अथ एकोनविंशोऽध्यायः
दशावतारकल्पः
अतः परं प्रवक्ष्यामि प्रादुर्भावविधिं क्रमात् ।
मत्स्यः कूर्मो वराहश्च नारसिंहश्च वामनः ॥ १ ॥
रामो रामश्च रामश्च कृष्णः कल्कीति वै दश ।
प्रादुर्भावा हरेः प्रोक्ताः ॠषिभिस्तत्वदर्शिभिः ॥ २ ॥
आविर्भावास्तु पञ्चैव पूर्वे पुण्याः प्रकीर्तिताः ।
प्रादुर्भावाः पञ्च परे प्रोक्ताः पुण्याः स्वयम्भुवा ॥ ३ ॥
भाविता अपि देवाद्यैः पूजया चापि तुष्टिदाः ।
एको हि भगवान् देवो हरिर्नारायणः प्रभुः ॥ ४ ॥
तत्तद्रूपेण सन्तुष्टः सर्वानिष्टान् प्रदास्यति ।
मत्स्यकूर्मौ
मत्स्याकृतेस्तु देवस्य पृथक् स्थानं न विद्यते ॥ ५ ॥
नलीनके विमाने तु मध्यमे सम्प्रकल्प्यते ।
तले षष्ठे तु संस्थाप्य अर्चयेदिति शासनम् ॥ ६ ॥
अन्येषु च विमानेषु प्रमुखे लेख्यमाचरेत् ।
कूर्मञ्चापि तथा कुर्यात्सहितौ वा प्रपूजयेत् ॥ ७ ॥
पद्मासनस्थौ कर्तव्यौ भिन्नाञ्जनचयावुभौ ।
रक्तं सुवर्णपार्श्वञ्च मत्स्यरूपं प्रकल्पयेत् ॥ ८ ॥
[[२९५]]
वराहनारसिंहवामनाः
वराहादित्रयाणान्तु पृथक् स्थानं विधीयते ।
बहुभूमिविमानेषु कल्पयेदूर्ध्वमध्यमे ॥ ९ ॥
दंष्ट्रायां दक्षिणायान्तु ध्रुत्वोर्वीं मोहनाकृतिम् ।
स्थितं वराहवदनं चतुर्बाहुसमायुतम् ॥ १० ॥
शङ्खचक्रधरं देवं भिन्नाञ्जनचयप्रभम् ।
दंष्टे्र स्फटिकसङ्काशे कुर्याच्छुभसमायते ॥ ११ ॥
मेदिनी श्यामला प्रोक्ता पद्मपत्रनिभाम्बरा ।
न्यस्ताञ्जलिपुटा कार्या अङ्के वा कोलरूपिणः ॥ १२ ॥
उभाभ्यामपि बाहुभ्यां भर्ता कार्या धृता मही ।
पुण्यधर्मौ मुनी तस्य पूजकौ परिकीर्तितौ ॥ १३ ॥
पुण्यः पद्मपलाशाभः धर्मः स्फटिकसन्निभः ।
रक्तचाषाम्बरौ तौ तु पूजायां परिकल्पयेत् ॥ १४ ॥
पुण्यो दक्षिणभागस्थः धर्मः सव्यं समाश्रितः ।
ब्रह्माणीं पिङ्गलाभाञ्च द्वारवामेऽथ दक्षिणे ॥ १५ ॥
सुखासीने तथा कुर्यान्मुनिभिः परिवारिते ।
स्वाहा स्वस्ति स्वधा मेधा कान्तिर्लज्जाऽऽहुतिः श्रुतिः ॥ १६ ॥
पुष्टिर्मतिः ध्रुतिः कीर्तिः श्रद्धा श्रीरिन्दुका सुधा ।
एताश्च परितः कुर्यादालेख्यस्थास्सुराङ्गनाः ॥ १७ ॥
तदधस्तान्महाविष्णुमादिमूर्तिमनामयम् ।
