अथ द्वाविंशोऽध्यायः
उपचारस्वरूपम् - द्वात्रिंशदुपचाराः
अथातस्सम्प्रवक्ष्यामि विग्रहाणां विनिर्णयम् ।
पूजकेभ्यो हितं पूजाविधिविद्भ्यस्सुसम्मतम् ॥ १ ॥
विग्रहा उपचाराश्च भोगा एकार्थवाचकाः ।
प्रणामादिविसर्गान्ताः क्रियाः पूजोदिताः स्मृताः ॥ २ ॥
प्रणामावाहने चैव आसनं स्वागतं तथा ।
अनुमानश्च पाद्यञ्च तथैवाचमनं तथा ॥ ३ ॥
पुष्पं गन्धञ्च धूपञ्च दीपञ्चार्घ्यमनन्तरम् ।
ततश्चाचमनं स्नानं प्लोतं वस्त्रं तथैव च ॥ ४ ॥
उत्तरीयोपवीते च भूषणं पाद्यमेव च ।
ततश्चाचमनं पुष्पं गन्धं धूपं ततः परम् ॥ ५ ॥
दीपो हविश्च पानीयं ताम्बूलाचमनं तथा ।
होमो बलिर्विसर्गश्च द्वात्रिंशद्विग्रहा इमे ॥ ६ ॥
क्रमेणैषां स्वरूपञ्च प्रयोगश्चाभिधीयते ।
द्वाविंशोऽध्यायः
[[३५०]]
प्रणामः पञ्चविधः
प्रणामस्स्यान्नमस्कारः स तु पञ्चविधः स्मृतः ॥ ७ ॥
मस्तिष्कं सम्पुटञ्चैव प्रह्वाङ्गं दण्डसञ्ज्ञितम् ।
पञ्चाङ्गं पञ्चमं प्राहुस्तेषां रूपं प्रकीर्त्यते ॥ ८ ॥
चिन्तयन् मनसा देवं मस्तकेऽञ्जलिसंयुतम् ।
मस्तिष्कमिति विज्ञेयः प्रणामः प्रथमस्स्मृतः ॥ ९ ॥
तथा ध्यायन् हृदा दैवं हृदयेऽञ्जलिसंयुतम् ।
क्रियमाणो नमस्कारस्सम्पुटः परिकीर्तितः ॥ १० ॥
अञ्जलिं हृदये कृत्वा नतकायेन भक्तितः ।
क्रियते यो नमस्कारः प्रह्वाङ्गस्स उदाहृतः ॥ ११ ॥
शयित्वा दण्डवद्भूमावञ्जलिं सम्प्रसार्य च ।
क्रियेत यो नमस्कारः उच्यते दण्डसञ्ज्ञितः ॥ १२ ॥
पादाङ्गुलिभ्यां जानुभ्यां ललाटेन च भूतलम् ।
क्रियेत संस्पृशन् भक्त्या सा पञ्चाङ्गनमस्क्रिया ॥ १३ ॥
पूजारम्भेऽथ मस्तिष्कं सम्पुटं वा प्रयोजयेत् ।
प्रणामविग्रहस्स स्यात् पूजान्ते च प्रयोजयेत् ॥ १४ ॥
आवाहनम्
आपूर्य प्रणिधिं पुष्पकूर्चाक्षतसमन्विताम् ।
मन्त्रपूतेन तोयेन पाणिभ्यां तं तु धारयन् ॥ १५ ॥
निष्कलं निर्मलं देवं सर्वव्यापिनमव्ययम् ।
ध्यानमन्थेन हृदये सम्मन्थ्याप्सु निवेशयेत् ॥ १६ ॥
[[३५१]]
ततस्तत्तोयमादाय तेन कूर्चेन मन्त्रतः ।
बिम्बस्य स्रावयेन्मूर्ध्नि स आवाहनविग्रहः ॥ १७ ॥
निष्कलं सकलं कर्तुं ध्यानं स्यात्सकलक्रिया ।
विष्णोरायतनं ह्यापः स तत्र प्रतिगृह्यते ॥ १८ ॥
तस्यैव सूनवस्त्वेतास्तस्मात्तं ह्यप्सु पूजयेत् ।
आवाहनप्रकारः
यथाऽरण्यां स्थितो वह्निः सर्वव्याप्येकतो भवेत् ॥ १९ ॥
मथनादेव सन्दीप्तस्तद्वद्देवेश्वरो हरिः ।
सर्वगस्सन् जगद्व्यापी ध्यानमन्थप्रबोधितः ॥ २० ॥
भक्तानुकम्पया सोऽपि विभूतिं स्वां सुविस्तृताम् ।
सङ्क्षिप्य चैकीभवति कलापीव कलापकम् ॥ २१ ॥
तस्मात्तं निष्कलं ध्यायन्त्सकलं मन्त्रशक्तितः ।
एकत्र स्मरणं यत्तदावाहनमुदाहृतम् ॥ २२ ॥
आवाहने विशेषः
ध्रुवकौतुकयोस्सत्वे ध्रुवात्पात्रे विचिन्त्य वै ।
तस्मात्तु कौतुके बेरे सम्यगावाहयेद्बुधः ॥ २३ ॥
त्रिकालपूजनं यत्र प्रातरावाहनं चरेत् ।
अन्त्यसन्ध्यार्चनान्ते तु विसर्जनमथाचरेत् ॥ २४ ॥
