अथ एकविंशोऽध्यायः
चतुर्मूर्त्यर्चनाविधिः
अथ परं प्रवक्ष्यामि चतुर्मूर्त्यर्चनक्रमम् ।
पञ्चमूर्तिक्रमेणैव आदिमूर्तिं समर्चयेत् ॥ १ ॥
विष्णुञ्च पुरुषं सत्यमच्युतञ्चानिरुद्धकम् ।
एतास्तन्मूर्तयः प्रोक्ताः उक्तैर्मन्त्रैश्च पूजनम् ॥ २ ॥
श्रियञ्चैव धृतिञ्चैव पवित्रीञ्च विधानतः ।
तथा प्रमोदायिनीञ्च उक्त्वा सम्पूजयेच्छ्रियम् ॥ ३ ॥
अर्चयेद्धरिणीञ्चापि हरिणीञ्च पौष्णीमिति ।
क्षोणीं महीमिति प्रोच्य मूर्तिभिश्च चतसृभिः ॥ ४ ॥
‘पद्मापितरं धातृनाथं ख्यातीशं भृगु’मित्यपि ।
अर्चयेत्तु विधानेन माञ्च दक्षिणतस्तथा ॥ ५ ॥
एकविंशोऽध्यायः
[[३४४]]
‘चिरायुषं मार्कण्डेयं रौहिणेयमुदग्रिणम्’ ।
इत्यर्चयित्वा मार्कण्डेयं द्वारपालौ समर्चयेत् ॥ ६ ॥
तुहणो बलिदश्चैव तत्र वै द्वारपालकौ ।
‘तुहणं दैत्यराजञ्च विष्णुभक्तं गदाधरम्’ ॥ ७ ॥
इत्यर्चयेत्तु तुहणं द्वारदक्षिणतस्ततः ।
‘दैतेयञ्च महावीर्यं बलिदं शूलपाणिनम् ॥ ८ ॥
इति वामेऽर्च्य बलिदं शेषान् पूर्ववदर्चयेत् ।
‘पुरुषं पुरुषात्मकञ्चेति परमपुरुषमतः परम् ॥ ९ ॥
धर्ममित्यर्चयेदुक्त्वा पुरुषं मूर्तिभिः क्रमात् ।
चतस्रो मूर्तयस्त्वेताः पुरुषस्य समीरितः ॥ १० ॥
‘श्रियञ्च कमलाञ्चेति पुरुषस्य प्रियां तथा ।
आनन्दा’ मिति चोक्त्वा तु श्रियं देवीं समर्चयेत् ॥ ११ ॥
‘मेदिनीं धरणीमुर्वीं सर्वाधारां महीं’ क्षितेः ।
‘भुगुं मुनिवरं शुद्धमग्निवर्णं तपोधनम्’ ॥ १२ ॥
इति मामर्चयित्वा तु मार्कण्डेयं ततोऽर्चयेत् ।
‘पुराणं भक्तिमन्तञ्च भार्गवं चिरजीविनम्’ ॥ १३ ॥
इति मूर्तिभिरभ्यर्च्य द्वारपालौ समर्चयेत् ।
‘शङ्खं मुनिवरञ्चेति धनदस्य सखं तथा ॥ १४ ॥
मौक्तिकोद्भव’ मित्युक्त्वाऽर्चयेच्छङ्खनिधिं ततः ।
‘पद्मं निधिवरञ्चेति रक्ताङ्गं भूतनायकम् ॥ १५ ॥
इत्यर्चयेत्पद्मनिधिं प्राग्द्वारे द्वारपालकौ ।
‘सत्यं सत्यात्मकं ज्ञानं सर्वसंहारकं’ तथा ॥ १६ ॥
[[३४५]]
‘धृतिं रामां दक्षसुतां सत्यपत्नीं’ तथा पुनः
पौष्णीञ्च वरदामुर्वीं पृथिवी’मिति चोच्चरन् ॥ १७ ॥
सत्यस्य देव्यावभ्यर्चेद् देव्यौ दक्षिणवामयोः ।
‘धातृनाथं भूतनाथं ब्रह्मसम्भवमेव च ॥ १८ ॥
वाग्देवीपति’ मित्युक्त्वा अर्चयेन्मां विधानतः ।
‘पुण्यञ्च विश्वं शुद्धञ्च वरिष्ट’मिति च क्रमात् ॥ १९ ॥
अर्चयेत्पुण्यमपि च सनकादींस्तथाऽर्चयेत् ।
‘शङ्खचूडं वृक्षषण्डं श्वेताभं घोररूपिणम्’ ॥ २० ॥
