर्याद्वैदिकीं प्रक्रियां क्रमात् ॥ ५ ॥
दर्भरज्जुभिराबद्ध्य वस्त्रैरावेष्ट्य सर्वतः ।
वाहयित्वा ब्राह्मणैर्वा साधनैः शकटादिभिः ॥ ६ ॥
एकोनचत्वारिंशोऽध्यायः

[[५१४]]

नदीं समुद्रगां वाऽन्यमशोष्यं वा जलाशयम् ।
समुद्रं वा समानीय तीरे संस्थाप्य तत्र वै ॥ ७ ॥
साधयित्वौपासनाग्निं शान्तिहोमपुरस्सरम् ।
अङ्गहोमं वैष्णवञ्च विष्णुसूक्तं हुनेत्तदा ॥ ८ ॥
बेरं सुरक्षितञ्चाप्सु निक्षिपेद्विसृजेत्क्रमात् ।
पश्चादालयमाविश्य शान्तिहोमं समाचरेत् ॥ ९ ॥
आचार्यदक्षिणां दद्यात् ब्राह्मणानपि भोजयेत् ।
एष वै विधिरुद्दिष्टो जीर्णबेरविसर्जने ॥ १० ॥
पश्चाद्बेरन्तु निर्माय महासम्प्रोक्षणं चरेत् ।
लोहबिम्बसंस्कारविशेषः

अर्च्यमानं कौतुकादिबिम्बं केनापि हेतुना ॥ ११ ॥
यद्यङ्गोपाङ्गप्रत्यङ्गैर्विहीनं परिदृश्यते ।
तं त्यजेत्सहसा बिम्बं न तत्पूजां समर्हति ॥ १२ ॥
प्रमादात्पूजिते चैवं प्रत्यवायः परो भवेत् ।
प्रमादात्पतनादौ च विश्लेषे चक्रपीठयोः ॥ १३ ॥
रेखासुषिरनिष्पत्तौ पुनस्सन्धानमाचरेत् ।
प्रत्यङ्गोपाङ्गविच्छेदे तथा सन्धापयेत्पुनः ॥ १४ ॥
विच्छिन्नेषु महाङ्गेषु सन्धानं नैव चेष्यते ।
परित्यज्य विधानेन लोहवत्तद्विचिन्तयेत् ॥ १५ ॥
मधूच्छिष्टविधानेन तुल्यं बिम्बं प्रकल्प्य च ।
लोहवद्द्रावयित्वा तु नूतनं बिम्बमाचरेत् ॥ १६ ॥

[[५१५]]

अक्ष्युन्मेषाधिवासादीन् कृत्वा शास्त्रोक्तवर्त्मना ।
प्रतिष्ठां कारयेत्पश्चादर्चनं पूर्ववच्चरेत् ॥ १७ ॥
ध्रुवबेरपरित्यागविधिमाश्रित्य कारयेत् ।
यद्द्रव्यं जीर्ण बेरस्य तद्द्रव्येणैव नूतनम् ॥ १८ ॥
कारयेत्तत्प्रमाणञ्च सर्वथा नान्यथा चरेत् ।
आढ्यस्तु यजमानश्चेच्छ्रेष्ठलोहेन चाचरेत् ॥ १९ ॥
कदापि हीनद्रव्येण र्जीर्णोद्धारे न कारयेत् ।
सौवर्णं राजतं लोहबिम्बं जीर्णं त्यजेन्न हि ॥ २० ॥
तदेव द्राव्य कुर्वीत मधूच्छिष्टविधानतः ।
शिलादारुप्रतिकृतिं हीनाङ्गं दूषितं त्यजेत् ॥ २१ ॥
केचिदिच्छन्ति सन्धानं दक्षैश्शिल्पिभिरादरात् ।
शिलाबेरस्य संस्कारे दारुजं नियमात्त्यजेत् ॥ २२ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे जीर्णबेरपरित्यागविधिर्नाम एकोनचत्वारिंशोऽध्यायः ॥
एकोनचत्वारिंशोऽध्यायः

[[५१६]]