अथ द्वात्रिंशोऽध्यायः
महोत्सवविधिः
अतः परं प्रवक्ष्यामि क्रमेणैवोत्सवं हरेः ।
अयने विषुवे चैव विष्णुपञ्चदिनेषु वा ॥ १ ॥
यजमानस्य जन्मर्क्षे राज्ञो जन्मर्क्ष एव वा ।
अयने मासनक्षत्रे प्रतिष्ठान्तदिने तथा ॥ २ ॥
उत्सवान्तन्तु सङ्कल्प्य तत्र तीर्थं प्रकल्पयेत् ।
एतेष्वेकं परिग्राह्यं यजमानेच्छया दिनम् ॥ ३ ॥
त्रिविध उत्सवः
उत्सवश्च त्रिधा प्रोक्तः अर्थवद्भिर्हि नामभिः ।
कालश्रध्दानिमित्ताख्यास्तेषां लक्षणमुच्यते ॥ ४ ॥
(त्रयाणामुत्सवानान्तु ध्वजारोहणमाचरेत्)
मासे तु यस्मिन् कस्मिंश्चित्प्रतिसंवत्सरं हरेः ।
क्रियते नियते काले स तु कालोत्सवः स्मृतः ॥ ५ ॥
श्रध्दया भक्तियुक्तेन क्रियते येन केन वा ।
अभीष्टकाले स हरेः श्रद्धोत्सव इतीरितः ॥ ६ ॥
द्वात्रिंशोऽध्यायः
[[४५४]]
उत्पन्नेषु निमित्तेषु त्वनावृष्ट्यादिकेषु यः
क्रियते दोषशान्त्यर्थं स निमित्तोत्सवो भवेत् ॥ ७ ॥
उत्तमञ्चोत्सवञ्चेच्छन् त्रिसप्ताहन्तु कारयेत्
मध्यमं कर्तुकामस्तु दिनानि तु चतुर्दश ॥ ८ ॥
एके नवाहं ब्रुवते मध्यमं तत्र कोविदाः
सप्ताहमधमं कुर्याद्देवदेवस्य तूत्सवम् ॥ ९ ॥
उत्सवारम्भघोषणम्
उत्सवस्य च यावन्ति निर्दिष्टानि दिनानि वै ।
तानि तु त्रिगुणीकृत्य तदादौ घोषणं चरेत् ॥ १० ॥
केचिद्दशदिनात्पूर्वं केचिदेकादशादथ ।
उत्सवादिदिने चापि घोषणं सम्प्रचक्षते ॥ ११ ॥
ध्वजदारूणि
ध्वजार्थं ब्राह्मणानान्तु वेणुदण्ड उदाहृतः ।
नृपाणां जातिवृक्षोत्थः वैश्यानां चम्पकस्तथा ॥ १२ ॥
शूद्राणां क्रमुकश्चैव सम्प्रोक्तः पुष्टिकामिनाम् ।
प्रतिनिधिः
अलाभे तूक्तवृक्षाणां सर्वेषां क्रमुकं हरेत् ॥ १३ ॥
अथवा यज्ञवृक्षाणां सारमिच्छन्ति केचन ।
(मधूकं सालवृक्षञ्च पनसञ्च समाहरेत्
सारवृक्षः पुमान् प्रोक्तः असारः स्त्री नपुंसकः
पुंवृक्षमेव गृह्णीयान्नारीषण्डौ त्यजेद्बुधः)
[[४५५]]
ध्वजदण्डलक्षणं
ध्वजदण्डमृजुं कुर्याद्विमानप्रमितोच्छ्रयम् ॥ १४ ॥
विमानात्पादहीनं वा विमानार्धमथापि वा
यथालाभपरीणाहं गुह्णीयाद्विधिवद्बुधः ॥ १५ ॥
यष्ट्याधारत्रयं कुर्यान्मध्यच्छिद्रसमन्वितम् ।
यमायामर्धविस्तारं दारुणा याज्ञिकेन वै ॥ १६ ॥
लोहकवचम्
(स्वर्णादिकोशसंयुक्तं यथाविभवविस्तरम्
आदिमध्यान्तभागेषु ब्रह्मेशहरिदैवतम्)
तालद्वयव्यवहितौ दण्डाग्राद्विधिवत्ततः ।
यष्ट्याधारं द्वितीये तु योजयेत्तत्क्रमेण वै ॥ १७ ॥
तस्याधस्तात्तृतीये तु यमे चैव तृतीयकं
यमत्रये ततोऽतीते प्रथमं योजयेत्ततः ॥ १८ ॥
ध्वजस्य नैयत्यं
हरेस्तु पुरतो नित्यं भूतपीठं ध्वजस्तथा ।
नियमेन प्रतिष्ठाप्यौ हीनयोर्नोत्सवस्तयोः ॥ १९ ॥
तस्मात्सर्वप्रयत्नेन तयोः संस्थापनं चरेत् ।
प्रतिष्ठोक्तविधानेन प्रतिष्ठां कारयेत्क्रमात् ॥ २० ॥
ध्वजपटलक्षणं
ध्वजायामं ध्वजपटं मूलादग्रान्तमुच्यते ।
अर्धायामं पादसममष्टतालमथापि वा ॥ २१ ॥
द्वात्रिंशोऽध्यायः
[[४५६]]
शुद्धकार्पासवस्त्रेण सुदृढेन नवेन वै ।
आयामोचितविस्तारं यथालाभं समाहरेत् ॥ २२ ॥
पटस्थानं चतुर्धा तु विभज्यैकेन वै शिरः ।
भागद्वयेन वै वंशं पुच्छमेकेन कारयेत् ॥ २३ ॥
(मध्ये हीनञ्च कृत्वा तु पादयोः पुच्छमाहरेत् ।
मध्याद्धीनं तथा कृर्यादग्रान्तञ्च विचक्षणः ।
अग्रे मूलेऽपि च तथा सीव्येत्सूत्रैस्सयष्टिकम्)
