अथ चतुर्विंशोऽध्यायः
नवविधार्चनम् - नित्यार्चनविधिश्च
अथातस्सम्प्रवक्ष्यामि नवधा पूजनक्रमम् ।
उत्तमं मध्यमञ्चैव कनिष्ठञ्चानुपूर्व्यशः ॥ १ ॥
एकैकन्तु त्रिधा कृत्वा नवधा भेद ईरितः ।
त्रिकालबलिसंयुक्तैः विग्रहैस्सार्धयामकैः ॥ २ ॥
माल्यैर्दिव्यैश्च गन्धैश्च धूपैर्दीपैस्तथोत्तमैः ।
महार्घरत्नसंयुक्तैः मकुटादिविभूषणैः ॥ ३ ॥
नानावर्णाम्बरैश्चित्रैः चित्रकक्ष्यासमन्वितैः ।
हविर्भिरुत्तमैश्चपि मूर्तिहोमैस्त्रिकालकैः ॥ ४ ॥
समस्तपरिवाराणां मूर्तिमन्त्रहुतादिभिः ।
पानीयैर्मुखवासैश्च गन्धोत्तमसुवासितैः ॥ ५ ॥
चतुर्विंशोऽध्यायः
[[३७८]]
योषितां नृत्तगीतैश्च पञ्चगान्धर्वसंयुतैः ।
वीणावेणुमृदङ्गाद्यैः वाद्यैर्गेयैरनेकशः ॥ ६ ॥
स्तोत्रैश्च देवदेवस्य विजयक्रीडनक्रमैः ।
पुराणोक्तैश्च गाधाभिरसङ्ङ्ख्याभिस्समायुतम् ॥ ७ ॥
पूजनं देवदेवस्य विष्णोस्स्यादुत्तमोत्तमम् ।
हविषा मध्यमेनापि बलिना मध्यमेन च ॥ ८ ॥
पूर्ववन्मूर्तिहोमेन अर्धयामार्चनेन च ।
नित्यं हि पूजनं विष्णोरेतदुत्तममध्यमम् ॥ ९ ॥
विग्रहैरेव तावद्भिः हविषा मध्यमेन च ।
अर्धयामेन हविषा मध्यमेनाधमेन वा ॥ १० ॥
द्विकालमूर्तिहोमेन पूजनञ्चोत्तमाधमम् ।
विग्रहैरेव तावद्भिः हविषा मध्यमेन च ॥ ११ ॥
मध्याह्ने वाऽन्त्यकाले वा हविषा चाधमेन च ।
द्वारालयदिगीशानामनपायिगणस्य च ॥ १२ ॥
गर्भालयस्थदेवानां वीशशैषिकयोरपि ।
मूर्तिहोमसमायुक्तं मध्याह्ने प्रातरेव वा ॥ १३ ॥
नित्यं यत्पूजनं विष्णोरेतत्स्यान्मध्यमोत्तमम् ।
विग्रहैरेव तावद्भिः हविषा चाधमेन च ॥ १४ ॥
[[३७९]]
त्रिकालमर्धयामेन होमेनापि च पूर्ववत् ।
उक्तं यत्पूजनं तद्धि हरेर्मध्यममध्यमम् ॥ १५ ॥
विग्रहैरेव तावद्भिः यथालब्धैश्च व्यञ्जनैः ।
हविषा चाधमेनापि मध्यरात्रार्चनं विना ॥ १६ ॥
वीशशैषिकहोमेन सह वा विधुरेण वा ।
पूजनं यत्समुद्दिष्टं तद्विष्णोर्मध्यमाधमम् ॥ १७ ॥
विग्रहैस्सप्तविंशद्भिः हविषा चाधमेन च ।
एकेन व्यञ्जनेनापि द्वाभ्यां वा मुनिसत्तमाः ॥ १८ ॥
युक्तं तद्दधिसर्पिर्भ्याम् अधमोत्तमपूजनम् ।
विग्रहैस्सप्तविंशद्भिः हविषा चाधमेन च ॥ १९ ॥
एकेन व्यञ्जनेनापि मधुरेण फलेन वा ।
मध्याह्न एककाले तु दधिसर्पिस्समन्वितम् ॥ २० ॥
अधमे मध्यमं प्रोक्तमेतद्वै पूजनं हरेः ।
