२९ महास्नपनविधिः उक्तकालाः

अथ एकोनत्रिंशोऽध्यायः

महास्नपनविधिः उक्तकालाः

अथातस्सम्प्रवक्ष्यामि स्नपनस्य विधिं हरेः ।
प्रतिष्ठोत्सवयोरन्ते ग्रहणे सोमसूर्ययोः ॥ १ ॥
महीपालस्य जन्मर्क्षे अयने विषुवे तथा ।
पुण्यर्क्षेषु व्यतीपाते यजमानस्य जन्मभे ॥ २ ॥
पञ्चपर्वसु चान्यस्मिन् निमित्ते स्नापयेद्धरिम् ।
कालेष्वेतेषु कस्मिंश्चिच्चिकीर्षुस्स्नपनं दिने ॥ ३ ॥
अङ्कुरार्पणं

तस्मात्तु दिवसात्पूर्वं नवमे वाथ सप्तमे ।
पञ्चमेऽहनि वा कुर्याद्विधिना चाङ्कुरार्पणम् ॥ ४ ॥
सम्भाराहरणं

ततः परन्तु सम्भारान् यथोक्तान् सुसमाहरेत् ।
मृदोऽचलांश्च धान्यानि अङ्कुरांश्चाष्टमङ्गलान् ॥ ५ ॥
पञ्चगव्यं घृतञ्चैव मधु चाथ ततो दधि ।
क्षीरं गन्धोदकञ्चैव अक्षतोदकमेव च ॥ ६ ॥
फलोदकं कुशोदञ्च रत्नजप्योदके तथा ।
सर्वौषध्युदकञ्चेति क्रमेणैतान् समाहरेत् ॥ ७ ॥
पुण्यपुष्पाणि चूर्णानि कषायं तीर्थवारि च ।
(सर्वगन्धान् ततः प्लोतं मूलगन्धांस्तथैव च) ॥ ८ ॥

[[४२२]]

वनौषधीश्च हारिद्रं चूर्णं सूक्ष्मं मनोहरम् ।
धातून् वस्त्रं भूषणानि सर्वाणि च पृथक् पृथक् ॥ ९ ॥
प्राग्द्रव्यलक्षणम् - मृदः

मृदादीनां स्वरूपन्तु विस्तरेण निबोधत ।
नदीतटाकयोस्तीरे केदारे दर्भमूलके ॥ १० ॥
गजदक्षिणदन्ते च वृषशृङ्गे तथैव च ।
कुलीरवासे वल्मीके शुद्धामेव मृदं हरेत् ॥ ११ ॥
पर्वताः

हिमवानूर्जको विन्ध्यो विदूरो वेदपर्वतः ।
महेन्द्रश्च पुरुश्चन्द्रश्शतशृङ्गश्च पर्वतः ॥ १२ ॥
पलाशैस्तु तथाश्वत्थैः बिल्वैर्वा खादिरैरपि ।
मृद्भिर्वा कारयेदष्टौ पर्वतानुक्तमानतः ॥ १३ ॥
अष्टाङ्गुलसमुत्सेधांश्चरश्रान् समन्ततः ।
मूले षडङ्गुलघनानग्रे चैव त्रियङ्गुलान् ॥ १४ ॥
मूलादग्रं क्रमेणैव कर्शितान् पर्वतान् नयेत् ।
श्वेतः पीतोऽसितो रक्तो वर्णस्तेषां दिशां क्रमात् ॥ १५ ॥
अङ्कुराणि

शालिव्रीहियवा मुद्गास्तिलमाषप्रियङ्गवः ।
गोधूमाश्चणकास्तिल्वा मसूरास्सर्षपास्तथा ॥ १६ ॥
धान्यान्युक्तान्यनिन्द्यानि यथालाभं समाहरेत् ।
अङ्कुरांश्चापि यत्नेन तस्मिन् काले समाहरेत् ॥ १७ ॥

[[४२३]]

मङ्गलानि

श्रीवत्सं पूर्णकूम्भञ्च भेरीमादर्शमेव च ।
मत्स्ययुग्माङ्कुशौ शङ्खमावर्तं मङ्गलाष्टकम् ॥ १८ ॥
पर्वतोक्तैर्दारुभिर्वा मृदा वा कारयेद्बुधः ।
मात्राङ्गुलप्रमाणेन सप्ताङ्गुलसमुच्छ्रयान् ॥ १९ ॥
सर्वेषां पीठमानं स्याद्भगाङ्गुलसमुन्नतम् ।
एवमेतानुक्तमानान् स्वस्वरूपान् प्रकल्पयेत् ॥ २० ॥
सुवर्णवर्णं श्रीवत्सं शङ्खभेर्यौ च लोहितौ ।
दर्पणं श्वेतवर्णं स्यान्मत्स्ययुग्मं सितं भवेत् ॥ २१ ॥
ऊर्ध्वास्यं रक्तनेत्रञ्च कृष्णपक्षं प्रकल्पयेत् ।
अङ्कुशं रक्तदण्डं स्यात् कृष्णवर्णा सृणिर्भवेत् ॥ २२ ॥
शङ्खं शङ्खनिभं कुर्यादावर्तं रक्तमेव च ।
प्रधानद्रव्याणि - पञ्चगव्यम्

पादप्रस्थं घृतञ्चैव द्विगुणञ्च ततो दधि ॥ २३ ॥
त्रिगुणञ्च ततः क्षीरं गोमयञ्च चतुर्गुणम् ।
षड्गुणञ्चैव गोमूत्रं योजितं पञ्चगव्यकम् ॥ २४ ॥
२. घृतं