पटगरुडः
तन्मध्ये विलिखेद्वीशमासीनं प्राञ्जलिं शुभम् ।
पञ्चवर्णसमायुक्तं नवतालेन मानतः ॥ २४ ॥
आकाशारोहिणं वापि वीरासनमथापि वा ।
वामपादं समाकृञ्च्य दक्षिणं सम्प्रसार्य च ॥ २५ ॥
साञ्जलिश्चोर्ध्वमुत्तिष्ठेदाकाशारोहणं हि तत् ।
पार्श्वयोर्व्यजने कुर्यादुपरि च्छत्रमेव च ॥ २६ ॥
वीशस्य दक्षिणे बाहौ वालं सर्पस्य लेखयेत् ।
सर्पस्य सुमुखस्येत्थं लब्धामृतमनिन्दितम् ॥ २७ ॥
एतत्सर्वं दिवा कृत्वा सायमुद्घोषणं चरेत् ।
मण्डपालङ्कारः
देवालयस्याभिमुखे मण्डपञ्चोपलेपयेत् ॥ २८ ॥
चतुर्दिशं चतुर्हस्तं पञ्चहस्तमथापि वा ।
पञ्चवर्णैरलङ्कृत्य धान्यानि च समास्तरेत् ॥ २९ ॥
[[४५७]]
पुण्याहं वाचयित्वा च प्रोक्षणैः प्रोक्षणं चरेत् ।
पश्चिमे चक्रमुद्दिश्य पीठं कुर्याद्यथोचितम् ॥ ३० ॥
ध्वजदेवं समुद्दिश्य प्राच्यां पीठं प्रकल्पयेत् ।
उत्तरे चामितस्थानं तथा च परिकल्पयेत् ॥ ३१ ॥
पश्चिमे चोन्नते पीठे देवीभ्यां स्थापयेद्धरिम् ।
पटप्रतिष्ठा
पूर्वस्मिन् दिवसे रात्रौ प्रतिष्ठोक्तक्रमेण वै ॥ ३२ ॥
प्रतिष्ठाप्य पटे वीशं समावाह्य समर्चयेत् ।
अलङ्कृतस्त्वथाचार्यः वस्त्राभरणमण्डनैः ॥ ३३ ॥
अभ्यर्चयित्वा देवेशमनुमान्य च मन्त्रतः ।
पुण्याहं वाचयित्वा तु सर्वत्र प्रोक्षणं चरेत् ॥ ३४ ॥
भेरीताडनम्
अलङ्कृत्य च वस्त्राद्यैः भेरीं पारशवं तथा ।
देवस्य पुरतः स्थाप्य भेर्यां नन्दीसमर्चयेत् ॥ ३५ ॥
स्नानपुष्पानुलेपैश्च भवेन्नन्दीशपूजनम् ।
‘भूतेशं विष्णुभक्तञ्च महाभूतं गदाधरम्’ ॥ ३६ ॥
इति भेर्यां समभ्यर्च्य ‘उपश्वास्य’ मन्त्रतः ।
अत्रिप्रोक्तप्रकारेण गद्यतालसमन्वितम् ॥ ३७ ॥
भेरीं सन्ताङ्य प्रथममाचार्यस्तदनन्तरम् ।
ताडयेद्वादकेनाथ क्रतुदीक्षान्वितेन वै ॥ ३८ ॥
द्वात्रिंशोऽध्यायः
[[४५८]]
बलिदानप्रकारः
आचार्यः पुरतो गच्छेत्ततो वाद्यादिसंयुतः
विष्वक्सेनञ्च गरुडं ध्वजं चक्रं पुरो नयेत् ॥ ३९ ॥
बलिद्रव्यञ्च सङ्गृह्य सह शिष्येण देशिकः ।
दद्याद्बलिं द्वारदेशे नित्ययात्राबलिक्रमात् ॥ ४० ॥
ब्रह्मस्थानं ततो गत्वा समभ्यर्च्य बलिं ददेत् ।
देवताह्वानम्
बलिदेवान्त्समावाह्य सर्ववाद्यसमायुतम् ॥ ४१ ॥
घोषयेदेवमुच्चैस्तु सर्वत्र बलिसन्धिषु
‘देवशस्योत्सवं द्रष्टुमागच्छन्त्वत्र देवताः ॥ ४२ ॥
स्वगणैस्सह तिष्ठन्तु बलिं भुञ्जन्तु सादरम्’
एवमुक्त्वा तु सर्वत्र बलिं तेभ्यः प्रदापयेत् ॥ ४३ ॥
पश्चाद्वदे ‘दुत्सवेन चैतेन सुकृतेन वै ।
प्रीयतां भगवान् देव’ इति भक्तियुतो गुरुः ॥ ४४ ॥
इन्द्रादिस्थानमासाद्य तत्तन्मन्त्रमुदीरयन् ।
पूर्वोक्तविधिना कुर्याद्घोषणं वाद्यसंयुतम् ॥ ४५ ॥
वीथीभ्रमणम्
एवं विमानं परीत्य पश्चाद्ग्रामोत्सवं नयेत् ।
आलयोक्तक्रमेणैव वीथीषु चतसृष्वपि ॥ ४६ ॥
दिक्ष्वष्टसु दिशां पालान् समावाह्य समर्च्य च ।
बलिं दद्यात् घोषयेच्च गद्यपद्यसमन्वितम् ॥ ४७ ॥
[[४५९]]
भूतपीठं समासाद्य बलिशेषञ्च निक्षिपेत् ।
ध्वजारोहणक्रमः
पादौ प्रक्षाल्य चाचम्य शान्तादीन् पूर्ववन्न्यसेत् ॥ ४८ ॥
अर्चास्थानं प्रविश्यैव सम्भारानपि सम्भरेत् ।
कूर्मपीठे समासीनः पुण्याहमपि वाचयेत् ॥ ४९ ॥
दशदानञ्च कृत्वैव द्विजेभ्यो दक्षिणां ददेत् ।
(स्थापितश्चेद्ध्वजः पूर्वं यथाशास्त्रं क्रमेण वै ॥ ५० ॥