विग्रहैस्सप्तविंशद्भिः हविषा चाधमेन च ॥ २१ ॥
चरुणा वा समायुक्तं यत्त्रयोदशविग्रहैः ।
पूजनं तद्यथालाभलब्धैस्तदधमाधमम् ॥ २२ ॥
चतुर्विंशोऽध्यायः
[[३८०]]
मुखवासं यथालाभमुत्तमादिषु कल्पयेत् ।
द्रव्यमुत्तमपूजायां नागुणं क्कचिदाहरेत् ॥ २३ ॥
उत्तमं पूजनं कार्यमनुत्कृष्टेऽपि नैत्यके ।
आलये त्रिकालार्चनं
देवालयेषु प्रशस्तं त्रिकालं पूजनं भवेत् ॥ २४ ॥
एककालं द्विकालं वा यथेष्टं स्याद्गृहार्चने ।
अर्चनकालव्यवस्था
अर्कोदयाच्चामध्याह्नात्तथैवाऽस्तमयाद्रवेः ॥ २५ ॥
कालस्स्यादुत्तमे यामो मध्यमे पञ्च नाडिकाः ।
यामार्धमधमे प्रोक्तः पूजने मधुघातिनः ॥ २६ ॥
(अह्नि द्वादशनाड्यस्स्युः रात्रौ चेद्दश नाडिकाः ।
पञ्च पञ्चैव घटिकास्सन्ध्याकाल उदाहृतः ? ॥)
उत्तमे पूजनाकालो दश पञ्च च नाडिकाः ।
मध्यमे पूजनाकालः एकयाम उदीरितः ॥
अधमे नाडिकाः पञ्च तिस्रो नाड्योऽधमाधमे ।
उक्तसन्ध्यादिकालस्तु विज्ञेयस्त्वर्धयामकः ॥
पूजनं सर्वदा सन्ध्याकालानतिक्रममाचरेत् ।
सङ्गीतादिप्रवृत्तन्तत् सन्ध्यन्तरमथाचरेत् ॥
उत्तमादिषु चैतेषु यथायोग्यं विधानवित् ?)
नित्यार्चनाविधिः
अथातस्सम्प्रवक्ष्यामि नित्यपूजाविधिक्रमम् ।
उद्घाटयेद्गोपुरस्य कवाटावरणोदये ॥ २७ ॥
[[३८१]]
प्रविश्यान्तर्ध्वजस्थानात् देवदेवं प्रबोधयेत् ।
भेरीपणवशङ्खादिसर्ववाद्यानि घोषयेत् ॥ २८ ॥
आलयेऽन्तर्बहिश्चैव मार्जन्या शोधयेच्छुचिः ।
शुद्धोदकैः प्रोक्षयेच्च गोमयेनोपलेपयेत् ॥ २९ ॥
कुर्युः पदार्थिनस्त्वेवमेष नित्यो हितो विधिः ।
आलयप्रवेशादिः
अर्चको यजमानश्च पाचकाः परिचारकाः ॥ ३० ॥
स्नात्वा स्नानविधानेन यथाकालं समाहिताः ।
समाप्य नित्यकृत्यानि यथोक्तानि यथार्हतः ॥ ३१ ॥
गच्छेयुरालयं पश्चादाचार्यस्त्वथवाऽर्चकः ।
शिष्यान् स्नातान् नियुञ्जीत स्वस्वकर्मस्वतन्द्रितान् ॥ ३२ ॥
द्वारसंरोधनं कुर्यात्ततो यवनिकामुखात् ।
दीपारोपणं
शिष्यस्तु दीपयेद्दीपान् नित्यदीपादखण्डितात् ॥ ३३ ॥
घृतेनापूरयेद्दीपान् कुर्यात्प्रज्वलितान् कृतान् ।
विश्वरूपसेवाप्रकारः
नीत्वा यवनिकां देवस्याऽऽदर्शं कन्यकां गजम् ॥ ३४ ॥
तुरगं गायकान् विप्रान् पुरतः स्थाप्य दर्शयेत् ।
कर्पूरदीपेनैतद्धि विश्वरूपप्रदर्शनम् ॥ ३५ ॥
