अथ चतुस्त्रिंशोऽध्यायः
कर्षणादिप्रायश्चित्तम्
अत परं प्रवक्ष्यामि कर्षणादिषु निष्कृतिम् ।
भूपरिक्षायां कर्षणे च तथा बीजनिर्वापने ॥ १ ॥
दोषे प्राप्ते यथाशक्ति गुरवे दक्षिणां ददेत् ।
———————————————॥ २ ॥
श्यामसस्यानि च तथा पलालं वा प्रगृह्य च ।
आस्तीर्योद्दिष्टभूम्यान्तु प्रायश्चित्तन्तु होमयेत् ॥ ३ ॥
सौम्यञ्च वैष्णवं हुत्वा गोभ्यः सस्यं निवेदयेत् ।
धान्यदानञ्च विप्रेभ्यो यथाशक्ति तु दापयेत् ॥ ४ ॥
चतुस्त्रिंशोऽध्यायः
[[४८२]]
अलाभे तूक्तदारूणां वृक्षदेवं समर्च्य च ।
सुवर्णेन हलादीनि कृत्वा संस्कारमाचरेत् ॥ ५ ॥
हीनाङ्गौ चेद्बलीवर्दौ अन्यलक्षणवर्जितौ ।
रौद्रन्तुजुहयाद्धीनप्रमाणेषु युगादिषु ॥ ६ ॥
बीजवापनतः पश्चात् दोषेषु जनितेषु च ।
यजेद्वै भूमिदैवत्यं पुनः बीजानि वापयेत् ॥ ७ ॥
अन्यदेवार्थमुद्दिष्टस्थानं विष्णोर्यदीच्छति ।
न गृह्णीयाच्च तत् तूष्णीं शान्तिं हुत्वा तदा ददेत् ॥ ८ ॥
दक्षिणाञ्च यथाशक्ति दत्वा दद्यान्न चान्यथा ।
विष्वक्सेनविहीने तु सहस्रं तन्मनुं हुनेत् ॥ ९ ॥
तिलसर्षपमिश्रेण चरुणा होम इष्यते ।
बालबेरविहीने तु लौकिकं बेरमाहरेत् ॥ १० ॥
अलाभे लौकिकस्यापि दारुणा वापि कारयेत् ।
प्रतिष्ठिते मूलबेरे बेरं लौकिकमत्र वै ॥ ११ ॥
प्रथमावरणे स्थाने कस्मिंश्चित् स्थाप्य चार्चयेत् ।
हीनप्रमाणेऽपि बेरे पूजा फलति निश्चिता ॥ १२ ॥
भूमियज्ञविहीने तु जुहुयात्पाञ्चभौतिकम् ।
सहस्राहुतिभिर्होमं प्रत्येकं सम्यगाचरेत् ॥ १३ ॥
पुण्याहहीने सर्वत्र ब्राह्मणान् पञ्च भोजयेत् ।
कपालास्थिशिलादौ च ब्रह्मपद्मावटादिषु ॥ १४ ॥
दुष्टे तु वैष्णवं भूमिदैवत्यं ब्राह्ममेव च ।
अष्टोत्तरशतं हुत्वा खात्वाऽन्यत्रावटं चरेत् ॥ १५ ॥
[[४८३]]
घटस्रावेऽथ भेदे वा प्रमादात्पतितेऽपि वा ।
यज्ञोपस्करनाशे च जनानां भयसम्भवे ॥ १६ ॥
कलहे रुधिरस्रावे वैष्वक्सेनं यजेत्क्रमात् ।
गारुडं वैष्णवञ्चैव जुहुयाद्विधिवद्बुधः ॥ १७ ॥
ब्रह्मपद्मावटे
वामावर्ते जले दृष्टे ब्रह्मपद्मावटे यदि ।
वारुणं तत्र जुहुयात् वायव्यं भूमिदैवतम् ॥ १८ ॥
सङ्कुलञ्चेत्तदा वारि ब्राह्मं सौम्यञ्च वारुणम् ।
पद्मेऽधरोत्तरे जाते कुटिले भेदने तथा ॥ १९ ॥
ब्राह्मं तद्देवताहोमं वारुणं चार्षकं यजेत् ।
विदिक्षु सङ्गते पद्मे ब्राह्ममार्षं तथा हुनेत् ॥ २० ॥
शङ्कुस्थापने
शङ्कुनिर्माणकाले तु द्विवारं ताडनं यदि ।
पार्षदं सर्वदैवत्यं जुहुयाद्दोषशान्तये ॥ २१ ॥
मूर्तिमन्त्राज्ञाने