सद्यस्तप्तं सुवर्णाभं समपक्वं घृतं हरेत् ।
३. मधु

पुष्पद्रावणकं वापि फलद्रावणकं तथा ॥ २५ ॥
एकोनत्रिंशोऽध्यायः

[[४२४]]

माक्षिकं वा मधु भवेदलाभै कापिलं घृतम् ।
अथवा नालिकेराम्बु मधुप्रतिनिधिं हरेत् ॥ २६ ॥
४. दधि

न शुक्तं दधि गुह्णीयाद्गुह्णीयात्प्रियदर्शनम् ।
५. क्षीरं

क्षीरं गव्यञ्च यत्नेन सद्यो दुग्धं समाहरेत् ॥ २७ ॥
गव्यमेव तु सङ्ग्राह्यं वर्ज्यमानञ्च माहिषम् ।
६.गन्धोदकं

सर्वगन्धद्रव्ययुतं वारि गन्धोदकं स्मृतम् ॥ २८ ॥
७. अक्षतोदकम्

अक्षतैर्मिश्रितं तोयमक्षतोदकमुच्यते ।
यवसर्षपकव्रीहिमाषैर्युक्तं तथाऽक्षतम् ॥ २९ ॥
८. फलोदकं

कदलीचूतपनसकपित्थामलकैस्तथा ।
बिल्वैस्तथा मातुलुङ्गैः कामरैश्च तथा फलैः ॥ ३० ॥
नारिकेलोदकेनापि मिश्रं स्यात्तत्फलोदकम् ।
फलोदकं फलैर्मिश्रं पनसाद्यैः स्मृतं जलम् ॥ ३१ ॥
९. कुशोदकं

कुशाग्रैर्मिश्रितं तोयं कुशोदकमिति स्मृतम् ।

[[४२५]]

१०. रत्नोदकम्

पद्मारागञ्च वज्रञ्च वैदूर्यं मौक्तिकं तथा ॥ ३२ ॥
प्रवालेन सहैतानि पञ्चरत्नानि निर्दिशेत् ।
पुष्यरागं मरकतं गोमेदञ्चेन्द्रनीलकम् ॥ ३३ ॥
पञ्चरत्नैस्सहैतानि नवरत्नानि निर्दिशेत् ।
नवरत्नयुतं तोयं रत्नोदकमिति स्मृतम् ॥ ३४ ॥
अलाभे सर्वरत्नानां स्वर्णं प्रतिनिधिं क्षिपेत् ।
११. मन्त्रोदकं

स्पृष्ट्वा तु वैष्णवान् मन्त्रान् कलशं जलपूरितम् ॥ ३५ ॥
जपेदुदङ्मुखो भूत्वा तज्जप्योदकमुच्यते ।
१२. सर्वौषध्युदकं

सर्वास्तु फलपाकान्ता ओषध्यस्समुदाहृताः ॥ ३६ ॥
सर्वौषधियुतं तोयं सर्वौषध्युदकं भवेत् ।
अनुद्रव्याणि - पुण्यपुष्पाणि

बिल्वञ्च करवीरञ्च पद्मं कुमुदमेव च ॥ ३७ ॥
नन्द्यावर्तञ्चैकपद्मं तुलसीं क्रान्तमाहरेत् ।
अष्टौ वै पुण्यपुष्पाणि स्नपनेऽस्मिन् समाहरेत् ॥ ३८ ॥
पुष्पलक्षणं

दिवा वै करवीराख्यं रात्रौ श्वेतं समाहरेत् ।
श्वेतञ्च कुमुदं श्रेष्ठं रक्तं पुष्पं विवर्जयेत् ॥ ३९ ॥
एकोनत्रिंशोऽध्यायः

[[४२६]]

दिवा रात्रौ पद्मयुगं रक्तं श्वेतञ्च पूज्यते ।
चूर्णानि

श्रीवेष्टकं मसूरञ्च उशीरञ्चैव चन्दनम् ॥ ४० ॥
एलालवङ्गकादीनि चूर्णार्थञ्च समाहरेत् ।
कषायचूर्णानि

अश्वत्थस्य वटस्यापि मधूकस्यासनस्य च ॥ ४१ ॥
खदिरस्य कषायस्य वञ्जुलस्यार्जुनस्य च ।
पितृद्रुमस्य पट्टानि कषायार्थं समाहरेत् ॥ ४२ ॥
तीर्थोदकं

नदीतटाकवापीषु पल्वले निर्झरेषु च ।
सद्यो गृहीतमुदकं तीर्थोदकमिहोच्यते ॥ ४३ ॥
वनौषधयः

सिंही च नकुली व्याघ्राऽनन्ता चादित्यसाह्वया ।
पाठा च सहदेवी च दूर्वा चैव जलाम्बुजम् ॥ ४४ ॥
अपामार्गा वशा तिक्तं कण्टकारिः कृशा तथा ।
कुरुण्डञ्च मरीचञ्च सूर्यबोधी च सर्षपम् ॥ ४५ ॥
वनौषधय उक्तास्ताश्चूर्णार्थन्तु समाहरेत् ।
हारिद्रचूर्णं

हरिद्रायाश्च यच्चूर्ण हारिद्रं हि तदुच्यते ॥ ४६ ॥

[[४२७]]

सर्वगन्धचूर्णं

स्थौणेयकं हरेणुञ्च पत्रं व्याघ्रनखागरु ।
चणकश्श्यामकञ्चैला लवङ्गककचोरके ॥ ४७ ॥
मांसी फलत्वगेला च स्थिरा नारदसादरम् ।
जलं कर्बुरमाहृत्य सर्वान् गन्धान् समाहरेत् ।
प्राण्यङ्गञ्च पुरीषञ्च वर्जयेद्गन्धसङ्गहे ॥ ४८ ॥
उष्णोदकं

