२८ फलपाककथनम् - आलयनिर्माणस्य

अथ अष्टाविंशोऽध्यायः

फलपाककथनम् - आलयनिर्माणस्य

अथातः सम्प्रवक्ष्यामि फलपाकविनिर्णयम् ।
सर्वैर्दानतपोयज्ञैः प्राप्यते यत्फलं महत्॥ १ ॥
देवयागस्य सङ्कल्पात् तत्फलं समवाप्नुयात् ।
संसिद्धे ब्रह्मपद्मे तु विमानारम्भकर्मणि॥ २ ॥
विष्णुलोकमवाप्नोति पूज्यमानस्सदाऽमरैः ।
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु॥ ३ ॥
विष्णोरालयविन्यासप्रारम्भादेव नश्यति ।
सिद्धे कर्मण्यसिद्धे वा तत्फलं सर्वमाप्नुयात्॥ ४ ॥
प्रशस्तदेशे भूभागे यो भक्त्या भवनं हरेः ।
कारयेदक्षयान् लोकान् स नरः प्रतिपद्यते॥ ५ ॥
सप्तलोकमयो विष्णुस्तस्य सप्ततलालयम् ।
यः कारयेत्सोऽवाप्नोति प्रतिष्ठां साप्तलौकिकीम्॥ ६ ॥
इष्टकानान्तु विन्यासो यावद्वर्षाणि तिष्ठति ।
तावद्वर्षसहस्राणि तत्कर्ता दिवि मोदते॥ ७ ॥
अहन्यहनि यज्ञैश्च यजतो यत्फलं भवेत् ।
प्राप्नोति तत्फलं विष्णोर्मन्दिरं कारयेत्तु यः॥ ८ ॥
यश्च देवालयं भक्त्या विष्णोः कारयति स्थिरम् ।
स सप्त पुरुषान् विष्णोर्लोकान् नयति मानवः॥ ९ ॥

[[४१४]]

महाप्रतिष्ठायाः

स्थापिते ह्यमरेज्ये तु शङ्खचक्रधरे हरौ ।
तद्रूपालङ्कृतो भूत्वा स्वकीयैस्सहितस्सुखी ॥ १० ॥
विष्णुलोके स रमते यथाकामं यथेश्वरः ।
यावन्त्यब्दानि नित्यार्चा हरेस्तिष्ठति मन्दिरे ॥ ११ ॥
तावद्वर्षसहस्राणि विष्णुलोके महीयते ।
विष्णुयागसमाप्तौ तु प्रक्रान्ते चार्चनाक्रमे ॥ १२ ॥
आविंशतेरतीतानां गुरूणां तस्य वंशिनाम् ।
तावताञ्च भविष्याणां विष्णुलोके भवेत् स्थितिः ॥ १३ ॥
मातृपक्षप्रसूतानामपि लोकस्स लभ्यते ।
शुश्रूषकानां दासानां तदीयानाञ्च तैस्सह ॥ १४ ॥
हरेर्लोके निवासस्स्यादलभ्यो दैवतैरपि ।
स्थानकप्रतिमां स्थाप्य सामीप्यफलमाप्नुयात् ॥ १५ ॥
असीनप्रतिमां स्थाप्य सारूप्यं फलमश्नुते ।
शयानप्रतिमां स्थाप्य कर्ता सायुज्यमाप्नुयात् ॥ १६ ॥
प्रतिमां लक्षणवतीं यः कारयति मानवः ।
केशवस्य तु सालोक्यमक्षय्यं प्रतिपद्यते ॥ १७ ॥
प्रतिष्ठाप्य हरेरर्चां सुप्रशस्ते निवेशने ।
पुरुषः कृतकृत्यस्स्यात् न चैनं मरणं तपेत् ॥ १८ ॥
षष्टिर्वर्षसहस्राणां सहस्राणां स मोदते ।
स्वर्गौकसां निवासेषु प्रत्येकमृषिसत्तमाः ॥ १९ ॥

[[४१५]]

