अथ षङ्विंशोऽध्यायः
आग्रयणदीपोत्सवौ
अथ वक्ष्ये हरेराग्रयणदीपोत्सवौ क्रमात् ।
उक्तो नवभिदाभिन्नः श्रीपतेरर्चनक्रमः ॥ १ ॥
संवत्सरोचितावेतौ द्वौ हरेरुत्सवौ मतौ ।
आग्रयणस्य उक्तकालः
कार्तिके मास्याग्रयणं दीपदानञ्च कारयेत् ॥ २ ॥
तयोराग्रयणस्यायं भवेद्वै पूजनक्रमः ।
शरदि व्रीहिभिः कुर्यान्नीवारैः शैशिरे तथा ॥ ३ ॥
श्यामाकैश्चैव वर्षासु वसन्ते च तथा यवैः ।
कुर्यादाग्रयणं देवयागाङ्गं प्रतिवत्सरम् ॥ ४ ॥
तत्कालसम्भवैर्धान्यैर्निर्वर्त्योऽयं मखः सदा ।
अलङ्कारः
धान्यान्यादाय स्तृणुयात्परितो देवमन्दिरम् ॥ ५ ॥
षड्विंशोऽध्यायः
[[४००]]
अलङ्कुर्यादालयञ्च दर्भमालादिभिस्तथा ।
अश्वत्थपल्लवाद्यैश्च द्वारालङ्करणं तथा ॥ ६ ॥
क्रमुकैः कदलीस्तम्भैः पुष्पमालादिभिस्तथा ।
मुक्तादामादिभिश्चैव पूर्णकुम्भाङ्कुरादिभिः ॥ ७ ॥
धूपैस्सुगन्धिभिर्दीपैस्सर्वत्रालङ्कृतिं चरेत् ।
देवेशमप्यलङ्कृत्य यथाविभवमादरात् ॥ ८ ॥
प्रदक्षिणं नयेद्ग्रामं चक्रशेषसमायुतम् ।
शाकभेदैः कालपक्वैः धान्यबन्धैश्च शोभनैः ॥ १ ॥
सर्वैः भक्तजनैस्सार्धं सर्ववाद्यैस्समन्वितम् ।
नृत्तैर्गेयैश्च भक्तानां तत्तद्देशोचितैरपि ॥ १० ॥
आग्रयणोत्सवक्रमः
आस्थानमण्डपे श्रीशं स्थापयित्वा समर्चयेत् ।
अङ्कुरार्पणपूर्वन्तु कुर्यात्कर्माणि कर्मवित् ॥ ११ ॥
शुभे मुहूर्ते सम्प्राप्ते कुर्यात् होममुपासकाः ।
नित्याग्नावथवाऽन्यत्र प्रज्वाल्याग्निं विधानतः ॥ १२ ॥
वैष्णवं पार्षदञ्चापि हुनेद्दिक्पालदैवतम् ।
आदित्यचन्द्रमन्त्रैश्च तथा मूर्तिभिरेव च ॥ १३ ॥
हुत्वा ततस्तु देवेशं सम्पूज्योचितविग्रहैः ।
प्राक्सिद्धधान्यसंसिद्धतण्डुलान् गुडसंयुतान् ॥ १४ ॥
रम्भाफलानि पक्कानि नारिकेलफलानि च ।
निवेदयेन्महाविष्णोर्मन्त्रे ‘णाप्यायता’मिति ॥ १५ ॥
[[४०१]]
तत्तन्मन्त्रैर्निवेद्यैव श्रीभूम्योः पार्षदामपि ।
दद्यादाचमनं पश्चान्मुखवासं तथा नवम् ॥ १६ ॥
पश्चाद्भक्तजनेभ्यश्च तण्डुलादीन् निवेदितान् ।
दापयेच्च यथायोगं तेन तुष्यति केशवः ॥ १७ ॥
ततोऽष्टविग्रहैर्देवमर्चयेच्च विधानतः ।
अहतं वस्त्रामास्तीर्य देवस्य पुरतस्ततः ॥ १८ ॥