मूर्तिमन्त्रविहीने तु नाममन्त्रेण कारयेत् ॥ २२ ॥
इष्टकादिविपर्यासे
इष्टकाग्रविपर्यासे तथा दारुविपर्यये ।
शिलामूलाग्रदोषे वा प्रस्तरे वापि सङ्कटे ॥ २३ ॥
हीनाङ्गे च विमाने तु प्रतिखण्डविपर्यये ।
कवाटद्वारकुड्यादौ हीने चापि विपर्यये ॥ २४ ॥
चतुस्त्रिंशोऽध्यायः
[[४८४]]
न्यक्षादिदेवतामन्त्रैः जुहुयान्निष्कृतिर्भवेत् ।
द्वादशाब्दोपरि तथा समाप्तिर्न भवेद्यदि ॥ २५ ॥
आरब्धस्य तु कार्यस्य येन केनापि हेतुना ।
ग्रहयज्ञं विशेषेण कुर्याद्ब्राह्यणभोजनम् ॥ २६ ॥
कृत्वेमां निष्कृतिं पूर्वं कार्यारम्भं पुनश्चरेत् ।
इष्टकासङ्करे मिश्रे वैष्णवं जुहुयात्क्रमात् ॥ २७ ॥
शास्त्रोक्तदक्षिणाहीने हुत्वाऽऽग्नेयञ्च वैष्णवम् ।
शक्तितो दक्षिणां दद्यादाचार्यमनुमानयेत् ॥ २८ ॥
शूलादिविपर्यासे
आलयानां विपर्यासे तथा शूलविपर्यये ।
ब्राह्मणान् भोजयित्वा तु शक्तितो दक्षिणां ददेत् ॥ २९ ॥
बेराणाञ्च विपर्यासे तथा शूलविपर्यये ।
ब्राह्मञ्च वैष्णवं हुत्वा यथार्हं परिकल्पयेत् ॥ ३० ॥
यजमानादिविपर्यासे
यजमानविपर्यासे रौद्रमैन्द्रं यजेद्बुधः ।
आचार्यस्य विपर्यासे मुनिहोमं समाचरेत् ॥ ३१ ॥
आचार्यः कर्षणारम्भे यो वृताश्शास्त्रवर्त्मना ।
तेन सर्वास्तु निर्वाह्याः प्रतिष्ठान्ताः क्रियास्सदा ॥ ३२ ॥
ततः परञ्च नित्यानि तथा नैमित्तिकानि च ।
कर्माणि तेनैवान्यानि निर्वर्त्यानि विभूतये ॥ ३३ ॥
आचार्यं वरयेन्नान्यमुत्सवादिषु कर्मसु ।
तदभावे तु तत्पुत्रं पौत्रं नप्तारमेव वा ॥ ३४ ॥
[[४८५]]
शिष्यं वाथ प्रशिष्यं वा तत्स्थाने वरयेद्गुरुम्
आचार्यसङ्करे कर्तुः आलयस्य विशेषतः ॥ ३५ ॥
नश्यन्ति सम्पदः पूजा संवृत्ता निष्फला भवेत् ।
पदार्थिनां भर्त्सनादौ
आचार्यस्यार्त्विजाञ्चैव तथा वै कर्मकारिणम् ॥ ३६ ॥
भर्त्सनादौ महान् दोषः प्रमादात्सम्भवे भवेत् ।
जुहुयाद्वैष्णवं सौम्यं तान् कुर्याच्च समाहितान् ॥ ३७ ॥
कलहे यदि सञ्जाते आचार्ययजमानयोः ।
वैष्णवञ्च तथा ब्राह्मं जहुयात्पाञ्चभौतिकम् ॥ ३८ ॥
उक्तद्रव्यविहीने
उक्तद्रव्यविहीने तु द्रव्यदैवत्यमेव च ।
शैषिकञ्चैव हुत्वा तु द्रव्यप्रतिनिधिं हरेत् ॥ ३९ ॥
विहीने शयने चैव तद्देवत्यं हुनते् सकृत् ।
शास्त्रोक्तेन विधानेन प्रोक्तं प्रतिनिधिं हरेत् ॥ ४० ॥
शयनस्थमकाले तु बेरमुद्धृत्य चाक्रमात् ।
देवदेव्योमूर्तिमन्त्रैः हुत्वा तत्रैव शाययेत् ॥ ४१ ॥
उक्तयागस्थानहीने स्थानानामपि सङ्करे ।
जुहुयाद्भूमिदैवत्यं होमस्थानविपर्यये ॥ ४२ ॥