आसतेऽगतयोऽतीता आकल्पात् पुरुषाः कुले ।
तांस्तारयेत्स संस्थाप्य देवस्य प्रतिमां हरेः ॥ २० ॥
इन्द्रादयस्सरुद्राश्च ब्रह्मणा च समन्विताः ।
देहं त्यक्त्वा दिवं यन्तं गृह्णीयुस्तं नरोत्तमम् ॥ २१ ॥
सम्पूज्यमानस्तैस्सार्धं वैष्णवं लोकमास्थितः ।
हरेः सायुज्यमासाद्य नित्यानन्दः स मोदते ॥ २२ ॥
शङ्खचक्रगदापाणिः विष्णुरूपधरः पुमान् ।
अलभ्यं सर्व देवैश्च तत् स्फुटं वैष्णवं पदम् ॥ २३ ॥
प्राप्नोतीति पुरा प्राह भगवान् पूर्वजः पिता ।
स्थापिते हरिसेनेशे हरेस्सामीप्यमाप्नुयात् ॥ २४ ॥
अर्चने तु कृते पश्चान्मत्पदं समवाप्नुयात् ।
मत्तः प्रियतरो लोके देवस्य स भविष्यति ॥ २५ ॥
इति विष्णुः पुरा प्राह न पुनर्जायतेऽर्चकः ।
मार्जनाद्युपचाराणाम्

पूजनार्थं जलं दत्वा वारुणं लोकमाप्नुयात् ॥ २६ ॥
यस्सदा कुरुते विष्णोरालये मार्जनक्रियाम् ।
तस्य देहात्सर्वपापं सद्य एव व्यपोहति ॥ २७ ॥
यावन्त्यः पांसुकणिका मृज्यन्ते केशवालये ।
तावद्वर्षाणि तिष्ठेत्स सत्यमस्तमलो नरः ॥ २८ ॥
अहन्यहनि यत्पापं कुरुते भुवि मानवः ।
तत्सर्वं नश्यति हरेर्मन्दिरे मार्जनेन वै ॥ २९ ॥
अष्टाविंशोऽध्यायः

[[४१६]]

यो बाह्याभ्यन्तरं देवगेहे सम्मार्जयेत्क्वचित् ।
बाह्यमाभ्यन्तरं तस्य देहो निष्कल्मषो भवेत् ॥ ३० ॥
यश्चोपलेपनं कुर्याद्विष्णोरायतने नरः ।
स हरेर्लोकमासाद्य मोदते वै शतक्रतोः ॥ ३१ ॥
मृदा धातुविकारैर्वा वर्णैर्वा गोमयेन वा ।
उपस्करणकृद्याति विमाने मणिचित्रिते ॥ ३२ ॥
उदकाभ्युक्षणं विष्णोर्यः करोति तथा गृहे ।
सोऽपि गच्छति यत्रास्ते भगवान् यादसां पतिः ॥ ३३ ॥
विमानमतिविद्योति समारुह्य विहायसा ।
पुष्पप्रकारैरत्यर्थं सुगन्धैः केशवालये ॥ ३४ ॥
अनुलिम्पेत यो मर्त्यो न दुर्गतिमवाप्नुयात् ।
पुष्पादीनाम्

पुष्पं गन्धञ्च यो दद्यादिन्द्रलोकं समाप्नुयात् ॥ ३५ ॥
धूपस्य तु प्रदानेन रविलोके वसेच्चिरम् ।
विमानमतिविद्योति समारुह्य विहायसा ॥ ३६ ॥
दीपं दत्वा त्वनिर्वाणं मानवः केशवालये ।
तेजस्वी स यशस्वी च भूयान्नास्य पुनर्भवः ॥ ३७ ॥
अष्टाङ्गमर्घ्यं यो दद्याच्छ्रद्धया जगदीशितुः ।
जन्मान्तरेऽपि न स्यातां क्षुत्पिपासे तु तस्य वै ॥ ३८ ॥
स्नानार्थानि च वस्तूनि दद्यात्प्लोतादिकानि यः ।
सर्वपापविशुद्धात्मा स वै राजा भविष्यति ॥ ३९ ॥

