अथ त्रयोविंशोऽध्यायः
जातिलक्षणकथनम्
ॠषय ऊचुः
‘नमस्ते भगवन् ब्रह्मन् नमस्ते ब्रह्मणस्सुत! ।
त्वत्प्रसादादशेषेण श्रुतं विष्णोस्समर्चनम् ॥ १ ॥
कथं पञ्चविधा पूजा विष्णोरमिततेजसः ।
आलयार्चाविधौ लोके के मुख्या अधिकारिणः ॥ २ ॥
आदेयं हि धनं केभ्यो विष्णोराराधनाय वै ।
विस्तरेणैतदस्माकं वक्तुमर्हसि सुव्रत’ ॥ ३ ॥
भृगुरुवाच
अर्घ्यान्तमर्चनं प्रोक्तं हविरन्तञ्च पूजनम् ।
होमान्तं शान्तिकं ज्ञेयं बल्यन्तं पौष्टिकं भवेत् ॥ ४ ॥
शान्तिपुष्टिकरं मुख्यं मुखवासान्तमर्चनम् ।
(नित्यं नैमित्तिकं वापि होमबल्यन्तमर्चनम्)
एवं पञ्चविधा पूजा विष्णोरमिततेजसः ॥ ५ ॥
निर्माणे देवगेहस्य प्रतिमाकल्पनेऽपि च ।
स्थापने देवदेवस्याधिक्रियन्ते त्रिवर्णजाः ॥ ६ ॥
चत्वारो वर्णाः
ब्राह्मणाः क्षत्रियाः वैश्यास्त्रयस्त्रैवर्णिकास्स्मृताः ।
सिसृक्षोब्रह्मणो जाता मुखादुरस ऊरुतः ॥ ७ ॥
[[३७१]]
पद्भ्यां शूद्रास्तु सम्भूताश्चतुर्थास्समुदाहृताः ।
भक्तिमन्तस्तु ये शूद्रास्तेऽपि स्युरधिकारिणः ॥ ८ ॥
नाऽऽददीत धनं किञ्चित् प्रतिलोमात्कदाचन ।
हरेराराधनार्थन्तु नाभक्तान्नानुलोमकात् ॥ ९ ॥
अनुलोमात्तु सङ्ग्राह्यं भक्ताद्देवार्चनाय तु ।
पापरोगार्दितानाञ्च ग्राह्यं भक्तिमतां धनम् ॥ १० ॥
भक्तिमहिमा
अनेकजन्मस्वभ्यासाद्विष्णौ भक्तिः प्रजायते ।
येषान्तु तादृशी भक्तिः ते विप्राः कृतिनः स्मृताः ॥ ११ ॥
अनुलोमलक्षणम्
अतः परं प्रवक्ष्यामि अनुलोमादिकान् क्रमात् ।
धर्माश्च तेषां वृत्तिञ्च यद्यद्राजा नियोजयेत् ॥ १२ ॥
द्वावेतौ शूद्रयोनी तु सज्जनौ परिकीर्तितौ ।
सूतश्च रथकारश्च सूतावित्युपलक्षितौ ॥ १३ ॥
जातो ब्राह्मणकन्यायां नृपाच्च विधिपूर्वकम् ।
स सूत इति निर्दिष्टः प्रतिलोमेषु पूजितः ॥ १४ ॥
सर्वेषां प्रतिलोमानामेष धर्मः सनातनः ।
वेदानर्हास्तथाऽप्येते सूता धर्मार्थबोधकाः ॥ १५ ॥
ब्राह्मण्यां क्षत्रियाज्जातोऽविधिना रथकारकः ।
वृत्तिस्तु शूद्रस्येव स्याद्विजत्वं प्रतिषिद्ध्यते ॥ १६ ॥
त्रयोविंशोऽध्यायः
[[३७२]]
वाहको वाहनानाञ्च तेषाञ्च परिचारकः ।
ईदृशी वृत्तिरेतेषां शूद्राणामिव वा भवेत् ॥ १७ ॥
ब्राह्मण्यां वैश्यसंसर्गाज्जातो मागध उच्यते ।
वन्दित्वञ्चापि सर्वेषां राज्ञां प्रेष्यत्वमेव च ॥ १८ ॥
तेषां वृत्तिश्च संस्पृश्याः शूद्रैश्शूद्रान्नवर्जिताः।
जीवन्ति लोके सर्वत्र चरमाणा यतस्ततः ॥ १९ ॥
ब्राह्मण्यां शूद्रसंसर्गाज्जातश्चण्डाल उच्यते ।
सीसमाभरणं तेषां कार्ष्णायसमथापि वा ॥ २० ॥
कण्ठे वार्ध्रां झल्लरीश्च कक्षे चाबद्ध्य बाह्यतः ।
चरन्ति ते मलं ग्रामादपोहन्ति विशेषतः ॥ २१ ॥
