३८ ॠषय ऊचुः

अथ अष्टत्रिंशोऽध्यायः

ॠषय ऊचुः

ब्रह्मपुत्र मुनिश्रेष्ठ नमस्ते वदतां वर ।
तरुणालयनिर्माणप्रकारं ब्रूहि नः प्रभो ॥ १ ॥
भृगुरुवाच

द्वितीयतरुणालयः - निमित्तानि

अतः परं प्रवक्ष्यामि द्वितीयं तरुणालयम् ।
अङ्गहीने तथा बिम्बे वर्णे च स्फुटिते तथा ॥ २ ॥
जीर्णे विमाने पतिते कवकादिसमुद्भवे ।
यष्टिहीने सुधाहीने मन्दिरे जलसंस्रवे ॥ ३ ॥
अष्टबन्धविहीने तु कृमिकीटादिसम्भवे ।
शिलेष्टकादौ जीर्णे च अभिषेकाम्बुसङ्कटे ॥ ४ ॥
नवीकुर्यात्प्रयत्नेन न चेद्दोषो भविष्यति ।
बालालये त्वरा

अचिरादेव सङ्कल्प्य नवीकरणमाचरेत् ॥ ५ ॥

[[५०९]]

अनवेक्ष्य शुभं कालं सद्यः कर्म समारभेत् ।
बालस्थानं प्रकल्प्यैव नवीकरणमारभेत् ॥ ६ ॥
स्थाननिर्णयः

बालस्थानप्रतिष्ठायां चरराशिः प्रशस्यते ।
बालागारार्हदेशस्य लक्षणं सम्प्रवक्ष्यते ॥ ७ ॥
एैन्द्रे महाभयं विद्यात् आग्नेय्यान्तु धनप्रदम् ।
याम्ये समृद्धिदं विद्यार्न्नैॠत्यां कर्मसिद्धिदम् ॥ ८ ॥
वारुण्यां वित्तदं विद्याद्वायव्ये कर्मनाशनम् ।
यजमानस्य हानिस्स्यात्सौम्ये चेत्तरुणालयम् ॥ ९ ॥
ऐशान्यां दुःखदं विद्याद्दिक्षु चैवं फलं भवेत् ।
शुभायां दिशि चोद्दिश्य बालागारं प्रकल्पयेत् ॥ १० ॥
माननिर्णयः

मण्डपं वा प्रपां वापि शालां वा कूटमेव वा ।
त्रिभिर्वा पञ्चभिर्हस्तैस्सर्वालङ्कारसंयुतम् ॥ ११ ॥
कारयित्वाऽत्रापेक्षितानि पीठानि परिकल्पयेत् ।
बालागारस्य मध्ये तु पीठं कुर्यात्त्रिवेदिकम् ॥ १२ ॥
प्रयोगः

वास्तुशुद्धिञ्च कृत्वा तु स्थापनारम्भमाचरेत् ।
पूर्वेद्युरेव शर्वर्र्यां भूमियज्ञं यजेत्क्रमात् ॥ १३ ॥
प्रमुखे दक्षिणे वापि यागशालां प्रकल्पयेत् ।
पञ्चाग्नीनथवा चैकं कुण्डमौपासनन्तु वा ॥ १४ ॥
अष्टत्रिंशोऽध्यायः

[[५१०]]

कल्पयित्वा साधयित्वा विधिनाऽग्नीन् हुनेत्क्रमात् ।
बिल्वपत्रैरथाब्जैर्वा गोघृतेनोक्तसाधनैः ॥ १५ ॥
द्रव्यान्तरैश्च चरुणा आज्यमिश्रेण वै क्रमात् ।
समिद्भिर्यज्ञवृक्षाणां जुहुयात्पारमात्मिकम् ॥ १६ ॥
‘अतोदेवा’दि षण्मन्त्रान् विष्णुसूक्तमतः परम् ।
शान्त्यर्थं जुहुयाच्चैव तथा मिन्दाहुती ततः ॥ १७ ॥
आलयान्तर्गतेभ्यश्च देवेभ्यो जुहुयात्क्रमात् ।
पूर्वेद्युरेव सायाह्ने अनुज्ञाऽङ्कुरमाचरेत् ॥ १८ ॥
आचार्यं यजमानो वै वस्त्राभरणकुण्डलैः ।
अलङ्कृत्य क्रियारम्भं प्रार्थयेद्विनयान्वितः ॥ १९ ॥
सुमुहूर्ते चार्चनान्ते अर्चामासाद्य चालये ।
सर्ववाद्यैस्समायुक्तः कुम्भपूजां समाचरेत् ॥ २० ॥
कुम्भं देवस्य पुरतः धान्यराशौ तु विन्यसेत् ।
कुम्भपार्श्वे समासीनो देवदेवं प्रणम्य च ॥ २१ ॥
प्रार्थयेद्बहुधा देवं श्रद्धाभक्तिपुरस्सरम् ।
बेरे तु संहृतिन्यासं कुम्भे सृष्टिं चरेद्गुरुः ॥ २२ ॥
प्रार्थनाप्रकारः