जलेनाभ्युक्षणं कृत्वा ध्वजदण्डं विशोधयेत्)
‘सुपर्णोऽसीति’ मन्त्रेण पटमारोपयेत्सुधीः ।
ऊर्ध्वयष्ट्या समारोप्य प्रदक्षिणवशं नयेत् ॥ ५१ ॥
चतुर्दशयमायामामृजुं यष्टिं प्रगृह्य च ।
तदग्रात्संव्यपोह्यैव त्रितालं वै विधानवित् ॥ ५२ ॥
पटं तत्रैव बध्नीयात्पाशेन सुदृढेन वै ।
नारिकेलयुताग्रञ्च तत्त्वचा कृतरज्जुना ॥ ५३ ॥
तन्तुरज्जुयुतेनापि दर्भरज्ज्वा सवंशया ।
यष्ट्याधारत्रये सम्यग्योजयित्वा तु बन्धयेत् ॥ ५४ ॥
प्रतिष्ठितध्वजहीने
(संव्यपोह्य चतुस्तालं पृष्ठे यूथाधिपस्य तु ।
पूर्वं प्रतिष्ठाहीने तु येन केनापि हेतुना ।
कालोत्सवे तु सम्प्राप्ते ध्वजं संस्थापयेत् द्रुतम् ।
खानयित्वा ध्वजस्थाने त्रितालं निम्नमेव तु ।
द्वात्रिंशोऽध्यायः
[[४६०]]
स्थापयित्वा ध्वजं तत्र ध्वजमन्त्रेण मन्त्रवित् ।
पीठं कुर्याञ्च तन्मूले त्रिवेदिसहितं क्रमात् ।
दण्डात्रितालविस्तीर्णं प्रतिदिक् चतुरङ्गुलम् ।
एवं स्यात्प्रथमा वेदिः द्वितीया तु द्वितालका ।
तृतीया चैकताला स्यादेकैकं तालमुन्नतम् ।
अथवा कलयेद्विद्वान् चतुरश्रं समन्ततः ।
द्वितालमात्रमायामं तथा तालद्वयोन्नतम् ।
प्रतिष्ठोक्तक्रमेणैव स्थापयेद्ध्वजदण्डकम् ।
पुण्याहं वाचयित्वा तु ध्वजमारोपयेत्पटम्) ।
दर्भमालाचूतपत्रतोरणादीनि बन्धयेत् ।
ध्वजमूलेऽर्चयित्वा तु पुष्पगन्धाक्षतादिभिः ॥ ५५ ॥
धूपं दीपं समर्प्यार्घ्यं मुद्गान्नञ्च निवेदयेत् ।
पटगरुडार्चनं
ध्वजं पटस्थं गरुडं त्रिषु सन्धिषु पूजयेत् ॥ ५६ ॥
द्विकालं मध्यमं प्रोक्तमधमञ्चैककालिकम् ।
गरुडनिवेदितान्नभक्षणफलं
वीशार्पितञ्च मुद्गान्नं वन्ध्या या भुञ्जते स्त्रियः ॥ ५७ ॥
तास्सुपुत्रानवाप्यैव भवेयुर्जीवभर्तृकाः ।
महाभूतार्पितान्नञ्च भुञ्जीयाद्योऽपि वा नरः ॥ ५८ ॥
भूतप्रेतपिशाचादिभयान्मुच्येत सोऽनघः ।
आब्रह्मभुवनाद्देवानुत्सवार्थं समाह्वयेत् ॥ ५९ ॥
[[४६१]]
ग्रामालङ्कारादि
(उत्सवारम्भकाले तु ग्रामस्थाः ग्रामवासिनः ।
अन्यत्र यदि गच्छेयुः कार्यार्थं शुभकाङ्क्षिणः ।
प्रतिगच्छेयुरेवात्र अर्वाक् तीर्थदिनात्ततः ।
सिद्धवत्कारयेच्चैव रङ्गादीन् साधयेच्छुभान् ।
आलयात्पुरतो वापि दक्षिणे वा मनोरमम् ।
पूर्ववद्यागशालार्थं षोडशस्तम्भसंयुतम् ।
मण्डपं वाथ कूटं वा प्रपां वाऽलङ्कृतं स्थलम् ।
समीकुर्यात् विधानेन यथाविभवविस्तरम् ।
क्रियते यन्न वै विष्णोरुत्सवो विधिपूर्वकः ।
तं ग्रामञ्चाप्यलङ्कुर्यात्तत्र रथ्या विशेषतः) ।
उत्सवादिदिने विद्वान् अपराह्णे यथाक्रमम् ।
मृत्तिकाग्राहणं कुर्यादङ्कुरार्थं विशेषतः ॥ ६० ॥
उत्सवाङ्गस्नपनम् - आचार्यवरणम्
एतत्पूर्वन्तु मध्याह्ने देवेशस्नपनं चरेत् ।
सायं नित्यार्चनान्ते तु आचार्यो देवसन्निधौ ॥ ६१ ॥
स्वर्णादिपात्रे सन्न्यस्य द्विप्रस्थं तण्डुलं कुशम् ।
नालिकेरञ्च ताम्बूलं निष्कं सौवर्णदक्षिणाम् ॥ ६२ ॥
नी ‘त्वोत्सवं कुरु’ ष्वेति यजमानेन पूजितः ।
आचार्यस्सुप्रसन्नात्मा ‘प्रीयतां भगवा’ निति ॥ ६३ ॥
प्रार्थनासूक्तमुच्चार्य देवेशं प्रणमेत्तदा ।
शिष्यहस्ते ददेत्पात्रं चक्रशान्तौ समानयेत् ॥ ६४ ॥
द्वात्रिंशोऽध्यायः
[[४६२]]
पूर्वोक्तां दिशमुद्दिश्य गच्छेत्सूक्तजपैस्सह ।
आचार्यस्साधनैर्युक्तः शिष्येण सहितो व्रती ॥ ६५ ॥
मृत्सङ्ग्रहणं
