अथ विंशोऽध्यायः
नित्यार्चनक्रमः
ॠषय ऊचुः
नमस्ते भगवान् ब्रह्मन् नमस्ते ब्रह्मणः सुतः ।
त्वत्प्रसादाच्छृतो विष्णोरस्माभिः स्थापनाक्रमः ।
कौतुकस्यौत्सवस्यापि तथाऽर्चायाः विशेषतः ॥ १ ॥
भेदान् नवविधांश्चैव लोहसंस्कारमेव च ।
नित्यार्चनक्रमञ्चैव श्रोतुमिच्छामहे वयम् ॥ २ ॥
कौतुकादिव्यवस्थाप्रकारः
भृगुरुवाच
युष्माभिश्चोदितं सर्वं प्रवक्ष्यामि तपोधनाः ।
एकस्मिंस्तु विमाने वै बेराणि त्रीणि कल्पयेत्॥ ३ ॥
[[३२३]]
अशक्तो द्वे तथैकं वा यथाशक्ति प्रकल्पयेत् ।
कौतुकञ्चौत्सवार्चा त्रिविधं बिम्बमुच्यते ॥ ४ ॥
कौतुकं ब्रह्मणः स्थाने विधिना स्थापयेद्बुधः ।
तस्यैवोत्तरतः पार्श्वे औत्सवं स्थापयेत्तथा ॥ ५ ॥
दक्षिणे कौतुकस्यात्र किञ्चित्पूर्वं समाश्रिते ।
स्थापयित्वा ततैवार्चां नित्यपूजां समाचरेत् ॥ ६ ॥
कुर्यात्कौतुक बिम्बे वै नित्यपूजां यथाक्रमम् ।
औत्सवे च तथा बिम्बे काम्यकर्माणि कारयेत् ॥ ७ ॥
कर्म नैमित्तिकं यत्तदर्चायां कारयेद्बुधः ।
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ॥ ८ ॥
पुण्यकालं समीक्ष्यैव तत्कालात्पूर्वमाचरेत् ।
यजमानस्य जन्मर्क्षे राज्ञो जन्मदिने तथा ॥ ९ ॥
अन्यस्मिन् पुण्यनक्षत्रे विष्णुपञ्चदिनेषु च ।
कर्मोद्दिष्टं काम्यमुक्तं कालो मध्याह्न उच्यते ॥ १० ॥
ऐकाहिकोत्सवोक्तेन मार्गेणोत्सवमाचरेत् ।
ग्रामं प्रदक्षिणं कृत्वा तीर्थस्थानं प्रविश्य च ॥ ११ ॥
उत्सवोक्तप्रकारेण तीर्थस्नानं समाचरेत् ।
पश्चाद्ग्रामं परित्यैव देवालयमुपाव्रजेत् ॥ १२ ॥
स्नापनोक्तेन मार्गेण स्नापयेत्पुरुषोत्तमम् ।
प्रभूतञ्च निवेद्यैव स्वस्थाने स्थाप्य पूजयेत् ॥ १३ ॥
अथ नैमित्तिकं कुर्याद्दुर्भिक्षे व्याधिजे भये ।
अद्भुतोत्पादनादौ च तत्तद्दोषोपशान्तये ॥ १४ ॥
विंशोऽध्यायः
[[३२४]]
उत्सवस्नपनादीनि
अर्चायां सम्यगाचरेत् ।
विहीने चौत्सवेऽर्चायां
कौतुके सर्वमाचरेत् ॥ १५ ॥
(हीनमौत्सवबेरञ्चेदर्चायामुत्सवं चरेत्
हीने च स्नापने बेरे औत्सवे स्नपनं चरेत्)
अर्चनवैविध्यम् - निष्कलार्चनम्
अत ऊर्ध्वं प्रवक्ष्यामि अर्चानिर्वहणे क्रमम् ।
साकारञ्च निराकारं भवत्याराधनं द्विधा ॥ १६ ॥
प्रतिमाराधनं श्रेष्ठं साकारमभिधीयते ।
स्थण्डिले सलिले वापि हृदये सूर्यमण्डले ॥ १७ ॥
आराधनं निराकारं तयोस्साकारमुत्तमम् ।
संस्कारान् अर्पणीयानि द्रव्याणि विविधानि च ॥ १८ ॥
सङ्कल्प्य मनसा दद्यात् निराकारार्चनं हरेः ।
…. …. …. …. …. ॥ १९ ॥
सकलार्चनं
संसारश्रमनिष्ठानां पुरुषाणां विजानताम् ।
इह चामुत्र च हितं यथेष्टफलदायकम् ॥ २० ॥
सकलं सर्वसम्पूर्णं साकारमभिधीयते ।
चक्षुषोः प्रीतिजननं मनसो हृदयस्य च ॥ २१ ॥
यथोपयोगशक्यत्वात्कर्तुं पूजां सुमादिभिः ।
अभीक्ष्णदर्शनौचित्यात् सौलभ्येन विशेषतः ॥ २२ ॥
[[३२५]]
विशेषभक्तिहेतुत्वात् प्रतिमाराधनं वरम् ।
तस्मात्कृत्वाऽऽलयं सम्यक् भक्त्या पूर्वोक्तवर्त्मना ॥ २३ ॥
उक्तेनैव विधानेन कारयेत्प्रतिमां शुभाम् ।
स्थापयेच्च विधानेन कारयेन्नित्यमर्चनम् ॥ २४ ॥
यजमानो गुरुञ्चैव पूजनार्थञ्च पूजकान् ।
द्वावेकं चतुरस्त्रीन्वा यथाविभवमाहरेत् ॥ २५ ॥