एकबेरार्चना यत्र नावाहनविसर्जने ।
मण्डले च जले चैव कूर्चे वा यत्र चार्चनम् ॥ २५ ॥
समावाह्यार्चयित्वा तु पूजनान्ते विसर्जयेत् ।
द्वाविंशोऽध्यायः
[[३५२]]
आसनम्
अनुरूपासनं पुष्पैः सुसङ्कल्प्य समन्त्रकम् ॥ २६ ॥
‘आस्यता’मिति देवेशमासयेदासनं तु तत् ।
स्वागतं
सुमुखीकरणं यत्तत्समन्त्रं स्वागतं प्रभोः ॥ २७ ॥
अनुमानः
‘मया कृतं क्षमस्वेदं सर्वं देवे’ ति याचनम् ।
अनुमान इति प्रोक्त उपचारसमन्त्रकम् ॥ २८ ॥
पाद्यम्
एलातक्कोलयुक्तेन दूर्वाक्षतयुतेन वा ।
पादप्रक्षालनार्थन्तु मन्त्रपूतेन वारिणा ॥ २९ ॥
कूर्चेन पादयोस्सेकः पाद्यं विद्यात्समन्त्रकम् ।
(अथवा भावनैर्युक्तं शङ्खाग्रेण स्रवेज्जलम्)
आचमनं
सङ्कल्प्याचमनार्थन्तु तोयं मन्त्रसमन्वितम् ॥ ३० ॥
दद्याद्यद्दक्षिणे हस्ते तदाचमनमुच्यते ।
तोयमक्षतसंयुक्तं गालितं शुद्धवारिणा ॥ ३१ ॥
तदेवाचमनायार्हं तोयं कुशसमन्वितम् ।
पुष्पम्
मूर्ध्नि पीठे समन्ताच्च भुजयोः शङ्खचक्रयोः ॥ ३२ ॥
[[३५३]]
मन्त्रवत्पुष्पविन्यासो पुष्पविग्रह उच्यते ।
तत्तद्वेलासु सम्फुल्लपुष्पैः पूजा प्रशस्यते ॥ ३३ ॥
चन्दनं
ललाटबाहुकण्ठेषु तथोरसि च मन्त्रतः ।
चन्दनेन सुगन्धेन स्वालेपो गन्धविग्रहः ॥ ३४ ॥
धूपपात्रं
धूपार्थमग्न्याधारन्तु स्वर्णरूप्यादिकल्पितम् ।
कुर्यात्तु गोलकोत्सेधमष्टाङ्गुलिविशालकम् ।
तदधो व्यालबन्धन्तु वक्राकारं द्विपादकम् ॥ ३५ ॥
कुर्याद्भागसमुत्सेधमुपरिष्टात्तु तत्समम् ।
द्विपादं वर्तुलं नालं वक्रं युक्त्यैव कारयेत् ॥ ३६ ॥
धूपाधिदेवो धिषणः द्विपादं बह्निदैवतम् ।
वक्त्रे नागं समभ्यर्चेत् धूपात् व्याधिश्च शाम्यति ॥ ३७ ॥
धूपः
शीतनिर्यासकान्तादीन् (?) क्रमवृद्ध्या विचूर्णितान् ।
चान्द्रेण शीततुल्येन घृतमिश्रेण धूपयेत् ॥ ३८ ॥
शीतारिर्नाम धूपोऽयं विष्णोरारधने वरः ।
अनेन धूपयेद्वापि तथा गुग्गुलुनाऽपि वा ॥ ३९ ॥
समन्त्रं धूपदानन्तु धूपविग्रह उच्यते ।
दीपपात्रं
दीपपात्रं तथा कुर्यात्पादौ नालञ्च पूर्ववत् ।
नालमङ्गुलिमात्रन्तु तालमात्रं पदान्तरम् ॥ ४० ॥
द्वाविंशोऽध्यायः
[[३५४]]
तदूर्ध्वं वर्तुलाकारं षोडशाङ्गुलिविस्तृतम् ।
एकं वक्रन्तु तन्मध्ये वर्तिकाकुम्भसंयुतम् ॥ ४१ ॥
भागाङ्गुलोन्नतञ्चैव विस्तृतं वर्तिकायुतम् ।
तद्बाह्ये परितो दीपैस्सप्तविंशतिभिर्युतम् ॥ ४२ ॥
रोहिण्याद्यग्निॠक्षान्तदेवानामास्पदं भवेत् ।
मध्ये चन्द्रमसं वर्तिज्वालायां श्रियमर्चयेत् ॥ ४३ ॥
दीपः
दक्षिणाङ्घ्रि समारभ्य वामपादावसानकम् ।
नेत्रान्तं दर्शयेद्दीपं प्रणवाकारतः पृथक् ॥ ४४ ॥
विष्णोः कर्माणि मन्त्रेण दीपमश्रीविनाशकम् ।
तन्तुभिः पद्मनालोत्थैः कार्पासैर्वाथ तन्तुभिः ॥ ४५ ॥
कार्पासपिचुना वाऽथ कारयेदथ वर्तिकाम् ।
घृतेन वाऽथ तैलेन दीपं सन्दीप्य दर्शयेत् ॥ ४६ ॥
समन्त्रं देवपार्श्वे यः दीपविग्रह उच्यते ।
अष्टाङ्गुलोच्छ्रयज्वालो दीप उत्तम उच्यते ॥ ४७ ॥