गोमयेनोपलिप्ते तु पुण्याहजलपाविते ।
संस्थाप्य देशे शान्तादीन् पुण्याहं वाचयेत्पुनः ॥ ६६ ॥
मृत्सङ्ग्रहणदेशः - तत्र गमनं
ध्वजतूर्यादिकान् सर्वान् पुरस्कृत्य ततो व्रजेत् ।
प्राच्यां सर्वसमृद्धिस्स्यात् आग्नेय्यां धान्यनाशनम् ॥ ६७ ॥
याम्ये जनविनाशः स्यात् र्नैॠत्यां धननाशनम्
अनावृष्टिश्च वारुण्यां राजकोपश्च पावनौ ॥ ६८ ॥
सौम्ये पुत्रसमृद्धिस्स्यादैशान्यां सुखदं भवेत्
एतासान्तु दिशां मध्ये प्रशस्तास्स्युरथान्तराः ॥ ६९ ॥
नवतालेन मानेन वर्तुलां कल्पयेद्भुवम् ।
वाल्मीक्या मृत्स्नया पञ्चवर्णैस्सम्यगलङ्कृताम् ॥ ७० ॥
समालिखेत्तत्र देवीं हरिणीं हरिवल्लभाम् ।
ऊर्ध्ववक्त्राञ्ञ्च शयिताम् ऐशान्ये न्यस्तमस्तकाम् ॥ ७१ ॥
र्नैॠतन्यस्तपादाब्जां मेदिनीं परिकल्पयेत् ।
तामर्घ्यान्तं समभ्यर्च्य प्रोक्षणैः प्रोक्षणं चरेत् ॥ ७२ ॥
‘उद्धृतासि वराहे’ ति वराहं भावयेद्गुरुः ।
एकादशोपचारैश्च भूसूक्तेनार्चयेत्क्रमात् ॥ ७३ ॥
तत्पूर्वे वीशमभ्यर्च्य दक्षिणे चक्रमर्चयेत् ।
वस्त्रेण भूषणैर्माल्यैर्गन्धैर्देवीञ्च भूषयेत् ॥ ७४ ॥
[[४६३]]
ततोऽनुज्ञाप्य तां देवीं तदङ्गे मृदमाहरेत् ।
ललाटे सर्वदोषघ्नं बाह्वोर्बहुसुवर्णदम् ॥ ७५ ॥
स्तनद्वये वयोवृद्धिः जठरे सर्वसम्पदः ।
अधःकाये मृदं तत्र नाहरेत कदाचन ॥ ७६ ॥
एवं ज्ञात्वा विधानेन मेदिनीं मनसा स्मरन् ।
‘त्वां खना’ मीति चोक्त्वा तु खनित्रं घनमाहरेत् ॥ ७७ ॥
उभाभ्यामपि हस्ताभ्यां खनित्रेण खनेद्भुवम् ।
महीं देवीमनुज्ञाप्य तालनिम्नन्तु खानयेत् ॥ ७८ ॥
अपोह्योर्ध्वगतां मृत्स्नां तदधोभागगां मृदम् ।
उच्चरन् वैष्णवान् मन्त्रान् शुद्धपात्रे तु सङ्ग्रहेत् ॥ ७९ ॥
सौवर्णे राजते वापि ताम्रे कांस्येऽथ मृण्मये ।
चक्रशान्तौ समभ्यर्च्य अपूपांश्च निवेदयेत् ॥ ८० ॥
पश्चाद्गन्धांश्च ताम्बूलं दक्षिणाञ्च विशेषतः ।
दद्यादाचार्यपूर्वेभ्यो द्विजेभ्यो देवसन्निधौ ॥ ८१ ॥
आलयप्रवेशः
सर्ववाद्यसमायुक्तो मृदमादाय वाहने ।
शिरसा धारयित्वा वा पुरस्ताच्छक्रशान्तयोः ॥ ८२ ॥
ग्रामप्रदक्षिणं नीत्वा देवालयमुपाव्रजेत् ।
अङ्कुरार्पणम्
आलयस्योत्तरे पार्श्वे प्रथमावरणे क्रमात् ॥ ८३ ॥
द्वात्रिंशोऽध्यायः
[[४६४]]
अङ्कुरानर्पयित्वा तु उत्सवारम्भमाचरेत् ।
उत्तमं मध्यमं वापि कारयेदुत्सवं ततः ।
तीर्थोक्तदिवसात्पूर्वं नवमे वाथ सप्तमे ॥ ८४ ॥
पञ्चमेऽहनि वा कुर्यादेवमेवाङ्कुरार्पणम् ।
(मरीच्युक्त विधानेन कारयेदङ्कुरार्पणम्) ॥ ८५ ॥
सूत्रोक्तविधिना कुर्याद्वास्तुहोमं सगव्यकम् ।
पटस्थगरुडस्यापि अक्ष्युन्मेषणपूर्वकम् ॥ ८६ ॥
प्रोक्षणञ्चाधिवासार्थं शोषणादीनि कारयेत् ।
उक्तन्याससमायुक्तं प्रतिष्ठाञ्च समाचरेत् ॥ ८७ ॥
वीथ्यादीनां विशुद्ध्यर्थं पर्यग्निकरणं चरेत् ।
पूर्वेद्युरेव सायाह्ने कुर्याद्वाऽह्नि तु मध्यमे ॥ ८८ ॥
उत्सवक्रमः
अत ऊर्ध्वं प्रवक्ष्यामि विधिनैवोत्सवक्रमम् ।
प्रथमेऽहनि सायञ्च प्रदोषे च विशेषतः ॥ ८९ ॥
विष्णोस्सपरिवारस्य विशेषेण मुदाऽन्वितः ।
पूजाञ्च कारयेद्भक्त्या यजमानस्स्वशक्तितः ॥ ९० ॥
आरम्भादासमाप्तेस्तु सायं प्रातर्दिने दिने ।
नित्यहोमः
आज्येन चरुणा मूर्तिहोमं कुर्याद्दिवासन्ध्ययोः ॥ ९१ ॥
सर्वेभ्यः परिवारेभ्यः यथावद्विधिकोविदः ।
[[४६५]]