पूर्वोक्त गुणसम्पन्नानुक्तदोषविवर्जितान् ।
वैखानसान् समाहूय यजमानो नियोजयेत् ॥ २६ ॥
वृत्तिकल्पनं
देवस्य देव्योः परिषद्देवानाञ्च पृथक् पृथक् ।
कल्पयेच्छाश्वतीं वृत्तिं पूजानिर्वहणाय वै ॥ २७ ॥
हविषामर्थमेतावद्बल्यर्थमिदमित्युत ।
देव्योश्च परिवाराणामेतावांश्चरुसङ्ग्रहः ॥ २८ ॥
धूपद्रव्यस्य चैतावदेतावान् गन्धसङ्ग्रहः ।
दीपतैलार्थमेतावदुपस्करविधाविदम् ॥ २९ ॥
पूजकानामथैतावद्भरणाय समन्ततः ।
प्रायश्चितार्थमेतावदेतावद्विप्रभुक्तये ॥ ३० ॥
एतावद्वर्षपूजार्थं वादित्राद्यार्थमेव च ।
गायकाद्यर्थमेतावत् दासदासीगणस्य च ॥ ३१ ॥
स्नपनार्थमथैतावत् विशेषार्चार्थमेव च ।
नवीकरणकर्मार्थमेतावदिति वै पृथक् ॥ ३२ ॥
विंशोऽध्यायः
[[३२६]]
विभज्य धनमात्मीयं त्रिधा भागद्वयं ततः ।
भागद्वयं कुटुम्बार्थं दत्वा शिष्टैकभागकम् ॥ ३३ ॥
धर्मार्थं कल्पयित्वा तु दद्याद्देवाय भक्तितः ।
भूमिभोगेन पूर्वेषामुक्तानां कल्पनं चरेत् ॥ ३४ ॥
क्लेशयुक्तान् नरान् दृष्ट्वा न रमेत्कालनेमिह ।
स भृत्यान् किं पुनर्दृष्ट्वा अन्तरङ्गान् क्रियावतः ॥ ३५ ॥
तस्मात्सर्वप्रयत्नेन चाक्लिष्टं सर्वमाचरेत् ।
अक्लेशेनैव जीवेयुर्तया सर्वे पदार्थिनः ॥ ३६ ॥
अर्चके क्लेशयुक्ते च तथैव परिचारके ।
तद्ग्रामो यजमानश्च क्लेशयुक्तस्सदा भवेत् ॥ ३७ ॥
अर्चककृत्यानि
अर्चकस्सुप्रसन्नात्मा मन्त्रतन्त्रपरायणः ।
ब्राह्मे मुहूर्ते चोत्थाय स्नात्वा स्नानविधानतः ॥ ३८ ॥
ब्रह्मयज्ञादिकं कृत्वा आत्मसूक्तं जपेत्क्रमात् ।
वेदादीन्वा पठेद्विद्वान् देवेशं मनसा स्मरेत् ॥ ३९ ॥
आलयप्रवेशः
‘प्रतद्विष्णुस्तवत’ इति प्रविशेद्देवमन्दिरम् ।
‘अतो देवादि’ कं जप्त्वा कुर्यात्सद्मप्रदक्षिणम् ॥ ४० ॥
‘विमानं प्रपद्य’ इत्युक्त्वा विमानं प्रणमेत्ततः ।
‘मणिकं प्रपद्य’ इत्युक्त्वा मणिकं सम्प्रणम्य च ॥ ४१ ॥
‘निरस्तं रक्ष’ इत्युक्त्वा यन्त्रिकां समुपाहरेत् ।
कवाटे चैव संयोज्य ‘हिरण्यपाणि’ मुदीरयन् ॥ ४२ ॥
[[३२७]]
‘दिवं विवृणो’ त्वित्युक्त्वा कवाटोद्घाटनं चरेत् ।
ततोऽभ्यन्तरं प्रविश्य ‘अतो देवादि’ मुच्चरन् ॥ ४३ ॥
मुखं समीक्ष्य देवस्य प्रणाम्यैवानुमान्य च ।
त्रिः सम्प्रहार्य पाणिभ्यां ‘शाम्यन्त्वि’ ति समुच्चरन् ॥ ४४ ॥
‘भगवतो बलेन’ मन्त्रेण प्रणमेद्देवमादरात् ।
शिष्यमाहूय तत्काले तोयार्थञ्च नियोजयेत् ॥ ४५ ॥
परिचारककृत्यम्
‘दुहतां दिव’मित्युक्त्वा घटमादाय सोऽपि च ।
बाह्वोश्शिरसि वा न्यस्य आहर्तुमुदकं व्रजेत् ॥ ४६ ॥
नदीं तटाकं कूपं वा यथालाभं तथा व्रजेत् ।
पूर्वालाभे परं गत्वा तोयमादाय चात्वरः ॥ ४७ ॥
पिधाय वस्त्रखण्डेन कलशस्य मुखं ततः ।
‘आद्यमभिगृह्णा’ मीति कुम्भं तोयेन पूरयेत् ॥ ४८ ॥
पूर्ववन्मूर्ध्नि बाह्वोर्वा कलशं सन्न्यसेत्क्रमात् ।
सर्वालङ्कारसंयुक्तं वाद्यघोषसमायुतम् ॥ ४९ ॥
देवालयं शनैर्गत्वा प्रदक्षिणमथाचरेत् ।
किञ्चिदैशान्यमाश्रित्य उत्तरे वा मनोरमे ॥ ५० ॥
‘अन्तरस्मिन्निमे त्युक्त्वा ब्रह्माणमभिवाद्य च ।
‘सोमं राजान’ मित्युक्त्वा तोयकुम्भं सुसन्न्यसेत् ॥ ५१ ॥
‘धारासु सप्त’ स्वित्युक्त्वा अपामुत्पवनं चरेत् ।