तदर्धं मध्यमो दीपस्तस्यार्धमधमं विदुः ।
अथ मानाङ्गुलोत्सेधा नित्याऽनिर्वाणदीपिका ॥ ४८ ॥
कर्पूराद्यैस्तु वा गन्धाध्युषितस्नेहसम्प्लुताम् ।
वर्तिं कृत्वाऽथवा दद्याद्दीपं प्रियतमं हरेः ॥ ४९ ॥
दीपानर्हतैलानि
आजेनाज्येन यो दीपस्स भवेद्यक्षरक्षसाम् ।
माहिषाज्येन यो दीपः सोऽसुराणानां भविष्यति ॥ ५० ॥
[[३५५]]
आविकाज्येन यो दीपः स तु गान्धर्व उच्यते ।
तस्मात्तु देवपूजायां दीपकाले विशेषतः ॥ ५१ ॥
गव्यं घृतं विमिश्रं वा दीपेष्वनिशवर्तिषु ।
समीपस्थेषु सङ्ग्राह्यं तैलं बाह्येषु कर्मसु ॥ ५२ ॥
वार्क्षस्नेहेषु सङ्ग्राह्यः नालिकेरः प्रशस्यते ।
अथवाऽन्यस्य वृक्षस्य स्नेहं बाह्यार्थमाहरेत् ॥ ५३ ॥
पाण्यङ्गस्य तु स्नेहन्तु सर्वदा परिवर्जयेत् ।
अष्टाङ्गमर्घ्यं
कुशाग्रं तिलसिद्धार्थतण्डुला अक्षतास्तथा ॥ ५४ ॥
पयो दधि जलञ्चेति अर्घ्यमष्टाङ्गमुच्यते ।
यवसर्षपमाषाश्च व्रीहयो मिश्रिताः कृताः ॥ ५५ ॥
अक्षताः सञ्ज्ञितास्तेषां संयोगोऽक्षत ईरितः ।
अष्टाङ्गं वा यथालाभं द्रव्यं पात्रे निधाय वै ॥ ५६ ॥
पूरयित्वाऽम्बुना पात्रं देयमर्घ्यन्तु मन्त्रतः ।
(हस्ताभ्यामर्घ्यमादाय बिम्बमूर्ध्नि निवेदयेत्) ॥ ५७ ॥
मन्त्रवद्दर्शनं विष्णोः प्रोक्षणञ्चार्घ्यविग्रहः ।
पृथक्पात्रेषु मूर्तीनामर्घ्यं संयोजयेद्बुधः ॥ ५८ ॥
(पञ्चस्वपि च पात्रेषु कुडुबं कुडुबं पृथक्) ।
पञ्च पात्राणि
स्वर्णरूप्यादिपात्राणि पञ्चपात्रमिहोच्यते ॥ ५९ ॥
तुल्यमानं तुल्यभारमेकाकारं प्रकल्पयेत् ।
मूर्तीनां पुरुषादीनां प्रागादि परिकल्पयेत् ॥ ६० ॥
द्वाविंशोऽध्यायः
[[३५६]]
द्वारभेदेन मूर्त्यर्चनं
यस्यां दिश्यलयद्वारः तन्मूर्त्याद्यर्चयेत्क्रमात् ।
पञ्चाङ्गमर्घ्यम्
अक्षतास्तण्डुलाश्चैव अम्बुना मिश्रिता यदि ॥ ६१ ॥
पञ्चाङ्गमर्घ्यमुद्दिष्टं विष्णोरन्यत्र पूजने ।
अक्षतस्थानीयमच्युतं
तण्डुलव्रीहिसंयोगः कीर्त्यतेऽच्युतमित्यपि ॥ ६२ ॥
परिवारोक्तदेवानां स्यादर्घ्यपरिकल्पने ।
अर्घ्यप्रतिनिधिः
अर्घ्यद्रव्यस्य चालाभे अर्घ्यवत्पुष्पमर्पयेत् ॥ ६३ ॥
स्नानम्
बिम्बशुद्धिञ्च कृत्वा तु शोधनीयेन वस्तुना ।
पश्चात्प्रक्षाल्य मन्त्रेण स्नापनं स्नानविग्रहः ॥ ६४ ॥
स्नापनप्रोक्षणविवेकः
स्नापनप्रतिमायान्तु स्नानमन्यत्र प्रोक्षणम् ।
बिम्बे स्नानं न सौवर्णे तत्र च प्रोक्षणं स्मृतम् ॥ ६५ ॥
त्रिकालपूजनायुक्ते स्नापयेत्प्रातरेव तु ।
प्रोक्षयेदन्यकाले तु मन्त्रेणेत्याह पूर्वजः ॥ ६६ ॥
(संस्नाप्य पूर्वमेवार्चां पुनः कालान्तरार्चने
सम्प्रोक्ष्यैवार्चयेद्विद्वान् सोऽपि स्यात्स्नानविग्रहः)
[[३५७]]
प्लोतः
वस्त्रेणाभ्यङ्गसम्मर्दः समन्त्रं प्लोतविग्रहः ॥ ६७ ॥
वस्त्रं
क्षौमकौशेयकार्पासवस्त्रैः शुद्धैस्समन्त्रकम् ।
परिधानकरणं यत्तद्वस्त्रविग्रह उच्यते ॥ ६८ ॥
उत्तरीयम् उपवीतञ्च
वस्त्रेणैवोत्तरासङ्गकल्पनं मन्त्रवद्विभोः ।