दिनदैवत्यम्
प्रथमं ब्रह्मदैवत्यमार्षं स्यात्तु द्वितीयकम् ॥ ९२ ॥
तृतीयं वै रौद्रमाहुश्चतुर्थं वासवं स्मृतम् ।
पञ्चमं सोमदैवत्यं षाष्ठं वैष्णवमुच्यते ॥ ९३ ॥
सप्तमं सर्वदैवत्यमष्टमं याम्यमेव च ।
नवमञ्चार्षकं प्रोक्तं दशमं सौरमुच्यते ॥ ९४ ॥
कौबेरमेकादशकं वायव्यं द्वादशं स्मृतम् ।
त्रयोदशं स्यात्कौमारं रौहिणन्तु चतुर्दशम् ॥ ९५ ॥
ततः पञ्चदशञ्चैव वैष्णवं परिकीर्तितम् ।
सौरन्तु षोडशं सप्तदशं कौबेरमुच्यते ॥ ९६ ॥
अष्टादशं नृसूक्तं कौमारमेकोनविंशकम् ।
वैघ्नं विंशतिकं प्राहुरेकविंशञ्च वैष्णवम् ॥ ९७ ॥
प्रथमेऽह्नि प्रभाते तु देवीभ्यां सहितं हरिम् ।
अलङ्कृत्य विशेषेण वस्त्रैराभरणैरपि ॥ ९८ ॥
पीठे संस्थाप्य चादाय नयेदास्थानमण्डपम् ।
आरोप्य चोन्नते पीठे परिवारांश्च पूर्ववत् ॥ ९९ ॥
पुण्याहं ताडनं भेर्याः देवाह्वानञ्च कारयेत् ।
विष्वक्सेनमलङ्कृत्य गारुडं पटमादरात् ॥ १०० ॥
चक्रञ्च गन्धैर्माल्याद्यैः छत्रचामरपिञ्छकैः ।
द्रोणैः द्रोणार्धकैर्वापि तदर्धैर्वापि तण्डुलैः ॥ १०१ ॥
द्वात्रिंशोऽध्यायः
[[४६६]]
निष्पावैश्च कुलुत्थैश्च सलाजैस्सक्तुभिस्तथा ।
पाचयित्वा विधानेन मुद्गतिल्वसमन्वितम् ॥ १०२ ॥
अपूपैरपि संयुक्तं कटाहे प्रक्षिपेद्बलिम् ।
पुष्पं तोयं धूपदीपगन्धाक्षतयुतं तथा ॥ १०३ ॥
घण्टानादसमायुक्तं सर्ववाद्यसमन्वितम् ।
बलिद्रव्यं समादाय द्वारपालपुरस्सरम् ॥ १०४ ॥
बलिं दद्यात् विधानेन चक्रस्य पुरतो व्रजेत् ।
चक्रस्य पश्चिमे वीशं तत्पुष्ठे चामितं नयेत् ॥ १०५ ॥
बलिर्देयः प्रयत्नेन बलिवाद्यसमन्वितम् ।
आचार्यो हरिरूपस्स्याच्छत्रचामरसंयुतः ॥ १०६ ॥
सर्वालङ्कारसंयुक्तः सर्ववाद्यसमन्वितः ।
जनैः परिवृतो गच्छेद्यजमानश्च हर्षितः ॥ १०७ ॥
चतुष्कोणे त्रिकोणे च द्विवीथ्यन्तरवीथिषु ।
सन्धौ सन्धौ बलिं दद्याद्भूतादिभ्यो यथाक्रमम् ॥ १०८ ॥
मध्यमं सन्धिमास्थाय भूतेभ्यः सर्वतः क्षिपेत् ।
यक्षेभ्यो दक्षिणे दद्यात्पिशाचेभ्यश्च पश्चिमे ॥ १०९ ॥
उत्तरे नागमुख्येभ्य इत्युक्त्वा मन्त्रवित्तमः ।
‘ये भूता’ इति मन्त्रेण दिश्यूर्ध्वायाञ्च निक्षिपेत् ॥ ११० ॥
तोयं दत्वा तु पूर्वं वै पुष्पञ्च तदनन्तरम् ।
गन्धान् दद्यात्ततः पश्चात् धूपं दीपं ततः परम् ॥ १११ ॥
बलिं पश्चात् क्षिपेत्तत्र पश्चात्तोयं समर्पयेत् ।
एवं प्रदक्षिणवशात् बलिं ग्रामे विनिक्षिपेत् ॥ ११२ ॥
[[४६७]]
राजधानी यदि भवेद्राजवेश्माङ्कणेऽपि च ।
इन्द्राय तु बलिं दद्यात् बलिमन्त्रमुदीरयेत् ॥ ११३ ॥
‘इन्द्राय विष्णवे तुभ्यं नमोऽस्तु पृथिवीपते ।
रक्षस्व जगतीमेतामपि मा’ मिति चोच्चरेत् ॥ ११४ ॥
जयश्रियै च तत्पार्श्वे शचीदेव्यै च निक्षिपेत् ।
शङ्खपद्मनिधिभ्याञ्च तत्रैव द्वारपार्श्वयोः ॥ ११५ ॥
पश्चादैन्द्रादिकं स्थानमासाद्य तु क्षिपेद्बलिम् ।
पश्चादालयमाविश्य बलिशेषं प्रगृह्य च ॥ ११६ ॥
भूतपीठे विनिक्षिप्य
पश्चादभ्यन्तरं विशेत् ।
चक्रादींश्च प्रतिष्ठाप्य
तत्तत्स्थाने यथाक्रमम् ॥ ११७ ॥
बलिं पश्चाद्यथापूर्वं तथैव च विसर्जयेत् ।
मुहूर्ते पटमारोप्य देवेशाय निवेदयेत् ॥ ११८ ॥
मुद्गान्नञ्च ध्वजस्थाय गरुडाय निवेदयेत् ।
ततो देवेशमादाय सर्वालङ्कारसंयुतम् ॥ ११९ ॥
ध्वजन्तु त्रिः परिक्रम्य यागस्थानं निनीय च ।