सद्यस्सवत्सां गां दुग्ध्वा क्षीरं धारोष्णमादरात् ।
आनीयं शर्करायुक्तं देवेशाय निवेदयेत् ॥ ३६ ॥
चतुर्विंशोऽध्यायः
[[३८२]]
मात्रादानम्
मात्रां दद्यादर्चकाय कुर्याद्यवनिकां पुनः ।
शुद्धिः
तीर्थमानीयार्चनार्थं पात्राणि परिशोधयेत् ॥ ३७ ॥
कुर्यात्पुण्याहमाचार्यः पञ्चगव्यञ्च साधयेत् ।
गर्भालयादि सर्वत्र प्रोक्षणैः प्रोक्षणं चरेत् ॥ ३८ ॥
पात्रशुद्धिं ततः कुर्याच्छोषणाद्यैस्ततः क्रमात् ।
भूतशुद्धिः
आत्मनो भूतशद्धिञ्च योगमार्गेण कारयेत् ॥ ३९ ॥
बिम्बशुद्धिं ततः कुर्यात् देवदेवस्य पादयोः ।
मन्त्रस्नानासने
पुष्पाणि न्यस्य मन्त्रेण समादाय तु कौतुकम् ॥ ४० ॥
अथवा स्नापनं बेरं स्नानपीठे निधापयेत् ।
स्नापयेत्पञ्चकलशस्नपनोक्तविधानतः ॥ ४१ ॥
अलङ्कारासनम्
अलङ्कारासनं पश्चात् सङ्कल्प्य विहितांस्तदा ।
समर्पयेच्च विधिना उपचारान् समाहितः ॥ ४२ ॥
भोज्यासनम्
भोज्यासनं कल्पयित्वा हविः पाकोक्तमार्गतः ।
दध्यन्नमथ मुद्गान्नं ससूपं व्यञ्जनैर्युतम् ॥ ४३ ॥
[[३८३]]
शुद्धान्नं सघृतं प्रातः पायसञ्च निवेदयेत् ।
मध्याह्नार्चनम्
मध्याह्ने चोपचारांश्च प्रातरुक्तान् समर्पयेत् ॥ ४४ ॥
दर्शयेद्घटदीपञ्च पाद्यार्घ्याचमनानि च ।
तिन्त्रिणीरससंयुक्तं तैलार्द्रं चित्रमोदनम् ॥ ४५ ॥
हविश्शुद्धञ्च चोष्यादि पञ्चभक्ष्यसमन्वितम् ।
सोपदंशं घृतगुडं देवेशाय निवेदयेत् ॥ ४६ ॥
ततः परं गुडापूपं घृतं सूपञ्च पायसम् ।
नानाव्यञ्जनसंयुक्तहवींषि च निवेदयेत् ॥ ४७ ॥
सायमर्चनम्
पश्चात् सायाह्नसमये सम्भाराहरणं चरेत् ।
सन्ध्यामुपास्य विधिना आलयं सम्प्रविश्य च ॥ ४८ ॥
तुलसीपुष्पमालाभिरलङ्कुर्यात्प्रभुं हरिम् ।
कदलीबृहतीकारवल्लिकाद्यैस्सुपाचितैः ॥ ४९ ॥
शाकैस्सतिन्त्रिणीकैश्च पक्वमन्नं तथा हविः ।
घृताक्तमन्नञ्चापूपं माषक्लृप्तं निवेदयेत् ॥ ५० ॥
पश्चात् प्रक्षाल्य पात्राणि पूजार्थानि यथाविधि ।
नवेनापूर्य तोयेन सङ्कल्प्यार्चनमारभेत् ॥ ५१ ॥
अष्टोत्तरशतेनोपचाराणां देवमर्चयेत् ।
आलयेऽन्तर्बहिश्चैव दीपानुद्दीपयेत्क्रमात् ॥ ५२ ॥
चतुर्विंशोऽध्यायः
[[३८४]]
मृणालसूक्ष्मसूक्ष्मैश्च तन्तुभिः क्लृप्तवर्तिकान् ।
दीपयेद्ध्वजदण्डादिसमीपे ज्वलनान्तरान् ॥ ५३ ॥
वेदसूत्रपुराणादीन् श्रावयेद्देवसन्निधौ ।
