३५ नित्यार्चनदोषप्रायश्चित्तम्

अथ पञ्चत्रिंशोऽध्यायः

नित्यार्चनदोषप्रायश्चित्तम्

अथातस्सम्प्रवक्ष्यामि पितामहसमीरितम् ।
सम्भावितानां दोषाणां विष्णोर्नित्यार्चनाविधौ ॥ १ ॥
प्रातरर्कोदयात्पूर्वमकृते द्वारमोचने ।
धात्रादीनां द्वारपानां मन्त्रैर्होमं समाचरेत् ॥ २ ॥
अजस्रदीपात्सर्वेषां दीपानां दीपनं भवेत् ।
दीपनाशे तु जुहुयाद्वैष्णवं विष्णुसूक्तकम् ॥ ३ ॥

[[४९३]]

श्रीदैवत्यञ्च श्रीसूक्तं ततः स्नपनमाचरेत् ।
नित्यस्नपनहीने तु स्नपनं द्विगुणं चरेत् ॥ ४ ॥
विहीने चैव पुण्याहे पञ्चगव्योक्षणे तथा ।
वारुणं रुद्रदैवत्यं हुत्वा प्रोक्षणमाचरेत् ॥ ५ ॥
अर्चनाङ्गोपचारार्हद्रव्यालाभे तथैव च ।
परिच्छदानामन्येषामभावे वाद्यहीनके ॥ ६ ॥
यद्द्रव्यं हीयते यो वा उपचारो विलुप्यते ।
तद्द्रव्यदेवतामन्त्रं विष्णुसूक्तं सवैष्णवम् ॥ ७ ॥
नित्याग्नौ जुहुयात्पश्चात्पुण्याहमपि वाचयेत् ।
अर्चनायाम्

प्रातस्सन्ध्यार्चने हीने मध्याह्ने द्विगुणं चरेत् ।
प्रातर्मध्याह्नयोर्हीने सायन्तु त्रिगुणं चरेत् ॥ ८ ॥
एकाहमर्चने हीने पूजकोऽनशनं चरेत् ।
उपावृत्तस्तु पापेभ्यः वसत्यात्मगुणैरिति ।
उपवासस्त्वनशनं सर्वभोगविवर्जितम् ॥ ९ ॥
सप्तभिः कलशैः स्नाप्य हवींषि च निवेदयेत् ।
एकाहस्येदमुदितं द्व्यहे च द्विगुणं चरेत् ॥ १० ॥
स्नपनं शान्तिहोमञ्च कुर्यादब्जाग्निकुण्डके ।
त्र्यहे च त्रिगुणं कुर्यादाचार्यस्सुसमाहितः ॥ ११ ॥
त्रिरात्रादधिके चैव दक्षिणाग्नौ विशेषतः ।
आघारं विधिवत्कृत्वा वैष्णवं पाञ्चभौतिकम् ॥ १२ ॥
पञ्चत्रिंशोऽध्यायः

[[४९४]]

ईङ्कारादीन् विष्णुसूक्तं वैष्णवं जुहुयाद्बुधः ।
कलशैस्स्नापयेद्देवं यथावित्तानुसारतः ॥ १३ ॥
पक्षहीने तु द्विगुणं प्रायश्चित्तं समाचरेत् ।
मासेऽतीते तु पद्माग्नौ गायत्रीं वैष्णवीं हुनेत् ॥ १४ ॥
अष्टोत्तरशतञ्चाज्यसिक्तपद्मैर्हुनेत्ततः ।
ईङ्काराद्यैः कापिलेन घृतेन जुहुयात्तथा ॥ १५ ॥
तिलतण्डुलमिश्रेण चरुणा जुहुयात्ततः ।
अष्टाशीतिञ्च जुहुयाच्छेषं पूर्ववदाचरेत् ॥ १६ ॥
एतेनैव विधानेन यावत्संवत्सरावधि ।
गुरुलाघवमालोच्य प्रायश्चित्तं समाचरेत् ॥ १७ ॥
संवत्सरेऽप्यतीते तु पूजाहीने प्रमादतः ।
महाशान्त्युक्तमार्गेण मासमेकं समाचरेत् ॥ १८ ॥
ब्राह्मणान् भोजयित्वा च पुनः स्थापनमाचरेत् ।
आचार्यदक्षिणां दद्याद्यथोक्तं तं समर्चयेत् ॥ १९ ॥
अशुचिस्पर्शादौ

अशुचिस्पर्शदुष्टैश्च द्रव्यैरर्चनसम्भवे ।
जुहुयात्पौण्डरीकाग्नौ शतमष्टौ च वैष्णवम् ॥ २० ॥
सप्तभिः कलशैः स्नाप्य प्रभूतञ्च निवेदयेत् ।
हीने हविषि पक्वे तु आमं द्रव्यं निवेदयेत् ॥ २१ ॥
जुहुयाच्चरुणा चाग्नौ विधिदेवमनुस्मरन् ।

