अथ सप्तत्रिंशोऽध्यायः
उत्सवदोषप्रायश्चित्तविधिः - उत्सवशब्दार्थः
अत ऊर्ध्वं प्रवक्ष्यामि प्रायश्चित्तमथोत्सवे ।
भक्त्युत्सवप्रकरणानीति शब्दास्समार्थकाः ॥ १ ॥
भक्तिसञ्जनान्नॄणां भक्त्यानुभवितुं जनैः ।
यथाशक्ति कृतेनायमुत्सवो भक्तिरीर्यते ॥ २ ॥
सवो यज्ञस्समाख्यातः अमूर्ताराधनं हरेः ।
समूर्ताराधनोऽयं स्यादुत्सवो बलवत्तरः ॥ ३ ॥
ददात्यभिमतं यस्मात्कर्तुरभ्यधिकं बहु ।
तस्मात्प्रकरणं प्रोक्त उत्सवो मन्त्रवित्तमैः ॥ ४ ॥
उत्सवशरीरनिरूपणम् ।
शरीरमङ्गप्रत्यङ्गमुत्सवस्य निरूप्यते ।
दिनेषु देवालङ्कारे पृथक् तत्त्रितयं स्थितम् ॥ ५ ॥
सप्तत्रिंशोऽध्यायः
[[५०२]]
उत्सवाहनि संहृत्य औत्सवो देह उच्यते ।
अङ्गन्तु दिनमेकैकं सन्ध्या प्रत्यङ्गमुच्यते ॥ ६ ॥
देवेदेवस्य बिम्बन्तु देहः पूर्ववदीर्य ते ।
सुदर्शनादयस्त्वङ्गं प्रत्यङ्गं बलिरुच्यते (?) ॥ ७ ॥
रथरङ्गध्वजच्छत्रचामरादिपरिच्छदम् ।
भूषणानि विदुः प्राज्ञाश्शरीरं स्यादलङ्कृतेः ॥ ८ ॥
एकैकमङ्गं प्रत्यङ्गमेकदेशस्तु आङ्किकः ।
दोषयुक्ते शरीरे तु प्रायश्चित्तं विधीयते ॥ ९ ॥
जुहुयात्पौरुषं सूक्त ‘मतो देवा’ दि वैष्णवम् ।
यद्देवादीं स्ततो हुत्वा ब्राह्ममैन्द्रञ्च वारुणम् ॥ १० ॥
आलयस्थितदेवानां मूर्तिमन्त्रांश्च हावयेत् ।
हुतेनैतेन विधिना दोषशान्तिर्भविष्यति ॥ ११ ॥
एवं हुत्वा तथा शान्तिं समस्तदुरितापहाम् ।
स्नपनं देवदेवस्य कारयेदधमोत्तमम् ॥ १२ ॥
सहस्रभोजनं कृत्वा विप्रेभ्यो दक्षिणां ददेत् ।
कारयेन्महतीं पूजां देवदेवस्य शार्ङ्गिणः ॥ १३ ॥
वाचयित्वा ततश्शान्तिं महद्भिस्तत्त्वदर्शिभिः ।
पुनरुत्सवमारभ्य कारयेद्विधिना बुधः ॥ १४ ॥
दुष्टेऽङ्गे निष्कृतिः प्रोक्ता होमं पूर्ववदाचरेत् ।
स्नपनञ्चाधमं कुर्याद्दद्यादन्नादि शक्तितः ॥ १५ ॥
विप्रेभ्यो दक्षिणां दद्यात् शान्तिसूक्तानि वाचयेत् ।
उत्सवं विधिवत्कुर्याच्छिष्टाहस्सु क्रमेण वै ॥ १६ ॥
[[५०३]]
प्रत्यङ्गहीने जुहुयादष्टोत्तरशताहुतीः ।
वैष्णवं मन्त्रमावर्त्य प्रायश्चित्तं भविष्यति ॥ १७ ॥
गौणेन विधिना स्नाप्य शान्तिमन्त्रांश्च वाचयेत् ।
ततः शेषन्तु विधिना कारयेदुत्सवं बुधः ॥ १८ ॥
दिनाश्रितेषु न्यूने तु विधिरेष प्रकीर्तितः ।
यथार्हं कारयेद्विद्वान् ज्ञात्वा तु गुरुलाघवम् ॥ १९ ॥
होमानुक्तांश्च जुहुयात्प्रायश्चित्तविधौ बुधः ।
दक्षिणा चापि दोषानुरूपा देया विचार्य वै ॥ २० ॥
एषाऽङ्गोपाङ्गप्रत्यङ्गदोषनिष्कृतिरीतिता ।
पतिते बिम्बे
प्रमादात्पतिते बिम्बे भूमौ संस्नाप्य वारिणा ॥ २१ ॥