नात्युष्णं नातिशीतञ्च क्वथितं शुद्धवारि च ।
पूरयित्वा च करके तत्काले चाहरेत्पुनः ॥ ४९ ॥
प्लोतम्

प्लोतार्थमपि गृह्णीयाद्वस्त्रयुग्मं ततः परम् ।
मूलगन्धाः

नन्द्यावर्तमपामार्गं पलाशकुशभूस्तृणान् ॥ ५० ॥
तुलसीं करवीरञ्च बिल्वमामलमालती ।
मूलगन्धांस्तु गृह्णीयान्मार्जनार्थं विशेषतः ॥ ५१ ॥
धातवः

जातिहिङ्गुलिकञ्चापि मञ्जनञ्च मनश्शिलाम् ।
धातून् गोरोचनादींश्च अलङ्कारार्थमाहरेत् ॥ ५२ ॥
अम्बराणि

शुद्धं कौशेयकं वस्त्रं कार्पासं वा समाहरेत् ।
चित्रकक्ष्यादिकांश्चैव भूषणानि च शक्तितः ॥ ५३ ॥
एकोनत्रिंशोऽध्यायः

[[४२८]]

अलाभे चोक्तवस्तूनां यथालाभं समाहरेत् ।
आहरणार्हपात्राणि

मृदादिद्रव्याण्याहर्तुं प्रतिद्रव्यं पृथक् पृथक् ॥ ५४ ॥
पात्राण्याढकपूर्णान्येवाहरेन्न कृशानि वै ।
सुवर्णरौप्यताम्राणि अलाभे मृण्मयानि वा ॥ ५५ ॥
पक्वालर्कफलाकारं कलशं सुमनोहरं

सुपक्वं खण्डस्फुटितकृष्णमण्डलवर्जितम् ॥ ५६ ॥
ईदृग्विधं प्रशंसन्ति कुम्भमाढकपूरितम् ।
कलशानां पिधानार्थं शरावानपि सम्भरेत् ॥ ५७ ॥
ये वै शरावा अत्रोक्ताः प्रस्थप्रस्थार्धपूरणाः ।
षट्प्रस्थमेव करकं कुम्भा वै द्रोणपूरणाः ॥ ५८ ॥
उदधानी तु सङ्ग्राह्या चतुर्द्रोणप्रपूरिता ।
कलशालङ्कारः

देवस्य त्वेति मन्त्रेण कलशादीन् प्रगृह्य च ॥ ५९ ॥
एकाङ्गुलान्तरं विद्वांस्तन्तुना परिवेष्टयेत् ।
दर्भाः

सप्तविंशतिदर्भैस्तु कुर्यात् प्रोक्षणकूर्चकम् ॥ ६० ॥
वेदः षडङ्गुलायामो मार्जनार्थं विधीयते ।
दर्भैस्तु पञ्चदशभिः नवभिर्वाथसप्तभिः ॥ ६१ ॥
दक्षिणावर्तकग्रन्धीन् कूर्चान् कुर्वीत यत्नतः ।
ग्रन्थ्यधस्ताद्धस्तमात्रान् दक्षिणावर्तकान् क्रमात् ॥ ६२ ॥

[[४२९]]

कलशप्रोक्षणायैव कुशान्वापि समाहरेत् ।
परिस्तरणकूर्चांश्च अग्निकुण्डे यथा तथा ॥ ६३ ॥
द्वादशाङ्गुलमानेन कलशादिषु कूर्चकाः ।
पूर्ववत्तोरणं कुर्याच्चतुर्दिक्षु यथाक्रमम् ॥ ६४ ॥
द्विताललम्बदर्भाभ्यां रशना दर्भमालिका ।
स्नपनानान्तु सर्वेषामेतावान् द्रव्यसङ्ग्रहः ॥ ६५ ॥
नवधा स्नपनम्

उक्तः प्रयोगभेदेन नवधा स्नपने विधिः ।
इदानीं सम्प्रवक्ष्यामि स्नपनं त्वधमोत्तमम् ॥ ६६ ॥
क्लृप्तमष्टोत्तरशतकलशैर्विस्तरेण वः ।
शताष्टकलशस्नपनम् - स्नानशाला

आलयात्प्राच्युत्तरे वा ऐशान्यां वा यथाविधि ॥ ६७ ॥
मण्डपं वाथ कूटं वा प्रपां वापि विधानवित् ।
स्नपनार्थं यथाशक्ति कारयेन्निलये हरेः ॥ ६८ ॥
मानं चतुर्विंशतिभिः किष्कुभिस्स्याच्चतुर्दिशम् ।
तथा षोडशभिर्द्वाभ्यां दशभिर्वाथ किष्कुभिः ॥ ६९ ॥
षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमण्डितम् ।
सर्वालङ्कालसंयुक्तं वितानादिविभूषितम् ॥ ७० ॥
पूर्णकुम्भाङ्कुरोपेतं चतुद्वरसमायुतम् ।
दर्भमालाविलसितं द्वारतोरणसंयुतम् ॥ ७१ ॥
एकोनत्रिंशोऽध्यायः

[[४३०]]