अङ्कुरानर्पयित्वा तु उत्सवार्थं विशेषतः ॥ १२० ॥
सभ्याग्निकुण्डे चाब्जाग्नौ कुर्यादाघारमेव च ।
द्वात्रिंशोऽध्यायः
[[४६८]]
प्रतिसरः
स्वर्णादिपात्रे द्विप्रस्थतण्डुलान् न्यस्य तत्र च ॥ १२१ ॥
नालिकेरं तदुपरि सौवर्णं कौतुकं न्यसेत् ।
तस्मिन् शेषं समावाह्य स्वस्तिसूक्तं तथा बुधः ॥ १२२ ॥
‘कृणुष्व पाज’ सूक्तञ्च जप्त्वाऽलङ्कारसंयुतः ।
आचार्यो यजमानश्च सर्ववाद्यसमायुतः ॥ १२३ ॥
घण्टानादेन च तथा कृत्वा सद्मःप्रदक्षिणम् ।
उद्दिष्टस्थानमावेश्य देवेशं सम्प्रणम्य च ॥ १२४ ॥
अथवा मण्डपे स्थाप्य प्रणम्य च यथाविधि ।
देवस्य दक्षिणे हस्ते देव्योर्वामकरे तथा ॥ १२५ ॥
गरुत्मदमितारीणां गुरोश्चैव पदार्थिनाम् ।
बध्नीयाद्दक्षिणकरे रक्षासूत्रं समन्त्रकम् ॥ १२६ ॥
ततोऽर्चयित्वा देवेशं यागशालां प्रविश्य च ।
नवकुम्भान् सुसंसाध्य कुम्भेष्वावाहनं चरेत् ॥ १२७ ॥
अत्रिप्रोक्तक्रमेणैव मूर्तिहोमं हुनेत्ततः ।
निवेदयेद्धविस्सम्यक् देवदेवाय शार्ङ्गिणे ॥ १२८ ॥
(प्रथमेऽह्नि प्रभायां वा हंसे वाऽऽरोहयेत्प्रभुम् ।
कण्ठीरवे द्वितीये तु तृतीये तु हनूमति ॥ १२९ ॥
तुरीये पक्षिराजे स्यादनन्ते पञ्चमेऽहनि ।
षष्ठेऽहनि गजेन्द्रे तु रोपयित्वोत्सवं चरेत् ॥ १३० ॥
सप्तमेऽहनि मध्याह्ने निशाचूर्णेन स्नापयेत् ।
प्रभायामुत्सवं कुर्यात्सायङ्काले विशेषतः ॥ १३१ ॥
[[४६९]]
विमाने पुष्पके रात्रौ तुरगेन्द्रे तथाऽष्टमे ।
नवमे देवदेवस्य प्रभाते स्याद्रथोत्सवः ॥ १३२ ॥
शिबिकान्दोलिकाव्यालपुन्नागा गोपवर्धनम् ।
सायमेवं तथा प्रातः उत्सवे स्याद्दिने दिने ) ॥ १३३ ॥
रङ्गे वा शिबिकायां वा वस्त्रमाल्यादिशोभिते ।
रथे वाऽऽरोप्य यत्नेन ‘प्रतद्विष्णु’रिति ब्रुवन् ॥ १३४ ॥
चामरैर्व्यजनैरन्यैः छत्रैः पिञ्छैस्समन्वितम् ।
ग्रामं प्रदक्षिणीकुर्याद्वाद्यघोषसमन्वितम् ॥ १३५ ॥
तत्राऽचार्यं पुरस्कृत्य वेदस्तुतिपरायणाः ।
नृत्तगेयमहावीणागीतवादित्रवादकाः ॥ १३६ ॥
अनुगच्छेयुरानन्दवशास्ते सिद्धिमाप्नुयुः ।
उत्सवे येऽनुगच्छन्ति चतुर्वर्णसमुद्भवाः ॥ १३७ ॥
ते सर्वे वैष्णवा ज्ञेयाः स्पर्शदोषोऽत्र नो भवेत् ।
अन्नं भक्ष्याणि पक्वानि भोज्यानि विविधानि च ॥ १३८ ॥
महानसात्सुसिद्धानि समादाय निवेदयेत् ।
फलानि नारिकेलञ्च गुलं ताम्बूलमेव च ॥ १३९ ॥
अपक्वानि तु वस्तूनि विना मन्त्रं समर्पयेत् ।
देवे तु वाहनारूढे तत्पीठे पूजकस्सदा ॥ १४० ॥
आसीनोऽप्यथवा तिष्ठन् यथोक्तं पूजयेद्धरिम् ।
द्वात्रिंशोऽध्यायः
[[४७०]]
घटदीपः
ततः प्रविश्य चागारं पाद्याद्यैरभिपूज्य च ॥ १४१ ॥
तिष्ठते देवदेवाय घटदीपं प्रदर्शयेत् ।
आचार्यो वाऽर्चको वापि हरिद्राचूर्णमिश्रितान् ॥ १४२ ॥
‘अतो देवादि’ मन्त्रैस्तु अन्नपिण्डान् प्रगृह्य वै ।
हस्ताभ्यां देवदेवन्तु परीत्य त्रिः प्रदक्षिणम् ॥ १४३ ॥
भ्रामयित्वा चतुर्दिक्षु क्रमेणैव समुक्षिपेत् ।
घटकुम्भं समादाय गणिका समलङ्कृता ॥ १४४ ॥
सर्ववाद्यसमायुक्तं कारयेत्त्रिः प्रदक्षिणम् ।
पश्चात्पक्वमपक्वं वा भक्ष्यं दद्यात्तदा रहः? ॥ १४५ ॥
अन्तः प्रवेशयित्वा च पुण्याहं वाचयेत्ततः ।
स्नापयित्वा ततो देवं सन्ध्यापूजां समाचरेत् ॥ १४६ ॥
प्रातःकालेऽर्चनं कृत्वा कारयेत्प्रातरुत्सवम् ।
तथा सायार्चनान्ते वै रात्र्युत्सवमथाचरेत् ॥ १४७ ॥
