२७ हविःपाकविधिः - धान्यानि

अथ सप्तविंशोऽध्यायः

हविःपाकविधिः - धान्यानि

अतः परं प्रवक्ष्यामि हविः पाकविधिं क्रमात् ।
हविरुद्दिश्य धान्यानि वस्तून्यन्यानि चाहरेत् ॥ १ ॥
हविरर्थञ्च सर्वेषां प्रशस्ताः शालिजातयः ।
अलाभे तत्र शालीनां व्रीहीनन्यान्त्समाहरेत् ॥ २ ॥
वर्ज्यधान्यानि - गुणाधिक्यञ्च

कङ्क्वादीनि कुधान्यानि वर्ज्यानि वरकोद्रवौ ।
व्रीहीणाञ्चैव सर्वेषां शालिर्दशगुणाधिकः ॥ ३ ॥
शताधिकः प्रियङ्गुस्स्यान्नीवारश्च सहस्रशः ।
द्विगुणो गर्भषष्टिस्स्यादनन्तौ यववेणुकौ ॥ ४ ॥
कोशधान्यानि सर्वाणि वर्जयेच्च विधानतः ।
कोशधान्येषु च ग्राह्या मुद्गा माषास्तिलाः क्रमात् ॥ ५ ॥
धान्यसंस्काराः

उक्तं धान्यं समाहृत्य आतपे सुष्ठु शोषयेत् ।
शुद्धैर्भक्तजनैश्चापि शुद्धे देशे मनोरमे ॥ ६ ॥
सप्तविंशोऽध्यायः

[[४०६]]

वितुषञ्च विकम्बूकमवघातञ्च कारयेत् ।
ततस्तण्डुलमाहृत्य शुद्धपात्रे तु निक्षिपेत् ॥ ७ ॥
देवतार्थं न गृह्णीयात्स्विन्नधान्योत्थतण्डुलान् ।
पञ्चधा हविः

शुद्धौदनं पायसञ्च कृसरं गौल्यमेव च ।
यावकञ्चैव देवानां पञ्चधा हविरुच्यते ॥ ८ ॥
तण्डुलैर्मुद्गमिश्रैर्वा केवलैर्वाथ तण्डुलैः ।
सम्यक्पक्वन्तु विधिना शुद्धौदनमिति स्मृतम् ॥ ९ ॥
पयसा संशृतञ्चान्नं पायसन्तु विदुर्बुधाः ।
तिलचूणैश्च सम्मिश्रमोदनं कृसरं विदुः ॥ १० ॥
तण्डुलात्त्रिगुणं दुग्धं दुग्धार्धं तोयमेव च ।
गुलं सर्पिस्तथा मुद्गं तण्डुलार्धं तथैव च ॥ ११ ॥
एवं पक्वन्त्वोदनं तद्गौल्यमित्यभिधीयते ।
यवतण्डुलसम्मिश्रं यावकं परिकीर्त्यते ॥ १२ ॥
हविः प्रमाणं

तण्डुलैः षोडशप्रस्थैः कुडुबेन घृतेन च ।
दध्ना प्रस्थद्वयेनापि पञ्चभिर्व्यञ्जनैर्युतम् ॥ १३ ॥
प्रत्येकं पञ्चभिर्भक्ष्यैः पलेनापि गुडेन वा ।
प्रस्थेन मुद्गसाराणां बैदलानामथापि वा ॥ १४ ॥
सम्यक्पक्वैः फलैरुक्तैर्मधुरैश्च रसोत्कटैः ।
उत्तमं हविरुद्दिष्टं देवेशाय निवेदयेत् ॥ १५ ॥

[[४०७]]

नित्यसान्निध्यसिद्ध्यर्थं तदर्धं मध्यमं भवेत् ।
तदर्धमधमञ्चेति कीर्तितं ब्रह्मणा पुरा ॥ १६ ॥
पाकप्रकारः