नृत्तं गीतञ्च वाद्यानि यथावित्तं प्रकल्पयेत् ॥ ५४ ॥
हविर्दानप्रकारः
भोज्यासने तु क्षीरान्नं द्रोणतण्डुलपाचितम् ॥ ५५ ॥
स्वर्णादिपात्रेष्वादाय अभिघार्य घृतेन वै ।
दिव्यवस्त्रेण चाच्छाद्य धृत्वा मूर्ध्नि महानसात् ॥ ५६ ॥
आनाय्य सन्न्यसेद्देवदेवस्य पुरतः शुचौ ।
मण्डले चतुरश्रे तु देशे यवनिकान्तरे ॥ ५७ ॥
समाहरेच्च सुहितं मधुपर्कं यथाविधि ।
हविश्च शर्कराक्षीरघृतयुक्तं मनोहरम् ॥ ५८ ॥
नानाव्यञ्जनसंयुक्तं सूपापूपफलादि च ।
दिव्यान्नं षड्रसोपेतं कृसरञ्च गुडौदनम् ॥ ५९ ॥
निवेद्य शीतं सुरभि पानीयञ्च निवेदयेत् ।
हविरर्पणकाले तु घण्टासन्ताडनञ्चरेत् ॥ ६० ॥
वाद्यानि वादयेच्चैव यथाविभवविस्तरम् ।
कर्पूरयुक्तं ताम्बूलं काले काले निवेदयेत् ॥। ६१ ॥
परिवारार्चनं होमं धूपदीपादिभिर्बलिम् ।
त्रिषु कालेषु दद्याच्च कालेष्वन्येषु नाचरेत् ॥ ६२ ॥
[[३८५]]
शयनासनम्
अर्चाबिम्बे तु माल्यादीन् विमोच्य च सुगन्धिभिः ।
अलङ्कृत्य पुनर्देवं कल्पयेच्छयनासनम् ॥ ६३ ॥
गुडान्नं क्षीरसम्पृक्तं घृतसूपगुलोत्तरम् ।
मरीचिमिश्रमन्नं वा कटाहे पात्र एव वा ॥ ६४ ॥
घनक्षीरं शुण्ठिरसशर्करायुतमर्पयेत् ।
एलालवङ्गतक्कोलजातिकर्पूरसंयुतम् ॥ ६५ ॥
ताम्बूलं विनिवेद्यैव कर्पूरं दीपमर्पयेत् ।
अखण्डदीपमुद्दीप्य वीणावाद्यञ्च वादयेत् ॥ ६६ ॥
‘सूर्यस्त्वेति’ कवाटौ च बन्धयेत्सुसमाहितः ।
उत्तमोत्तममित्युक्तमर्चनं परमेष्ठिना ।
एवं कृते राजराष्ट्रवृद्धिस्स्यान्नात्र संशयः ॥ ६७ ॥
बल्युत्सवप्रकारः बेरलक्षणम्
उत्तमत्रिकपूजासु कुर्याद्बल्युत्सवं पुनः ।
बिम्बं सलक्षणं प्रोक्तं बल्यर्थं शास्त्रकोविदैः ॥ ६८ ॥
कौतुकस्य त्रिभागैकमितं बिम्बं बलेस्स्मृतम् ।
ध्रुवबेरमुखायाममितमर्धायतन्तु वा ॥ ६९ ॥
यजमानस्य मानेन षोडशाङ्गुलमेव वा ।
(त्रयोदशाङ्गुलं वापि रुद्राङ्गुलमथापि वा) ॥ ७० ॥
सुवर्णरूप्यताम्राणामेकलोहेन कारयेत् ।
ब्रह्मभागादन्यदेशे स्थापयेदुचिते क्रमात् ॥ ७१ ॥
चतुर्विंशोऽध्यायः
[[३८६]]
कौतुकस्य प्रतिष्ठाप्य वामपार्श्वे समर्चयेत् ।
आसीने स्थानके वापि शयाने वा ध्रुवे सदा ॥ ७२ ॥
बलिबेरं कारयेत्तु केवलं स्थानकं बुधः ।
नित्यसन्ध्याबलेरग्रे समलङ्कृत्य नाययेत् ॥ ७३ ॥
एष सन्ध्युत्सवो नाम नित्योत्सव उदाहृतः ।