‘इदमापश्शिवा’ इति तोयं तमभिमन्त्रयेत् ॥ ५२ ॥
विंशोऽध्यायः
[[३२८]]
मार्जन्या मार्जनं कुर्या ‘दवधूतं’ समुच्चरन् ।
‘आमा वाजस्य’ मन्त्रेण पात्राणि परिशोधयेत् ॥ ५३ ॥
पात्रशुद्धिः
सौवर्णं राजतं ताम्रं कांस्यं मृण्मयमेव वा ।
पात्रं तोयैः पञ्चगव्यैः पूरयित्वा यथोदितम् ॥ ५४ ॥
‘आशासु सप्त’ स्वित्युक्त्वा कूर्चयुक्तेन पाणिना ।
प्रोक्षयेत्सर्वसम्भारान् बाह्यमाभ्यन्तरं क्रमात् ॥ ५५ ॥
निर्माल्यशोधनम्
‘अहमेवेद’ मित्युक्त्वा निर्माल्य संव्यपेह्य च ।
‘पूतस्तस्ये’ ति मन्त्रेण वेदिं प्रक्षाल्य वारिणा ॥ ५६ ॥
‘तत्पुरुषाय मन्त्रेण’ न्यसेत्पुष्पाणि पादयोः ।
पादयोर्देवदेवस्य देव्योश्च विनयान्वितः ॥ ५७ ॥
देवेशस्य तु निर्माल्यमादाय प्रयतात्मवन् ।
विष्वक्सेनं समासाद्य पूजयेत्तु यथाविधि ॥ ५८ ॥
निर्माल्यमन्यदेवानां शिष्य एव समाहरेत् ।
आरामे तु विसृज्यैव पादप्रक्षालनं चरेत् ॥ ५९ ॥
(औत्सवादेस्तु निर्माल्यं प्रथमावरणे न्यसेत् ।
‘भक्तानां पापनाशार्थं ददामी’ति वदन् विधिः) ॥ ६० ॥
स्नानासनम् - अलङ्कारासनम्
‘भूः प्रप’ द्येति देवेशं प्रणम्यैवानुमान्य च ।
आलयादुत्तरे श्वभ्रे मण्डलान्युपलिप्य च ॥ ६१ ॥
[[३२९]]
अलङ्कारं यथाशक्ति कारयित्वा विचक्षणः ।
पीठञ्च तत्र सन्यस्य सर्वोपकरणानि च ॥ ६२ ॥
अन्यान् यथेच्छं सम्भारान् यजमानेन सञ्चितान् ।
सर्वांस्तत्र समानीय यथोक्तं स्नापयेद्बुधः ॥ ६३ ॥
‘परं रंहे’ ति मन्त्रेण देवमादाय चात्वरः ।
‘प्रतद्विष्णुस्स्तवत’ इति स्नानपीठे निवेशयेत् ॥ ६४ ॥
दूर्वाक्षतसमायुक्तं तोयं चात्र समाहरेत् ।
उभाभ्याञ्चैव हस्ताभ्यां बिम्बे त्वारोप्य भक्तिमान् ॥ ६५ ॥
पादादिमूर्धपर्यन्तमभिषिच्य पुनः पुनः ।
‘अन्नाद्याये’ ति मन्त्रेण दन्तधावनमाचरेत् ॥ ६६ ॥
‘इदं ब्रह्मे’ ति जिह्वायाः शोधनं कारयेद्बुधः ।
‘यन्मे गर्भे’ ति मन्त्रेण मुखप्रक्षालनं चरेत् ॥ ६७ ॥
दद्यादाचमनीयञ्च ‘योगे योग’ इति ब्रुवन् ।
‘विचक्रमेति’ मन्त्रेण मुखवासं ददेद्धरेः ॥ ६८ ॥
पुनराचमनीयञ्च दत्वा प्लोतेन सम्मृजेत् ।
सर्वाङ्गञ्च विमृज्यैव सूक्ष्मवस्त्रेण मन्त्रवित् ॥ ६९ ॥
‘तेजो व’ इति वस्त्रेण सञ्छाद्याचमनं ददेत् ।
‘सोमस्ये’ त्युत्तरीयञ्च दद्यान्मन्त्रेण मन्त्रवित् ॥ ७० ॥
अलकाः शोधयेत्पश्चा ‘दतो देवादि’ मन्त्रतः ।
सुगन्धतैलमादाय हस्ताभ्यां मस्तके तथा ॥ ७१ ॥
कुर्यादभ्यञ्चनञ्चैव बन्धयेदलकांस्ततः ।
मालालङ्करणं मूर्ध्नि ‘तद्विष्णो’रुच्चरंश्चरेत् ॥ ७२ ॥
विंशोऽध्यायः
[[३३०]]
गात्रेषु विष्णुगायत्र्या तैलमालेपयेच्छनैः ।
वीजयेत्तालवृन्तैश्च ब्रुवन् ‘वायुप’ रीति वै ॥ ७३ ॥
स्नानासनञ्च सङ्कल्प्य पुण्याहं पूर्ववच्चरेत् ।
यथोक्तं स्नापनं कुर्यात्कलशैः पञ्चभिस्ततः ॥ ७४ ॥
वेदिं कृत्वा विधानेन व्रीहिभिर्वाऽथ तण्डुलैः ।
कलशान् लोहजान् पञ्च क्षीराद्यैः परिपूर्य च ॥ ७५ ॥
गन्ध पुष्पैरलङ्कृय कूर्चं न्यस्याक्षतांस्तथा ।
नारिकेलञ्च सन्न्यस्य तेषु चावाहयेत्क्रमात् ॥ ७६ ॥
देवदेवं सुसम्पूज्य पाद्यञ्चाऽऽचमनं ददेत् ।
‘परिलिखित’मिति मन्त्रेण आम्लेन परिशोधयेत् ॥ ७७ ॥
