अथ षट्त्रिंशोऽध्यायः
स्नपनदोषप्रायश्चित्तम्
अथातस्सम्प्रवक्ष्यामि स्नपने दोषनिष्कृतिम् ।
स्नपनारम्भकाले तु निमित्तानि तु लक्षयेत् ॥ १ ॥
आलयस्योत्तरे शान्तिः पुष्टिस्स्यात्प्रमुखे तथा ।
अस्थाने स्नपने चेत्तु पुनस्स्नपनमाचरेत् ॥ २ ॥
शयनस्थो यदा देव उदेति दिवि भास्करः ।
सौरं सौम्यञ्च जुहुयाद्वैष्णवं व्याहृतीस्तथा ॥ ३ ॥
बेरमुत्थाप्य विधिना पूजयेच्च यथोचितम् ।
वेद्याः प्रमाणहीनौ तु भूमिमर्घ्यान्तमर्चयेत् ॥ ४ ॥
अग्निना चैव विप्लुष्टे वस्त्रादौ वा परिच्छदे ।
प्रपादौ दर्भकूर्चादौ स्नपनार्थं प्रकल्पिते ॥ ५ ॥
षट्त्रिंशोऽध्यायः
[[५००]]
आग्नेयं वारुणं सौम्यमैन्द्रमन्त्रं सवैष्णवम् ।
हुत्वा तु निष्कृतिं कर्म यथोक्तन्तु समाचरेत् ॥ ६ ॥
कलशः साधितो भिन्नः प्रमादाद्येन केनचित् ।
अन्यं कलशमादाय साधयेदभिमन्त्रयेत् ॥ ७ ॥
पूर्वोक्तेनैव मन्त्रेण शताष्टोच्चारितेन च ।
महाशान्तिञ्च जुहुयात् दोषोपशमनाय वै ॥ ८ ॥
कलशानान्तु सर्वेषामयमेव विधिस्स्मृतः ।
द्रव्याणां कलशानाञ्च यदि स्यात् स्थानसङ्करः ॥ ९ ॥
द्विगुणं देवमाराध्य यथास्थानं निवेशयेत् ।
द्रव्यहीने तु तोयन्तु द्रव्यप्रतिनिधिं हरेत् ॥ १० ॥
धान्यानामप्यलाभे तु यवं प्रतिनिधिं हरेत् ।
ततो वारुणमन्त्रांस्तु वैष्णवं विष्णुसूक्तकम् ॥ ११ ॥
तद्द्रव्याधिपदेवत्यं जुहुयात्सा हि निष्कृतिः ।
पुनर्यथोक्तद्रव्यैस्तु सम्भृतैः स्नपनं चरेत् ॥ १२ ॥
अङ्कुराणामलाभे तु पुष्पैः पद्मैस्तथेतरैः ।
प्रपूर्य पालिकास्तानि कल्पयेदङ्कुराणि वै ॥ १३ ॥
कुशदूर्वाङ्कुरैर्वापि कुर्याच्चूतादिपल्लवैः ।
ओषधीनामलाभे तु कुर्यान्मन्त्रजपं बहु ॥ १४ ॥
अस्पृश्यैर्मनुजैश्चाद्यैः स्पृष्टञ्चेद्वस्तु साधितम् ।
तद्द्रव्यमपनीयान्यद्गृह्णीयान्मन्त्रतः शुचि ॥ १५ ॥
स्थानशुद्ध्यै प्रोक्षयेच्च पञ्चगव्यकुशोदकैः ।
चलिते देवबिम्बे तु प्रमादात्पतितेऽपि वा ॥ १६ ॥
[[५०१]]
स्थापयित्वा पुनः श्वभ्रे ‘प्रतद्विष्णु’ रिति ब्रुवन् ।
पञ्चगव्यैस्समभ्युक्ष्य मन्त्रैरब्लिङ्गकैः क्रमात् ॥ १७ ॥
‘अणोरणीया’ नित्युक्त्वा प्रोक्ष्य चाऽवाहनं चरेत् ।
‘सुवर्भुवः भूस्थ’ इति ओं तत्सदिति च स्पृशेत् ।
पुनः कर्म समारभ्य स्नपनं पूर्ववच्चरेत् ॥ १८ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे स्नपनदोषप्रायश्चित्तविधिर्नाम षट्त्रिंशोऽध्यायः ॥