मृद्भाण्डे पाचनं श्रेष्ठं लोहपात्रेऽथवा पुनः ।
नूतनैरेव मृद्भाण्डैः पचनन्तु प्रशस्यते ॥ १७ ॥
एकस्मिन्नपचेत्पात्रे मृद्भाण्डे तु पुनः पुनः ।
लोहपात्रे पचेन्नित्यमिङ्गपर्यूषवर्जिते (?) ॥ १८ ॥
शुद्धिं कृत्वा देवतार्हं पचेन्नित्यं पुनः पुनः ।
वर्जयेच्चैव मृद्भाण्डे पचनन्तु पुनः पुनः ॥ १९ ॥
(यथोक्तमन्त्रैः पात्रेषु द्रोणार्धाधिकतण्डुलान्) ।
एकस्मिन्न पचेत्पात्रे द्रोणार्धादधिकं हविः ॥ २० ॥
हविः प्रभूतादिभेदः

अधिकं षोडशप्रस्थात्प्रभूतं हविरुच्यते ।
द्रोणानां पञ्चसप्तत्या तण्डुलानां प्रकल्पितम् ॥ २१ ॥
हविर्बहुविधैश्चैव दध्ना चापि घृतेन च ।
फलैर्बहुविधैश्चैव नानायोगरसैर्युतम् ॥ २२ ॥
नैमित्तिकप्रभूताख्यं हविः प्रोक्तं पुरातनैः ।
द्रोणार्धादधिकान्नं वा यथाशक्ति निवेदयेत् ॥ २३ ॥
तण्डुलैरेकजातीयैः मिश्रितैर्वा यथायथम् ।
प्रभूतादधिकं यत्तु महाहविरितीरितम् ॥ २४ ॥
सप्तशतेन विंशत्या द्रोणानां तण्डुलैः कृतम् ।
श्रद्धया चैव भक्त्या च उत्तमं स्यान्महाहविः ॥ २५ ॥
सप्तविंशोऽध्यायः

[[४०८]]

तदर्धं मध्यमं प्रोक्तं तदर्धमधमं भवेत् ।
आश्रितदेवानां हविर्दानम्

आलयाश्रितदेवानामन्येषां पार्षदामपि ॥ २६ ॥
देवोक्तहविषोऽर्धं वा यथाशक्ति हविर्ददेत् ।
निष्कपलादिमानसञ्ज्ञा

दशनिष्कं पलं प्रोक्तं कुडुबं तच्चतुर्गुणम् ॥ २७ ॥
चत्वारि तानि तु प्रस्थं तानि चत्वारि चाढकम् ।
तच्चतुर्गुणितं द्रोणं प्रमाणं हविषां परम् ॥ २८ ॥
व्यञ्जनानि

हविरेवं विधं प्रोक्तं व्यञ्जनानि भवन्ति च ।
कदली बृहतीभेदाः चूतं पनसयुग्मकम् ॥ २९ ॥
कूश्माण्डं ककुभाण्डञ्च उर्वारुकमतः परम् ।
गान्धं नाली च कार्कोटं नारिकेलमर्ककम् ॥ ३० ॥
कर्कन्धुस्तिन्त्रिणी चैव कारवल्लीविकल्पकम् ।
मुद्गाढक्यस्तथा भेदः माषा जीरकमेव च ॥ ३१ ॥
मसूरं मारिचञ्चैव सर्षपाश्च तथा परे ।
बिम्बमौदुम्बरञ्चैव क्षरसी रक्तहल्लकम् ॥ ३२ ॥
क्षुद्रकन्दं महाकन्दं कन्दं वै सुरणस्य च ।
उत्पलस्य च कन्दं वै शकुग्त्यार्द्रकस्य च ॥ ३३ ॥
वल्ल्यश्चैव महावल्ल्यो नागवल्ल्यस्तथैव च ।
मधुवल्ल्यश्च भाण्ड्यश्च वनवल्ल्यश्च सम्म्भरेत् ॥ ३४ ॥