उत्तरीयमिति ख्यातो विग्रहो विधिकोविदैः ॥ ६९ ॥
सौवर्णञ्चाथ कार्पासमुपवीतं समन्त्रकम् ।
प्रदद्यादुपवीतं हि विग्रहः स निगद्यते ॥ ७० ॥
भूषणं
सौवर्णैः भूषणैर्युक्तामणिक्लृप्तैः सुमैरपि ।
यथाशोभं विचिन्त्यैव मन्त्रेणाङ्गेषु योजनम् ॥ ७१ ॥
धातुभिश्चाप्यलङ्कारः स स्यात् भूषणविग्रहः ।
हविः
ज्ञात्वा तु हविषां भेदं मूर्तीनां सन्निवेदनम् ॥ ७२ ॥
समन्त्रं हविराख्यातो विग्रहो मुनिभिर्मतः ।
मूर्तिभेदेन पञ्चधा हविः
पञ्चधा तु हविः प्रोक्तं हरेर्मूर्तिप्रभेदतः ॥ ७३ ॥
शुद्धान्नं पायसं वापि कृसरं गौल्यमेव च ।
यावकन्त्विति देयानि पञ्चमूर्तिक्रमेण वै ॥ ७४ ॥
द्वाविंशोऽध्यायः
[[३५८]]
अलाभे पञ्चहविषां शुद्धान्नं वा निवेदयेत् ।
पायसादीनि चत्वारि चतुर्मूर्तिविधौ ददेत् ॥ ७५ ॥
प्रशस्तं सर्वमूर्तीनां हविर्मौद्गं विशेषतः ।
हविः पाकप्रकरणे तत्पाकक्रम ईर्यते ॥ ७६ ॥
द्रोणतण्डुलमात्रन्तु पञ्चभिर्व्यञ्जनैर्युतम् ।
प्रत्येकं पञ्चपलकैः पलेनापि गुडस्य च ॥ ७७ ॥
प्रस्थेन मुद्गसारेण वैतलानमथापि वा ।
सम्यक्पक्कैः फलैश्चापि मधुरैश्च रसोत्कटैः ॥ ७८ ॥
कुडुबेन घृतेनापि दध्ना प्रस्थद्वयेन वा ।
उत्तमं हविरुद्दिष्टं तदर्धं मध्यमं विदुः ॥ ७९ ॥
तदर्धमधमं प्राहुरन्वितं व्यञ्जनैस्त्रिभिः ।
द्वाभ्यामेकेन वा युक्तं हविरेवं त्रिधोदितम् ॥ ८० ॥
फलपल्लवकन्दाद्याः मुद्गाढक्यादयश्च ये ।
उपदंशा इति प्रोक्ता धर्मशास्त्रेष्वनिन्दिता ॥ ८१ ॥
षड्रसैस्तु यथायोगं रसाढ्यं स्यात्तथा पचेत् ।
प्रत्येकं वाथ द्वाभ्यां वा बहुभिर्वा विधानवित् ॥ ८२ ॥
अनिरर्थरसैर्युक्तं हविरेवं प्रशस्यते ।
एवमेव कवीशाभ्यां वीशसेनेशयोरपि ॥ ८३ ॥
तदर्धमन्यदेवानां स्त्रीदेवानां तदर्धकम् ।
अन्येषां परिवारणामाढकार्धं हविर्भवेत् ॥ ८४ ॥
यावद्दिवा हविः प्रोक्तं तदर्धं निशि सम्मतम् ।
श्रीभूम्योरपि शान्तस्य आढकार्धं हविर्मतम् ॥ ८५ ॥
[[३५९]]
पाकक्रमः
हविषां व्यञ्जनानाञ्च मृद्भाण्डे पाचनं मतम् ।
लौहपात्रेऽपि कर्तव्यं हविश्शुद्धञ्च मौद्गिकम् ॥ ८६ ॥
न पचेद्व्यञ्जनं लौहे रसभेदो भवेद्यदि ।
एकपात्रे न पाच्यं हि द्रोणार्धाधिकं हविः ॥ ८७ ॥
कदाचिदपि मृत्पात्रे पुराणे न पचेद्धविः ।
‘विष्णवे जुष्ट’ मित्युक्त्वा पात्रे निर्वाप्य तण्डुलान् ॥ ८८ ॥
प्रक्षाल्य वारिणा सम्यक् च्छुल्ल्यामारोप्य भाजनम् ।
पाचयेत्तेन मन्त्रेण पक्वे चाप्यवरोपयेत् ॥ ८९ ॥
भाण्डं प्रक्षाल्य पार्श्वे तु भस्मना पुण्ड्रमालिखेत् ।
पृथक् पात्रे बलिञ्चैव देवानाञ्च पृथक् पचेत् ॥ ९० ॥
निवेदितान्नविनियोगः
भाण्डशिष्टं हविर्यत्तद्विष्वक्सेनाय दापयेत् ।
तन्निवेदितनिर्माल्यं विसृजेदप्सु वा ददेत् ॥ ९१ ॥
भक्तानां पूजकानाञ्च हरस्य तु निवेदितम् ।
स्त्रीणामपि तथा भोज्यं श्रीभूम्योश्च निवेदितम् ॥ ९२ ॥
निवेदितं ब्रह्मणस्तु द्विजानां भोज्यमुच्यते ।