स्नानश्वभ्रम्

एवं निर्माय तन्मध्ये शिलयेष्टकयापि वा ।
मृदा वा कल्पयेच्छ्वभ्रं जलनिर्गमसंयुतम् ॥ ७२ ॥
औपासनानलाकारं स्नानश्वभ्रमुदाहृतम् ।
बिम्बपीठप्रमाणात्तु प्रतिदिक्चतुरङ्गुलम् ॥ ७३ ॥
विशालं वेदियुगलयुतं श्वभ्रं प्रकल्पयेत् ।
कुल्यां ततः प्रकुर्वीत ततो गच्छेज्जलादिकम् ॥ ७४ ॥
श्वभ्रोत्तरादधः कुल्यां कारयेत्तु विचक्षणः ।
अश्वत्थफलकां श्वभ्रे बैल्वीं वा निक्षिपेच्छुभाम् ॥ ७५ ॥
प्रतिसरः - शयनम्

पूर्वेद्युरेव शर्वर्यां रात्रिपूजावसानके ।
बद्ध्वा प्रतिसरं देवं श्वभ्रदक्षिणपार्श्वतः ॥ ७६ ॥
शयने शाययेद्देवं पूर्वोक्तेन विधानतः ।
कौतुकाबन्धनादूर्ध्वं यावत्स्नपनसम्भवः ॥ ७७ ॥
तावदाराधयेद्देवं पाद्याद्यैरष्टविग्रहैः ।
प्रातरुत्थाप्य देवेशं हविर्नैव निवेदयेत् ॥ ७८ ॥
शयनापवादः

(रात्रौ यदि स्यात्स्नपनं शयनं नैव कारयेत्)

तत्काले कौतुकं बद्ध्वा पश्चात्स्नपनमाचरेत्

श्वभ्रालङ्गारः - पङ्क्तिः

व्रीहिभिस्तण्डुलौश्चैव चतुः प्रस्थप्रमाणकैः

श्वभ्राद्वहिः समन्ताच्च कलशस्थापनाय वै ॥ ७९ ॥

[[४३१]]

नवकिष्कुप्रमाणे पङ्क्तिं कुर्यात्प्रयत्नतः ।
द्वितालमात्रविस्तीर्णां यथायोगसमुच्छिताम् ॥ ८० ॥
पङ्क्तिस्स्यात् द्वारमाना वै चतुर्दिक्षु द्वितालका ।
शुद्धैस्तु कदलीपत्रैः पद्मपत्रैरथापि वा ॥ ८१ ॥
हारिद्रैर्वाथ पत्रैर्वा पत्रैर्वा कुमुदस्य च ।
श्वभ्रमाच्छाद्य तत्रैव कूर्चांश्चोपरि विन्यसेत् ॥ ८२ ॥
सावित्रीमन्त्रमुच्चार्य पूर्वादिषु यथाक्रमम् ।
ऐन्द्रादीशानपर्यन्तमूर्ध्ववेद्यां यथाक्रमम् ॥ ८३ ॥
जयाद्यावाहनं

जयाञ्च विजयां विन्दां पुष्टिकां नन्दकामपि ।
कुमुद्वतीमुत्पलकां विशोकाञ्च प्रपूजयेत् ॥ ८४ ॥
कलशपूरणम्

पूरयेदुदधानीञ्च वस्त्रपूतेन वारिणा ।
रात्रौ जलं न गृह्णीयाद्देवपूजाविधौ बुधाः ॥ ८५ ॥
यदि चेन्निशि कार्यार्थी गृह्णीयादग्निसन्निधौ ।
कलशादीन् विशोध्याद्भिः धूपद्रव्येण धूपयेत् ॥ ८६ ॥
‘धारा’ स्विति च मन्त्रेण कलशान् परिपूरयेत् ।
पूरितान् कलशांश्चैव शरावैः पिहितांश्चरेत् ॥ ८७ ॥
प्रक्षालितशरावेषु मृदादीनि निधाय च ।
पञ्चगव्यैस्समभ्युक्षेत्पङ्क्तिं दर्भैश्च संस्तरेत् ॥ ८८ ॥
एकोनत्रिंशोऽध्यायः

[[४३२]]

सम्भारन्यासप्रकारः - प्राग्द्रव्याणाम्

ईशानशक्रयोर्मध्ये शरावान् सन्न्यसेन्मृदाम् ।
हिमालयाद्यानद्रींस्तु प्रादक्षिण्यवशेन वै ॥ ८९ ॥
द्वारनिर्गममार्गेषु आग्नेयादिक्रमात्तथा ।
अष्टस्वैन्द्रादिषु न्यस्येद्धान्यान्यग्नियमान्तरे ॥ ९० ॥
यमर्नैॠ तयोर्मध्ये अङ्कुराणि न्यसेद्बुधः ।
द्वारदक्षिणभागेषु पावकादिषु च क्रमात् ॥ ९१ ॥
श्रीवत्सादीनि सन्न्यस्येन्मङ्गलान्यष्ट वै ततः ।
न्यस्य प्राक्करणान्येवं कलशन्यासमाचरेत् ॥ ९२ ॥
सम्भारन्यासप्रकारः प्रधानद्रव्याणाम्

ऐशान्यां पञ्चगव्यस्य प्रधानं कलशं न्यसेत् ।
ईशानशक्रयोर्मध्ये घृतस्थानमुदाहृतम् ॥ ९३ ॥
मधुस्थानं तथेन्द्राग्न्योरन्तरे दधि पावकम् ।
कृशानुयमयोः क्षीरं गन्धोदं यमनीलयोः ॥ ९४ ॥
अक्षतोदन्तु र्नैॠ त्यां नीलाप्पत्योः फलोदकम् ।
वरुणोदानयोर्मध्ये कुशोदन्तु न्यसेद्बुधः ॥ ९५ ॥
वायौ न्यसेच्च रत्नोदं जप्योदं वायुसोमयोः ।
सोमेशयोस्तथा मध्ये सर्वौषध्युदकं न्यसेत् ॥ ९६ ॥
तत्तत्पार्श्वे न्यसेदष्टावुपस्नानान् पृथक् पृथक् ।
सम्भारन्यासप्रकारः अनुद्रव्याणां