‘वारीश्चतस्र’ इत्युक्त्वा शोधयित्वाऽथ वारिणा ।
‘नमो वरुण’ इत्युक्त्वा क्षीरेण स्नापयेद्धरिम् ॥ ७८ ॥
‘भूरानिलय’ इत्युक्त्वा स्नापयेद्गन्धवारिणा ।
वस्त्रादिभिरलङ्कृत्य धूपदीपौ च दर्शयेत् ॥ ७९ ॥
फलादीनि निवेद्यैव
कलशैः स्नापयेत्ततः ।
स्वयं गत्वाऽऽसने स्थित्वा
सङ्कल्प्याक्षतमर्पयेत् ॥ ८० ॥
कुम्भं गृहीत्वा देवस्य सन्निधौ न्यस्य पूर्ववत् ।
योगमार्गेण कूर्चेन पुण्याहकलशोदकैः ॥ ८१ ॥
मातृकां व्यापकञ्चैव स्थितिन्यासञ्च कारयेत् ।
ध्यात्वा देवञ्चात्मसूक्तं जप्त्वा मन्त्रञ्च वैष्णवम् ॥ ८२ ॥
[[३३१]]
कुम्भोदकेनाभिषिच्य पूजयेत्पुरुषोत्तमम् ।
पूर्वसन्न्यस्तपात्रस्थतण्डुलान् नारिकेलकम् ॥ ८३ ॥
युक्तनेत्राज्यवर्तिश्रीदीपमादाय मन्त्रवित् ।
‘शुभ्राज्योति’ रिति प्रोच्य दीपं नीराजनाह्वयम् ॥ ८४ ॥
त्रिः परिभ्रामयित्वा तु देवेशाय प्रदर्शयेत् ।
सहस्त्रधारां सौवर्णीं राजतीं वाऽथ ताम्रकाम् ॥ ८५ ॥
तथाविधौ शङ्खपद्मनिधी आदाय पूजकाः ।
सहस्रधारापात्रन्तु धृत्वा देवस्य मूर्धनि ॥ ८६ ॥
निधिभ्यां तीर्थमादाय शीतमुष्णमथापि वा ।
कुङ्कुमैः घनसारैश्च मिश्रितं शुभवासितम् ॥ ८७ ॥
धरापात्रे चार्पयेयुः स्नापयेयुर्हरिं बुधाः ।
चतुर्धा स्नपनं कृत्वा शुद्धोदैरभिषेचयेत् ॥ ८८ ॥
‘मित्रस्सुपर्ण’ इत्युक्त्वा प्लोतवस्त्रेण मार्जयेत् ।
ततः कौतुकमादाय ‘भूरसि भू’ रिति ब्रुवन् ॥ ८९ ॥
जीवस्थाने प्रतिष्ठाप्य प्रणमेद्देवमव्ययम् ।
अलङ्कारासनं दत्वा पाद्यमाचमनं ददेत् ॥ ९० ॥
प्रणिधिञ्चाम्बुनाऽऽपूर्य कूर्चयुक्तं सहाक्षतम् ।
ध्रुवस्थानन्तु गायत्र्या प्रोक्षयित्वा विचक्षणः ॥ ९१ ॥
‘संयुक्तमेत’ दित्युक्त्वा क्षिपेत्सम्बन्धकूर्चकम् ।
ध्रुवपीठे पुष्पन्यासः
ध्रुवस्य पादयोर्मध्ये ‘विष्णवे नम’ इत्युत ॥ ९२ ॥
विंशोऽध्यायः
[[३३२]]
प्राच्यान्तु पुरुषायेति सत्यायेति च दक्षिणे ।
पश्चिमे त्वच्युतायेति अनिरुद्धायेति चोत्तरे ॥ ९३ ॥
आग्नेये कपिलायेति यज्ञायेति च र्नैॠते ।
नारायणाय वायव्ये पुण्यायेति तथैशके ॥ ९४ ॥
एवन्तु प्रथमे न्यस्य द्वितीयावरणे पुनः ।
वाराहायेति पूर्वस्यां नारसिंहाय दक्षिणे ॥ ९५ ॥
पश्चिमे वामनायेति त्रिविक्रमाय चोत्तरे ।
आग्नेय्यान्तु सुभद्राय र्नैॠत्यामीशितात्मने ॥ ९६ ॥
सर्वोद्वहाय वायव्ये सर्वविद्येशाय ईशके ।
एवं द्वितीये सन्न्यस्य तृतीये तदनन्तरम् ॥ ९७ ॥
इन्द्रादिलोकपालेभ्यस्तत्तद्दिक्षु च विन्यसेत् ।
श्रियै ध्रुत्यै पवित्र्यै च प्रमोदायिन्यै च विन्यसेत् ॥ ९८ ॥
हरिण्यै पौष्ण्यै क्षोण्यै च मह्यै चोभयपार्श्वयोः ।
एवं ध्रुवे च सन्न्यस्य न्यसेत्कौतुकपादयोः ॥ ९९ ॥
कौतुकपीठे पुष्पन्यासः - विशेषश्च
(सुभद्रादिभ्योऽष्टभ्यः पीठस्य परितोऽर्चनम्)
एवं स्थानक उद्दिष्टमासने तु प्रवक्ष्यते ।
प्रसारितस्य पादस्य परितः सन्न्यसेद्बुधः ॥ १०० ॥
शयने पादपार्श्वे तु अधस्ताच्छयनान्न्यसेत् ।
त्रिविक्रमे तु तत्रैव स्थिते पादे प्रकल्पयेत् ॥ १०१ ॥
वाराहे पादपरितः कल्पयेदिति शासनम् ।
पुष्पन्यासन्तु कृत्वैवं पश्चादर्चनमारभेत् ॥ १०२ ॥
[[३३३]]
पादमध्ये कौतुकस्य तथा प्रागादिषु न्यसेत् ।