अनेन चोत्सवेन स्यान्महोत्सवफलं नृणाम् ॥ ७४ ॥
तस्मान्नित्योत्सवं भक्त्या कुर्यादेवाविचारयन् ।
उत्तमाधममध्येषु यथाविभवविस्तरम् ॥ ७५ ॥
अनिर्वाणप्रदीपानां कर्तव्यं स्थापनं बुधैः ।
आलयाश्रितदेवपूजानियमः
पारिषद्यगणस्यापि पूजनन्तूत्तमत्रिके ॥ ७६ ॥
द्वारालयदिगीशानामनपायिगणस्य च ।
पूजनं पारिषद्यानां कार्यं स्यान्मध्यमत्रिके ॥ ७७ ॥
द्वारालयपतीनाञ्चाप्यनपायिगणस्य च ।
पूजाऽधमत्रिके युक्ता तथाऽऽद्ये तरुणालये ॥ ७८ ॥
गर्भगेहान्तरस्थानां वीशशैषिकयोस्तथा ।
पूजा सर्वत्र कर्तव्या अभेदेनार्चनाविधौ ॥ ७९ ॥
न्यक्षादीनर्चयेन्न्यक्ष देवस्यं प्रमुखेऽर्चयेत् ।
त्रीनन्यांश्चोक्तमार्गेण तत्तद्दिशि समर्चयेत् ॥ ८० ॥
स्वे स्वे स्थाने दिगीशांश्च प्रादक्षिण्यक्रमेण वै ।
धात्रादीनान्तु षण्णां वै धामपानां तथैव च ॥ ८१ ॥
[[३८७]]
तथाऽनपायिनाञ्चापि विहाय विहगाधिपम् ।
आलये वा बालगेहे पीठे चाप्यर्चनं भवेत् ॥ ८२ ॥
प्रतिमां वापि चित्रं वा चित्राभासमथापि वा ।
कल्पयेत्पारिषद्यानामन्येषां विहिते स्थले ॥ ८३ ॥
तदा तदग्रे पीठे वै नित्यं पूजां समाचरेत् ।
बालगेहे तु सर्वेषां पीठ एवार्चनं मतम् ॥ ८४ ॥
नित्ययात्राबलिक्रमः बलिपात्रम्
अतः परं प्रवक्ष्यामि नित्ययात्राबलिक्रमम् ।
वृत्तं वा चतुरश्रं वा भुवङ्गार्धप्रमाणतः ॥ ८५ ॥
कुर्याद्वै बलिपात्रन्तु यथाशास्त्रमतन्द्रितः ।
भुवङ्गं पञ्चधा कृत्वा द्विभागं संव्यपोह्य च ॥ ८६ ॥
द्विभागं वा त्रिभागं वा बलिपात्रन्तु कारयेत् ।
तन्मध्ये कर्णिकायाममष्टाङ्गुलमिति स्मृतम् ॥ ८७ ॥
एकाङ्गुलोन्नतञ्चापि अष्टदिक्षु दलान्वितम् ।
दलस्य विस्तरायामौ भागमात्रमितौ तथा ॥ ८८ ॥
कुर्यात्पद्मं पात्रभित्तिः द्व्यङ्गुलप्रमिता भवेत् ।
अर्धाङ्गुलमितश्चापि पात्रसीमा विधीयते ॥ ८९ ॥
सौवर्णं राजतं ताम्रं शतत्रयपलैर्धनम् ।
अथवा द्विशतैः कुर्यात्पञ्चाशत्पलमानकम् ।
चत्वारिंशद्भिरथवा द्वात्रिंशद्भिः पलैस्तु वा ॥ ९० ॥
वित्तशाठ्यं न कुर्वीत कुर्याद्वित्तानुसारतः ।
तत्र निक्षिप्य बल्यन्नं सायं प्रातर्बलिं ददेत् ॥ ९१ ॥
चतुर्विंशोऽध्यायः
[[३८८]]
बलिद्रव्यम्
बलिद्रव्यं प्रवक्ष्यामि यथावदनुपूर्वशः ।
यवैर्वा शालिभिर्वापि व्रीहिभिर्वा प्रियङ्गुभिः ॥ ९२ ॥
