३० सहस्रकलशस्नपनम् - कालः

अथ त्रिंशोऽध्यायः

सहस्रकलशस्नपनम् - कालः

अथातस्स्नपनं वक्ष्ये सहस्रकलशैस्तथा ।
कालः पूर्ववदेव स्यादथ स्यात् द्रव्यसङ्ग्रहः ॥ १ ॥
सम्भाराः

सस्यक्षेत्रे नदीतीरे तटाके दर्भमूलतः ।
गजदक्षिणदन्ते च वृषशृङ्गे तथैव च ॥ २ ॥
कुलीरवासे वल्मीके मृदमष्टसु सम्भरेत् ।
पर्वतान् कारयेद्विद्वान् पूर्वोक्तेनैव वर्त्मना ॥ ३ ॥
शालिव्रीहियवान् मुद्गतिलमाषांश्च तिल्वकान् ।
निष्पावान् सर्षपांश्चापि धान्यानि सुसमाहरेत् ॥ ४ ॥
एतान्येव तु गृह्णीयादङ्कुरार्थं विचक्षणः ।
अष्टौ च मङ्गलान् कुर्यात्पूर्वोक्तेन विधानतः ॥ ५ ॥
पञ्चगव्यादिद्रव्याणि द्वादशोक्तानि पूर्ववत् ।
बिल्वञ्च करवीरञ्च कुमुदं पद्ममेव च ॥ ६ ॥
नन्द्यावर्तञ्च तुलसीं धातकीं चम्पकं तथा ।
अष्टौ वै पुण्यपुष्पाणि पूजनार्हाणि चाहरेत् ॥ ७ ॥
श्रीवेष्टकं मसूरञ्च उशीरञ्चैव चन्दनम् ।
जातीफलञ्च कर्पूरं मुद्गं दमनकं तथा ॥ ८ ॥
उद्वर्तनार्थमेतानि गृह्णीयाच्चूर्णितानि वै ।
अश्वत्थस्य वटस्यापि मधूकस्यासनस्य च ॥ ९ ॥

[[४४४]]

खदिरस्य त्वचश्चैव वञ्जुलस्यार्जुनस्य च ।
पितृद्रुमस्य त्वचश्च कषायार्थं समाहरेत् ॥ १० ॥
नदीतटाकवापीषु पल्वले निर्झरे तथा ।
ह्रदे सरसि सेतौ च जलं तीर्थोदकं स्मृतम् ॥ ११ ॥
सिंही च नकुली व्याघ्री अनन्ताक्षीस्सुवर्चला ।
मार्जनार्थञ्चौषधयः स्मृता दूर्वा च पाठका ॥ १२ ॥
हरिद्रायाश्च चूर्णञ्च हारिद्रं हि भवेत्पुनः ।
हरेणूशीरपत्रञ्च स्थौणेयागरुचन्दनम् ॥ १३ ॥
आहरेत्सर्वगन्धार्थमेलां कर्पूरमेव च ।
प्लोतार्थमष्टौ वस्त्राणि गृह्णीयाच्च विशेषतः ॥ १४ ॥
स्पर्शनार्थं मूलगन्धान् कृष्णं कृष्णप्रियां (?) तथा ।
दूर्वापामार्गदमनान् पलाशकुशभूस्तृणान् ॥ १५ ॥
मनश्शिलां हरितलं जातिहिङ्गुलिकं तथा ।
सौवर्णं गौरिकञ्चैव राजावर्तञ्च गौरिकम् ॥ १६ ॥
श्यामाकञ्चाञ्जनं धातूनलङ्कारार्थमाहरेत् ।
कौशेयादि यथाशक्ति वस्त्रमाभरणं हरेत् ॥ १७ ॥
विद्यात्प्राक्करणानीति मृदादीनान्तु पञ्चकम् ।
पञ्चगव्यादिद्रव्याणि प्रधानानि तु द्वादश ॥ १८ ॥
पुण्यपुष्पादिनवकं तथाऽनुकरणं स्मृतम् ।
धात्वादिकं त्रिकं विद्याद्भूषणं प्रियदर्शनम् ॥ १९ ॥
एवं चतुर्भिरङ्गैस्तु स्नपनं स्यात्सुपुष्कलम् ।

[[४४५]]

अङ्कुरार्पणम्

अङ्कुरानर्पयित्वैव गुरुरेतान् समाहरेत् ॥ २० ॥
स्नानालयः

प्रमुखे चोत्तरे वापि ऐशान्ये वा यथोचितम् ।
त्रिपञ्चहस्तविस्तीर्णं त्रिंशद्धस्तायतं तथा ॥ २१ ॥
मण्डपं वाथ कूटं वा प्रपां वापि च कारयेत् ।
चतुर्द्वारसमायुक्तं चतुस्तोरणसंयुतम् ॥ २२ ॥
सर्वालङ्कारसंयुक्तं वितानादिविभूषितम्