सन्न्यस्य कलशानेवमनुद्रव्याणि च न्यसेत् ॥ ९७ ॥

[[४३३]]

यमनीलान्तरे पात्रे पुण्यपुष्पाणि विन्यसेत् ।
श्रीवेष्टकादिचूर्णञ्च नीलाप्पत्योस्तु मध्यमे ॥ ९८ ॥
वरुणोदानयोर्मध्ये कषायाम्बु विनिक्षिपेत् ।
उदानसोमयोर्मध्ये विन्यसेत्तु वनौषधीः ॥ ९९ ॥
जलेशनीलयोर्मध्ये न्यसेद्धारिद्रचूर्णकम् ।
सोमसेनेशयोर्मध्ये सर्वगन्धांश्च विन्यसेत् ॥ १०० ॥
शरावस्थानि वस्तूनि पङ्क्त्यभ्यन्तरपार्श्वतः ।
उक्तदेशेषु विन्यस्य क्रमेण विधिकोविदः ॥ १०१ ॥
अमितोदानयोर्मध्ये प्लोतादीन्यपि विन्यसेत् ।
उक्तमन्त्रालाभे सावित्र्या क्रिया

देवदेवं समुद्दिश्य नामन्त्रं किञ्चिदाचरेत् ॥ १०२ ॥
सावित्र्या तत्कर्म कुर्यान्न निर्दिष्टोऽस्ति चेन्मनुः ।
अष्टोत्तरकलशनिष्पत्तिः

द्वौ द्वौ तु पूरयेद्द्रव्यैः षट् षट् तोयेन पूरयेत् ॥ १०३ ॥
कलशानां प्रधानानां स्याच्चतुर्विंशतिस्तथा ।
त्रयस्त्रयस्तु सर्वेषामुपस्नानाय वै पृथक् ॥ १०४ ॥
आहत्य द्वौ सप्ततिस्स्युरुपस्नानास्ततः परम् ।
चत्वारस्तीर्थकलशाः नद्यादिजलपूरिताः ॥ १०५ ॥
हरिद्राचूर्णकलशौ द्वावुपस्नानकास्तु षट् ।
एवमष्टोत्तरशतं कलशानां समीरितम् ॥ १०६ ॥
एकोनत्रिंशोऽध्यायः

[[४३४]]

कलशालङ्कारः

कलशादीनि विन्यस्य कूर्चास्तेषु विनिक्षिपेत् ।
उत्कूर्चं शान्तिकं विद्यादधः कूर्चन्तु पौष्टिकम् ॥ १०७ ॥
अन्तः कूर्चञ्च कलशं भवेत्तत्राभिचारिकम् ।
सम्भाराधिदेवाः - प्राग्द्रव्याणाम्

मृद्देवता तु हरिणी पर्वतानान्तु हव्यवाट् ॥ १०८ ॥
धान्यानां वायुरुद्दिष्टः अङ्कुराणाञ्च पक्षिराट् ।
मङ्गलानां तथेन्द्रस्स्यादेवं प्राक्करणाधिपाः ॥ १०९ ॥
सम्भाराधिदेवाः प्रधानद्रव्याणाम्

प्रधानानां प्रवक्ष्यामि पञ्चगव्याधिपश्शिवः ।
उपस्नानाधिपास्तस्य विश्वेदेवाः प्रकीर्तिताः ॥ ११० ॥
घृतेशस्सामवेदस्तूपस्नानानान्तु वत्सराः ।
ॠग्वेदो मधुनश्चोपस्नानानान्तु जलाधिपः ॥ १११ ॥
दध्नोऽधिपो यजुर्वेदः रुद्रास्स्नानाधिपाः स्मृताः ।
अथर्ववेदः क्षीरस्य उपस्नानस्य चाश्विनौ ॥ ११२ ॥
गन्धोदकस्यर्तवस्स्युः स्नानानां मरुतः स्मृताः ।
काश्यपस्त्वक्षतोदस्योपस्नाननाञ्च गीष्पतिः ॥ ११३ ॥
फलोदकाधिपस्सोमः उपस्नानस्य नागराट् ।
कुशोदकस्य मुनयः उपस्नानस्य तक्षकः ॥ ११४ ॥
विष्णू रत्नोकदकस्येशः गन्धर्वाश्च जलाधिपाः ।
जप्योदानां सर्वमन्त्रा आपो विद्याधराधिपाः ॥ ११५ ॥

[[४३५]]

सर्वौषध्युदकस्यार्कः स्नानानामप्सरोगणः ।
सम्भाराधिदेवाः अनुद्रव्याणां

तथाऽनुकरणानाञ्च देवताश्च निबोधत ॥ ११६ ॥
धाता वै पुण्यपुष्पाणां चूर्णानां चक्र उच्यते ।
कषायस्याप्पतिः प्रोक्तः तीर्थोदस्य च षण्मुखः ॥ ११७ ॥
वनौषधीनां रुद्राश्च अधिपाः परिकीर्तिताः ।
हारिद्रचूर्णस्य सिनीवाली च परिकीर्तिता ॥ ११८ ॥
उपस्नानस्य राका स्याद्गन्धस्येन्द्रोऽधिदेवता ।
उष्णोदके समभ्यर्चे ‘त्सर्वतीर्थजलन्त्विति ॥ ११९ ॥
प्लोते त्वष्टा समुद्दिष्टः मूलगन्धे पितामहः ।
कात्यायनी धातुषु च कथिता अधिदेवताः ॥ १२० ॥
उत्तरीये तु सोमस्स्यात् उपवीते तु षण्मुखः ।
उपस्नानाधिपा देवा यत्र नोक्तः क्रमेण तु ॥ १२१ ॥
पवित्रं तत्र गृह्णीयादिति प्रोवाच पूर्वजः ।
अधिदेवार्चनक्रमः