[[४९५]]

अपर्याप्ते हविरादौ अअपर्यात्पे हविरादौ

हविषि व्यञ्जने हीने अपूपादिविवर्जिते ॥ २२ ॥
घृते विहीने पयसि दध्नि वा दोषसम्भवः ।
तच्छान्त्यै वैष्णवं विष्णुसूक्तमग्नौ हुनेत्तथा ॥ २३ ॥
यथालाभं समाहृत्य देवाय विनिवेदयेत् ।
सिद्धे हविष्येकपात्रे भागशो विनिवेदनम् ।
व्यवधानेन न भवेत्सर्वं स्याद्विनिवेदितम् ॥ २४ ॥
(नालिकेरञ्च कूश्माण्डमेवमादिफलानि च ।
व्यञ्जनानि च पक्वानि भागशो न निवेदयेत् ॥ २५ ॥
निवेदितेऽप्यल्पभागे शिष्टमुच्छिष्टतामियात् ।
प्रमादाद्यदि कुर्याच्चेच्छान्तिं कुर्याद्विधानतः)

कलशैः स्नाप्य देवेशं शान्तिहोमं समाचरेत् ॥ २६ ॥
वैष्णवं श्रीमहीसूक्तं ब्राह्मं हुत्वा विशेषतः ।
हविस्संसाध्य यत्नेन प्रभूतं विनिवेदयेत् ॥ २७ ॥
उक्तद्रव्यालाभे

धूपदीपादिषु तथा अर्घ्यद्रव्यादिके तथा ।
अलाभे संस्मरंस्तत्तद्द्रव्यं भक्तिसमन्वितः ॥ २८ ॥
कुसुमैर्वा तुलस्या वा मन्त्रेणोपचरेच्छनैः ।
पुष्पालाभे जलेनैव मन्त्रपूर्वं समाचरेत् ॥ २९ ॥
मन्त्राणां स्खलने

मन्त्राणां स्खलने मूर्तिमन्त्रेण प्रणवादिना ।
नमोऽन्तेनोपचारैस्तु पूजां कुर्यात्र दोषकृत् ॥ ३० ॥
पञ्चत्रिंशोऽध्यायः

[[४९६]]

अष्टाक्षरं महामन्त्रं जपेदष्टोत्तरं शतम् ।
अपराधक्षापणञ्च प्रार्थयेद्भक्तिभावितः ॥ ३१ ॥
(अष्टाक्षरस्य मन्त्रस्य ॠषिर्नारायणः स्मृतः ।
छन्दश्च देवी गायत्री परमात्मा च देवता)

नित्यहोमे हीने

एककालं नित्यहोमे हीने द्विगुणमाचरेत् ॥ ३२ ॥
त्र्यहे हीने मथित्वाऽग्निं विष्णुसूक्तञ्च वैष्णवं

हुत्वा पुरुषसूक्तञ्च मूर्तिमर्न्तैर्हुनेच्चरुम् ॥ ३३ ॥
प्रायश्चित्तमिदं हुत्वा क्रमाद्धोमं समाचरेत् ।
समिध्यरण्यां वाऽऽरोप्य जुहुयाद्वैष्णवं पुनः ॥ ३४ ॥
ध्रुवपादसमारोपमग्नेरिच्छन्ति केचन ।
बलौ हीने

प्रातस्सन्ध्याबलौ हीने सौरं सौम्यं हुनेत्ततः ॥ ३५ ॥
मध्याह्ने द्विगुणं दद्यात् बलिं श्रद्धासमन्वितः ।
एककाले बलौ हीने पाश्चात्ये द्विगुणं चरेत् ॥ ३६ ॥
एकस्मिन् दिवसे हीने परेद्युः प्रातरेव हि ।
कलशैः स्नाप्य देवेशं पूर्वोक्तं होममाचरेत् ॥ ३७ ॥
एवं षड्दिनपर्यन्तं प्रायश्चत्तं समाचरेत् ।
सप्तरात्रं बलौ हीने जलसम्प्रोक्षणं चरेत् ॥ ३८ ॥
ब्राह्मणान् भोजियित्वा तु पुनर्बल्युत्सवं चरेत् ।
पक्षहीने निष्कृतिन्तु कुर्यादङ्कुरपूर्वकम् ॥ ३९ ॥

[[४९७]]