निवेदितं तु रुद्रस्य निक्षिपेदप्सु केवलम् ॥ ९३ ॥
मुन्योः निवेदितं तद्वदिन्द्राप्पत्योश्च शूलिनः ।
देयं दुर्गासरस्वत्योः द्विजानामन्नकाङ्क्षिणाम् ॥ ९४ ॥
निवेदितं कुबेरस्याभोज्यमित्याह पूर्वजः ।
वह्नेर्निवेदितं यत्तु वायसेभ्यः प्रदीयतम् ॥ ९५ ॥
द्वाविंशोऽध्यायः
[[३६०]]
यमनीलानिलानान्तु सद्य एव निवेदितम् ।
तत्पूजकानां भोज्यं स्यात्सूर्यषण्मुखयोस्तु यत् ॥ ९६ ॥
ज्येष्ठायास्तु द्विजस्त्रीणां भोज्यमुक्तं निवेदितम् ।
भोज्यं प्रजार्थं नारीणां गरुडस्य निवेदितम् ॥ ९७ ॥
निवेदितं यत् चक्रस्य भोज्यं शत्रुजयार्थिनम् ।
मातॄणां रोहिणीनाञ्च भूतानां यक्षरक्षसाम् ॥ ९८ ॥
निवेदितं पिशाचानाञ्च निक्षिपेदेव वारिषु ।
ग्रहाणामपि सौम्यानां विघ्नेशस्य निवेदितम् ॥ ९९ ॥
क्रियावतामिच्छताञ्च भोक्तव्यं ब्रह्मचारिणाम् ।
त्रयाणामपि वर्णानां तथैव व्रतचारिणाम् ॥ १०० ॥
व्रतमुद्दिश्य यत् क्लृप्तं तद्धविः भोज्यमुच्यते ।
न भोज्यन्तु द्विजातीनां सर्वदेवनिवेदितम् ॥ १०१ ॥
विष्णोर्निवेदितं भोज्यं विप्राणां च व्रतादिषु ।
विष्णोर्निवेदितं भोज्यं भक्तिभाक्शूद्रजन्मनाम् ॥ १०२ ॥
भागवतमहिमा
शूद्राश्च भगवद्भक्ता यदि विष्णुं समाश्रिताः ।
चतुर्वेद्योऽपि यो विप्रो न भक्तः शूद्र एव सः ॥ १०३ ॥
तस्मान्निवेदितं विष्णोर्भक्तानां भोज्यमुच्यते ।
होमशिष्टं देवशिष्टं तथैवातिथिशिष्टकम् ॥ १०४ ॥
अमृतं तद्विजानीयात् द्विजानां भोजने वरम् ।
यज्ञशेषं द्विजातीनां भोज्यमित्याह पूर्वजः ॥ १०५ ॥
[[३६१]]
सुसंशितव्रतानाञ्च मुनीनां ब्रह्मचारिणाम् ।
पावनं विष्णुनैवेद्यमिति पूर्वजदर्शनम् ॥ १०६ ॥
विष्णोर्निवेदितं चान्नं देयं भक्तेभ्य एव च ।
वैश्वदेवं तथा कुर्याच्छ्राद्धकर्मादिकं तथा ॥ १०७ ॥
पानीयं
शीतं पर्युक्षितं तोयं गन्धद्रव्यैश्च वासितम् ।
दद्याद्यन्मन्त्रवत्तद्धि पानीयं नाम विग्रहः ॥ १०८ ॥
मुखवासः
केवलं वाऽथ ताम्बूलं कर्पूरैलादिभिर्युतम् ।
यत्प्रदद्यात्तु मन्त्रेण मुखवासं हि तं विदुः ॥ १०९ ॥
होमः
आलयाद्दक्षिणे वापि आग्नेय्यां वा महानसे ।
औपासनाग्निं सभ्यं वा कल्पयित्वा यथाविधि ॥ ११० ॥
नित्याग्निं तत्र सन्न्यस्य आघारोक्तविधानतः ।
तमग्निं गोपयित्वा तु नित्यं तस्मिन् समाहितः ॥ १११ ॥
‘अतो देवा’ दिभिस्सार्धं मूर्तिहोमं समाचरेत् ।
अथवा केवलं च्छुल्ल्यामग्निं संसाध्य मन्त्रतः ॥ ११२ ॥
परिस्तीर्य हुनेदग्नौ चरुणा च घृतेन च ।
(गोघृतेन सुहोतव्यममिश्रेण प्रयत्नतः) ॥ ११३ ॥
तदालयगतेभ्यश्च पार्षदेभ्यस्समन्ततः ।
केवलं मूर्तिमन्त्रैर्वा तत्तन्मन्त्रैश्च वा हुनेत् ॥ ११४ ॥
द्वाविंशोऽध्यायः
[[३६२]]
सन्नेऽग्नौ उक्तवत्साध्य पुनर्होमं समाचरेत् ।
प्रज्वाल्याग्निं परिस्तीर्य कुर्यादौपासनाग्निवत् ॥ ११५ ॥
दक्षिणान्ते बलेः पूर्वमेवं स्याद्धोमविग्रहः ।
बलिः
पुष्पान्नाद्यैः त्रिकालं यत्संसाध्य विधिना बलिम् ॥ ११६ ॥