यज्ञोपस्करमन्त्राणां द्रव्याणाञ्च विपर्यये ।
आग्नेयं जुहुयाद्ब्राह्मं दद्याद्विपुलदक्षिणाम् ॥ ४३ ॥
कुम्भे तु साधिते मित्रे प्रमादात्पतितेऽपि वा ।
तद्दोषशमनार्थन्तु हुनेद्ब्राह्मञ्च वैष्णवम् ॥ ४४ ॥
चतुस्त्रिंशोऽध्यायः
[[४८६]]
किङ्ङ्करादींश्च जुहुयात्पुनः संस्थापनं चरेत् ।
मथिताग्न्यलाभे
मथिताग्नावलाभे तु श्रोत्रियागारतो हरेत् ॥ ४५ ॥
अग्निकुण्डादिषु प्रमाणहीने
प्रमाणहीनेऽग्निकुण्डे कृते दोषो भविष्यति ।
प्रायश्चित्तं ब्राह्मसौम्याग्नेयादित्यानि हावयेत् ॥ ४६ ॥
तुषपाषाणलोष्टादिसंस्पृष्टे त्वग्निकुण्डके ।
वैष्णवञ्चैव जुहुयात्पाञ्चभौतिकमेव च ॥ ४७ ॥
पुष्पाक्षतसमिद्दर्भसम्भारविधुरे तदा ।
आग्नेयं तत्र जुहुयात्पञ्चकृत्वस्तु वैष्णवम् ॥ ४८ ॥
दर्भादिदाहे
दर्भादिदाहे चाज्ञानात् प्रमादाद्व्याहृतीर्यजेत् ।
ऊर्ध्ववर्षिष्ठसमिधौ यदि दग्धौ प्रमादतः ॥ ४९ ॥
महाव्याहृतिभिर्हुत्वा व्याहृतीभिश्च होमयेत् ।
अध्वर्युदोषे
अनुक्तमुख अध्वर्युर्यदि कार्याणि चाचरेत् ॥ ५० ॥
जुहुयादार्षमन्त्रैस्तु सप्तव्याहृतिभिस्तथा ।
अग्निज्वलनविपर्यये
वामावर्ते ज्वलत्यग्नौ सौरमन्त्रैस्तु होमयेत् ॥ ५१ ॥
समित्प्रक्षेपणे जाते सङ्कुलं चेत्प्रमादतः ।
वायव्यं जुहुयात्तत्र वैष्णवेन समायुतम् ॥ ५२ ॥
[[४८७]]
इध्मप्रक्षेपणे काले प्रच्यावो यां दिशं प्रति ।
यद्देवाद्यैस्तद्दिगीशमन्त्रैश्च जुहुयाद्बुधः ॥ ५३ ॥
मन्त्रविपर्यासे
यं यं देवं समुद्दिश्य प्रयोगो यत्र वर्तते ।
दोषे तद्दैवत्यमन्त्रैः प्रायश्चित्तं प्रकल्पयेत् ॥ ५४ ॥
व्याहृतीभिश्च जुहुयात् सर्वदोषेषु वैष्णवम् ।
वैष्णवं सर्वदोषोपशमनं कर्मसिद्धिदम् ॥ ५५ ॥
आग्नेयं वैष्णवञ्चापि सव्याहृतिकमुत्तमम् ।
प्रयोगविपर्यासे
संस्काराणां विपर्यासे मन्त्राणामपि सङ्करे ॥ ५६ ॥
अग्निं प्रज्वाल्य प्रणमेदग्निसूक्तं समुच्चरेत् ।
तेन पूर्णं भवेत्सर्वं यज्ञमूर्तिप्रसादतः ॥ ५७ ॥
आहुतिविपर्यासे
आहुतीनां विपर्यासे प्रमदाद्यत्र कुत्र वा ।
स्विष्टाकारं हुनेत्पश्चात् व्याहृतीनां चतुष्टयम् ॥ ५८ ॥
यत्र यत्र प्रमादः स्याज्जुहुयाद्व्याहृतीः सदा ।
व्याहृतिमहिमा
न व्याहृतिसमो मन्त्रः होम्यमाज्यसमञ्च न ॥ ५९ ॥
न गायत्र्या समं जप्यं न दैवं केशवात्परम् ।
अन्तहोमे क्रियाहीने क्रियाद्रव्यादिसङ्कुले ॥ ६० ॥
चतुस्त्रिंशोऽध्यायः
[[४८८]]
पूर्णाहुतिं हुनेद्भक्त्या सर्वशान्तिर्भविष्यति ।
होमान्ते सर्वशान्त्यर्थं सूक्तं वैश्वानरं जपेत् ॥ ६१ ॥