कलशोपरि निर्दिष्टं तं तं देवमनुस्मरन् ॥ १२२ ॥
आवाहानाद्यैरर्घ्यन्तैरर्चयोद्विधिपूर्वकम् ।
अभ्यर्च्याहतवस्त्रैश्च सर्वानाच्छादयेत्क्रमात् ॥ १२३ ॥
पङ्क्तीशाद्यर्चनं

नीलवारणयोर्मध्ये पङ्क्तीशमपि पूजयेत् ।
कुबेरेशानयोर्मध्ये शान्तं सम्यक् समर्चयेत् ॥ १२४ ॥
एकोनत्रिंशोऽध्यायः

[[४३६]]

देवस्यानयनम्

अथ शय्यागतं देवं समुत्थाप्य विधानतः ।
अलङ्कारैरलङ्कृत्य तोयधारापुरस्सरम् ॥ १२५ ॥
परीत्य मन्दिरं पश्चात् स्थापयेच्छ्वभ्रमध्यमे ।
होमप्रकारः

प्रतीच्यां सर्वशान्त्यर्थं कुण्डमौपासनं चरेत् ॥ १२६ ॥
आघारञ्च ततः कृत्वा पूर्वोक्तेन विधानतः ।
आघारान्ते च पूर्वोक्तं हौत्रं सम्यक् प्रशंस्य च ॥ १२७ ॥
देवं श्रियं महीञ्चैव दक्षिणप्रणिधौ जले ।
आवाहयेदथाध्वर्युः भक्तिश्रद्धासमन्वितः ॥ १२८ ॥
पङ्त्कीशञ्चापि सेनेशं जयाद्याः कलशाधिपान् ।
उत्तरप्रणिधौ देवान् सर्वानावाहयेद्बुधः ॥ १२९ ॥
जुष्टाकारं तत्क्रमेण स्वाहाकारञ्च कारयेत् ।
मूलमन्त्रैः क्रमेणैव हुत्वा सर्वं समाचरेत् ॥ १३० ॥
क्रियाहीने विपर्यासे मन्त्राणां सङ्करेऽपि च ।
द्रव्यहीने मानहीने ध्यानहीनेऽन्यथापि च ॥ १३१ ॥
सर्वदोषोपशमनं सर्वसम्पत्समृद्धिदम् ।
जुहुयात्पौरुषं सूक्तं विष्णुसूक्तं तथैव च ॥ १३२ ॥
वैष्णवैर्मनुभिष्षड्भिः प्रायश्चित्ताहुतीः हुनेत् ।
विदितानान्तु दोषाणां प्रायश्यित्तं यथोदितम् ॥ १३३ ॥
तत्तन्मन्त्रैर्हुनेदग्नावज्ञातं पूर्ववच्चरेत् ।

[[४३७]]

आचार्यसम्मानम् - स्नापनप्रकारः

यजमानो यथाशक्ति सशिष्यं पूजयेद्गुरुम् ॥ १३४ ॥
आचार्यश्च विशुद्धात्मा सोष्णीषस्सोत्तरीयकः ।
प्राङ्मुखस्सन् दधि प्राश्य भक्तिमान् संयतेन्द्रियः ॥ १३५ ॥
आचम्य विधिवद्विद्वान् नमस्कृत्य च भास्करम् ।
भूमिं निपीड्य जानुभ्यामासित्वाऽभिमुखं हरेः ॥ १३६ ॥
स्थित्वा वा स्नापयेद्देवं यथार्हञ्च यथोचितम् ।
न्यसेत्पुष्पाणि हस्ताभ्यां देवदेवस्य पादयोः ॥ १३७ ॥
सम्प्रणम्य च देवेशं मनसा भावयन् हरिम् ।
वेदेन देवपीठात्तु निर्माल्यं परिमार्जयेत् ॥ १३८ ॥
पाद्याद्यर्घ्यान्तमभ्यर्च्य दद्यादाचमनीयकम् ।
अष्टभिर्विग्रहैर्देवमर्चयेत्स्नपनासने ॥ १३९ ॥
स्नपने च प्रतिद्रव्यं घण्टां सन्ताड्य चार्पयेत् ।
तत्काले तूर्यघोषैश्च शङ्खध्वनिसमन्वितैः ॥ १४० ॥
नृतैर्गेयैश्च वाद्यैश्च विविद्यैः प्रीणयेद्धरिम् ।
ततो मृदस्समादाय आर्चास्य तु दक्षिणे ॥ १४१ ॥
हस्ते दद्यात् स्थितश्शिष्यः आचार्यः करके स्थितम् ।
तोयमादाय कूर्चेन मन्त्रेणैकाक्षरादिना ॥ १४२ ॥
मृदः प्रोक्ष्य तु हस्ताभ्यामाददीत तदा गुरुः ।
कूर्चयुक्तं मृदं गृह्य ब्रुवं ‘स्त्वं विश्वभूरिति ॥ १४३ ॥
स्नापयेद्देवतीर्थेन मूर्तिमन्त्रैर्यथाक्रमम् ।
उद्वर्तयेच्च पाणिभ्यां स्नापयेदुष्णवारिणा ॥ १४४ ॥
एकोनत्रिंशोऽध्यायः

[[४३८]]