तस्याधस्ताच्चतुर्मूर्तीः स्थाप्य सम्यक् समर्चयेत् ॥ १८ ॥
एकोनविंशोऽध्यायः
[[२९६]]
तथोपरितले देवं शयानं सम्यगाचरेत् ।
पञ्चभूमिविमानेषु स्थापनन्त्वेवमाचरेत् ॥ १९ ॥
… … … … … … ।
… … … … … … ॥
नारसिंहः
सटालसिंहवक्त्रञ्च चतुर्बाहुं तलायुधम् ।
वीरासने समासीनं व्यात्तास्यं धवलप्रभम् ॥ २० ॥
अङ्गरागसमायुक्तं शङ्खचक्रधरं परम् ।
शङ्खचक्रवियुक्तं वा द्विबाहुं नृहरिं चरेत् ॥ २१ ॥
बाहवस्सायुधाश्चाष्टौ यथायोगं प्रकीर्तिताः ।
निरायुधं नरहरिं कुर्युस्सर्वेऽभयप्रदम् ॥ २२ ॥
राजा निरायुधं बिम्बं नैव कुर्यात्कदाचन ।
अनन्तोत्सङ्गशयनं सप्तभिः फणमण्डलैः ॥ २३ ॥
समाच्छन्नशिरोदेशं वीशबाह्वोः स्थितन्तु वा ।
अष्टबाहुं चतुर्बाहुं तथा षोडशबाहुकम् ॥ २४ ॥
असङ्ख्याकभुजञ्चापि सायुधं कपिलाक्षकम् ।
मुक्ताकुन्देन्दुधवलं रक्तवस्त्रविभूषितम् ॥ २५ ॥
सर्वशत्रुहरञ्चैव धाम्नि चोर्ध्वतले स्थितम् ।
स्थापयेदर्चयेद्देवं नरकेसरिणं हरिम् ॥ २६ ॥
तस्य दक्षिमपार्श्वे तु स्थापयेच्च पितामहम् ।
वामपार्श्वे हितं रुद्रं स्थापयेदृषभध्वजम् ॥ २७ ॥
[[२९७]]
किष्किन्धसुन्दरौ चैव चामरग्राहिणौ मतौ ।
किष्किन्धोऽऽञ्जनवर्णाभः सुन्दरः पद्मवर्णभाक् ॥ २८ ॥
किष्किन्धो दक्षिणं पार्श्वं सुन्दरो वाममाश्रितः ।
यज्ञतीर्थौ सुखासीनौ पूजकौ परिकीर्तितौ ॥ २९ ॥
यज्ञः कनकवर्णाभः श्यामलस्तीर्थ उच्यते ।
द्वारपार्श्वे च संयोज्यौ स्थितावेतौ द्विजोत्तमौ ॥ ३० ॥
मणिकं पुष्कलञ्चैव द्वारपार्श्वे समर्चयेत् ।
भूतीशः शैषिकस्तौ द्वौ शैषिकस्थानमाश्रितौ ॥ ३१ ॥
वामनः
इन्द्रानुजन्त्वदितिजं काश्यपं ब्रह्मचारिणम् ।
आषाढाजिनसंयुक्तं शिखासूत्रसमन्वितम् ॥ ३२ ॥
पवित्रशाटीसंयुक्तं सच्छत्रं दण्डसंयुतम् ।
वर्णिनं वामनं कुर्याद्द्विभुजं सोमवर्चसम् ॥ ३३ ॥
कनकः शङ्खिलस्तस्य पूजकौ परिकीर्तितौ ।
कनकः कनकाभश्च शङ्खिलश्शङ्खसन्निभः ॥ ३४ ॥
कनको दक्षिणं पार्श्वं शङ्खिलो वाममाश्रितः ।
द्वारपालौ तु संयोज्यौ स्थितावेतौ खगेश्वरौ ॥ ३५ ॥
त्रिविक्रमः
वामनो ववृधे श्रीमान् त्रिविक्रममितावनिः ।