[[४१७]]

घण्टाध्वजछत्रादीनां

यस्तु देवालये भक्त्या महाघण्टां प्रलम्बयेत् ।
स कीर्तिं लभते भूमौ पश्चात् स्वर्गेऽपि पूज्यते ॥ ४० ॥
यस्तु संवत्सरं पूर्णं तिलपात्रं प्रयच्छति ।
ध्वजञ्च विष्णवे दद्यात् स महाफलमाप्नुयात् ॥ ४१ ॥
विधुनोति ध्वजः दातुः पापानि विविधानि च ।
धुन्वानस्तु दिवा रात्रौ विष्णोरायतने कृतः ॥ ४२ ॥
यस्तु विष्णोरायतने प्रच्छन्नपटमुत्तमम् ।
दद्यात् ध्वजप्रदातुस्तु यत्फलं तदवाप्नुयात् ॥ ४३ ॥
भूषणादीनाम्

पुष्पाणि हेमरत्नानि दिव्यान्याभरणानि च ।
सौवर्णानि च पात्राणि गवाश्वादींश्चतुष्पदान् ॥ ४४ ॥
यो दद्याद्विष्णवे भक्त्या तथाऽन्यानपि कांश्चन ।
स तद्वस्तूनि लब्ध्वा वै सुखी स्याद्भाविजन्मसु ॥ ४५ ॥
हविषां

शुद्धान्नहविषां दाता विष्णुलोके महीयते ।
पायसादिप्रदानेन पूर्वोक्तं लभते फलम् ॥ ४६ ॥
फलं प्रभूतदानस्य महादानाद्विशिष्यते ।
तस्मात्तु द्विगुणं पुण्यं निवेद्य तु महाहविः ॥ ४७ ॥
यथाशक्ति निवेद्यापि विष्णुयागफलं लभेत् ।
ताम्बूलं मुखवासञ्च स्रजः कर्पूरदीपकम् ॥ ४८ ॥
अष्टाविंशोऽध्यायः

[[४१८]]

यस्तु भक्त्या हरेर्दद्यात् तस्य दुःखं न सम्भवेत् ।
वाद्यविशेषाणाम्

भेरीशङ्खादिवाद्यार्थं भृतिं दद्यात्तु यो नरः ।
तस्य मन्वन्तरं यावत्स्वर्गे लोके स्थितिर्भवेत् ॥ ४९ ॥
आरामादीनाम्

आरामञ्च तटाकञ्च मठं कूपं तथैव च ।
विष्ण्वालयसमीपे तु निर्मापयति यो धनी ॥ ५० ॥
तस्य पुण्यफलं लोके महादानफलात्परम् ।
देवकार्यपरो भूत्वा स्वां तनुं यः परित्यजेत् ॥ ५१ ॥
स याति विष्णुसायुज्यमपि पातककृन्नरः ।
स्नपने द्रव्यविशेषस्य

यस्स्नापयति देवस्य दिव्यमङ्गलविग्रहम् ।
प्रतिप्रस्थन्तु द्रव्याणां स ददाति गवां शतम् ॥ ५२ ॥
ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ।
तत् क्षालयति सन्ध्यायां घृतेन स्नापनं हरेः ॥ ५३ ॥
प्रतिमासं सिताष्टम्यां घृतस्नानपरो हरेः ।
सर्वपापविशुद्धात्मा भविष्यति न संशयः ॥ ५४ ॥
अयने चोत्तरे प्राप्ते यः स्नापयति केशवम् ।
घृतप्रस्थेन सकलं तस्य पापं क्षयं व्रजेत् ॥ ५५ ॥
कपिलां विप्रवर्याय दत्वा यद्विन्दते फलम् ।
घृतस्नानेन देवस्य तत्फलं समवाप्नुयात् ॥ ५६ ॥

[[४१९]]