वामपार्श्वस्थशिष्यस्य दद्यात्पात्रं ततः करे ।
शिष्योऽप्यादाय पात्रन्तु स्वस्थाने स्थापयेत्तु तत् ॥ १४५ ॥
प्रतिद्रव्यं शोधयेच्च निर्माल्यञ्चार्चयेन्नवम् ।
येन द्रव्येण देवेशं यस्मिन् कालेऽभिषेचयेत् ॥ १४६ ॥
तद्द्रव्याधिपदेवन्तु तस्मिन् काले विसर्जयेत् ।
सर्वमेतेन विधिना विजानीयात् क्रियाक्रमम् ॥ १४७ ॥
स्नपनमन्त्राः - प्राग्द्रव्याणाम्

‘विश्वे निमग्न’ इत्युक्त्वा पर्वतान् प्रोक्ष्य गृह्य च ।
‘अजस्त्वमग्र’ इत्युक्त्वा प्रतिदिक् प्रणिपातयेत् ॥ १४८ ॥
नगनामक्रमेणैव मन्त्रेणानेन योजयेत् ।
‘प्राणप्रसूति’ रित्युक्त्वा प्रोक्ष्य धान्यानि पूर्ववत् ॥ १४९ ॥
‘त्वं विश्वभू’ रिति जपन् धान्यैस्संस्नापयेत्ततः ।
‘वितत्य बाण’ मित्युक्त्वा अङ्कुरान् प्रोक्ष्य चात्वरः ॥ १५० ॥
‘भासा त्व’ येति मन्त्रेण अङ्कुरैरर्चयेद्विभुम् ।
‘त्वं वजभृ’ दिति प्रोक्ष्य मङ्गलानि पृथक् पृथक् ॥ १५१ ॥
‘स्वाहा स्व’ धेति मन्त्रेण कारयेत्तु प्रदक्षिणम् ।
एवं प्राक्करणैरुक्तं स्नानं द्रव्यैश्च पञ्चभिः ॥ १५२ ॥
स्नपनमन्त्राः - प्रधानद्रव्याणां

ततः प्रधानद्रव्यैश्च कूर्यात् स्नपनमादितः ।
कलशं पञ्चगव्यस्य चादाय प्रोक्ष्य वै बुधः ॥ १५३ ॥
‘वसोः पवित्र’मित्युक्त्वा कूर्चेन द्रव्यमाहरेत् ।
स्रावयेत्मूर्ध्नि मन्त्रस्तु पश्चात्स्नानं समाचरेत् ॥ १५४ ॥

[[४३९]]

सर्वप्रधानद्रव्याणाम् उपस्नानोदितो मनुः ।
‘वारीश्चतस्र’ मन्त्रः स्यात्तेन वार्यभिषेचनम् ॥ १५५ ॥
‘अग्न आयाहि’ मन्त्रेण घृतेन स्नापयेद्धरिम् ।
मधुना स्नापयेद्देव ‘मग्निमील’ इति ब्रुवन् ॥ १५६ ॥
‘इषे त्वोर्जे’ त्वेति दध्ना मन्त्रेण स्नापयेद्धरिम् ।
‘शन्नो देवी’ रिति जपन् क्षीरेण स्नाप्येत्तथा ॥ १५७ ॥
‘अभित्वा शूर’ इत्युक्त्वा गन्धोदैस्स्नापयेत्तथा ।
‘इमा ओषधय’ इति स्नापयेदक्षतोदकैः ॥ १५८ ॥
‘जपन् द’ त्वेति मन्त्रेण स्नापयेत्तु फलोदकैः ।
‘चत्वारि वा’गिति जपन् स्नापयेच्च कुशोदकैः ॥ १५९ ॥
‘तत्पुरुषाये’ ति वदन् रत्नतोयाभिषेचनम् ।
‘पूतस्तस्ये’ ति च जपन् जप्योदेनाभिषेचयेत् ॥ १६० ॥
‘चत्वारि शृङ्गे’ ति स्नानं सर्वौषध्युदकेन तु ।
द्वादशेमानि द्रव्याणि प्रधानानि स्मरन्ति हि ॥ १६१ ॥
स्नपनमन्त्राः - प्रतिद्रव्यमाराधनम्

प्रतिद्रव्यं विशेषेण प्रत्येकाराधनं चरेत् ।
पाद्याद्यर्घ्यान्तमभ्यर्चेत् प्लोताद्यैश्चापि विग्रहैः ॥ १६२ ॥
अनुकरणानाम्

अथानुकरणैरर्चां कुर्याद्देवस्य वै क्रमात् ।
‘ॠ चो यजूंषि’ चोच्चार्य पुण्यपुष्पैस्ततोऽर्चयेत् ॥ १६३ ॥
श्रीवेष्टकादीन् सम्प्रोक्ष्य ‘त्वं यज्ञ’ इति च ब्रुवन् ।
उद्वर्तनञ्च तैः कुर्या ‘त्स एष’ इति च ब्रुवन् ॥ १६४ ॥
एकोनत्रिंशोऽध्यायः

[[४४०]]

सम्प्रोक्ष्य वै कषायञ्च ‘हिरण्मय’ इति सञ्जपन् ।
उद्वर्तनं तेन कुर्या ‘त्स सर्व’ इति सञ्जपन् ॥ १६५ ॥
तीर्थवारि च सम्प्रोक्ष्य ‘प्रोता’ स्येत्यभिषेचयेत् ।
‘सामैश्चे’ ति तु सम्प्रोक्ष्य ‘यमध्वर’ इति ब्रुवन् ॥ १६६ ॥
वनौषधीभिर्देवेशं मार्जयेज्जगतः पतिम् ।
‘अतो देवादि’ ना प्रोक्ष्य चूर्णं हारिद्रकं तथा ॥ १६७ ॥
‘सिनीवा’ लीति मन्त्रेण तेन चोद्वर्तयेद्धरिम् ।
‘त्वं स्त्री पुमा’ निति प्रोक्ष्य सर्वगन्धांश्च भाजने ॥ १६८ ॥
‘त्वमेव धाते’ ति जपन् गन्धैरुद्वर्तयेत्तथा ।
स्नापयेदुष्णतोयेन शोधयेत्तदनन्तरम् ॥ १६९ ॥
विमोच्य च प्रतिसरं स्नापयेच्छुद्धवारिणा ।
पीठान्तरे स्थापनं