दक्षिणं सुस्थितं पादं वाममुत्तानकं चरेत् ॥ ३६ ॥
तस्य विक्रममाणस्य चन्द्रादित्यौ स्तनान्तरे ।
ततो विक्रममाणस्य सक्थिदेशे स्थितौ पुनः॥ ३७ ॥
एकोनविंशोऽध्यायः
[[२९८]]
ततो विक्रममाणस्य जानुगाविन्दुभास्करौ ।
सा विभूतिर्जगद्भर्तुः पादोद्धरणसंस्थितौ ॥ ३८ ॥
त्रिधा तु संस्थितिर्भिन्ना पादन्यासप्रभेदतः ।
जान्वन्तोद्धृतपादेन नाभ्यन्तोद्धृतकेन च ॥ ३९ ॥
ललाटान्तोद्धृतेनाथ तृतीयेयं विशिष्यते ।
वामहस्तं समुद्धृत्य पादपार्श्वे तु सूचयेत् ॥ ४० ॥
ब्रह्माणं पादपार्श्वे तु आकाशस्थं प्रकल्पयेत् ।
उभाभ्याञ्चैव हस्ताभ्यां पादप्रक्षालनोद्यतम् ॥ ४१ ॥
क्षणेन स्रुततोयाञ्च गङ्गां देवीं सुरूपिणीम् ।
तां वहन्तं वेगयुतां शङ्करञ्चैव कारयेत् ॥ ४२ ॥
एवमेव प्रकारेण कारयेत्परितः प्रभोः ।
वामपादस्य पार्श्वे तु गङ्गां कुर्याद्विचक्षणः ॥ ४३ ॥
साचीकृतार्धवपुषा गङ्गां कुर्याद्विचक्षणः ।
गङ्गा स्यात् श्वेतवर्णं तु सर्वाभरणभूषिता ॥ ४४ ॥
बाहुदक्षिणतश्शक्रं वनमालासमन्वितम् ।
चन्द्रं शशधरञ्चापि कुर्याद्भूषणभूषितम् ॥ ४५ ॥
देवेन्द्रञ्चैव कृत्वा तु सर्वाभरणभूषितम् ।
बाहौ वामे तथेन्द्रस्य चामरे परिकल्पयेत् ॥ ४६ ॥
कुर्यात् बाहुसमस्थाने नमन्तं देवमादरात् ।
दक्षिणे स्तनपार्श्वे तु चन्द्रं सम्यक् समाचरेत् ॥ ४७ ॥
तथैव वामपार्श्वे तु भास्करं भित्तिमाश्रितम् ।
जानुस्थानगतं कुर्यात्पृष्ठे मण्डलसंयुतम् ॥ ४८ ॥
[[२९९]]
देवस्य दक्षिणे पार्श्वे वामनं बलिसंयुतम् ।
महाबलिञ्च कुर्वीत सर्वाभरणभूषितम् ॥ ४९ ॥
उभाभ्याञ्चैव हस्ताभ्यां दधतं सोदकं घटम् ।
वामनं कारयेत्पञ्चतालमानेन वामनम् ॥ ५० ॥
सोत्तरीयपरीधानं कृष्णाजिनधरं विभुम् ।
छत्रदण्डसमायुक्तं याचमानमुखाम्बुजम् ॥ ५१ ॥
देवस्य वामभागे तु भूमिस्थं गरुडं चरेत् ।
शुक्रमुद्दिश्य हस्तेन घ्नन्तं कोपसमन्वितम् ।
देवस्य मूर्धभागे तु जाम्बवन्तं प्रकल्पयेत् ॥ ५२ ॥
भेरीसन्ताडने व्यग्रं जयार्थं मधुघातिनः ।
एवमेतान् कल्पयित्वा शेषं युक्त्या समाचरेत् ॥ ५३ ॥
नवस्थानेषु विधिना क्रममाणञ्च कारयेत् ।