एवमेव क्रमेणैव शिष्टाहेषु च श्रद्धया ।
कारयेदुत्सवं सायं प्रातर्देवस्य शार्ङ्गिणः ॥ १४८ ॥
तीर्थस्नानदिनात्पूर्वं रात्रौ तत्र विचक्षणः ।
सायं कालोत्सवं कृत्वा रात्रिपूजां समाप्य च ॥ १४९ ॥
चक्रं प्रतिसरञ्चापि कृत्वा ग्रामप्रदक्षिणम् ।
चक्रं संस्नाप्य तीर्थे तु ततो देवालयं विशेत् ॥ १५० ॥
[[४७१]]
यमपावकयोर्मध्ये पूर्वोक्तेन क्रमेण वै ।
बद्ध्वा प्रतिसरं पश्चात् शयने शाययेद्धरिम् ॥ १५१ ॥
पुनः प्रभाते धर्मात्मा स्नात्वा स्नानविधानतः ।
शयनाद्देवमुत्थाप्य चार्घ्यान्तमभिपूज्य च ॥ १५२ ॥
पूर्वोक्तेनैव विधिना प्रातरुत्सवमाचरेत् ।
रथं त्रिः सम्परिक्रम्य सर्वालङ्कारशोभितम् ॥ १५३ ॥
तस्मिन् देवेशमारोप्य श्रीभूमिसहितं प्रभुम् ।
सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतम् ॥ १५४ ॥
ग्रामप्रदक्षिणं नीत्वा समभ्यर्च्यावरोपयेत् ।
डोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम् ॥ १५५ ॥
रथस्थं केशवं दृष्ट्वा न पुनर्जायते नरः ।
चूर्णोत्सवः
आस्थाने स्थापयेद्देवं नृत्तगेयसमन्वितम् ॥ १५६ ॥
हरिद्रां चूर्णयित्वा तु शुद्धैर्भक्तान्वयोद्भवैः ।
पूरयित्वा तेन कुम्भान् धान्यवेद्यां त्वभिक्षिपेत् ॥ १५७ ॥
पुण्याहसलिलेनोक्ष्य अधिदेवान् समर्चयेत् ।
स्नपनान्ते देवदेवं चूर्णैः संस्नापयेत्क्रमात् ॥ १५८ ॥
चक्रञ्च स्नापयेच्चूर्णैः पश्चाद्ग्रामप्रदक्षिणम् ।
नाथवन्नाययेद्देवं सर्ववाद्यसमन्वितम् ॥ १५९ ॥
चूर्णशेषञ्च भक्तेभ्यो दापयेद्विकिरेत्ततः ।
द्वात्रिंशोऽध्यायः
[[४७२]]
तीर्थोत्सवः
तीर्थोन्मुखं देवदेवमनुगच्छेयुरादरात् ॥ १६० ॥
भक्तास्तीर्थेऽवगाहार्थं तीर्थराजं विशेषतः ।
समुद्रं वा नदीं वापीं तटाकं वाऽथ निर्झरम् ॥ १६१ ॥
तत्र पीठे समावेश्य देवदेवं जगद्गुरुम् ।
देवदेवस्य पुरतः कलशान् पञ्च विन्यसेत् ॥ १६२ ॥
तण्डुलोपरि वेद्यान्तु वस्त्रालङ्कारसंयुतान् ।
मृत्तोयं मध्यमे न्यस्येत्पूर्वे चैव कुशोदकम् ॥ १६३ ॥
पुष्पोदकन्तथा याम्ये गन्धतोयञ्च वारुणे ।
सौम्येऽक्षतोदकं न्यस्य अधिदेवान्त्समर्चयेत् ॥ १६४ ॥
अङ्कुराणि च तत्रैव परितः स्थापयेत्ततः ।
‘आपो हिष्ठा’ दिभिर्मन्त्रैः प्रोक्षयेच्छ्रीमहीपतिम् ॥ १६५ ॥
तत्तन्मन्त्रं समुच्चार्य प्रोक्षयेत्कलशोदकैः ।
चक्रं पश्चात् समभ्युक्ष्य शिष्टतोयैश्च स्नापयेत् ॥ १६६ ॥
पश्चाच्चक्रं तीर्थतोये मुहूर्ते मज्जयेच्छुभे ।
तत्काले सह चक्रेण कुर्युः स्नानं महाजनाः ॥ १६७ ॥
पश्चादालयमाविश्य कलशैः स्नापयेद्धरिम् ।
जीवस्थाने प्रतिष्ठाप्य प्रभूतञ्च निवेदयेत् ॥ १६८ ॥
ततस्सन्ध्यार्चनादीनि क्रमाच्चैव समाचरेत् ।
तस्मिंस्तु तीर्थनक्षत्रे पूर्वरात्रौ विशेषतः ॥ १६९ ॥
केवलं बलिमादाय देवैश्चक्रादिभिर्विना ।
पूर्ववत् निर्वपेत्सर्वस्थानेषु क्रमशो बलिम् ॥ १७० ॥
[[४७३]]
तत्तन्मन्त्रं समुच्चार्य भवेद्ग्रामहिताय सः ।
यत्र यत्र बलिस्थानं तत्र तत्र च घोषयेत् ॥ १७१ ॥
शून्यालयप्रदेशेषु चैत्यवृक्षश्मशानयोः ।
वापीकूपतटाकादौ प्रक्षिपेद्बलिमादरात् ॥ १७२ ॥
तत्तत्स्थानस्थभूतानामिदमित्यनुचिन्तयन् ।
स्नात्वाऽग्निसन्निधौ पश्चात् देवालयमुपाव्रजेत् ॥ १७३ ॥
ध्वजावरोहणम्
उत्सवार्थं समायातास्सर्वे यान्तु यथागतम् ।