समावाह्य च देवेशं दीपाद्दीपमिवाच्युतम् ।
परीत्य मन्दिरं पश्चात् शक्तिं तां तत्र चार्पयेत् ॥ ११७ ॥
बलिविग्रह उद्दिष्टस्य तु सर्वबलप्रदः ।
एवं हि बलिहोमाभ्यां सप्तविंशतिविग्रहैः ॥ ११८ ॥
यत्कृतं पूजनं तत्स्यात् अमूर्तान्मूर्तपूजनम् ।
तस्मात्तच्छ्रेष्ठमित्याह भगवान् पूर्वजः प्रभुः ॥ ११९ ॥
उद्वासनम्
पूजान्ते स्तुतिमन्त्रैश्च देवेष्टस्यानुमोदनम् ।
भक्तिनिर्भरया बुद्ध्या स्यादुद्वासनविग्रहः ॥ १२० ॥
द्विरुक्तविग्रहाणान्तु नार्थभेदः स्थलान्तरे ।
प्रणामादिविसर्गान्ताः क्रमेणैवं प्रकीर्तिताः ॥ १२१ ॥
द्वात्रिंशद्विग्रहाः सम्यक् पूजार्थं परमेष्ठिना ।
साधारणाः त्रयो विग्रहाः
प्रणामावाहनोद्वासाः त्रयस्साधारणाः स्मृताः ॥ १२२ ॥
आद्यन्तयोः प्रयोक्तव्या विग्रहेषु विजानता
[[३६३]]
सप्तविंशत्यादिभेदेन विग्रहगणनम्
ऊर्ध्वमावाहनाच्चापि होमादर्वाग्यथाक्रमम् ॥ १२३ ॥
पूजनं तत्समुद्दिष्टं सप्तविंशतिविग्रहम् ।
बलिहोमौ यदि स्यातां नवविंशतिविग्रहम् ॥ १२४ ॥
प्रणामाद्यर्घ्यपर्यन्तं तथाऽप्याचमनान्वितम् ।
पूजनं यत्क्रमेणैव ते त्रयोदशविग्रहाः ॥ १२५ ॥
हविर्यत्र न विद्येत तत्रैतदिति कीर्तितम् ।
पाद्याद्यर्घ्याचमनान्ता ये प्रोक्ता अष्ट विग्रहाः ॥ १२६ ॥
स्नपनस्यान्तरे तेषां विनियोगः प्रकीर्तितः ।
पुष्पाद्याचमनान्तास्तु प्रोक्ताः षड्विग्रहास्तथा ॥ १२७ ॥
आघारेऽग्न्यर्चनायान्तु विग्रहैः षड्भिरर्चनम् ।
पत्रं पुष्पं फलं तोयमङ्कुरं बीजमेव वा ॥ १२८ ॥
सङ्कल्प्य चार्पयेद्भक्त्या ‘विष्णवे नम’ उच्चरन् ।
द्विविग्रहमिति प्रोक्तं नमस्कारपुरस्सरम् ॥ १२९ ॥
देवागारं तथा बिम्बं दृष्ट्वा वा चिन्त्य वा हृदि ।
यत्र क्वाप्यञ्जलिं कुर्यादेकविग्रहपूजनम् ॥ १३० ॥
भक्तैः प्रयोज्यमेकद्विविग्रहाभ्यान्तु पूजनम् ।
न तौ प्रयोज्यौ प्रत्येकं स्थानार्चनविधौ क्वचित् ॥ १३१ ॥
एवमेषां प्रयोगस्स्यान्नान्यथा पूजनं भवेत् ।
देशकालानुरूपैश्च द्रव्यैरपि विधानवित् ॥ १३२ ॥
उपचारैश्च सङ्ख्यातैरनुकूलैश्च पूजयेत् ।
राजवत्पूजयेद्देवं यजमानस्तु भक्तितः ॥ १३३ ॥
द्वाविंशोऽध्यायः
[[३६४]]
अनिन्द्याभिः क्रियाभिश्च वस्तुभिश्शुचिभिर्बुधः ।
दुर्लभे पूजनद्रव्ये तत्स्थाने कल्पयेज्जलम् ॥ १३४ ॥
प्लोतवस्त्रस्य चालाभे प्लोतं पुष्पेण कल्पयेत् ।
मन्त्राणां स्खलने कुर्यात्स्वमूर्त्याऽष्टाक्षरेण वा ॥ १३५ ॥
पुष्पं सुगन्धमम्लानमपि बेरादपोह्य तु ।
पीठ एव सुसन्न्यस्य प्रतिसन्ध्यं समर्चयेत् ॥ १३६ ॥
प्रातरेव तु तत्सर्वं शोधयित्वा विसर्जयेत् ।
कौतुकध्रुवयोः पीठे पुष्पन्यासं विधीयते ॥ १३७ ॥
एकबेरार्चनायान्तु कौतुकोक्तं ध्रुवे चरेत् ।
अर्चायामौत्सवे वापि लौकिकेष्वितरेष्वपि ॥ १३८ ॥
पुष्पन्यासस्तु पीठान्ते पूजा पाद्यादिका स्मृता ? ।
प्रभूतम्
प्रभूतदानपूजेयं काम्या नैमित्तिकी मता ॥ १३९ ॥