‘चक्रचूडं महानादमुग्ररूपं भयानकम् ।
इत्येवमर्चयेद्विद्वान् दक्षिणोत्तरयोः क्रमात् ॥ २१ ॥
‘अच्युतञ्चापरिमितमैश्वर्यं श्रीपतिं’ तथा ।
‘पवित्रीमिन्दिराञ्चेति लक्ष्मीञ्चैवाच्युतप्रियाम्’ ॥ २२ ॥
‘क्षेणीं वराङ्गीं वरदामर्चयेत्पुण्यदायिनीम् ।
‘ख्यातीशञ्च तपोयोनिममृतञ्चाप्ययोनिजम्’ ॥ २३ ॥
‘सिताङ्गमुग्रतपसं चिरायुषमनन्तकम्’ ।
शङ्खपद्मनिधी चैव अर्चयेत्तु विधानतः ॥ २४ ॥
‘अनिरुद्धं महान्तञ्च वैराग्यमिति मन्त्रतः ।
सर्वतेजोमय’ ञ्चेति अर्चयेत्तु यथाक्रमम् ॥ २५ ॥
‘प्रमोदायिनीं वरारोहामब्धिकन्यां रमा’मिति ।
‘महीं गां पृथुलाञ्चेति अर्चयेत्तु ध्रुवा’मिति ॥ २६ ॥
‘भृगुं तपोनिधिञ्चेति वेदरूपं महाप्रभम्’ ।
‘मार्कण्डेयमुरुं दीप्तपुण्यं पावन’मित्यपि ॥ २७ ॥
एकविंशोऽध्यायः
[[३४६]]
दक्षिणे शङ्खचूडञ्च वामे वै चक्रचूलिनम् ।
पूर्ववच्चार्चयेद्धर्मं ‘सावित्रीं वेदमातरम् ॥ २८ ॥
गायत्रीं व्याहृति’ ञ्चैव मनूंश्चैव चतुर्दश ।
माञ्च वैखानसञ्चैव वालखिल्यान् समारिषान् ॥ २९ ॥
वैराजञ्च यथान्यायं कालं ब्रह्माणमेव च ।
हरिशाङ्कररूपञ्च निद्रां विघ्नञ्च पूजयेत् ॥ ३० ॥
‘धर्मं सत्यं शुभं पुण्य’मित्युक्त्वा धर्ममर्चयेत् ।
ततो दक्षिणभागे च अर्चयेच्च सरस्वतीम् ॥ ३१ ॥
वह्निं रुद्रञ्च शङ्खञ्च सूर्यं सम्पूजयेत्क्रमात् ।
सोमं गन्धर्वराजञ्च विराजञ्च गुहं तथा ॥ ३२ ॥
अर्चयेच्च तथा धीमांश्चतुर्मूर्तिविधानतः ।
ततः पश्चिमभागे तु कामं सम्पूजयेत्क्रमात् ॥ ३३ ॥
‘कामं मनोभवञ्चेति रतीशं मकरध्वजम्’ ।
अर्चयेत्तु विधानेन नरनारायणावृषी ॥ ३४ ॥
‘नारायणं पुराणेशं मन्त्रमूर्तिमिति क्रमात् ।
विश्वरूपिण’ मित्युक्ता अर्चयेत्तु विधानतः ॥ ३५ ॥
‘सर्वाङ्गञ्च नरञ्चेति सर्वयोनिं सनातनम्’ ।
तथैवोत्तरभागे तु पूजयेन्नारसिंहकम् ॥ ३६ ॥
‘नारसिंहं तपोनाथं महाविष्णुं महाबलम् ।
‘वाराहं वरदञ्चेति’ उर्वीधारिणमेव च ॥ ३७ ॥
वज्रदंष्ट्रिण’मित्युक्त्वा अर्चयेद्विधिवद्बुधः ।
प्रादक्षिण्येनार्चयेच्च नदीरष्टौ विधानतः ॥ ३८ ॥
[[३४७]]
गङ्गां सरस्वतीं सिन्धुं कौशिकीं नर्मदामपि ।
यमुनां चन्द्रभागाञ्च सह्यजां पूजयेत्ततः ॥ ३९ ॥
शायनञ्चेत्तथा चोर्ध्वे अर्चयेत्तु विधानतः ।
‘अनन्तशयनञ्चोक्त्वा अनादिनिधनं तथा ॥ ४० ॥
अमितमहिमानमित्युक्त्वा अत्यन्ताद्भुत’मेव च ।
शयानमर्चयेद्देवं मन्त्रैरेव विधानतः ॥ ४१ ॥