[[४०९]]

फलानि यत्र पक्वानि वर्जयेत्तु विचक्षणः ।
रम्भाफलञ्च चूतञ्च यत्नतः पक्वमाहरेत् ॥ ३५ ॥
धान्यानि चान्यवस्तूनि योग्यान्येव समाहरेत् ।
धर्मशास्त्रेषु सिद्धानि देवप्रियकराणि च ॥ ३६ ॥
उपदंशांश्च सङ्ख्यातान् यथालाभं समाहरेत् ।
वर्ज्यशाकादीनि

बृहन्मरीचिं शिग्रुञ्च शाकजातिञ्च नीव्रकम् ॥ ३७ ॥
कोशातकीमलाबुञ्च लशुनादींश्च वर्जयेत् ।
निर्माल्यपर्युषितादिदोषविचारः

निवेदितावशिष्टन्तु पुनर्देवाय नार्पयेत् ॥ ३८ ॥
अन्नं वा व्यञ्जनं वापि भक्ष्यं वा फलमेव वा ।
नालिकेरार्धभागं वा पनसस्यार्धमेव वा ॥ ३९ ॥
कूश्माण्डाद्युपदंशानामर्धं पक्त्वाऽर्पितं यदि ।
शिष्टार्धं सन्त्यजेदेव पाकार्थं नैव कल्पयेत् ॥ ४० ॥
तत्स्यान्निवेदितसमं तस्मात्सर्वं समर्पयेत् ।
तत्तथैव न कुर्याच्चेन्महान् दोषो भविष्यति ॥ ४१ ॥
तीर्थं पुष्पाणि गन्धाश्च सर्पिस्तैलं घृतं तथा ।
अवशिष्यार्धमर्धञ्चेदर्पयेन्नैव दोषकृत् ॥ ४२ ॥
अपक्वञ्चापि विक्लिन्नं वर्णान्तरगतन्तु वा ।
गन्धदुष्टं सपाषाणमाघ्रातञ्च विसर्जयेत् ॥ ४३ ॥
सप्तविंशोऽध्यायः

[[४१०]]

अनाच्छन्नं हविर्यत्तु मुखवातविदूषितम् ।
तुषकेशादिसन्दुष्टमन्त्यजात्यक्षिसङ्गतम् ॥ ४४ ॥
लङ्घितं विवृतं शीतमन्यपात्रे न साधितम् ।
हविर्वा व्यञ्जनं वापि दुष्टं स्यात्तद्विसर्जयेत् ॥ ४५ ॥
हवींषि च व्यञ्जनानि सम्यक्पक्वानि सर्वदा ।
कोष्णान्येव यथाकालं निरवद्यानि चार्पयेत् ॥ ४६ ॥
न शुल्बे दधि गुह्णीयान्मासादूर्ध्वं घृतं तथा ।
सद्यो दुग्धं पयः श्रेष्ठं यामातीतं न चाहरेत् ॥ ४७ ॥
गव्यं पयः सदा ग्राह्यं नवनीतं घृतं दधि ।
न माहिषं दधि ग्राह्यं नाजं नाविकमेव वा ॥ ४८ ॥
तोयं पर्युषितञ्चापि नैव ग्राह्यं कदापि च ।
अपूपानि सुपक्कानि पैष्टिकानि च यानि वै ॥ ४९ ॥
पृथुकानि विकारांश्च तण्डुलानान्तु ये स्मृताः ।
भक्ष्याणि च रसाढ्यानि पुनः पाकयुतानि च ॥ ५० ॥
हविरर्पणकालात्तु भिन्ने काले निवेदयेत् ।
ग्राह्याग्राह्यफलानि

