अथ त्रयस्त्रिंशोऽध्यायः
तीर्थोत्सवपुष्पयागौ
अत ऊर्ध्वं प्रवक्ष्यामि तीर्थकालविनिर्णयम् ।
रथरङ्गोत्सवस्यापि तथा कालविनिर्णयम् ॥ १ ॥
एकमासे तीर्थॠक्षं द्विवारं सम्भवेद्यदि ।
परस्मिन्नेव नक्षत्रे कुर्यात्कालोत्सवं हरेः ॥ २ ॥
तस्मिन् सङ्क्रमदुष्टे तु पूर्वस्मिन्नेव कारयेत् ।
उभयत्र तु सङ्क्रान्तौ उत्सवञ्चोत्तरे चरेत् ॥ ३ ॥
दोषयुक्तं दिनं त्यक्त्वा शुद्धे तीर्थन्तु कारयेत् ।
वारद्वये खण्डिते भे यस्मिन् वारे इनोदयः ॥ ४ ॥
तस्मिंस्तीर्थोत्सवं कुर्यादिति पूर्वजशासनम् ।
द्विनद्वये तिथावृक्षे त्रिदिने वाऽर्यमोदये ॥ ५ ॥
कलामात्रं स्थिते वापि तस्मिन्नुत्सवमाचरेत् ।
पूर्वस्मिन् दिवसे ॠक्षं विना सूर्योदयो यदि ॥ ६ ॥
परस्मिन्नुदये दृष्ट्वा ॠक्षमुत्सवमाचरेत् ।
दिनद्वयोदये व्याप्तौ परस्मिन्नेव चोत्सवः ॥ ७ ॥
[[४७७]]
वारद्वये समव्याप्तौ यस्मिन्नधिकनाडिकाः ।
मध्याह्नसङ्गतास्तस्मिन् दिने तीर्थं समाचरेत् ॥ ८ ॥
उदयव्यापिनक्षत्रे रथोत्सवमथाचरेत् ।
अन्यथा चेन्महान् दोषो भविष्यति न संशयः ॥ ९ ॥
तस्मात्सर्वप्रयत्नेन रथारोहादनन्तरे ।
दिवसे एव कर्तव्यः क्रमात्तीर्थमहोत्सवः ॥ १० ॥
तस्मिन् दिने तीर्थदानं पुण्यमाहुर्महर्षयः ।
देवप्रीतिकरं भद्रं महीशविजयप्रदम् ॥ ११ ॥
तस्मात्परस्मिन् दिवसे तीर्थं केचिद्वदन्ति हि ।
रथोत्सवं विना सर्वमुत्सवं त्रिमुहूर्त के ॥ १२ ॥
स्नपनञ्च प्रकुर्वीत तद्धीने तन्न कारयेत् (?) ।
नाडीद्वयं मुहूर्तः स्यात् षण्णाड्यस्त्रिमुहूर्तकम् ॥ १३ ॥
तारका वा तिथिर्वाऽपि पुच्छ एवोत्सवं चरेत् ।
त्रिमुहूर्ताधिके एते विष्णुप्रीतिकरे मते ॥ १४ ॥
त्रिमुहूर्तात् कलामात्रे हीने पूर्वदिने चरेत् ।
पूर्णश्चेत्त्रिमुहूर्तस्तु उत्तमस्स्याद्रमापतेः ॥ १५ ॥
घटीद्वयार्धं केचित्तु मुहूर्तं प्रवदन्ति हि ।
घटीत्रयं तथा केचिन्मुहूर्तं प्रवदन्ति हि ॥ १६ ॥
एवमिष्टप्रकारेण कुर्याच्छास्त्रविनिश्चितम् ।
शास्त्रस्यास्य तु सिद्धान्तो मुहूर्तो घटिकाद्वयम् ॥ १७ ॥
त्रयस्त्रिंशोऽध्यायः
[[४७८]]
तस्माच्छास्त्रं समालोच्य देवकार्यं समाचरेत् ।
तिथेर्मूलं पितॄणां स्यात् तदन्त्यं दैविकं भवेत् ॥ १८ ॥
मनुष्याणां यथा तद्वदृक्षमालयपूजने ।
षण्मुहूर्तं त्रिमुहूर्तं दीपाष्टम्योर्न लक्षयेत् ॥ १९ ॥
पुष्पयागविधिः - ग्राह्यपुष्पाणि
अथ वक्ष्ये पुष्पयागे ग्राह्यपुष्पसमुच्चयम् ।
श्वेतपुष्पं शान्तिकरं पीतं पुष्पन्तु पौष्टिकम् ॥ २० ॥
विद्वेषणं कृष्णपुष्पं रक्तं वश्यकरं भवेत् ।
एषाञ्च पुष्पवत्पत्रम् अङ्कुराणि तथैव च ॥ २१ ॥
फलं पक्वमपक्वं त्वक् साधनान्यर्चने हरेः ।
पद्मं श्वेतं तथा रक्तं स्थलपद्मं तथैव च ॥ २२ ॥
कुमुदं करवीरञ्च चणकं चम्पकं तथा ।
मल्लिका जातिपुष्पञ्च नन्द्यावर्तञ्च नन्दकम् ॥ २३ ॥
पलाशपुष्पपत्राणि बकं दूर्वाग्रमेव च ।
अन्यानि वन्यपुष्पाणि घ्राणदृष्टिप्रियाणि च ॥ २४ ॥
सर्वेषामपि पुष्पाणां सहस्रगुणमुत्पलम् ।
तस्मात्पद्मं ततश्चापि पद्मन्तु शतपत्रकम् ॥ २५ ॥
तस्मात्सहस्त्रपत्रन्तु पुण्डरीकं ततः परम् ।