स्नापयेत्कलशैर्द्वादशभिश्शान्तिं समाचरेत् ।
आज्येन चरुणा चैव जुहुयाद्वैष्णवं ततः ॥ २२ ॥
विष्णुसूक्तञ्च जुहुयाद्वैष्णवं पुनाराचरेत् ।
पीठाद्वियोजिते बिम्बे योजयित्वा यथा पुरा ॥ २३ ॥
शान्तिहोमञ्च हुत्वा तु लघुसम्प्रोक्षणं चरेत् ।
उपाङ्गसन्ध्यादिभेदे चरुणा वैष्णवं यजेत् ॥ २४ ॥
शान्तिञ्च पूर्ववत्कृत्वा पुनः संस्थापनं चरेत् ।
भेदादौ
भिन्ने तु यदि प्रत्यङ्गे प्रमादात्सद्य एव तु ॥ २५ ॥
सप्तत्रिंशोऽध्यायः
[[५०४]]
सन्धाय तुल्यलोहेन स्थापनं पूर्ववच्चरेत् ।
अङ्गभेदे तु सम्पन्ने प्रतिमां विधिना त्यजेत् ॥ २६ ॥
अङ्गमहाङ्गादिलक्षणकथनम्
पादौ बाहू शिरो वक्ष उदरञ्चाङ्गसञ्ज्ञकाः ।
अङ्गं महाङ्गमित्याहुः केचित्तत्त्वार्थदर्शिनः ॥ २७ ॥
अङ्गुल्यो नासिका कर्णौ उपाङ्गानि भवन्ति हि ।
प्रत्यङ्गानि प्रभापीठायुधाकल्पाम्बराणि वै ॥ २८ ॥
बलौ पतिते
बलौ भूमौ निपतिते येन केनापि हेतुना ।
हुनेच्छान्त्यै वैष्णवन्तु पुनस्संसाधयेद्बलिम् ॥ २९ ॥
वाहनादौ पतिते
पतिते वाहनादौ तु पतने च पदार्थिनाम् ।
दशकृत्वस्तु चरुणा वायव्यं वैष्णवं यजेत् ॥ ३० ॥
ॠत्विजां पतने चैव मुनिमन्त्रैः हुनेत्तथा ।
वैष्णवेन च हुत्वा तु शान्तिं सम्यक् समाचरेत् ॥ ३१ ॥
अस्पृश्यैः स्पृष्टे
बिम्बे त्वस्पृश्यसंस्पर्शे पूर्वोक्तां शान्तिमाचरेत् ।
वर्षबिन्दुनिपाते च धूलिपाते च विग्रहे ॥ ३२ ॥
जुहुयाद्विष्णुसूक्तञ्च वैष्णवञ्च शताष्टकम् ।
सन्धीशबलिहानौ तु तन्मन्त्रैश्शान्तिमाचरेत् ॥ ३३ ॥
[[५०५]]
प्रायश्चित्तानुक्तौ
येषां प्रातिस्विकी नोक्ता दोषाणां निष्कृतिस्त्विह ।
वैष्णवेन च होमेन शान्तिं सम्यक् समाचरेत् ॥ ३४ ॥
होमद्रव्यहीने - आज्यप्रशंसा
आज्यहीने तु चरुणा होमकर्म समाचरेत् ।
उक्तद्रव्यविहीने तु आज्येन जुहुयात्तथा ॥ ३५ ॥
आज्यमन्नस्वरूपं स्यात्सर्वमाज्ये प्रतिष्ठितम् ।
सर्वेषामपि देवानामाज्यमेव प्रियं भवेत् ॥ ३६ ॥
आज्येन सिक्तं यत्सर्वं शुचि वैतत् भविष्यति ।
कायशुद्धिर्मनश्शुद्धिर्द्रव्यशुद्धिस्तथैव च ॥ ३७ ॥
आज्यस्योक्ता गुणा ज्ञेयाः सर्वशास्त्रेषु निश्चिताः ।
यजमानमथाचार्यः धर्मानेतान् सुशिक्षयेत् ॥ ३८ ॥
यत्तु कायकृतं पापं द्रव्यदानेन शुद्ध्यति ।
यच्च वै मानसं पापं प्राणायामेन शुद्ध्यति ॥ ३९ ॥
यच्च द्रव्यकृतं पापं सुहुतेन विशुद्ध्यति ।
अन्नदानेन चोक्ताभिः दक्षिणाभिश्च पूजया ॥ ४० ॥
ॠत्विग्भिस्तु कृतं पापं जपैर्ध्यानेन शुद्ध्यति ।
सामान्यप्रायश्चित्तानि
(मौनोपवासपूजासु प्रमादाद्दोषसम्भवे ॥ ४१ ॥