नवतण्डुलसंसिद्धं हविस्सम्यक् निवेदयेत् ।
मूर्तिहोमादिकं सर्वं पूर्ववच्चाचरेद्बुधः ॥ १९ ॥
प्रभूतञ्च निवेद्येव अन्तहोमं समाचरेत् ।
अग्रे यूथाधिपस्यैव अर्चयित्वा विधानतः ॥ २० ॥
अष्टादशगणेभ्यश्च बलिं दद्याच्च तण्डुलैः ।
गोचर्ममात्रभूमिन्तु गोमयेनोपलिप्य च ॥ २१ ॥
आस्थानमण्डपे पश्चाद्वितानाद्यैरलङ्कृते ।
देवेशं नववस्त्रैश्च सोत्तरीयैरलङ्कृतम् ॥ २२ ॥
भूषणैर्भूषितं दिव्यैः समासाद्य यथोचितैः ।
अर्चयेदुपचारैश्च नृत्तगीतादिभिस्तथा ॥ २३ ॥
निवेदयेद्विशेषेण लोकानां हितकाम्यया ।
अन्तर्निनीय देवेशं पूर्वकुम्भाद्भिरुक्षयेत् ॥ २४ ॥
कल्पान्तरम्
आश्वयुज्यां पूर्णिमायां केचिदाग्रयणं हरेः ।
कर्तव्यमाहुर्देवस्य होमपूर्वं यथोदितम् ॥ २५ ॥
षड्विंशोऽध्यायः
[[४०२]]
वर्षदं सर्वलोकानां सर्वसम्पत्प्रदायकम् ।
एवमाग्रयणं विष्णोः कारयेद्यो विधानतः ।
सर्वपापविनिर्मुक्तो भुक्तिं मुक्तिञ्च विन्दति ॥ २६ ॥
कृत्तिकादीपोत्सवः
कृत्तिकर्क्षयुता या सा
कार्तिके मासि पूर्णिमा ।
प्रशस्ता दीपदानाय
तस्यां दीपोत्सवं चरेत् ॥ २७ ॥
यथाशक्ति समानीय सर्पिस्तैलमथापि वा ।
प्रदोषे देवतागारे दीपमालाः प्रकल्पयेत् ॥ २८ ॥
प्राकारादिषु सर्वत्र विशेषाद्द्वारगोपुरे ।
रात्रिपूजावसाने तु विमाने चालयादिषु ॥ २९ ॥
दीपस्तम्भः
देवस्य पुरतः स्तम्भे देवालयसमोन्नते ।
अधिके वा महादीपं महास्नेहं प्रकल्पयेत् ॥ ३० ॥
दीपकूटांस्तटाकादौ कल्पयेच्च चतुर्दिशम् ।
देवेशं समलङ्कृत्य निवेश्यास्थानमण्डपे ॥ ३१ ॥
नृत्तगेयादिभिर्दिव्यैः ततः सम्पूजयेद्धरिम ।्
(कुम्भं संस्थाप्य चाघारितेऽग्नौ चावाहनं चरेत्) ॥ ३२ ॥
जुहुयाद्वैष्णवैर्मन्त्रैः मूर्तिहोमपुरस्कृतैः ।
हुनेच्छ्रीभूमिदैवत्यमाग्नेयञ्चापि मन्त्रवित् ॥ ३३ ॥
[[४०३]]
होमान्तेऽत्र प्रभूतञ्च हवींषि च निवेदयेत् ।
(महानसे शरावांस्तु न्यस्य पुण्याहमाचरेत्) ॥ ३४ ॥
दीपदानं
रौक्मे ताम्रेऽथ वा पात्रे शरावांस्तांश्च सन्न्यसेत् ।
वर्तिकास्तासु सन्न्यस्य घृतेनाऽऽपूर्य मन्त्रतः ॥ ३५ ॥
‘उद्दीप्य’ स्वेति मन्त्रेण दीपानुद्दीप्य तेषु च ।
श्रियमावाहयेद्देवीमर्चयेदष्टविग्रहैः ॥ ३६ ॥
