३१ उत्सवचक्रलक्षणम्

अथ एकत्रिंशोऽध्यायः

उत्सवचक्रलक्षणम्

अथोत्सवार्थं चक्रस्य सम्प्रवक्ष्यामि लक्षणम् ।
मानाङ्गुलप्रमाणेन विष्कम्भो द्वादशाङ्गुलम् ॥ १ ॥
तस्यावरणपट्टस्य विस्तारः कोलको भवेत् ।
आरकूटप्रदेशस्य घनमेकाङ्गुलोन्नतम् ॥ २ ॥
विस्तारश्चारकूटस्य वह्न्यङ्गुलमुदाहृतम् ।
अर्धाङ्गुलाधिकाः प्रोक्ता आराश्च चतुरङ्गुलाः ॥ ३ ॥
वेणुपत्रसमाकाराः चतुरश्रा विशेषतः ।
अराः षोडश चोद्दिष्टाः ते यथायोगबन्धनाः ॥ ४ ॥
कूटमध्यं विजानीयात्फुल्लपङ्कजसन्निभम् ।
पृष्ठं तस्य विनिर्दिष्टं पद्मस्य मुकुलोपमम् ॥ ५ ॥
प्रभाज्वालासमज्वालात्रितयेन युतं तु यत् ।
वल्ली समचतुर्लेखा पट्टमध्यं विनिर्दिशेत् ॥ ६ ॥
योगदण्ड अधः स्यात्तु कोलकायाम इष्यते ।
नाहस्तस्य समुद्दिष्टः गुरुभिश्चतुरङ्गुलः ॥ ७ ॥

[[४५१]]

फलकायामविस्तारौ पञ्चाङ्गुलमितौ स्मृतौ ।
उभयोः पार्श्वयोः कुर्यादुभौ सिंहौ व्यवस्थितौ ॥ ८ ॥
तस्याधस्ताच्च कुम्भञ्च यथायोगमनिन्दितम् ।
कुम्भाकारञ्च वलयं दण्डमध्यविभूषितम् ॥ ९ ॥
पद्माकारन्तु पीठस्य दलैः षोडशभिर्युतम् ।
(नेमिरर्धाङ्गुल ज्ञेयं नाभिदेशन्तु गोलकम्) ॥ १० ॥
व्रीलितं सिंहवदनं महानासिकवल्लिखेत् ।
दलान्तरं परीणाहोऽधोमुखो यमितो भवेत् ॥ ११ ॥
पञ्चाङ्गुलसमुत्सेधः पद्मपीठस्य मध्यतः ।
(नराकृतिः स्थितो देवः किरीटाभरणाञ्चितः) ॥ १२ ॥
सर्वमेतद्यथायोगं घनयुक्तमनिन्दितम् ।
गर्भक्रियां पुनः कृत्वा मधूच्छिष्टविधानतः ॥ १३ ॥
विद्राव्य लोहं यत्नेन सर्वमेतत्प्रपूरयेत् ।
चक्रदेवस्य यो लोहः दण्डस्तल्लोह उच्यते ॥ १४ ॥
अथवा शुभवृक्षस्य सारो दण्डः प्रशस्यते ।
चक्रायामत्रिगुणितो दण्डायामः स्मृतो बुधैः ॥ १५ ॥
तस्य मूलपरिणाहो द्वादशाङ्गुलमुच्यते ।
मूलादूर्ध्वं कृशं कृत्वा अग्रे नाहो नवाङ्गुलम् ॥ १६ ॥
पीठाग्रे द्व्यङ्गुलं योज्यं वलयं दण्डमध्यमे ।
कुम्भाधस्तात् फलकयोः दण्डाग्रं कोलकं तथा ॥ १७ ॥
एकत्रिंशोऽध्यायः

[[४५२]]

जत्वादिभिस्समालिप्य योजयेच्छङ्कुना दृढम् ।
अनुक्तमत्र यत्सर्वं युक्त्या बुद्ध्या तु कारयेत् ॥ १८ ॥
चक्रप्रतिष्ठा

अत ऊर्ध्वं यथोक्तेन विधिना स्थापनं चरेत् ।
बिम्बशुद्धिञ्च कृत्वा तु वास्तुहोमञ्च कारयेत् ॥ १९ ॥
कुण्डमौपासनं कुर्यात्प्रधानं यागमन्दिरे ।
तस्य दक्षिणतः कुर्याच्छय्यावेदिं विधानवित् ॥ २० ॥
संस्नाप्य पञ्चकलशैश्चक्रमाघारमाचरेत् ।
ततः प्रतिसरं बद्ध्वा शाययेच्च विधानतः ॥ २१ ॥
हौत्रं प्रशंस्य विधिवत्सर्वदैवत्यमार्गतः ।
समावाह्य ततश्चक्रं तत्स्थानस्थान् सुरानपि ॥ २२ ॥
जुष्टाकारञ्च कृत्वा तु तत्क्रमेणाहुतीर्यजेत् ।
जुहुयाच्चक्रगायत्र्या शतमष्टोत्तरं बुधः ॥ २३ ॥
रात्रिशेषं ततो नीत्वा उषः कालं समीक्ष्य च ।
स्नात्वा सम्यग्विशुद्धात्मा पूर्वाह्णे तु विशेषतः ॥ २४ ॥
ततश्चक्रस्य मन्त्राभ्यां मूर्तिस्थापनमाचरेत् ।
यजमानस्तु तत्काले सशिष्यं गुरुमादरात् ॥ २५ ॥
पूजयेद्वस्त्रभूषाद्यैर्दद्याद्विपुलदक्षिणाम् ।
पुण्याहं वाच्य तत्काले चक्रमभ्यर्च्य चादरात् ॥ २६ ॥
हविर्निवेदयेच्चक्रमुत्सवार्थं विनिर्दिशेत् ।
एवं यः कुरुते भक्त्या चक्रस्य स्थापनं नरः ॥ २७ ॥

[[४५३]]

सर्वान् कामानवाप्नोति कर्मसिद्धो भविष्यति ।
स विशेषेण शुद्धात्मा विष्णुलोके महीयते ॥ २८ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे उत्सवचक्रलक्षणप्रतिष्ठाविधिकथनं नाम

एकत्रिंशोऽध्यायः ॥