ध्यायेत्कर्मसमृद्ध्यर्थं देवं वैश्वानरं प्रभुम् ।
यज्ञेश्वरोऽन्तर्यामी हि भगवान् पुरुषोत्तमः ॥ ६२ ॥
प्रीतः कर्मफलं दद्यात् आराध्यस्सर्वकर्मभिः
प्रतिष्ठाविपर्यासे
प्रतिष्ठायां विपर्यासे सौरं होमं समाचरेत् ॥ ६३ ॥
यदि रात्रौ प्रतिष्ठा स्यात्सर्वथा सर्वदोषकृत् ।
आग्नेयं जुहुयात्सौरं सहस्रञ्चाष्टसंयुतम् ॥ ६४ ॥
ब्राह्मणान् भोजयेच्चापि तावत्सङ्ख्यान् विशेषतः ।
चलिते बिम्बे
प्रतिष्ठितं क्वचिद्बेरं चलितञ्चेत्प्रमादतः ॥ ६५ ॥
तद्देवत्यञ्च जुहुयात्प्रतिष्ठां पुनराचरेत् ।
प्रतिष्ठितं शक्तियुतं बेरं न्याय्येन हेतुना ॥ ६६ ॥
अन्यदेशे प्रतिष्ठाप्य यद्यर्चयितुमिच्छति ।
पूर्वोक्तेन विधानेन प्रतिष्ठाप्य समर्चयेत् ॥ ६७ ॥
नदीवेगादिना नष्टे ग्रामे वा देवमन्दिरे ।
महामाक्षिकसम्बाधे विमाने यत्र कुत्र वा ॥ ६८ ॥
वल्मीकाद्युद्भवे तत्र भेदेऽशन्यादिपाततः ।
जीर्णे कालोपघाते च दुष्टे वान्येन हेतुना ॥ ६९ ॥
[[४८९]]
विमाने ध्रुवबेरे वा चालितेऽनवधानतः ।
भिन्ने च्छिन्नेऽवद्यहते यदीच्छेन्नेतुमन्ततः ॥ ७० ॥
स्थानान्तरे प्रतिष्ठाप्य समाराधयितुं तथा ।
तथा कुर्यात्प्रयत्नेन जीर्णोद्धारफलं लभेत् ॥ ७१ ॥
उद्धारप्रकारभेदाः
रत्नगर्भयुतं पीठं सह देवेन चालयेत् ।
ततो रत्नानि चादाय संरक्षेत्तानि यत्नतः ॥ ७२ ॥
अनवद्यन्तु चेद्बेरं तच्च रक्षेद्विधानतः ।
जीर्णोद्धारविधानेन कार्यमेतत्समाचरेत् ॥ ७३ ॥
बालस्थाने प्रतिष्ठाप्य नवं निर्माय मन्दिरम् ।
रत्नानि विधिवन्न्यस्य पुनः संस्थापनं चरेत् ॥ ७४ ॥
विनष्टे ध्रुवबिम्बे तु भेदच्छेदादिदूषणैः ।
निर्माय च परं बिम्बं स्थानेऽन्यत्र तु स्थापयेत् ॥ ७५ ॥
सर्वत्र च महाशान्तिपूर्वं स्यात्प्रोक्षणं हितम् ।
मृण्मयं जीर्णबेरोक्तविधिना सन्त्यजेद्बुधः ॥ ७६ ॥
लोहबिम्बे पीठाद्वियोजिते
पीठं लोहजबिम्बस्य प्रमादाद्यदि भज्यते ।
बालालयविधानेन कार्यं कृत्वा विचक्षणः ॥ ७७ ॥
पूर्वन्यस्तानि रत्नानि यत्नात् संरक्ष्य निक्षिपेत् ।
सप्तभिः कलशैर्देवं स्नापयित्वा विधानतः ॥ ७८ ॥
लोकपालकमन्त्रैश्च महाशान्तिपुरस्सरम् ।
पुनः प्रतिष्ठामार्गेण रत्नन्यासं विधाय च ॥ ७९ ॥
चतुस्त्रिंशोऽध्यायः
[[४९०]]
पीठं संयोज्य देवेशं प्रतिष्ठाप्य समर्चयेत् ।
प्रभूतञ्च निवेद्यैव ब्राह्मणान् भोजयेक्रमात् ॥ ८० ॥
चोरापहारे
चोरैर्वा शत्रुभिर्वापि नष्टे भवति कौतुके ।
तत्पीठे ब्रह्मणः स्थाने कूर्चं न्यस्य समर्चयेत् ॥ ८१ ॥
पूर्ववन्निष्कृतिं कृत्वा पुनः संस्थाप्य चार्चयेत् ।