निवेद्य च विशेषेण मुखवासं निवेदयेत् ।
द्विजमूर्धसु निक्षिप्य शरावान् वाद्यसंयुतम् ॥ ३७ ॥
धामप्रदक्षिणं नीत्वा देवस्याभिमुखं नयेत् ।
आराध्य दीपैर्देवेशं प्रदोषसमये क्रमात् ॥ ३८ ॥
नारिकेलञ्च ताम्बूलं पाद्यमाचमनं ददेत् ।
प्रतिद्वारं ददेद्दीपान् पारिषद्यालयेषु च ॥ ३९ ॥
आस्थाने संस्थितं देवमानयेन्मण्डपाद्बहिः ।
वास्तुहोमं ततो हुत्वा पुण्याहमपि वाचयेत् ॥ ४० ॥
स्वर्गतालः
विमानतुलितायामविस्तारं स्वर्गतालकम् ।
कल्पयेत्तालपत्रेण घनीकृत्य कृतेन वै ॥ ४१ ॥
चतुर्द्वारयुतं तालवृक्षाकारं विशेषतः ।
पुण्याहवारिणा प्रोक्ष्य कृत्वा पर्यग्निमेव च ॥ ४२ ॥
षड्विंशोऽध्यायः
[[४०४]]
श्रियमावाह्य तन्मूर्न्धि शिष्येणोद्दीपयेत्तरुम् ।
वर्तिकादीपिका दिक्षु क्षिप्त्वा चोद्दीपयेत्ततः॥ ४३ ॥
आचार्यस्स्वर्गसोपानदीपेनोद्दीपयेत्तथा ।
जनानाञ्च भवेच्छ्रेयः भक्त्या तद्भस्मधारिणाम्॥ ४४ ॥
तेषां व्याधिभयं न स्याद्रक्षामूर्ध्वे हरेर्लिखेत् ।
पश्चादाराध्य देवेशं घटदीपञ्च दर्शयेत्॥ ४५ ॥
हविर्लाजान् निवेद्यैव ग्राममालयमेव वा ।
परिक्रम्य च देवेशं सर्वालङ्कारसंयुतम्॥ ४६ ॥
यथास्थानं नयेच्चैव नित्यपूजाविधौ कृते ।
बहुलाजगुडैर्मिश्रं मरीच्यैलासमन्वितम्॥ ४७ ॥
गुडान्नं घृतसम्मिश्रं सापूपञ्च निवेदयेत् ।
भक्तानां दापयेत्तैलं लाजान् सर्वं निवेदितम्॥ ४८ ॥
ददेद्राज्ञाञ्च लाजांश्च ध्रुवं सम्प्रेक्षयेद्बुधः ।
मासे तु कार्तिके कुर्यान्नित्यं दीपसमर्पणम्॥ ४९ ॥
सन्ध्यादीपार्पणञ्चापि कुर्याच्छ्रद्धासमन्वितः ।
आलये मण्डपे कूटे गृहद्वारे मठेऽपि वा॥ ५० ॥
बहुदीपानथैकं वा योऽर्पयेद्यत्र’ कुत्रचित् ।
तस्य देवेश्वरो विष्णुः प्रसीदति न संशयः॥ ५१ ॥
किम्पुनस्सन्निधौ विष्णोरर्पणात्तन्महत्फलम् ।
नित्यं कर्तुमशक्तश्चेन्मासर्क्षे वा विशेषतः॥ ५२ ॥
[[४०५]]
दीपैस्सम्पूजयेद्विष्णुं सोऽपीष्टान् समवाप्नुयात् ।
तस्माद्दीपं समारोप्य योऽर्चयेत्स तु सान्वयः ।
इह लोके सुखीभूत्वा विष्णुलोके महीयते॥ ५३ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे आग्रयणदीपोत्सवविधिर्नाम षड्विंशोऽध्यायः ॥