आम्रञ्च पनसञ्चैव कदलीफलमेव च ॥ ५१ ॥
नारिकेलञ्च खर्जूरं द्राक्षा जम्बूफलानि च ।
ककुन्दञ्च कपित्थञ्च फलं राजादनस्य च ॥ ५२ ॥
बदरामलके चैव भव्यं पारावतं तथा ।
दाडिमं मातुलुङ्गञ्च देवार्हाणि फलानि वै ॥ ५३ ॥

[[४११]]

मधुरेषु फलेष्वेकं वर्जयेत्तालवृक्षजम् ।
नारिकेलं कपित्थञ्च बिल्वञ्च बहिरस्थिकम् ॥ ५४ ॥
अन्तरस्थीनि शेषाणि सर्वाणीति न संशयः ।
क्षालयित्वाऽन्तरस्थीनि बहिरस्थि निरस्य च ॥ ५५ ॥
निवेदयेद्भगवते तदा तुष्यति केशवः ।
येषामन्तर्बहिश्चास्थि तानि नैव निवेदयेत् ॥ ५६ ॥
समुद्धृत्य रसालिं वै पनसस्य निवेदयेत् ।
तदस्थि च सुसन्तप्तं निवेद्यं कोष्णमुत्तमम् ॥ ५७ ॥
फलेषु सात्त्विकादिभेदः

मधुरं सात्त्विकं प्रोक्तं राजसञ्चाम्लमुच्यते ।
तामसं कटुकाषायमिति पक्वं फलं त्रिधा ॥ ५८ ॥
उत्तमं सात्त्विकं प्रोक्तं मध्यमं राजसं फलम् ।
अधमं तामसञ्चेति फलभेद उदाहृतः ॥ ५९ ॥
भक्ष्याणि

अपूपानि तथा सक्तुतिलमुद्गादिकल्पितम् ।
भक्ष्यवस्तु निवेद्यं स्यान्मरीचिलवणादिभिः ॥ ६० ॥
निवेदितं भगवते नाभक्ताय तु दापयेत् ।
पूजकानाञ्च भक्तानामेव दद्यादिति स्मृतिः ॥ ६१ ॥
मुखवासः

एलालवङ्गतक्कोलयुक्तं ताम्बूलमुत्तमम् ।
…………………………………. ॥ ६२ ॥
सप्तविंशोऽध्यायः

[[४१२]]

हविर्दानफलश्रुतिः

हवींषि चोपदंशांश्च यथायोग्यं प्रगृह्य च ।
फलान्यपि च भक्ष्याणि देवदेवस्य शार्ङ्गिणः॥ ६३ ॥
अर्हाण्येव विचिन्त्यैवं यो दद्याच्छ्रद्धयाऽन्वितः ।
सर्वपापविनिर्मुक्तस्सर्वान् कामानवाप्नुयात् ॥ ६४ ॥
(द्रोणं तण्डुलमुक्तमेव हि ततो द्रोणद्वयं गोपयः

द्रोणार्घ्यर्धजलं तथा घृतमपि द्रोणार्धमेवेष्यते ।
अष्टाविंशदथाधिकं……………………..पि

ग्राह्यं सप्तदशप्रमाणमुदितं गौल्ये हविश्चोत्तमम् ॥
द्रोणार्धं शालिसारं त्रिगुणमथ पयस्तत्पयोऽर्धन्तु तोयं

गौल्यंहृत्वाढकं स्याद्गुडमपि च चतुष्षष्टिमानं पलानि ।
पञ्चप्रस्थं तमेतद्धविरपि च………………………..

सम्यक् सुयोग्यं विखनसवचनं मध्यमं गौलिकान्नम् ॥
शालीतण्डुलमाढकं त्रिगुणितं गोक्षीरमुक्तं जलं

क्षीरार्धं घृतमाढकार्धमपि च प्रस्थद्वयं मुद्गजम् ।
सारं तत्कुडुबद्वयाधिकमतो………………….

मानं तत्र पलानि गौलिकविधौ विष्णोर्हविश्चाधमम् ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे हविःपाकविधिर्नाम सप्तविंशोऽध्यायः ॥

[[४१३]]