स्नापयित्वा तु देवेशं कुम्भस्थापनपूर्वकम् ।
वैष्णवं सर्वदैवत्यं हुत्वा सम्प्रोक्षणं चरेत् ॥ ४० ॥
त्रिमासहीने तु बलावङ्कुरार्पणपूर्वकम् ।
महाशान्तिं त्रिरात्रन्तु हुत्वा सम्प्रोक्षणं चरेत् ॥ ४१ ॥
प्रायश्चित्तञ्च हुत्वा तु हीनाहस्सु बलिर्भवेत् ।
यावांस्तावन्तमादाय भूतपीठे विनिक्षिपेत् ॥ ४२ ॥
वर्षेऽतीते बलौ हीने पूर्वोक्तेनैव मार्गतः ।
पञ्चाहं स्यान्महाशान्तिः शताष्टकलशैः प्लवः ॥ ४३ ॥
नष्टप्रमाणेनान्नेन प्रभूतं बलिमाहरेत् ।
क्षमस्वे ति प्रणम्यैव देवेशं मनसा स्मरेत् ॥ ४४ ॥
आचार्यदक्षिणाञ्चैव दत्वा चोक्तां समापयेत् ।
अस्पृश्यैः पतितैर्वापि बलौ स्पृष्टे च दूषितैः ॥ ४५ ॥
पूर्ववद्बलिमाहृत्य बलिमन्त्रसमन्वितम् ।
वैष्णवञ्चैव जुहुयादिति पूर्वजशासनम् ॥ ४६ ॥
अर्चने क्रियमाणेऽपि श्रद्धाभक्तिपुरस्सरम् ।
न्यूनातिरेकदोषाश्च ये भवेयुः प्रमादतः ॥ ४७ ॥
तेषान्तु विदितानां वै सम्प्रोक्ता निष्कृतिस्त्विह ।
अज्ञातदोषशान्त्यर्थं प्रायश्चित्तमिहोच्यते ॥ ४८ ॥


अयने चोत्तरे चैव शुक्लपक्षे विशेषतः ।
विष्णुपञ्चदिने वापि परिगृह्य दिनं शुभम् ॥ ४९ ॥
पञ्चत्रिंशोऽध्यायः

[[४९८]]

तस्मात्तु दिवसात्पूर्वं नवमे वाऽथ सप्तमे ।
पञ्चमेऽहनि वा कुर्याद्विधिना चाङ्कुरार्पणम् ॥ ५० ॥
पूर्वेद्युरेव शर्वर्यां रात्रिपूजावसानके ।
बद्ध्वा प्रतिसरं देवं शयने शाययेद्बुधः ॥ ५१ ॥
प्रभाते देवमुत्थाप्य भूषयित्वा यथोचितम् ।
ग्रामं प्रदक्षिणं नीत्वा सर्वालङ्कारसंयुतम् ।
जुहुयात्पौण्डरीकाग्नौ बिल्वपत्रैः घृताऽऽप्लुतैः ॥ ५२ ॥
श्वेतपद्मदलैर्वापि महाशान्तिं विधानवित् ।
शताष्टकलशैर्देवं स्नापयेच्च ततः क्रमात् ॥ ५३ ॥
स्नापनान्ते समभ्यर्च्य नित्यपूजाक्रमेण वै ।
आस्थाने स्थाप्य देवेशमलङ्कृत्य यथोचितम् ॥ ५४ ॥
समर्पयित्वा वस्त्राणि माल्यानि विविधानि च ।
सौवर्णं यज्ञसूत्रञ्च भक्तियुक्तं समर्पयेत् ॥ ५५ ॥
प्रार्थयेच्च ततो देवं मन्त्रमेतं समुच्चरन् ।
अशक्यं विधिवत्कर्तुं ब्रह्माद्यैरपि पूजनम् ॥ ५६ ॥
न्यूनातिरेकव्याघात दोषहीनं जगत्पतेः ।
किमल्पज्ञैरशक्तैश्च मादृग्भिरदृढात्मभिः ॥ ५७ ॥
तस्मान्नित्यार्चनायान्तु सञ्जातं यदशोभनम् ।
कृतया पूजया शक्त्या सम्पूर्णं सर्वमस्तु नः ॥ ५८ ॥
इत्युक्त्वा तु नमस्कृत्य प्रभूतञ्च निवेदयेत् ।
आचार्यं पूजयेद्भक्त्या वस्त्राभरणकुण्डलैः ॥ ५९ ॥

[[४९९]]

अन्नाद्यैस्तोषयेद्विप्रान् पूजयेद्वैष्णवांस्तथा ।
अज्ञातदोषप्रायश्चित्तमिदं सर्वशान्तिदम् ॥ ६० ॥
एवं यः कुरुते भक्त्या विष्णोरमिततेजसः ।
संवत्सरार्चनफलं सर्वं स समवाप्नुयात् ॥ ६१ ॥
यत्रैषा क्रियते पूजा प्रतिसंवत्सरं हरेः ।
न तत्र देशे पीडा स्यादनावृष्ट्याद्युपद्रवैः ॥ ६२ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे नित्यार्चनदोषप्रायश्चित्तविधिर्नाम पञ्चत्रिंशोऽध्यायः ॥