ग्रामाद्बहिश्च नैॠत्यां सङ्घशो निवसन्त्युत ।
आमध्याह्नान्निवर्तन्ते सर्वत्र मलहारकाः ॥ २२ ॥
मध्याह्नवेलामालक्ष्य ग्रामं न प्रविशन्ति ते ।
वध्या यदि विशेयुस्ते नो चेद्राजा तु किल्बिषी ॥ २३ ॥
भ्रूणहत्यामवाप्नोति नास्ति तत्र विचारणा ।
विधिना नृपकन्यायां ब्रह्मणाज्जातपुत्रकः ॥ २४ ॥
सवर्णनाम स ख्यातः अनुलोमेषु पूजितः ।
बाह्मणश्च स विज्ञेयः कर्मणाऽऽथर्वणः स्मृतः ॥ २५ ॥
[[३७३]]
रथमश्वान् हस्तिनो वा वाहयेत्स नृपाज्ञया ।
सेनापत्यं चमूनां वा स कुर्याद्यावदायुषम् ॥ २६ ॥
विप्रात् क्षत्रियकन्यायां जातस्त्वविधिना सुतः ।
अभिषिक्तो नाम भवेत् पठेद्वै कायवेधनम् ॥ २७ ॥
आयुर्वेदमथाष्टाङ्गं तत्रोक्तं धर्ममाचरेत् ।
पोषणं प्राणिनां नित्यं पठेद्वा भूतमन्त्रकम् ॥ २८ ॥
दयावान् सत्यवादी च भवेदेष विशेषतः ।
ज्यौतिषं गणितं वापि जीवनार्थं प्रकल्पयेत् ॥ २९ ॥
क्षत्रियात्क्षत्रकन्यायां गूढजातः प्रमादतः ।
स च क्षत्रिय एव स्यान्नाभिषेकं समर्हति ॥ ३० ॥
भोजो नाम्ना राजवृत्तिमुपजीवेत्स सर्वतः ।
राज्ञो नियुक्तं कुर्याद्वै शासनं पट्टबन्धनम् ॥ ३१ ॥
राज्ञः पुनर्भ्वां जातश्च नृपनामा भविष्यति ।
स भोजतुल्यवृत्तिः स्यात्कानीनोऽपि नृपस्स्मृतः ॥ ३२ ॥
सुशुद्धो नृपतिः ख्यात एवमन्ये स्वयोनिजाः ।
वैश्यात् शूद्रसंसर्गाज्जातो आयोगवः स्मृतः ॥ ३३ ॥
तन्तुवायाः भवन्त्येते वस्त्रकांस्योपजीविनः ।
तस्यां चौर्यात्तथा जातः पुलिन्दो नाम वै सुतः ॥ ३४ ॥
त्रयोविंशोऽध्यायः
[[३७४]]
आरण्यवृत्तिकस्स स्याद्दुष्टसत्त्वविघानतः ।
शूद्रात् क्षत्रियकन्यायां जातः पुल्कस उच्यते ॥ ३५ ॥
मधुविक्रयकृत्स स्यात्सुरां वृक्षेभ्य आहरेत् ।
कृतकानां सुराणाञ्च विक्रेता पाचको भवेत् ॥ ३६ ॥
तस्यां जातश्चौर्यवृत्त्या अस्पृश्यो वेलवाभिधः ।
नर्तको गायको वा स भवेज्जृम्भकवृत्तिकः ॥ ३७ ॥
वैश्यायां विप्रसंसर्गाज्जातो ह्यम्बष्ठ उच्यते ।
कक्ष्याजीवी भवेदेष तथैवाग्नेयनर्तकः ॥ ३८ ॥
ध्वजविश्राविको वाथ विचरेच्च यतस्ततः ।
तस्यां वै चौर्यवृत्त्या तु जातः स्यात्कुम्भकारकः ॥ ३९ ॥
कुलालवृत्त्या जीवेच्च नापितश्च भवेत्तथा ।
सूतके प्रेतके चापि दीक्षायां चौलकर्मणि ॥ ४० ॥
केशानां वपनं कुर्यान्नाभेरूर्ध्वं यतस्ततः ।
नृपाज्जात इभो नाम तस्यामेव यथाक्रमम् ॥ ४१ ॥
श्रेष्ठित्वं समवाप्नोति महो नाम्ना स हि स्मृतः ।
स वैश्यवृत्त्या जीवेत्तु न क्षात्रं कर्म चाचरेत् ॥ ४२ ॥
तस्यां तस्माच्चौर्यजातो मणिकार इति स्मृतः ।
मणीनां रञ्जनं कुर्यान्मुक्तानां वलयक्रियाम् ॥ ४३ ॥