‘सुभद्रं हयात्मकं’ रामदेवं पुण्यदेवमेव च ॥ १०३ ॥
सर्वं सुखावहं चेति संवहं सुवहं तथा ।
‘शिवं विश्वं तथा मित्रमत्रि’ ञ्चेति यथाक्रमम् ।
पश्चिमाद्यर्चयेद्देवानर्चापीठे यथाक्रमम् ॥ १०४ ॥
सनत्कुमारं सनकं सनातनसनन्दनौ ।
वायव्याद्यर्चयेद्देवान् विदिक्षु च बहिर्मुखान् ॥ १०५ ॥
इन्द्रादीन् लोकपालांश्च तृतीयावरणेऽर्चयेत् ।
तथा देव्यौ पार्श्वयोश्च ध्रुवबेर इवार्चयेत् ॥ १०६ ॥
दक्षिणे भित्तिमूले च ब्रह्माणमपि पूजयेत् ।
उत्तरे भित्तिमूले च ईश्वरं पूजयेत्क्रमात् ॥ १०७ ॥
माञ्च दक्षिणतोऽभ्यर्च्य वामे पुण्यं समर्चयेत् ।
इलापुण्यौ यत्र चोक्तौ तत्र तौ तु समर्चयेत् ॥ १०८ ॥
पश्चादर्घ्यान्तमभ्यर्च्य चतुर्मूर्तिविधानतः ।
पूजयेद्द्वारदेवांश्च दक्षिणोत्तरयोः क्रमात् ॥ १०९ ॥
परिषदर्चनं द्वारदेवाः
धातारमुत्तरास्यं विधातारं दक्षिणामुखम् ।
भुवङ्गञ्चाप्यूर्ध्वमुखं पतङ्गञ्चाप्यधोमुखम् ॥ ११० ॥
पतिरञ्चोत्तरामुखं वरुणं दक्षिणामुखम् ।
पूर्वोक्तेन विधानेन चतुर्मूर्तिभिरर्चयेत् ॥ १११ ॥
विंशोऽध्यायः
[[३३४]]
द्वारपालाः
द्वारे च प्रथमे देवं मणिकं दक्षिणेऽर्चयेत् ।
किञ्चिद्द्वारं समीक्ष्यैव चतुर्भिर्मूर्तिभिः स्थितम् ॥ ११२ ॥
द्वितीयद्वारपालौ तु तापसं सिद्धिदं तथा ।
तापसं दक्षिणेऽभ्यर्च्य वामे सिद्धिदमर्चयेत् ॥ ११३ ॥
अथवा शङ्खचक्रे वा द्वितीयद्वारि कल्पयेत् ।
द्वारं किञ्चित्समीक्ष्यैव अर्घ्यान्तं तौ समर्चयेत् ॥ ११४ ॥
अन्तराले न्यक्षः - लोकपालाः
अन्तरालादिषु न्यक्षमिन्द्रादींश्च समर्चयेत् ।
तृतीयद्वारपालौ तु किष्किन्धं तीर्थमर्चयेत् ॥ ११५ ॥
सोपानमध्ये श्रीभूतं प्राङ्मुखन्तु समर्चयेत् ।
पश्चाद्गरुडमभ्यर्च्य देवेशाभिमुखं स्थितम् ॥ ११६ ॥
शान्तञ्चाप्यर्चयेत्पश्चात्सप्तविंशतिविग्रहैः ।
एवमभ्यर्च्य यत्नेन स्वैस्स्वैर्मन्त्रैर्यथाविधि ॥ ११७ ॥
तत्काले शिष्यमाहूय देवानन्यांश्च पूजयेत् ।
अर्घ्यान्तं सर्वदेवान्वै पूजयित्वा विधानतः ॥ ११८ ॥
देवेशाभ्यर्चनं पश्चादारभेत विधानतः ।
पात्रकल्पनम् - उपचारकल्पनादि
आदाय शङ्खांश्चतुरः शोधयित्वा तु वारिणा ॥ ११९ ॥
पूरयित्वा जलेनैव पुष्पगन्धाक्षतादिना ।
धूपं दीपञ्चार्पयित्वा शङ्खांस्तान् कूर्चसंयुतान् ॥ १२० ॥
[[३३५]]
कौतुकस्य पुरस्ताद्वै अधोवेद्यां न्यसेत्क्रमात् ।
आवाहनार्थमेकन्तु शङ्खं वै दक्षिणे न्यसेत् ॥ १२१ ॥
तस्यैवोत्तरतश्चैकं पाद्यार्थमपि सन्न्यसेत् ।
पाद्यशङ्खस्योत्तरतः न्यसेदाचमनीयकम् ॥ १२२ ॥
एतेषामुत्तरे शङ्खं स्नानार्थं परिकल्पयेत् ।
एवं संस्थापयित्वा तु पश्चादर्घ्यञ्च साधयेत् ॥ १२३ ॥
अर्घ्यद्रव्याणि
प्रथमं सिद्धार्थकञ्चैव द्वितीयञ्च कुशोदकम् ।
तृतीयन्तु तिलं प्रोक्तं चतुर्थं तण्डुलं तथा ॥ १२४ ॥
पञ्चमं दधि षष्ठञ्च क्षीरं सप्तममक्षताः ।
अष्टमं तोयमित्यष्टद्रव्यमर्घ्यमुदीरितम् ॥ १२५ ॥
एतानि च समाहृत्य पात्रे सम्यक् समुत्क्षिपेत् ।
‘आ मा वाजस्य’ मन्त्रेण अर्घ्यपात्रणि शोधयेत् ॥ १२६ ॥
सोमं तत्र समभ्यर्च्य पुनस्तानि च शोधयेत् ।
अर्घ्यद्रव्याणि चादाय गायत्र्या तत्र निक्षिपेत् ॥ १२७ ॥
अभिघार्य घृतेनैव देवस्याभिमुखे न्यसेत् ।