श्यामाकैर्वैणवैर्वापि तण्डुलैः पाचयेद्धविः ।
बलिद्रव्यप्रमाणं
द्विप्रस्थं वा चतुःप्रस्थं षडष्टप्रस्थसम्मितम् ॥ ९३ ॥
यथाशक्ति समाहृत्य तण्डुलान् पाचयेद्बलिम् ।
बलिकालः
त्रिकालं बलिरुक्तं स्यादुत्तमोत्तमकल्पतः ॥ ९४ ॥
द्विकालं मध्यमं विद्यादधमञ्चैककालिकम् ।
बलिभेदः
पूर्वाह्ने बलिरन्नं स्यान्मध्याह्ने न बलिं चरेत् ॥ ९५ ॥
सायञ्चार्घ्यबलिं कुर्यान्मध्यमं हि तदुच्यते ।
प्रातः पुष्पबलिं कुर्यान्मध्याह्नेऽन्नबलिं ददेत् ॥ ९६ ॥
सायञ्चार्घ्यबलिं दद्यादधमं हि विदुर्बलिम् ।
बलिपीठम्
बलिपीठमहं वक्ष्ये कारयेत्तु शिलादिभिः ॥ ९७ ॥
द्वादशाङ्गुलमानोच्चमुत्तमं पीठमुच्यते ।
दशाङ्गुलप्रमाणोच्चं मध्यमन्तु विदुर्बुधाः ॥ ९८ ॥
[[३८९]]
अष्टाङ्गुलप्रमाणोच्चमधमं परिचक्षते ।
आयामाद्द्विगुणं नाहं क्रमादग्रं क्षयं नयेत् ॥ ९९ ॥
(तत्प्रतिष्ठोक्तमार्गेण प्रतिष्ठाप्य यथाविधि
तथा तद्देवमावाह्य बलिं तदुपरि क्षिपेत्)
बलिमूर्तिकल्पनम्
अभिघार्य चरुं पूर्वं पात्रञ्चैवाभिघार्य च ।
हविषा सह पक्वञ्चेद्धविः प्रक्षिप्य पूर्ववत् ॥ १०० ॥
पात्राधिपं रविञ्चार्च्य पश्चादन्नं विनिक्षिपेत् ।
बलिरूपं प्रमाणेन पश्चात्सम्मर्दयेद्बुधः ॥ १०१ ॥
पूर्वोक्तेन प्रमाणेन मर्दयित्वा बलिं पुनः ।
‘अन्नं प्रजापतिञ्चेति ब्रह्माणमिति चार्चयेत् ॥ १०२ ॥
विष्णुशक्तिं सर्वभूतहित’ मित्येव नामभिः ।
आवाह्यान्ने बलिं सम्यगर्घ्यान्तञ्च समर्चयेत् ॥ १०३ ॥
पात्रेऽर्घ्यबलिमापूर्य चार्घ्यद्रव्यैस्तु भाजनम् ।
अभ्यर्चयेद्धरिं तत्र दद्यादर्घ्यबलिं क्रमात् ॥ १०४ ॥
यदि पुष्पबलिस्स्यात्तु पुष्पमालासमायुतम् ।
अष्टाङ्गुलोन्नतं वापि भागोन्नतमथापि वा ॥ १०५ ॥
पात्रं पुष्पैः प्रपूर्यैवं तत्र देवं समर्चयेत् ।
बलिबिम्बप्रकारः
अथवा कारयेद्विद्वान् बलिबिम्बं सलक्षणम् ॥ १०६ ॥
चतुर्विंशोऽध्यायः
[[३९०]]
नित्योत्सवार्थं विधिवत्सर्वाभिरणसंयुतम् ।
सौवर्णं राजतं वापि तथा ताम्रमयन्तु वा ॥ १०७ ॥
अष्टाङ्गुलादहीनोच्चं प्रभामण्डलसंयुतम् ।
पूर्वभागे कौतुकस्य दक्षिणे चोत्तरेऽपि वा ॥ १०८ ॥
स्थापयेन्नित्यपूजायामन्तरालेऽथवा न्यसेत् ।
अर्घ्यान्तमर्चयेद्विद्वान् त्रिकालञ्चैव यत्नतः ॥ १०९ ॥
वस्त्रोत्तरीयसंयुक्तं सर्वालङ्कारसंयुतम् ।