उपवासे भोजनं स्यान्मौने प्रणवजापनम् ।
अर्चनायां यथाप्रोक्तपूजावृत्तिर्विधीयते?) ॥ ४२ ॥
सप्तत्रिंशोऽध्यायः
[[५०६]]
शान्तिवाचन उद्दिष्टे पुण्याहं तत्र वाचयेत् ।
होमशान्तिप्रकरणे चरुणा वैष्णवं यजेत् ॥ ४३ ॥
शान्तिमर्चनकालोक्तामर्घ्यदानेन कारयेत् ।
बलिशान्तिप्रकरणे दद्याद्भूतबलिं तथा ॥ ४४ ॥
शान्तिस्स्नपनकालोक्ता पञ्चगव्येन कल्पयेत् ।
क्रियया दोषशमनं यथा सा शान्तिरीरिता ॥ ४५ ॥
शान्तिहोमविधाने तु केवलं वैष्णवं यजेत् ।
महाशान्तिः
वैष्णवं पौरुषं सूक्तं ब्राह्ममैन्द्रञ्च वारुणम् ॥ ४६ ॥
‘यद्देवाद्या’स्समाहृत्य महाशान्तिरुदीरिता ।
अनिर्दिष्टयोगविशेषः
होमद्रव्ये त्वनिर्दिष्टे गव्यं घृतमुपाहरेत् ॥ ४७ ॥
अग्निकुण्डे त्वनिर्दिष्टे कुर्यादौपासनानले ।
मन्त्रेऽनुक्ते जपे होमे गायत्री वैष्णवी भवेत् ॥ ४८ ॥
अनुक्ते स्नानभेदे तु स्नपनं सप्तभिर्घटैः ।
बलिप्रमाणानुक्तौ तु आढकं बलिमाहरेत् ॥ ४९ ॥
दानस्वरूपेऽनुक्ते तु हिरण्यं दक्षिणां ददेत् ।
सुवर्णं दक्षिणेत्युक्तौ निष्काहीनन्तु दापयेत् ॥ ५० ॥
माषद्वयाधिकं माने निष्काहीनं समीरितम् ।
वस्त्रं द्वादशभिर्हस्तैरायतं परिचक्षते ॥ ५१ ॥
[[५०७]]
सप्तहस्तावराः शाट्यः पञ्चहस्तायताः पटाः ।
दशहस्ताऽयताश्चान्ये अर्चने शुभदर्शनाः ॥ ५२ ॥
भोजनोक्तौ भोजयेत्तु विप्रान् पञ्चावरांस्तथा ।
कृच्छ्रोक्तौ निष्कृतिं कुर्यात्प्राजापत्यं यथोदितम् ॥ ५३ ॥
प्रायश्चित्तनिर्णये समाहितिः
एवमुक्तान्यनुक्तानि ऊहापोहविधानतः।
देशकालानुरूप्येण दोषाणां गुरुलाघवम् ॥ ५४ ॥
विचार्य सम्यगाचार्यः प्रायश्चित्तं विनिर्दिशेत् ।
दोषसम्भावना
प्रायश्चित्तसमुत्पत्तिं देवाः काङ्क्षन्ति सर्वदा ॥ ५५ ॥
यतन्ते विघ्नक्लृप्त्यै तु तस्माद्दोषसमुद्भवः ।
तस्मात्सर्वाणि कर्माणि कार्याण्यवहितैर्नरैः ॥ ५६ ॥
प्रायश्चित्तानाचरणे
यदि प्रमादादुत्पन्नदोषाणां लोभभीरुणा ।
क्रियान्न निष्कृतिं मोहान्महान् दोषो भविष्यति ॥ ५७ ॥
न कर्मफलमाप्नोति प्रत्यवायश्च जायते ।
आधयो व्याधयश्चान्ये अनर्थास्सम्भवन्ति च ॥ ५८ ॥
यजमानस्य ग्रामस्य जनानाञ्चोपकुर्वताम् ।
तस्मात्सर्वप्रयत्नेन दोषे निष्कृतिमाचरेत् ॥ ५९ ॥
सप्तत्रिंशोऽध्यायः
[[५०८]]
प्रायश्चित्तशब्दनिरुक्तिः
प्रायो दोषसमुत्पत्तिश्चित्तं तस्या निरासनम् ।
तस्मात् प्रायश्चित्तपदं दोषनाशार्थकं स्मृतम्॥ ६० ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे उत्सवदोषप्रायश्चित्तविधिर्नाम सप्तत्रिंशोऽध्यायः ॥