ततो द्रव्याणि चान्यानि पूजार्थाण्याहरेद्बुधः ॥ १२८ ॥
आवाहनविधिः
देवस्य दक्षिणे पार्श्वे ध्यानमाविश्य चात्वरः ।
निवातस्थितनिष्कम्पप्रदीप इव निश्चलः ॥ १२९ ॥
नयने नासिकाग्रे च सन्न्यस्य हृदयेद्धरिम् ।
आत्मसूक्तं जपेत्पश्चात् स्वर्भुवर्भूस्थ इत्यपि ॥ १३० ॥
विंशोऽध्यायः
[[३३६]]
मूर्धानं नाभिमङ्घ्री च क्रमाद्देवस्य संस्पृशेत् ।
‘यकारं’ पादयोस्तद्व ‘दकारं’ हृदये न्यसेत् ॥ १३१ ॥
प्रणवेन वेष्टयित्वा तु विष्णुशक्तिं विचिन्तयेत् ।
‘भूः प्रपद्य’ इति प्रोक्त्वा देवदेवमनुस्मरन् ॥ १३२ ॥
निष्कलं ध्यानयोगेन ध्यात्वा सकलमव्ययम् ।
सङ्कल्प्य शक्तिं देवस्य प्रणिध्यां विनिवेशयेत् ॥ १३३ ॥
पात्रस्थं शक्तियुक्तं तत्कूर्चेनादाय वै जलम् ।
प्राणबुद्ध्या कौतुकस्य मूर्ध्नि संस्रावयेद्बुधः ॥ १३४ ॥
विष्णुञ्च पुरुषं सत्यमच्युतञ्चानिरुद्धकम् ।
पञ्चमूर्तीस्समावाह्य दक्षिणे श्रियमेव च ॥ १३५ ॥
वामे महीं समावाह्य तत्तन्मूर्तीस्समर्चयेत् ।
अर्चनक्रमः
‘अस्त्वासनं’ समुच्चार्य चासनं परिकल्पयेत् ॥ १३६ ॥
‘विश्वाधिकाना’ मुच्चार्य स्वागतं सम्यगाचरेत् ।
‘मनोऽभिमन्ते’ त्युक्त्वा तु देवशमनुमान्य च ।
‘त्वं स्त्रीति’ च समुच्चार्य पाद्यं तत्राभिमृश्य च ॥ १३७ ॥
‘इन्द्रोऽभिम’ न्तेत्युच्चार्य पाद्यं दद्याच्छ्रियः पतेः ।
‘शन्नो देवीति’ मन्त्रेण दद्यादाचमनं हरेः ॥ १३८ ॥
‘आपो हिष्ठे’ति पुरुषाय दद्यादाचमनीयकम् ।
‘इमास्सुमनस’ इत्युक्त्वा पुष्पाणि च समर्पयेत् ॥ १३९ ॥
‘योगे योगे’ ति सत्याय ‘समाने’ त्यच्युताय च ।
‘पवित्रन्ते’ ऽनिरुद्धाय दद्यादाचमनीयकम् ॥ १४० ॥
[[३३७]]
‘इमास्सुमनस’ इत्युक्त्वा पुष्पं देवस्य दीयताम् ।
पुष्पमालास्समादाय चालङ्कुर्यान्मनोरमम् ॥ १४१ ॥
‘इमे गन्धा’ इति गन्धञ्च नाभेरूर्ध्वं प्रलेपयेत् ।
‘बृहस्पती ति चोक्त्वा तु धूपं दद्याच्चतुर्दिशम् ॥ १४२ ॥
‘शुभ्रज्योतिरिति प्रोच्य दीपं देवस्य दर्शयेत् ।
‘अग्निरिन्द्रा’ दिना विद्वानर्घ्यं तत्राभिमर्शयेत् ॥ १४३ ॥
‘इन्द्रियाणीति’ मन्त्रेण विष्णवेऽर्घ्यं निवेदयेत् ।
‘हिरण्यगर्भ’ इत्युक्ता पुरुषाय निवेदयेत् ॥ १४४ ॥
‘इदमापश्शिवे’ त्युक्वा सत्यायार्घ्यं निवेदयेत् ।
अच्युताय ततो दद्यात्तत्पुरुषाय मन्त्रतः ॥ १४५ ॥
‘कयानश्चित्र’ इत्युत्क्वा अनिरुद्धाय दीयतम् ।
पूर्वमुक्तेन मन्त्रेण दद्यादाचमनीयकम् ॥ १४६ ॥
इषे त्वोर्जेत्वे’ ति जपन् मन्त्रेण स्नानमाचरेत् ।
कूर्चेन तोयमादाय प्रोक्षयेद्बिम्बमत्वरः ॥ १४७ ॥
‘मित्रस्सुपर्ण’ इत्युक्त्वा प्लोतेन विमृजेत्ततः ।
‘तेजो वत्सव’ इत्युक्त्वा वस्त्रं देवस्य दीयताम् ॥ १४८ ॥
‘सोमस्य तनूर’ सीत्युक्त्वा उत्तरीयं ददेद्बुधः ।
‘भूतो भूतेष्वि’ ति जपन् भूषणानि समर्पयेत् ॥ १४९ ॥
पुनः पाद्यादिकं दत्वा मन्त्रैः पूर्वमुदीरितैः ।
उपवीत ‘मग्निं दूते’ ति दद्याद्देवस्य चादरात् ॥ १५० ॥
दीपान्तमर्चयित्वा तु देवमानम्य चादरात् ।
एवं कौतुकमभ्यर्च्य पश्चादौत्सवमर्चयेत् ॥ १५१ ॥
विंशोऽध्यायः
[[३३८]]
‘स्नापनं’ बलिबेरञ्च पश्चादभ्यर्चयेद्बुधः ।
भोज्यासनम्
‘अथावनीद’ मन्त्रेण मण्डलान्युपलिप्य च ॥ १५२ ॥