तण्डुलैरेकजातीयैः द्रोणमानाधिकैश्शुभैः ।
सिद्धं प्रभूतं भक्तं स्याच्छ्रद्धाभक्तिपुरस्कृतम् ॥ १४० ॥
व्यञ्जनैः बहुभिः शस्तैः नानायोगरसान्वितैः ।
सुपाकरम्यैः सक्षारैः सुगन्धैर्मितसैन्धवैः ॥ १४१ ॥
रसालदधिसूपैश्च पानीयेनापि संयुतम् ।
निवेदनं मन्त्रवत्स्यात् प्रभूतं नाम विग्रहः ॥ १४२ ॥
नैमित्तिकं भवेदन्ते प्रदातव्यं प्रयत्नतः ।
उत्सवान्ते स्नापनान्ते राज्ञो जन्मदिनेऽपि च ॥ १४३ ॥
[[३६५]]
यजमानस्य जन्मर्क्षे विष्णुपञ्चदिनेऽपि च ।
कृत्तिकादीपदानान्ते तथाऽऽग्रयणपूजने ॥ १४४ ॥
पुण्यर्क्षेष्वपि चान्येषु कर्तव्यं कामदायि तत् ।
नित्यपूजाविधावन्ये कर्तव्या विग्रहास्स्मृताः ॥ १४५ ॥
नैमित्तिकमतोऽन्यद्यत्प्राप्तं कृत्वा क्रमेण तु ।
नित्यकर्मसु कालैक्ये पश्चान्नित्यं समाचरेत् ॥ १४६ ॥
प्रतिद्रव्यं विशेषेण घण्टां सन्ताड्य पूजयेत् ।
(हविः प्रदानकाले तु बहिर्घण्टां सुताडयेत्
बलिकाले होमकाले धूपादौ तन्तुबन्धने
आवाहनेऽङ्कुरारोपे घण्टां वाद्यानि घोषयेत्)
उत्तमे मध्यमे चैव पूजने सम्प्रकीर्तिते ॥ १४७ ॥
पूजनारम्भकाले च स्नपने च विधानतः ।
घण्टानादावसाने तु शङ्खध्वानञ्च कारयेत् ॥ १४८ ॥
चतुर्विधैस्तथाऽन्यैश्च वाद्यैस्सम्यक् प्रघोषयेत् ।
आनीयते यदा पक्वं हविः सिद्धं महानसात् ॥ १४९ ॥
शङ्खघोषो विशेषेण तस्मिन् काले प्रकीर्तितः ।
हविर्निवेदने काले शङ्खघोषपुरस्सरम् ॥ १५० ॥
वाद्यघोषोऽत्र विहितः बलिवाद्यं बलौ स्मृतम् ।
नित्ययात्राबलौ सम्यक् सर्ववाद्यसमायुतः ॥ १५१ ॥
तूर्यघोषस्तु कर्तव्यो भिन्नघोषैरनेकशः ।
बल्युद्धरणवेलायां पूजान्ते शङ्खघोषणम् ॥ १५२ ॥
घोष एवं यथाकालमन्यकालेषु चेष्यते ।
द्वाविंशोऽध्यायः
[[३६६]]
प्रबोधनवाद्यम्
उषस्यापि च वाद्यैश्च घोषयेच्छङ्खपूर्वकम् ॥ १५३ ॥
प्रबोधनीयं नाम स्याद्वाद्यं तत्काल एव तु ।
प्रारभेतार्चनां प्रातरिति पूर्वजशासनम् ॥ १५४ ॥
अर्चनद्वैविध्यम्
अमूर्तेति समूर्तेति द्विविधा साऽर्चना मता ।
अमूर्ताऽग्न्याहुतिः प्रोक्ता समूर्ता बिम्बपूजनम् ॥ १५५ ॥
समूर्तामूर्तयोर्मुख्य समूर्तं स्यात्तु पूजनम् ।
विशेषभक्तिहेतुत्वाच्चक्षुषोः प्रीतिकारणात् ॥ १५६ ॥
रूपसन्दर्शनाद्भक्तिर्मनसोऽतीव जायते ।
तथा भक्त्या कृता पूजा ऐहिकामुष्मिकप्रदा ॥ १५७ ॥
आलयार्चा गृहार्चेति समूर्तार्चा द्विधा पुनः ।
गृहार्चा तु गृहे कार्या गृहस्थेन विधानतः ॥ १५८ ॥
आलयार्चाविधिस्सोऽयं संहितासु प्रकीर्त्यते ।
कूर्चेऽप्सु बिम्बे हृदये ध्यात्वैवं देवमर्चयेत् ॥ १५९ ॥
विष्णुध्यानम्
पद्ममध्ये स्थितं देवं विष्णुं प्रणवरूपिणम् ।
शुकपिञ्छाम्बरधरं पीतवर्णं चतुर्भुजम् ॥ १६० ॥
श्रीवत्सवक्षसं ध्यायेत्किरीटादिविभूषितम् ।
ध्यात्वाऽऽत्मानन्तु तद्रूपं पश्चाद्देवं समर्चयेत् ॥ १६१ ॥
[[३६७]]
अर्चकमहिमा
नाविष्णुरर्चयेद्विष्णुं नाविष्णुः ध्यायते हरिम् ।
तस्माद्विष्णुः स्वयं भूत्वा प्रयतात्मा तु पूजयेत् ॥ १६२ ॥