अनर्हमेतत्त्वद्गेहं जीर्णं तूर्णं व्यपोह्य च ।
किञ्चित्कालन्तु देवेश त्वयाऽत्र स्थीयतां प्रभो ॥ २३ ॥
यावद्वयं नवं कृत्वा प्रतिष्ठां कारयामहे ।
प्रसादं कुरु देवेश वस चात्र प्रसीद नः ॥ २४ ॥

[[५११]]

इत्युक्त्वा चैव देवेशमनुमान्य जगत्पतिम् ।
दोषप्राप्तिनिमित्तानां ज्ञात्वा तु गुरुलाघवम् ॥ २५ ॥
मासमेकं द्वित्रिमासमथ षण्मासमेव वा ।
संवत्सरं द्वौ त्रीन्वाऽथ यावन्तं कालमिच्छति ॥ २६ ॥
तावन्तमवधिं प्रार्थ्य देवेशाय निवेदयेत् ।
आद्वादशाब्दावधिकः कालो बालालयोचितः ॥ २७ ॥
शक्त्याकर्षणम्

आवाह्य देवशक्तिन्तु कुम्भे साधु यथाक्रमम् ।
देव्यादीनां तथाऽन्यस्य परिवारगणस्य च ॥ २८ ॥
शक्तिमावाहयेच्चैव तं तं देवमनुस्मरन् ।
आदाय कुम्भं बिम्बानि तस्माद्गर्भगृहाद्बहिः ॥ २९ ॥
छत्रैः पिञ्छैश्चामराद्यैस्सर्ववाद्यैश्च संवृतः ।
कनिक्रदादिसूक्तानि जपन् कृत्वा प्रदक्षिणम् ॥ ३० ॥
बालस्थानं सम्प्रविशेत्पौरुषं सूक्तमुच्चरन् ।
यागशाला

बालागारस्य पुरतो दक्षिणे वा मनोरमे ॥ ३१ ॥
यागशालां प्रकुर्वीत वेदीः कुण्डांश्च कल्पयेत् ।
होमप्रकारः

पुण्याहं वाच्य तत्काले भूमियज्ञञ्च कारयेत् ॥ ३२ ॥
पूर्वोक्तेन विधानेन तत्र कुम्भञ्च साधयेत् ।
अग्नीन् संसाध्य होमांश्च प्रतिष्ठोक्तवदाचरेत् ॥ ३३ ॥
अष्टत्रिंशोऽध्यायः

[[५१२]]

स्नापनञ्च प्रतिसरबन्धं शयनकल्पनम् ।
हौत्रमावाहनं सर्वं प्रतिष्ठोक्तवदाचरेत् ॥ ३४ ॥
अन्तहोमञ्च सर्वेषु सभ्यमब्जं विना चरेत् ।
वाद्यैः नृत्तैश्च गेयैश्च रात्रिशेषं नयेत्क्रमात् ॥ ३५ ॥
प्रभाते तत आचार्य ॠत्विग्भिस्सहितोऽत्वरः ।
स्नात्वा नित्यानि कर्माणि कृत्वा देवमनुस्मरन् ॥ ३६ ॥
यागशालां सम्प्रविश्य पुण्याहं वाचयेत्क्रमात् ।
आचार्यः प्रयतो देवं प्रणवेन प्रबोधयेत् ॥ ३७ ॥
ततः शयानं पश्चाच्च पीठे संवेशयेत्प्रभुम् ।
यजमानस्तु तत्काले दद्यादाचार्यदक्षिणाम् ॥ ३८ ॥
अन्तहोमञ्च हुत्वा तु कुम्भेऽग्निञ्चाहरेद्गुरुः ।
स्थापनम् - प्रतिष्ठा

मुहूर्ते समनुप्राप्ते सर्ववाद्यैस्समन्वितम् ॥ ३९ ॥
कुम्भं बिम्बं सहाऽदाय सर्वालङ्कारसंयुतम् ।
बालालयं सम्प्रविशेत् शाकुनं सूक्तमुच्चरन् ॥ ४० ॥
कृत्वा यवनिकामन्तर्निदध्यात् कुम्भमालये ।
रत्नन्यासं विना पीठे ब्रह्मस्थाने प्रकल्पिते ॥ ४१ ॥
संस्थाप्यावाहयेत्कुम्भात्पूर्वोक्तेनैव वर्त्मना ।
कुम्भे स्यात्संहृतिन्यासः बिम्बे सृष्टिञ्च कारयेत् ॥ ४२ ॥
गर्भालयगतान् देवान् स्वस्थाने बालधामनि ।
संस्थाप्य कारयेन्नित्यमर्चनं पूर्ववद्बुधः ॥ ४३ ॥

[[५१३]]

आवाहनविसर्गौ तु बालस्थाने न कारयेत् ।
उत्सवस्नपनादींस्तु यथापूर्वं प्रकल्पयेत् ॥ ४४ ॥
महाहविर्निवेद्यैव ब्राह्मणान् भोजयेत्ततः ।
आचार्यदक्षिणां दद्यादकुर्वञ्छक्तिवञ्चनाम् ॥ ४५ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे द्वितीयतरुणालयविधिर्नाम अष्टत्रिंशोऽध्यायः ॥