श्वभ्रस्य दक्षिणे पार्श्वे पीठं विन्यस्य भक्तिमान् ॥ १७० ॥
तत्रोपवेश्य देवेशं शिष्यैश्च सह मन्त्रवित् ।
‘मित्रस्सुपर्ण’ इत्युक्त्वा प्लोतं प्रोक्ष्य यथाक्रमम् ॥ १७१ ॥
‘त्वं विष्णु’ रिति मन्त्रेण प्लोतेन विमृजेत्ततः ।
‘त्वं भूर्भुव’ इति प्रोच्य मूलगन्धैस्तु मार्जयेत् ॥ १७२ ॥
नवानुकरणान्येवं पुण्यपुष्पादिकानि वै ।
‘य एवं नित्य’ मित्युत्क्वा अलङ्कुर्याच्च धातुभिः ॥ १७३ ॥
वस्त्रैराभरणैश्चापि चित्रकक्ष्याभिरेव च ।
पाद्यादिनाऽर्चयेद्देवं प्रणिपत्य मुहुर्मुहुः ॥ १७४ ॥
धात्वादिकं त्रिकं विद्याद्भूषणद्रव्यमेव तु ।

[[४४१]]

अन्तहोमः

अन्तहोमं ततः कुर्याद्विधिना विधिकोविदः ॥ १७५ ॥
देवस्य स्वस्थानप्रवेशः

आचार्यो यजमानश्च देवदेवं प्रणम्य च ।
सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतम् ॥ १७६ ॥
कनिक्रदादि सूक्तञ्च स्वस्तिसूक्तं तथैव च ।
जपन्वै देवमादाय कृत्वाऽगारप्रदक्षिणम् ॥ १७७ ॥
अभ्यन्तरं प्रविश्याथ ब्रह्मभागे यथाक्रमम् ।
‘प्रतद्विष्णु’ रिति जपन् स्थापयेद्विधिकोविदः ॥ १७८ ॥
आराद्ध्य पूर्ववन्मन्त्रैः हविर्भिस्सन्निवेदयेत् ।
नैत्यकानि च कुर्वीत बल्यादीनि च पूर्ववत् ॥ १७९ ॥
एष स्नपनसामान्यो मन्त्रद्रव्यक्रियाक्रमः ।
अस्य क्रमस्यान्यत्रातिदेशकथनम्

एवमुक्तौ घटानान्तु सङ्ख्या यत्र विभिद्यते ॥ १८० ॥
प्रकारभेदो विन्यासे स्नानोपस्नाननिर्णये ।
तादृशेष्वभिषेकेषु भेदः पश्चात् प्रवक्ष्यते ॥ १८१ ॥
चत्वारिंशत्कलशस्नपनक्रमः

अथाष्टचत्वारिंशद्भिः कलशैः स्नपनं हरेः ।
वक्ष्यामि नवधा भेदेष्वधमे मध्यमं क्रमात् ॥ १८२ ॥
मृद्भिस्सम्पूरितस्त्वेक एकोपस्नानसंयुतः ।
धान्यैस्सम्पूरितस्त्वेकस्तथोपस्नानसंयुतः ॥ १८३ ॥
एकोनत्रिंशोऽध्यायः

[[४४२]]

पञ्चगव्यादिकलशा उपस्नानद्वयेन तु ।
तीर्थोदकार्थाश्चत्वारः कलशाः पूर्ववत्स्मृताः ॥ १८४ ॥
हरिद्राचूर्णकलशः उपस्नानैस्त्रिभिर्युतः ।
कलशा अष्टचत्वारिंशदेवं गण्या भवन्ति हि ॥ १८५ ॥
सङ्ख्यायामेव भेदोऽत्र शेषं पूर्ववदाचरेत् ।


वक्ष्ये चतुर्विंशतिभिः कलशैस्स्नपनक्रमम् ॥ १८६ ॥
पञ्चगव्यादिकलशैरेकोपस्नानसंयुतैः ।
चतुर्विंशतिभिश्चैव कलशैस्स्नापयेद्धरिम् ॥ १८७ ॥
हारिद्रेणैव चूर्णेन सर्वगन्धयुतेन च ।
शङ्खस्थेन यथालाभं चरेदुद्वर्तनं क्रमात् ॥ १८८ ॥
उष्णोदकेन शुद्ध्यर्थं स्नापयेच्च ततः परम् ।
सर्वालङ्कारसंयुक्तं देवमादाय पूर्ववत् ॥ १८९ ॥
जीवस्थाने प्रतिष्ठाप्य कुर्यात्पूर्ववदर्चनम् ।
फलश्रुतिः

एवं यः कारयेत् भक्त्या विष्णोः स्नापनमादरात् ॥ १९० ॥
सप्तजन्मकृतैः पापैः तत्क्षणाद्धिप्रमुच्यते ।
पुत्रपौत्रधनादीनां वृद्धिस्तस्य भविष्यति ॥ १९१ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां खिलाधिकारे

महास्नपनविधिर्नाम एकोनत्रिंशोऽध्यायः ॥

[[४४३]]