ततः पात्रं समादाय ‘आ मा वाजस्य’ चोच्चरन् ।
तत्राऽऽदित्यं समभ्यर्च्य पुनः पात्राणि शोधयेत् ॥ १५३ ॥
शोधयेच्च तथा नित्यं हविः पात्राणि मन्त्रतः ।
अभिघार्य हविः पात्रं ‘देवस्येति’ समुच्चरन् ॥ १५४ ॥
‘अमृतोपस्तरण’ मिति हविः प्रक्षिप्य चात्वरः ।
सर्वोपदंशसंयुक्तं सफलं व्यञ्जनैर्युतम् ॥ १५५ ॥
गुडखण्डसमायुक्तमन्यैः देवार्पणोचितैः ।
भक्तियुक्तं गृहीत्वा तु तुलसीं तेषु निक्षिपेत् ॥ १५६ ॥
अन्नसूक्तेनाभिमृश्य समाहितमनास्तदा ।
‘यत्ते सुसीम’ इत्युक्त्वा घृतमास्राव्य कापिलम् ॥ १५७ ॥
(अलाभे गव्यमन्यद्वा वर्जयित्वा च माहिषम् ।
वर्ज्यमाजं माहिषं वा क्षीरं दद्ध्यादिकं तथा) ॥ १५८ ॥
शुद्धोदैः प्रोक्षयित्वा तु देवेशाय निवेदयेत् ।
‘सुभूस्स्वयं भू’रित्युक्त्वा विष्णवे स्यान्निवेदनम् ॥ १५९ ॥
‘हिरण्य गर्भ’ इत्युक्ता पुरुषाय च पायसम् ।
‘इह पुष्टिं’ समुच्चार्य सत्याय कृसरं ददेत् ॥ १६० ॥
‘समाववर्ती’त्युच्चार्य गौल्यञ्चैवाच्युताय च ।
‘त्रीणि पदे’ति चोच्चार्य अनिरुद्धाय यावकम् ॥ १६१ ॥
[[३३९]]
एतान् मन्त्रात्समुच्चार्य पञ्चमूर्तिनिवेदनम् ।
देवीभ्याञ्च मुनिभ्याञ्च दद्यादेवं क्रमेण ह ॥ १६२ ॥
होमः
ततश्चाग्निं परिस्तीर्य नित्यहोमं समाचरेत् ।
विमानदक्षिणे क्लृप्ते यागशालासुरक्षितम् ॥ १६३ ॥
सभ्यमौपासनं वाऽग्निमासाद्योज्ज्वाल्य मन्त्रतः ।
गन्धपुष्पैरक्षताद्यैरलङ्कृत्य विशेषतः ॥ १६४ ॥
परिषिच्याद्भिरग्नौ तु वैष्णवान्तं चरुं यजेत् ।
आज्येन मूर्तिमन्त्रैस्तु देवेशाय तथा हुनेत् ॥ १६५ ॥
देवीभ्याञ्चालयगतदेवेभ्योऽन्येभ्य एव च ।
उपस्थायाग्निमादित्यञ्चालयं समुपाव्रजेत् ॥ १६६ ॥
अतो देवादिना दद्यात् पानीयं हरये तदा ।
शिष्यमाहूय तत्काले बलिमानाय्य मन्त्रतः ॥ १६७ ॥
बलिदानम्
पुष्पगन्धसमायुक्तं धूपदीपसमन्वितम् ।
वाद्यध्वनिसमायुक्तं तीर्थयुक्तं गुरुर्व्रजेत् ॥ १६८ ॥
पुरतः कूर्चयुक्तेन वारिणा बलिमर्पितुम् ।
पश्चात् शिष्यो बलिं दद्याद्गुरूद्दिष्टेन वै यथा ॥ १६९ ॥
बलिदाने क्रमः प्रोक्तो यस्तमाश्रित्य कारयेत् ।
प्रथमद्वारपालेभ्यो मूर्तिमन्त्रैरुपक्रमेत् ॥ १७० ॥
पश्चाद्विमानपालेभ्यः तत्तद्दिशि बलिं ददेत् ।
इन्द्रादिलोकपालानां ततः पश्चात् बलिं क्षिपेत् ॥ १७१ ॥
विंशोऽध्यायः
[[३४०]]
तोयं दत्वा तु प्रथमं दद्यात् पुष्पं ततः परम् ।
गन्धं पश्चात् ततो धूपं दद्याद्दीपं ततः परम् ॥ १७२ ॥
बलिं पश्चात् क्षिपेत्तत्र दद्यात् तोयं ततः परम् ।
बलिशेषं समादाय भूतपीठे विनिक्षिपेत् ॥ १७३ ॥
पादौ प्रक्षाल्य चाचम्य प्रविशेद्देवमन्दिरम् ।
भूतपूठादिपीठानि शिष्यस्तोयेन शोधयेत् ॥ १७४ ॥
स्थलशुद्धिं कारयित्वा पश्चादाचमनं ददेत् ।
मुखवासः
एलालवङ्गन्तक्कोलकर्पूराद्यैरनुत्तमैः ॥ १७५ ॥
‘घृतात्परीति’ चोक्त्वा तु मुखवासं निवेदयेत् ।
पञ्चप्रकारैः प्रणमेत् देवदेवं समीक्ष्य वै ॥ १७६ ॥
उपचारार्पणां यत्र घण्टानादं समाचरेत् ।
नमस्कारश्च विहितः प्रतिद्रव्यं समर्पणे ॥ १७७ ॥
अन्नबलिविधिः
पश्चादन्नबलेः कल्पः विशेषेण प्रवक्ष्यते ।
बलिविध्युक्तमार्गेण नित्यं यात्राबलिं ददेत् ॥ १७८ ॥