प्रवालानां सूत्रकर्म शङ्खानां वलयक्रियाम् ।
[[३७५]]
वैश्यायां शूद्रसंसर्गाज्जातो वैदेहकः स्मृतः ॥ ४४ ॥
अजानां पालनं कुर्यान्महिषाणां गवामपि ।
विक्रीणन् सरसं तेषां वैश्यवृत्त्या चरेच्च वै ॥ ४५ ॥
तस्यां तस्मात् चौर्यजातो लवणक्रयकः स्मृतः ।
स एव चाक्रिको ज्ञेयः तैलपिण्याकजीवनः ॥ ४६ ॥
तदन्नं भुञ्जते नैव शूद्राश्चापि यथाक्रमम् ।
स्पृश्योऽयमितरेषां स्यादृते विप्रोत्तमान् सदा ॥ ४७ ॥
विप्राज्जातस्तु शूद्रायां स्मृतः पारशवस्तु सः ।
भद्रकालीं पूजयेत्स पूजावृत्त्या हि वर्तनम् ॥ ४८ ॥
चित्रकर्माङ्गविद्यां वा जीवेन्मर्दलवृत्तिकः ।
तस्यां वै क्षत्रियाज्जातो…. …. …. ॥ ४९ ॥
…. …. …. …. …. ।
शूद्रायां वैश्यसंसर्गाज्जातश्चूचुक उच्यते ॥ ५० ॥
पण्यमाजीवमाजीवेद्वेणुकाष्ठतृणादिकम् ।
पर्णं वापि समारोप्य क्रमुकानां पटैर्युतम् ॥ ५१ ॥
तस्यां तस्मात् चौर्यजातो ज्ञेयः कर्मकराभिधः ।
(शूद्रायां शूद्रसंसर्गाज्जातः शूद्र इति स्मृत्यः)? ॥ ५२ ॥
चौर्यान्मालवको ज्ञेयः अश्वानां तृणहारकः ।
चूचुकादेव विप्रायां जातः क्षत्ता स्मृतः सुतः ॥ ५३ ॥
त्रयोविंशोऽध्यायः
[[३७६]]
तस्मादेव क्षत्रियायां जातस्स्यान्मत्स्यजीवनः ।
तस्माज्जातस्तु वैश्यायां भवेत्सामुद्रजीवनः ॥ ५४ ॥
अम्बष्ठादपि विप्रायां जातो नाविक उच्यते ।
नावं संवाहयेत्सोऽपि समुद्रस्य च पारगः ॥ ५५ ॥
समुद्रमध्यमाजीवेन्मत्स्यादिक्रयविक्रयैः ।
अम्बष्ठात् क्षत्रियायान्तु जातो नापित उच्यते ॥ ५६ ॥
कुर्यात्स वपनं रोम्णामधोनाभेर्विशेषतः ।
मागधाद्विप्रकन्यायां जातो पोण इति स्मृतः ॥ ५७ ॥
तस्माज्जातः क्षत्रियायां कर्मकार इति स्मृतः ।
वैदेहकात्तु विप्रायां जातस्स्याच्चर्मजीवनः ॥ ५८ ॥
तस्माज्जातः क्षत्रियायां सूतकश्चार्मिकः स्मृतः ।
आयोगवात्तु विप्रायां जातस्स्यात्ताम्रजीवनः ॥ ५९ ॥
तस्माज्जातः क्षत्रियायाम् उच्यते खनकस्तथा ।
खनकात् क्षत्रियायान्तु जात उद्बन्धकः स्मृतः ॥ ६० ॥
वस्त्रनिर्णेजकस्स स्यात् स्पृश्योऽस्पृश्यश्च स स्मृतः ।
पुल्कसाद्विप्रकन्यायां जातो रजक उच्यते ॥ ६१ ॥
तृणान्तरेण सम्भाष्यः नोच्छिष्टः प्रोक्षयेद्बुधः ।
[[३७७]]
चण्डालाद्विप्रकन्यायां जातः श्वपच उच्यते ॥ ६२ ॥
श्वमांसभक्षणं तस्य चार्मिकं वारवाणिकम् ? ।
श्मशाने च तथा वासः अमेध्योद्वासनं तथा ॥ ६३ ॥
असङ्ख्या एवमाद्यास्तु जातयः स्मृतिपूजिताः ।
न शक्यन्ते हि केनापि वक्तुं वर्षशतैरपि ।
ज्ञात्वार्हादाददीतार्थं पात्राद्विष्ण्वर्चनाय वै ॥ ६४ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे जातिलक्षणकथनं त्रयोविंशोऽध्यायः ॥