शिष्यं गरुडवद्ध्यात्वा पूजयेद्विधिकोविदः ॥ ११० ॥
अर्घ्यान्तं पूजयित्वा तु गरुडं मनसा स्मरन् ।
पश्चात्प्रणम्य देवेशं घण्टां सन्ताड्य मन्त्रवित् ॥ १११ ॥
धामप्रदक्षिणं
वैष्णवं मन्त्रमुच्चार्य हस्ताभ्यां बिम्बमाहरेत् ।
पूर्वं बिम्बं समादाय शिष्यस्य शिरसि न्यसेत् ॥ ११२ ॥
बलिं पश्चात्समादाय ‘बृहस्पति’ रितीरयन् ।
शिष्यस्यैव तथा तूर्णं हस्ताभ्यां शिरसि न्यसेत् ॥ ११३ ॥
‘उद्यन्ते’ ति ततो जप्त्वा देवमानम्य चादरात् ।
शिष्य आदाय हस्ताभ्यामुत्तराभिमुखो व्रजेत् ॥ ११४ ॥
अथवा यानमारोप्य सर्ववाद्यसमायुतम् ।
देवं समानयेदन्नबलिं शिष्यस्समाहरेत् ॥ ११५ ॥
न तिष्ठेन्न द्रुतं गच्छेत् न जल्पेन्न हसेच्च वा ।
न कुप्येद्वाग्यतो भूत्वा नयेत्तद्गतमानसः ॥ ११६ ॥
[[३९१]]
(विमानं परितो गच्छेत्परिवारयुतः पुनः ।
भूतपीठं ततः पश्चात्कुर्याच्चैव प्रदक्षिणम्
पूर्वं तोयं ततश्चान्नं पश्चात्तोयं ददेद्बुधः ।
बलिपीठं प्रतिदिनं क्षालयेदुदकेन वै)
प्राकारबहुत्वे प्रदक्षिणव्यवस्था
एकप्राकारके चैवं द्विप्रकारविमानके ।
(प्रकारे प्रथमे पूर्वं कुर्यादेकं प्रदक्षिणम्)
पूर्वोक्तेन क्रमेणैव त्रिः प्रदक्षिणमाचरेत् ॥ ११७ ॥
द्वितीयावरणे हीने प्राकारे प्रथमे पुनः ।
प्रदक्षिणत्रयं कुर्यादिति पूर्वजशासनम् ॥ ११८ ॥
अन्तः प्रवेशः
प्रथमद्वारपार्श्वे तु स्थित्वा चैवोत्तरामुखः ।
पादौ प्रक्षाल्य चैवाद्भिः देवागारं विशेद्गुरुः ॥ ११९ ॥
रक्षादीपः
तार्क्ष्यस्य पश्चिमे स्थित्वा देवदेवं निरीक्ष्य वै ।
……………………………………….. ।
रक्षादीपं दर्शयित्वा देवायार्घ्यं प्रदापयेत् ॥ १२० ॥
आदाय दीपं गणिका त्रिर्वाद्यैस्तु परिक्रमेत् ।
अपूपं फलताम्बूलं दद्यादाचमनीयकम् ॥ १२१ ॥
पुष्पाञ्जलिं समर्प्याथ नमस्कृत्य यथाविधि ।
चतुर्विंशोऽध्यायः
[[३९२]]
यथास्थाने प्रवेशः
बिम्बमादाय हस्ताभ्यां पूजकः प्रयतात्मवान् ॥ १२२ ॥
जीवस्थाने प्रतिष्ठाप्य नमस्कुर्याद्यथाविधि ।
बल्यग्रसमर्पणम्
बल्यग्रन्तु समादाय विष्वक्सेनालयं व्रजेत् ॥ १२३ ॥
निवेद्य विष्वक्सेनाय बलिवाद्यसमन्वितम् ।
निवेदितान्नं पृष्ठे वै विष्वक्सेनस्य निक्षपेत् ॥ १२४ ॥
चरक्यादीन् समुद्दिश्य बलिशिष्टान्नमादरात् ।
आदाय तोयसहितं बलिपीठे विनिक्षिपेत् ॥ १२५ ॥