पूजकावस्थानं
षडङ्गुलादहीने तु बिम्बे स्याद्बिम्बपूजनम् ।
आसीनो वा स्थितो वापि पूजनं सम्यगाचरेत् ॥ १६३ ॥
यथोचितं समालोच्य पार्श्वयोरुभयोरपि ।
न प्रतीपं समाविश्य नित्यपूजां समाचरेत् ॥ १६४ ॥
आसनभेदाः
स्नपनं तु प्रतीपं वा समाविश्यापि कारयेत् ।
आसीनपूजनायान्तु एकजानुक्रमाच्चरेत् ॥ १६५ ॥
वामे चेदासनं वामजानुं भूमौ समाश्रयेत् ।
दक्षिणाङ्घ्रि भुवि न्यस्य सव्यं जानु समुद्धरेत् ॥ १६६ ॥
दक्षिणे विपरीतं स्यादेवमेव तदासनम् ।
पादाङ्गुलीर्जानुनी च भूमौ न्यस्य समाश्रितः ॥ १६७ ॥
स्नपने पूजयेद्देवं स्थितो वापि यथोचितम् ।
भोजने मूर्तिहोमे च कुर्यादुत्कुटिकासनम् ॥ १६८ ॥
पादौ भूमौ तु सन्न्यस्य जानुनी तु समुच्छ्रिते ।
कृत्वाऽऽसीताऽसने सम्यक् तत्स्यादुत्कुटिकासनम् ॥ १६९ ॥
भागङ्गुलोच्छ्रये पीठे भवेदुत्कुटिकासनम् ।
गृहस्थो ब्रह्मचारी च आलयार्चां प्रयोजयेत् ॥ १७० ॥
द्वाविंशोऽध्यायः
[[३६८]]
गृहार्चावैशिष्ट्यम्
आत्मार्थमपि गुर्वर्थमन्यार्थञ्चापि पूजयेत् ।
परार्थपूजनं कुर्वन् काले निर्वर्त्य चार्चनम् ॥ १७१ ॥
आत्मार्थञ्च पुनः पूजां कृत्वा समनुमानयेत् ।
आत्मकृत्यं न लुप्येत नित्यकर्मार्चनं हरेः ॥ १७२ ॥
हरिस्मरणमहिमा
विहिताकरणे चापि प्रायश्चित्तं हरिस्मृतिः ।
यदि प्रमादाच्च्यवते कर्म यज्ञे प्रकुर्वताम् ॥ १७३ ॥
तद्विष्णुस्मरणात्सद्यः भवेत्पूर्णमिति श्रुतिः ।
ध्यायेन्नारायणं नित्यं स्नानादिषु च कर्मसु ॥ १७४ ॥
प्रायश्चित्तं हि सर्वस्य दुष्कृतस्येति वै श्रुतिः ।
प्रातर्निशा च मध्याह्ने सन्ध्ययोस्सर्वदा स्मरन् ॥ १७५ ॥
नारायणमवाप्नोति सद्यः पापक्षयं नरः ।
किं पुनर्वैदिकं कर्म चाचरन् शक्तितस्स्मरन् ॥ १७६ ॥
योऽर्चयेद्विष्णुमेवं स्यात्कृतकृत्यो भवेद्द्विजः ।
सर्वेऽपि वैदिकाचारास्सर्वे यज्ञास्तपांसि च ॥ १७७ ॥
विष्णुपूजाविधेर्भेदास्तत्कर्मफलदो हरिः ।
तस्मात्तत्पूजनं कुर्वन् स्वकृत्यान्नच्युतो भवेत् ।
मितभोजी जितक्रोधः ॠजुराचारसंयुतः ॥ १७८ ॥
मन्त्रकल्पविशेषज्ञो भक्तिमान् नियतेन्द्रियः ।
शुद्धात्मा सत्यसन्धश्च स्नानशीलश्च योगवित् ॥ १७९ ॥
[[३६९]]
एवं गुणसमायुक्तः पूजकः शस्यते बुधैः ।
सुखं स निवसेद्विद्वान् देवालयसमीपतः ॥ १८० ॥
दशाङ्गं पूजनम्
पूजार्थभोगपर्याप्तभूमिर्देवालयस्तथा ।
बिम्बञ्च लक्षणोपेतं पूजकस्यात्मसंस्कृतिः ॥ १८१ ॥
ध्यानमावाहनञ्चैव मन्त्रो द्रव्यं तथैव च ।
विहितस्सम्प्रयोगश्च भक्तिरेभिः पुरस्कृता ॥ १८२ ॥
एभिर्दशभिरङ्गैस्तु सम्पूर्णं पूजनं भवेत् ।
एवमेव विधानेन कारयेद्योऽर्चनं हरेः ॥ १८३ ॥
सर्वैः सम्बन्धिभिः पुत्रैस्सहैवाभूतसम्प्लवम् ।
विहृत्य पुण्यलोकेषु विष्णोस्सायुज्यमाप्नुयात् ॥ १८४ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे उपचारस्वरूपकथनं नाम द्वाविंशोऽध्यायः ॥
द्वाविंशोऽध्यायः
[[३७०]]