शान्तिरस्त्विति चोक्त्वा तु पटं समवरोपयेत् ॥ १७४ ॥
पौराणिकेषु स्थानेषु तथा पर्वतसानुषु ।
नदीतीरेऽन्यत्र वापि वेलायां सागरस्य वा ॥ १७५ ॥
आलयो यत्र सङ्क्लृप्तः तत्रैवोत्सवमाचरेत् ।
यत्रैव क्रियते विष्णोरुत्सवस्सर्वशान्तिदः ॥ १७६ ॥
तस्मिन् देशेऽन्यदेवानामुत्सवं नैव कारयेत् ।
देवदेवप्रतिष्ठादिदेवकार्ये महोत्सवे ॥ १७७ ॥
न कुर्युः शुभकर्माणि गृहेषु ग्रामवासिनः ।
यदि कुर्युः प्रमादाद्वै न सुखं प्राप्नुयुः ध्रुवम् ॥ १७८ ॥
आचार्यपूर्विका यस्मात् क्रियाः शास्त्रेषु चोदिताः ।
तस्मात् सर्वप्रयत्नेन यजमानस्स्वशक्तितः ॥ १७९ ॥
सौवर्णैर्भूषणैर्वस्त्रैः गोभूम्यादिभिरादरात् ।
आचार्यं पूजयेत्पूर्वं नियुक्तांश्च पदार्थिनः ॥ १८० ॥
द्वात्रिंशोऽध्यायः
[[४७४]]
फलश्रुतिः
एवं यः कारयेद्भक्त्या देवदेवस्य चोत्सवम् ।
देहान्ते बन्दुभिः गच्छेद्विष्णुलोकन्तु पञ्चमिः ॥ १८१ ॥
शान्तिस्स्यात् सर्वलोकानां दुःखानाञ्च निवारणम् ।
वर्षदं सर्वलोकानां सस्यानामभिवृद्धिदम् ॥ १८२ ॥
राष्ट्राभिवृद्धिदञ्चैव राज्ञाञ्च बलवर्धनम् ।
ॠद्धिदं सन्ततीनां स्याद्वेदानामपि बृंहणम् ॥ १८३ ॥
भेरीपटहशङ्खानां यावदाप्नोति वै ध्वनिः ।
पिशाचप्रेतरक्षांसि तावन्नैव विशन्त्यपि ॥ १८४ ॥
तस्मात्सर्वप्रयत्नेन कारयेदुत्सवं हरेः ।
अशक्तस्य एकाहोत्सवप्रकारः
एैकाहिकोत्सवं वक्ष्ये चतुर्मुखसमीरितम् ॥ १८५ ॥
श्रवणे मासनक्षत्रे राजजन्मर्क्ष एव वा ।
एकादश्याञ्च द्वादश्यां तथा मकरसङ्क्रमे ॥ १८६ ॥
भक्तिश्रद्धे यदा स्यातां कुर्यादैकाहिकोत्सवम् ।
पूर्वेद्युरेव शर्वर्यां रात्रिपूजावसानके ॥ १८७ ॥
समभ्यर्च्य च देवेशं हविर्भिस्सन्निवेद्य च ।
पूर्वोक्तेन विधानेन बद्ध्वा प्रतिसरं ततः ॥ १८८ ॥
शयने शाययेद्देवं शयनोक्तविधानतः ।
प्रभाते पुनरुत्थाप्य श्रीभूमिसहितं हरिम् ॥ १८९ ॥
[[४७५]]
अर्घ्यान्तमर्चयित्वा तु वस्त्रालङ्कारभूषणैः ।
सुमनोभिरलङ्कुर्याद्यावन्नेत्रमनःप्रियम् ॥ १९० ॥
वीशचक्रमितान् देवान् पूजयेद्बलिसंयुतान् ।
हविर्निवेदयेद्बिम्बाभावे पात्रेऽथवाऽर्चयेत् ॥ १९१ ॥
उत्सवोक्तमलङ्कारं सर्वमन्यं प्रकल्पयेत् ।
ध्वजस्यारोपणं नेष्टमङ्कुरारोपणं तथा ॥ १९२ ॥
चक्रमग्रे बलिं पश्चात्
ततो वीशं ततो बलिम् ।
प्रस्थाप्यैवं क्रमात् पश्चात्
उत्सवोक्तक्रमेण वै ॥ १९३ ॥
उत्सवोक्तविधानेन बलिद्रव्यैस्सुसाधितैः ।
रथमारोप्य देवेशं पीठिकां रङ्गमेव वा ॥ १९४ ॥
ग्रामप्रदक्षिणं कुर्याद्बलिमार्गक्रमेण वै ।
प्राप्य देवालयं पश्चादुत्सवोक्तक्रमेण वै ॥ १९५ ॥
वाद्यैश्चतुर्विधैर्गानैः नृत्तभेदैः स्तवैरपि ।
गद्यैः पद्यैस्तथाऽन्यैश्च विभवैरभिनन्दयेत् ॥ १९६ ॥
ततो हरिद्रचूर्णेन विकिरेत् देवमूर्धनि ।
स्नपनोक्तेन मार्गेण ततः संस्नापयेद्धरिम् ॥ १९७ ॥
प्रभूतञ्च हविर्दद्यात् हवींषि विविधानि च ।
पूजयेच्च हरिं देवमेवं बहुलविग्रहैः ॥ १९८ ॥
ऐकाहिकोत्सवं त्वेवं यो देवेशस्य कारयेत् ।
सप्तजन्मकृतात्पापात्स मुच्येत न संशयः ॥ १९९ ॥
द्वात्रिंशोऽध्यायः
[[४७६]]
ग्रामशान्तिश्च सर्वोपद्रवशान्तिस्तथा भवेत् ।
अल्पयत्नेन सिद्ध्येत महायत्नकृतं फलम् ॥ २०० ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे महोत्सविधिर्नाम द्वात्रिंशोऽध्यायः ॥