पूर्णकुम्भाङ्कुरोपेतं मुक्तादामभिरञ्चितम् ॥ २३ ॥
दर्भमालाभिराकीर्णं फुल्लपल्लवशोभितम् ।
द्वारस्तम्भेषु सर्वत्र कदलीक्रमुकैर्युतम् ॥ २४ ॥
एवं कृते स्थले द्वेधा विभक्ते पश्चिमेऽङ्कणे ।
शिलाभिरिष्टकाभिर्वा श्वभ्रं कुर्यात्तु मध्यमे ॥ २५ ॥
चतुरश्रं चतुर्दिक्षु जलनिर्गमसंयुतम् ।
द्वादशाङ्गुलविस्तारं चतुरङ्गुलमुन्नतम् ॥ २६ ॥
एकवेदियुतं कृत्वा सुधया परिलेपयेत् ।
श्वभ्रस्य दक्षिणे कुर्यात् कुण्डमौपासनं ततः ॥ २७ ॥


पूर्वेद्युरेव वलयेद्यजमानस्सुसंयतः ।
आचार्यसहितांश्चैव कार्यार्थं द्वादशर्त्विजः ॥ २८ ॥
तेष्वेकं योजयेदेवमाचार्यो होमकर्मणि ।
हौत्रप्रशंसनायैकं चतुरोऽर्चनकर्मणि ॥ २९ ॥
त्रिंशोऽध्यायः

[[४४६]]

अभिषेकाय चत्वारो द्वौ द्वौ तु परिचारकौ ।
शयनम्

पूर्वेद्युरेव शर्वर्यां बध्नीयात् कौतुकं क्रमात् ॥ ३० ॥
पूर्वेक्तेन विधानेन शयने शाययेद्धरिम् ।
स्नानमण्डपपदकल्पनम्

मण्डपस्य तु पूर्वार्धे कलशस्थापनाय तु ॥ ३१ ॥
प्रत्येकन्तु मृदादीनां द्विप्रस्थैर्व्रीहिभिः क्रमात् ।
कुर्वीत सूत्रमार्गेण पदानि दश पञ्च च ॥ ३२ ॥
प्राक्पश्चिमायतां पङ्क्तिं कुर्याद्विंशत्करायताम् ।
द्वितालमात्रविस्तारां यथालाभोन्नतां तथा ॥ ३३ ॥
यमान्तरालमन्योन्यं पङ्क्तयः परिकीर्तिताः ।
ईशानसोमयोर्मध्ये पीठं शान्तस्य तण्डुलैः ॥ ३४ ॥
नीलवारुणयोर्मध्ये मित्रस्थानञ्च कल्पयेत् ।
कलशांस्तन्तुनाऽऽवेष्ट्य पूरयेदाढकोदकैः ॥ ३५ ॥
कलशानां सहस्रत्वनिष्पत्तिः - प्रधानाः

प्रत्येकञ्च चतुर्विंशाः प्रधानकलशाः स्मृताः ।
तत्तद्द्रव्यैः प्रपूर्यास्स्युः पञ्चगव्यादिकैः क्रमात् ॥ ३६ ॥
उपस्नानाः

तेषामुपस्नानतया कलशाश्च पृथक् पृथक् ।
चत्वारिंशत्तथाऽष्टौ च भवेयुः जलपूरिताः ॥ ३७ ॥

[[४४७]]

कषायोदककलशाः - सोपस्नानाः

कषायस्य तु चत्वार उपस्नानास्तु षोडश ।
तीर्थोदकस्य

कलशाश्च चतुर्विंशत्तीर्थतोयस्य केवलम् ॥ ३८ ॥
हरिद्राचूर्णकलशाः - सोपस्नानाः

हरिद्राचूर्णकलशाः सोपस्नानाः प्रधानवत् ।
सर्वगन्धकलशाः - सोपस्नानाः

चत्वारस्सर्वगन्धस्य उपस्नानास्तु षोडश ॥ ३९ ॥
सङ्ख्यैवं कलशानान्तु सहस्राणां प्रकीर्तिता ।
कूर्चान् कुशान्वा निक्षिप्य शरावैस्तु पिधाय च ॥ ४० ॥
प्रक्षालितशरावेषु मृदादीनि निधाय च ।
पञ्चगव्यैः समभ्युक्ष्य पङ्क्तीः दर्भैस्समास्तरेत् ॥ ४१ ॥
द्रव्यन्यासः