स्नाप्यमानन्तु सेवन्ते ये घृतेनोत्तरायणे ।
देवेशं ते विष्णुलोकं यास्यन्ति हतकल्मषाः ॥ ५७ ॥
दध्यादीनां विकाराणां क्षीरतस्सम्भवो यथा ।
तथैवाशेषकामानां क्षीरस्नापनतो हरेः ॥ ५८ ॥
आह्लादं निर्वृतिं स्वास्थ्यमारोग्यं यान्ति रूपताम् ।
यथा सुविमलं क्षीरं यथा च सुखकारणम् ॥ ५९ ॥
तथा स्नापयितुर्ज्ञानं भवेदेव न संशयः ।
ग्रहानुकूलतां पुष्टिं प्रियत्वञ्चाखिले जने ॥ ६० ॥
अनुगृह्णाति भगवान् क्षीरस्नापनतोषितः ।
बहुनाऽत्र किमुक्तेन घृतक्षीराभिषेचनम् ॥ ६१ ॥
नारायणस्य देवस्य कृतं सर्वार्थसाधनम् ।
पुष्पाणि च सुगन्धीनि मनोज्ञानि च यः पुमान् ॥ ६२ ॥
प्रयच्छेद्देवदेवाय तद्भावेन सुभावितः ।
धूपद्रव्याणि च तथा गन्धाद्यञ्चानुलेपनम् ॥ ६३ ॥
दीपान् बल्युपहारांश्च यच्चाभीष्टमथात्मनः ।
नरः प्रतिदिनं यज्ञकर्ता स्यादर्पणाद्धरेः ॥ ६४ ॥
यानि हृद्यानि पुष्पाणि धूपं गन्धानुलेपनम् ।
भूषणानि महार्हाणि यानि दिव्याम्बराणि च ॥ ६५ ॥
यानि चाभ्यवहार्याणि भक्ष्याणि च फलानि च ।
प्रयच्छेद्देवदेवाय तद्गतेनान्तरात्मना ॥ ६६ ॥
नित्ययाजी भवेत्सोऽपि सर्वयज्ञफलं लभेत् ।
पुण्यतीर्थोदकैर्दध्ना मधुना सर्पिषा तथा ॥ ६७ ॥
अष्टाविंशोऽध्यायः

[[४२०]]

क्षीरेण स्नापयेद्देवीमच्युतञ्च जगत्पतिम् ।
दधिक्षीरघृतस्पृष्टान् लोकान् प्राप्य मधुस्रवान् ॥ ६८ ॥
एधिष्यते नरश्रेष्ठो परां प्राप्नोति निर्वृतिम् ।
गीतवाद्यादिभिर्देवं य उपास्ते जनार्दनम् ॥ ६९ ॥
गन्धर्वगीतैर्नृत्तैस्स विमानस्थो निषेव्यते ।
जातिस्मरत्वं मेधाञ्च तथैवोपरतिस्मृतिम् ॥ ७० ॥
प्राप्नोति विष्ण्वायतने पुण्याख्यानकथाकरः ।
तुलस्या देवदेवेशमाराध्य गरुडध्वजम् ॥ ७१ ॥
देवेन्द्रपदवीं याति स स्यात्पूज्यतमो नरः ।
भक्त्या च पुरुषैः पूजा कृता दूर्वाफलाङ्कुरैः ॥ ७२ ॥
हरेः तोषकरी सा स्यात्सर्वयज्ञफलप्रदा ।
‘दम्भमानविहीनानां स्वार्थं विन्यस्य वै मयि ॥ ७३ ॥
अपराधहतानाञ्च मद्भक्त्या कर्म कुर्वताम् ।
प्रपन्नानामहं यामि शरण्यश्शरणं सदा ॥ ७४ ॥
करोमि सर्वं साहाय्यं तद्धि मे परमं व्रतम्’ ।
इति प्राह पुरा विष्णुर्भगवान् भक्तवत्सलः ॥ ७५ ॥
विष्वक्सेनप्रसादाच्च प्रसादाच्छार्ङ्गधन्वनः ।
प्रपन्नानां करस्था हि मुक्तिर्भक्तिर्हि तादृशी ॥ ७६ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे फलपाककथनं नाम अष्टाविंशोऽध्यायः ॥

[[४२१]]