पुण्डरीकसहस्राद्धि बकपुष्पं विशिष्यते ॥ २६ ॥
सौवर्णञ्च ततः पुष्पं तुलसी च ततोऽधिका ।
तुलस्यास्तत्प्रसूनाच्च नान्यं विष्णोः प्रियं भवेत् ॥ २७ ॥
[[४७९]]
पुष्पालाभे तुलस्यास्तु पत्रैश्चाप्यर्चयेद्धरिम् ।
तदलाभे च शाखाभिः शिफाभिरथवा मृदा ॥ २८ ॥
पूर्वालाभे परेणापि भक्तिमानर्चयेद्धरिम् ।
अग्राह्यपुष्पाणि
पुष्पाणि वर्जनीयानि सन्ति तानि ब्रवीमि वः ॥ २९ ॥
किणिजं मुनिपुष्पञ्च दुत्तूरं पटलं तथा ।
तथाऽतिमुक्तकञ्चैव पुन्नागं नक्तमालिका ॥ ३० ॥
योथकं क्षीरिकापुष्पं निर्गुण्डी लाङ्गिका जपा ।
कर्णिकारं तथाऽशोकं शाल्मलीपुष्पमेव च ॥ ३१ ॥
क्रतुभं कोविदारञ्च तिलपुष्पं तथैव च ।
अङ्कोलं गिरिपर्णञ्च नीलान्येव च सर्वशः ॥ ३२ ॥
अर्कपुष्पं तथाऽन्यानि अर्कपत्रस्थितानि च ।
व्याघातपिचुमन्दानि सर्वाण्येतानि वर्जयेत् ॥ ३३ ॥
अन्यैरनुक्तैश्च शुक्लैः गन्धवद्भिर्मनोहरैः ।
साद्यस्कैस्साश्रितैः पुष्पैः देवदेवं समर्चयेत् ॥ ३४ ॥
पुष्पापचयप्रकारः
पादौ प्रक्षाल्य पाणी च आचम्य प्रयतो नरः ।
कृताञ्जलिः पुष्पमेकं विचिन्त्योद्दिश्य दैवतम् ।
पुष्परक्षकमानम्य विसृजेत्पूर्वदिङ्मुखम् ॥ ३५ ॥
ततः पुष्पाणि चिनुयात् हस्तेनैव ततः परम् ।
शुद्धे पात्रे निक्षिपेच्च एकैकन्तु पृथक् पृथक् ॥ ३६ ॥
त्रयस्त्रिंशोऽध्यायः
[[४८०]]
शुद्धभूमौ तु पतितं क्षालनात् शुद्ध्यते सुमम् ।
अस्थाने पतितं यत्तु क्षालनेन न शुद्ध्यति ॥ ३७ ॥
भ्रमराघ्रातपुष्पाणि ग्राह्याण्येव भवन्ति हि ।
आह्निकं रात्रिकञ्चापि साद्यस्कं शोभनं मतम् ॥ ३८ ॥
एैकाहिकं तथा पुष्पं द्वितीयेऽहनि च क्वचित् ।
तत्परस्मिन्वोपयुज्यादत ऊर्ध्वं परित्यजेत् ॥ ३९ ॥
पञ्चवर्णं तथा पुष्पं चतुर्वर्णं तथापि च ।
त्रिवर्णञ्चोत्तमं प्रोक्तं द्विवर्णं मध्यमं भवेत् ॥ ४० ॥
अधमञ्चैकवर्णं स्यादिति पूर्वजशासनम् ।
पुष्पयागोत्सवक्रमः
तीर्थाहाच्छ्वः परश्वो वा पुष्पयागोत्सवं चरेत् ॥ ४१॥
उत्सवान्ते राजराष्ट्रग्रामक्षेमाभिवृद्धये ।
तुलसीपद्मपूर्वाणि ग्राह्यपुष्पाणि चाहरेत् ॥ ४२ ॥
आस्थानमण्डपे देवमलङ्कृत्य यथाविधि ।
सम्भारान् यागशालायां सम्भरेत्सकलान् गुरुः ॥ ४३ ॥
सभ्याग्निकुण्डे त्वाघारं कृत्वा कुम्भं निधाय च ।
पुष्पेषु पुष्पाधिदेवमावाह्याभ्यर्चयेत्ततः ॥ ४४ ॥
पुष्पयागोक्तविधिना होमं कुर्याद्विचक्षणः ।
हेमादिपात्रेष्वादाय पुष्पाणि विविधानि च ॥ ४५ ॥
नृत्तगीतमहावाद्यघण्टानादादिभिस्सह ।
पादयोर्देवदेवस्य अर्पयेद्भक्तिसंयुतः ॥ ४६ ॥
[[४८१]]
चतुर्वेदादिमन्त्रांश्च चतुर्वेदांश्च श्रावयेत् ।
पुष्पयागविधिः प्रोक्तः विस्तरेण मरीचिना ॥ ४७ ॥
अत उक्तश्च मयाऽत्यन्तसङ्ग्रहः क्रमरक्षणे ।
तत आराध्य देवेशमर्घ्याद्यैस्सर्वविग्रहैः ॥ ४८ ॥
महाहविः प्रभूतं वा देवेशाय निवेदयेत् ।
अपराधक्षापणञ्च प्रार्थयेयुः पदार्थिनः ॥ ४९ ॥
एवं यः कारयेद्भक्त्या पुष्पयागोत्सवं हरेः ।
सर्वान् कामानवाप्नोति प्रेत्य स्वर्गं समश्नुते ॥ ५० ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे तीर्थोत्सवपुष्पयागविधिर्नाम त्रयस्त्रिंशोऽध्यायः ॥