बलिद्रव्याणि सर्वाणि भूतपीठे विनिक्षिपेत् ।
एवं त्रिसन्ध्यं कर्तव्यं हविर्युक्तार्चनाविधौ ॥ १२६ ॥
एवं कर्तुमशक्तश्चेत्केवलं बिम्बमेव वा ।
गृहीत्वा बलिदेवेभ्यो बलिमात्रं प्रदापयेत् ॥ १२७ ॥
बलिकालः
बलिकालं प्रवक्ष्यामि श्रुणुध्वं सुसमाहिताः ।
प्रातरर्कोदयात्पश्चात् नाड्यस्सप्त बलेस्स्मृताः ॥ १२८ ॥
मध्याह्ने च तथा सायं बलिकाल उदाहृतः ।
काले ह्यतीते तु कृतं सन्ध्यातीतकृतं भवेत् ॥ १२९ ॥
बलिदानफलम्
आयुष्मान् बलवान् धीमान् भवेदन्नबलिं ददत् ।
पुत्रवान् वीर्यवांश्च स्यात् कुर्वन् पुष्पबलिं नरः ॥ १३० ॥
[[३९३]]
धनवान् धान्यवांश्च स्यात् कुर्वन्नर्घ्यबलिं तथा ।
बलिकालवाद्यफलम्
भेरीमृदङ्गपटहकाहलादिध्वनिस्तथा ॥ १३१ ॥
घण्टाध्वनिर्बलिक्षेपकाले यावद्धि श्रूयते ।
तावत्प्रोताः पिशाचाश्च रक्षांसि न विशन्ति वै ॥ १३२ ॥
तस्मात्सन्ध्याबलिं कुर्यान्नित्यमेव जितेन्द्रियः ।
उत्तमोत्तमपूजायां बलिमुत्तममाचरेत् ॥ १३३ ॥
मध्यमाधमयोश्चापि शक्तश्चेद्बलिमुत्तमम् ।
कुर्यादुत्तमपूजायाः फलं प्राप्नोत्यसंशयम् ॥ १३४ ॥
अनुगच्छन्ति ये भक्त्या बलिकाले दिदृक्षया ।
पदे पदे क्रतुफलं ते लभेरन् न संशयः ॥ १३५ ॥
बलिर्यत्रैव क्रियते तत्र स्थानविवर्धनम् ।
धनधान्यसमृद्धिस्स्यात् वेदानामुपबृंहणम् ॥ १३६ ॥
कुलस्य क्षेत्रपश्वादेः यानवाहनसम्पदाम् ।
समृद्धिः किं बहूक्तेन सर्वसम्पत् समृद्ध्यते ॥ १३७ ॥
बल्यङ्गं साधनं दद्यात् यो भक्त्या पटहादिकम् ।
तस्य पापं प्रणश्येद्धि तमस्सूर्योदये यथा ॥ १३८ ॥
देवस्वापहारे दोषः
स्वदत्तं परदत्तं वा देवदेवस्य यद्धनम् ।
हर्तुमिच्छति यः पापी नरके स पतेत् ध्रुवम् ॥ १३९ ॥
चतुर्विंशोऽध्यायः
[[३९४]]
वर्षपातादौ बलिदानम्
बलिभ्रमणकाले तु वाद्यादीनामसम्भवे ।
अतिवातातिवर्षादौ शिष्याभावे त्वयानके ॥ १४० ॥
सायं प्रातश्च नित्यार्चा घटविभ्रमहीनके ।
दीपहीने तथा भक्त्या द्वाराग्रे निक्षिपेद्बलिम् ॥ १४१ ॥
किष्किन्धतीर्थयोरग्रे बलिदेवान्त्स्मरन् हृदि ।
जलं क्षिप्त्वा बलिं न्यस्येदुदकञ्च यथाक्रमम् ।
परेऽह्नि शान्तिं कृत्वा तु नित्योत्सवमथाचरेत् ॥ १४२ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे नवविधार्चन नित्यार्चनविधिर्नाम चतुर्विंशोऽध्यायः ॥