बलिपात्रं समादाय शोधयेच्छुद्धवारिणा ।
बलिपात्रे शुचौ तस्मिन् समावाह्य च भास्करम् ॥ १७९ ॥
बल्यन्नं तत्र निक्षिप्य उक्तरूपं मनोहरम् ।
देवस्य पुरतो न्यस्य तस्मिन् देवेशमर्चयेत् ॥ १८० ॥
[[३४१]]
शिष्यं सोपानगं स्थाप्य तत्रावाह्य खगाधिपम् ।
गरुडध्यानसंयुक्तं ‘बृहस्पति’ रिति ब्रुवन् ॥ १८१ ॥
बलिपात्रं समानीय शिष्यस्य शिरसि न्यसेन् ।
प्रदक्षिणं ततो गत्वा आलयं परितः क्रमात् ॥ १८२ ॥
मृदुवाद्यसमायुक्तं वेदध्वनिसमन्वितम् ।
धूपदीपसमायुक्तं छत्रचामरसंयुतम् ॥ १८३ ॥
मयूरव्यजनैश्चापि बर्हिपिञ्छैः समायुतम् ।
अन्यैर्यथालाभ लब्धैः कुर्याद्धामप्रदक्षिणम् ॥ १८४ ॥
गोपुरात्तु बहिर्गत्वा वेदध्वनिसमायुतम् ।
सर्ववाद्यसमायुक्तं स्तोत्रध्वनिसमायुतम् ॥ १८५ ॥
द्वितीयावरणेऽप्येवं तृतीयावरणे तथा ।
प्रदक्षिणं शनैर्गत्वा भूतपीठं परीत्य च ॥ १८६ ॥
ततोऽभ्यन्तरमाविश्य मृदुवाद्यसमन्वितम् ।
वीशस्य पश्चिमे स्थित्वा देवमीक्षेत चादृतः ॥ १८७ ॥
घटदीपं समानीय पाद्यमाचमनं ददेत् ।
वेश्या तद्दीपमादाय सर्ववाद्यसमायुतम् ॥ १८८ ॥
देवेशं त्रिः परिक्रम्य उपचारक्रमं चरेत् ।
शिष्यो बल्यग्रमादाय विष्वक्सेनाय दापयेत् ॥ १८९ ॥
बलिं शिष्टं समादाय भूतपीठे च निक्षिपेत् ।
पादौ प्रक्षाल्य चाचम्य देवागारं विशेद्गुरुः ॥ १९० ॥
देवास्याभिमुखे स्थित्वा पूजकः सम्प्रणम्य च ।
जपेत्पुरुषसूक्तञ्च विष्णुसूक्तमथापि वा ॥ १९१ ॥
विंशोऽध्यायः
[[३४२]]
अतोदेवादिमन्त्रान्वा द्वाशाक्षरमेव वा ।
जप्त्वा तु देवं प्रणमेत्स्मरन् देवं मुहुर्मुहुः ।
प्रातरेवं समभ्यर्च्य सूर्योपस्थानमाचरेत् ॥ १९२ ॥
मध्याह्नार्चनम्
अत ऊर्ध्वं प्रवक्ष्यमि मध्याह्ने चार्चनं क्रमात् ।
स्नात्वा स्नानविधानेन सूक्तानि च जपेत्क्रमात् ॥ १९३ ॥
देवालयं शनैर्गत्वा प्रदक्षिणमथाऽऽचरेत् ।
पूर्वोक्तेनैव मन्त्रेण कवाटोद्घाटनं चरेत् ॥ १९४ ॥
अभ्यन्तरं प्रविश्यैव देवमानम्य पूर्ववत् ।
शिष्यमाहूय तत्काले द्रव्याण्यपि च सम्भरेत् ॥ १९५ ॥
पूर्वोक्तेन विधानेन पुष्पन्यासं समाचरेत् ।
कौतुके तु तथा कुर्याच्छिवादीनाञ्च पूजनम् ॥ १९६ ॥
पाद्याद्यर्घ्यान्तमेवं स्यात् त्रिषु कालेषु पूजनम् ।
उपर्युपरि पुष्पाणि त्रिषु कालेषु सन्न्यसेत् ॥ १९७ ॥
अतीतेऽहनि रात्रौ च पुष्पं निर्माल्यतामियात् ।
तस्मात्सदा प्रातरेव निर्माल्यपरिशोधनम् ॥ १९८ ॥
मालानामितरेषाञ्च तत्तत्काले विसर्जनम् ।
(उत्सवेष्वन्यकालेषु मालाश्चान्यास्समर्पयेत्)
धात्रादीनर्चयित्वा तु पाद्याद्यर्घ्यान्तमेव च ॥ १९९ ॥
देवदेवेशमाराध्य पाद्याद्यैश्च विधानतः ।
पूर्वोक्तेन विधानेन हविर्भिस्सन्निवेदयेत् ॥ २०० ॥
स्नानादीन् विग्रहान् हित्वा पूजनं दशभिस्त्रिभिः ।
[[३४३]]
सायमर्चनं
सायञ्चैव तथा कुर्यान्नित्यमेवन्तु पूजनम् ॥ २०१ ॥
अर्धरात्रे तु पाद्यादि दत्वा दीपान्तमेव च ।
पूर्वोक्तेन विधानेन हविर्भिस्सन्निवेदयेत् ॥ २०२ ॥
ततश्चाचमनं दत्वा मुखवासं निवेदयेत् ।
पूर्वोक्तेन क्रमेणैव द्वारसङ्घट्टनं चरेत् ॥ २०३ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे नित्यार्चनक्रमो नाम विंशोऽध्यायः ॥