तस्करादिप्रवेशे
ब्रह्महर्म्यालयस्यान्तः प्रविष्टे तस्करादिभिः ॥ ८२ ॥
देवं बालालये स्थाप्य बालालयविधानतः ।
त्रिमासं वा द्विमासं वा स्थलशुद्धिं विधाय वै ॥ ८३ ॥
तत्काले पौण्डरीकाग्नौ शान्तिसम्पादनाय वै ।
पुनः संस्थापनान्तन्तु महाशान्तिं हुनेत्ततः ॥ ८४ ॥
सम्प्रोक्षणविधानेन पुनस्संस्थापनं चरेत् ।
श्वकाकाद्यैः बिम्बे स्पृष्टे
बिम्बे स्पृष्टे श्वकाकाद्यैस्सूकरैरन्यजन्तुभिः ॥ ८५ ॥
पञ्चगव्यैस्सुसम्प्रोक्ष्य महाशान्तिं विधाय वै ।
महासम्प्रोक्षणं कृत्वा कारयेद्विप्रभोजनम् ॥ ८६ ॥
अथ बिम्बे तु संस्पृष्टे उच्छिष्टादिभिरेव च ।
पञ्चगव्यैस्तु सम्प्रोक्ष्य पुण्याहमपि वाचयेत् ॥ ८७ ॥
[[४९१]]
हीनाङ्गे बेरे
उत्पाटितं शिलाबेरं हीनाङ्गं सम्भवेद्यदि ।
गजैर्वृषैर्मनुष्यैर्वा पुनस्संस्कारकर्मणि ॥ ८८ ॥
भूमौ खनित्वा निक्षिप्य प्रच्छाद्य च मृदा ततः ।
कुशकाशान् समास्तीर्य जलेनाप्लाव्य तां भुवम् ॥ ८९ ॥
सकाल उद्धृत्य शिलां शिलाग्रहणवर्त्मना ।
कृत्वा चोचितसंस्कारान् स्थापयेद्विधिवद्बुधः ॥ ९० ॥
बालस्थाने कृते चेत्तु नवकर्मसु सर्वथा ।
सहस्राहुतिहोमञ्च सहस्रद्विजभोजनम् ॥ ९१ ॥
कृत्वैवोक्तविधानेन पुनः संस्थापनं चरेत् ।
विष्णुपूजाप्रशंसा
तपः शौचोपवाससाश्च जपहोमव्रतानि च ॥ ९२ ॥
इज्याध्ययनदानानि चान्या वेदोदिताः क्रियाः ।
साकल्यं न भजन्त्येव विष्णुपूजां विना क्वचित् ॥ ९३ ॥
तस्मात्सर्वप्रयत्नेन विष्णुं सौम्याध्वनाऽर्चयेत् ।
यत्र सम्पूज्यते विष्णुः सप्तविंशतिविग्रहैः ॥ ९४ ॥
तद्ग्रामवासिनां न स्युराधिव्याध्याद्युपद्रवाः ।
वेदवेदाङ्गतत्वज्ञाः ब्राह्मणास्स्युर्न संशयः ॥ ९५ ॥
सुरूपाश्च सुवेषाश्च धर्मकामार्थभागिनः ।
क्षत्रिया रूपवन्तश्च क्षात्रधर्मसु निष्ठिताः ॥ ९६ ॥
चतुस्त्रिंशोऽध्यायः
[[४९२]]
नृपा वीर्यादिसम्पन्ना नृपपुत्रास्तथार्थिनः ।
वैश्या धनसमृद्धाश्च प्रभूतपशुसम्पदः ॥ ९७ ॥
शूद्रास्स्वकर्मसन्तुष्टाः भविष्यन्ति न संशयः ।
विष्णुपूजाफलं येन जगदेतच्चराचरम् ॥ ९८ ॥
सुखेन युज्यते तेन विहितं विष्णुपूजनम् ।
पूजाविधौ च्युतिर्यत्र मन्त्रतन्त्रक्रियादिषु ॥ ९९ ॥
तद्ग्रामराजराष्ट्राणां दुःखं बहुविधं भवेत् ।
सस्यहीना च वसुधा तरवो ह्यफलास्तथा ॥ १०० ॥
अल्पक्षीराः पृषस्यन्त्यो गावश्च प्रभवन्त्युत ।
अतिवृष्टिरनावृष्टिरन्ये स्युर्दुरुपद्रवाः ॥ १०१ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे कर्षणादिप्रायश्चित्तविधिर्नाम चतुस्त्रिंशोऽध्यायः ॥