प्रागाद्युत्तरपङ्क्तौ तु प्रत्येकं प्रस्थपूरितान् ।
अष्टौ वै मृच्छरावांस्तु युग्मं युग्मं सुसन्यसेत् ॥ ४२ ॥
ततः पर्वतधान्याष्टमङ्गलान्यङ्कुराणि च ।
न्यस्य प्राक्करणान्येवं क्रमेणान्यासु पङ्क्तिषु ॥ ४३ ॥
प्रधानान् पञ्चगव्यादीन् सोपस्नानान् न्यसेत्पृथक् ।
चतुर्दश्यान्तु पङ्क्त्यां वै तथाऽनुकारणानि तु ॥ ४४ ॥
पुण्यपुष्पाणि चूर्णानि कषायकलशानपि ।
तीर्थानां कलशांश्चापि विन्यसेच्च विधानतः ॥ ४५ ॥
त्रिंशोऽध्यायः

[[४४८]]

ततः परस्यां पङ्क्तौ च विन्यसेच्च वनौषधीः ।
हरिद्राचूर्णकलशान् सोपस्नान क्रमेण तु ॥ ४६ ॥
कलशान् सर्वगन्धस्य प्लोताद्यान्यपराण्यपि ।
विन्यासं पञ्चदश्यां वै पङ्क्त्यामेव तु कारयेत् ॥ ४७ ॥
वस्त्रैराच्छाद्य विधिना देवाभिमुखमर्चयेत् ।
विष्वक्सेनञ्च पङ्क्तीशमर्चयित्वा च पूर्ववत् ॥ ४८ ॥
पत्रैः श्वभ्रं समाच्छाद्य कूर्चानुपरि निक्षिपेत् ।
जयादीः पूजयित्वा तु बैल्वीन्तु फलकां न्यसेत् ॥ ४९ ॥
अश्वत्थफलकां वापि तालोच्छ्रयसमन्विताम् ।
सर्वं मानं विजानीयादाचार्यस्यैव हस्ततः ॥ ५० ॥
आघारञ्च ततः कुर्यात्सूत्रोक्तेन विधानतः ।
शयनाद्देवमुत्थाप्य सर्वालङ्कारसंयुतम् ॥ ५१ ॥
ग्रामं प्रदक्षिणीकृत्य स्थापयेच्छ्वभ्रमध्यमे ।
पूजयेद्यजमानस्तु वस्त्रहेमाङ्गुलीयकैः ॥ ५२ ॥
आचार्यपूर्वकान् सर्वान् वृतान् स्नपनकर्मणि ।
होमक्रमः

हौत्रप्रशंसनं कृत्वा तदालयगतांस्तथा ॥ ५३ ॥
अधिदेवान् मृदादीनां सर्वानावाहयेत्क्रमात् ।
जुष्टाकारं ततः कृत्वां तत्क्रमेणाहुतीर्यजेत् ॥ ५४ ॥

[[४४९]]

यथास्थानं प्रवेशः

स्नापयित्वा तु देवेशं सर्वैः द्रव्यैर्यथाविधि ।
अलङ्कृत्य ततो देवमालयन्तु परीत्य च ॥ ५५ ॥
प्राणस्थाने प्रतिष्ठाप्य पूजयित्वा विधानतः ।
प्रभूतञ्च निवेद्यैव दक्षिणाञ्च प्रदापयेत् ॥ ५६ ॥
शताष्टकलशातिदेशः

अनुक्तमत्र कुर्वीत शताष्टकलशे यथा ।
आचार्यदक्षिणा

आचार्यदक्षिणा देया स्नापकानां यथाविधि ॥ ५७ ॥
चतुर्णामभिषेतॄणां दक्षिणाऽऽचार्यदक्षिणा ।
अर्धम् अध्वर्युहोत्रोश्च देया वै दक्षिणा भवेत् ॥ ५८ ॥
चतुर्णां कलशोद्धारपूजकानाञ्च तत्समा ।
तदर्धं परिचर्तृभ्यां दक्षिणा स्याद्यथाक्रमम् ॥ ५९ ॥
उपयुक्तानि यान्यत्र द्रव्याणि स्नपनोत्तमे ।
तानि सर्वाणि वस्तूनि आचार्याय ददेत्ततः ॥ ६० ॥
देवयागे तु शिष्टं यदाचार्यस्य धनं मतम् ।
फलश्रुतिः

एवं यः कुरुते भक्त्या विष्णोः स्नापनमुत्तमम् ॥ ६१ ॥
स्नापनोक्तं फलं सर्वमवाप्नोति न संशयः ।
कामार्थी स्नापयेद्देवं सर्वान् कामानवाप्नुयात् ॥ ६२ ॥
त्रिंशोऽध्यायः

[[४५०]]

क्षीरेण द्रोणमात्रेण केवलेन घृतेन वा ।
गव्येन स्नापयेद्विष्णुं फलमेतदवाप्नुयात्॥ ६३ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे सहस्रकलशस्नपनविधिर्नाम त्रिंशोऽध्यायः ॥