शेषान् पूर्ववदभ्यर्च्य पञ्चायुधसमन्वितान् ।
नाभ्यम्बुजसमासीनं ब्रह्माणञ्च समर्चयेत् ॥ ४२ ॥
श्रियं भूमिं पुराणञ्च माञ्च तत्र समर्चयेत् ।
वीशं शैषिकसंयुक्तं कल्पयेत्तु विधानतः ॥ ४३ ॥
नारसिंहप्रतिष्ठा चेदर्चयेन्नारसिंहकम् ।
‘नारसिंहं तपोनाथं महाविष्णुं महाबलम्’ ॥ ४४ ॥
‘विरिञ्चिं वरदञ्चेति ब्रह्माणं पद्मसम्भवम्’ ।
‘रुद्रं त्रियम्बकञ्चेति गौरीशं शर्व’मित्युत ॥ ४५ ॥
यज्ञतीर्थौ यथान्यायं पूजयेत्पूजकौ तथा ।
‘यज्ञं सुतपसं नित्यं भावितात्मानमित्युत ॥ ४६ ॥
अर्चयेद्दक्षिणे भागे तीर्थं वामे समर्चयेत् ।
‘तीर्थञ्च भवनञ्चेति मन्त्रसिद्धं महाबलम्’ ॥ ४७ ॥
अर्चयेच्छैषिकं विद्वान् सुभूतिं सुमतिं तथा ।
महाप्रभाव’ मित्युक्त्वा अर्चयेत्तु विधानतः ॥ ४८ ॥
‘नमो वरुण’ इत्युक्त्वा पुष्पाण्याहृत्य यत्नतः ।
स्नात्वा चैव विधानेन जपेत् द्वादशासूक्तकम् ॥ ४९ ॥
एकविंशोऽध्यायः
[[३४८]]
ब्राह्मं सूक्तं जपेद्विद्वान् पारमात्मिकसंयुतम् ।
गोदानमात्मसूक्तञ्चारुणनारायणे तथा ॥ ५० ॥
तथा च विश्वजित्सूक्तं सूक्तं शुद्धावतीं जपेत् ।
एवं जप्त्वा विधानेन अर्चनं सम्यगाचरेत् ॥ ५१ ॥
वेदादींश्च ततो जप्त्वा देवेशं मनसा स्मरन् ।
हृदि बीजाक्षरं न्यस्येत् ध्यानं पूर्ववदाचरेत् ॥ ५२ ॥
पूर्वोक्तेन विधानेन अर्चनं सम्यगाचरेत् ।
बल्यादि स्नापनञ्चैव उत्सवं पूजनं तथा ॥ ५३ ॥
अशक्तश्चेत्तु सर्वासामादिमूर्तेरिवाचरेत् ।
चतुर्मूर्तिविधानन्तु विना नैवार्चयेत्तिकम् ॥ ५४ ॥
एकमेवानिरुद्धञ्च सह वा कारयेद्बुधः ।
मूर्तिभेदक्रमः
अतः परं प्रवक्ष्यामि मूर्तिभेदक्रमं बुधाः ॥ ५५ ॥
धर्मं ज्ञानमथैश्वर्यं वैराग्यमिति वै गुणाः ।
आदिमूर्तिसमुद्भूताः चतस्रो मूर्तयः क्रमात् ॥ ५६ ॥
समस्ता विष्णुमूर्तिस्तु व्यस्तास्ते पुरुषादिकाः ।
विष्णुञ्च पुरुषं सत्यमच्युतञ्चानिरुद्धकम् ॥ ५७ ॥
ब्रह्मक्षत्रियविट्छूद्रहिता वै मूर्तयः क्रमात् ।
कृतं त्रेता द्वापरश्च कलिश्चेति यथाक्रमम् ॥ ५८ ॥
ॠक्सामयजुराथर्व वेदाश्चत्वार एव ते ।
भूर्भुवस्स्वर्महश्चेति लोकास्ते तु चतुर्विधाः ॥ ५९ ॥
[[३४९]]
एवं चुतर्धा सम्भिन्ना मूर्तयः पुरुषादिकाः ।
एतेषामर्चनं नित्यं शान्तिपुष्टिसुखप्रदम् ।
वर्षदं सर्वलोकानां चातुर्वण्यसमृद्धिदम् ॥ ६० ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे चतुर्मूर्त्यर्चनविधिर्नाम एकविंशोऽध्यायः ॥