मोक्षार्थी श्वेतवर्णञ्च पीतवर्णन्तु पुत्रधीः ॥ ५४ ॥
धनधान्यसमृद्ध्यर्थी श्यामं कुर्यात् त्रिविक्रमम् ।
वीर्यार्थी विजयार्थी च रुक्मवर्णं समाचरेत् ॥ ५५ ॥
कृतत्रेताद्वापराश्च कलिश्चेति युगाः क्रमात् ।
श्वेतवर्णं पीतवर्णं श्याममञ्जनसन्निभम् ॥ ५६ ॥
यथाक्रमं प्रकुर्याद्वै युगेषु च विशेषतः ।
ब्राह्मणो यजमानश्चेत् श्वेतवर्णः प्रशस्यते ॥ ५७ ॥
क्षत्रियश्चेद्रक्तवर्णः वैश्यश्चेत्पीत आदृतः ।
शूद्रश्चेदञ्जनो वर्णः सर्वेषां श्याम एव वा ॥ ५८ ॥
एकोनविंशोऽध्यायः
[[३००]]
एवं वर्णं यथावाञ्छं कारयेत्तु त्रिविक्रमम् ।
पुराकल्पोक्तमानेन मानोन्मानादि चाचरेत् ।
सर्वलक्षणसंयुक्तं कारयेच्छिल्पिना शुभम् ॥ ५९ ॥
वामनप्रतिष्ठा
अत ऊर्ध्वं प्रवक्ष्यामि स्थापनाविधिविस्तरम् ।
अङ्कुरारोपणादीनि स्नपनान्तं यथाक्रमम् ॥ ६० ॥
पूर्वोक्तेन विधानेन कृत्वा सर्वाणि वै गुरुः ।
सभ्याद्दक्षिणपार्श्वे तु पौण्डरीकञ्च साधयेत् ॥ ६१ ॥
आघारं विधिवत्कृत्वा अग्निमानम्य चादरात् ।
इध्मप्रक्षेपणं कृत्वा परिस्तीर्य च पावकम् ॥ ६२ ॥
‘यो वा त्रिमूर्ति’ मावृत्य शतमष्टौ हुनेत्ततः ।
जुहुयात् पौरुषं सूक्तं विष्णुसूक्तमतः परम् ॥ ६३ ॥
एवं विशिष्य हुत्वा तु शिष्टं पूर्ववदाचरेत् ।
वामनार्चनाक्रमः
अत ऊर्ध्वं प्रवक्ष्यामि अर्चनाक्रममुत्तमम् ॥ ६४ ॥
पूर्वोक्तेन विधानेन सम्भारान् सम्यगाहरेत् ।
प्रदक्षिणादौ नो भेदः पूर्वोक्तस्तत्र वै विधिः ॥ ६५ ॥
मूर्तिभेदो विशेषोऽत्र शृणुध्वं मुनिसत्तमाः ।
‘विष्णुं त्रिविक्रमञ्चेति त्रिलोकेशमतः परम् ॥ ६६ ॥
त्रिदशाधिपतिञ्चेति वैकुण्ठमि’ति चार्चयेत् ।
‘वामनं वरदञ्चेति काश्यपञ्चादितिप्रियम्’ ॥ ६७ ॥
[[३०१]]
‘बलिं वैरोचनिञ्चेति महावीर्यं महामतिम्’।
वैरभोजनमित्युक्त्वा पञ्चभिर्नामभिर्बलिम् ॥ ६८ ॥
‘गरुडं पक्षिराजञ्च सुपर्णञ्च खगाधिपम्’ ।
‘शुक्रञ्च भार्गवञ्चेति काव्यञ्च परिसर्पिणम् ॥ ६९ ॥
एवं देवान् समभ्यर्चेच्चतुर्मूर्तिविधानतः ।
देवदेवं विशेषेण सप्तविंशतिविग्रहैः ॥ ७० ॥
अर्चयित्वा यथान्याय्यं बलिमुत्थापयेत्क्रमात् ।
त्रिविक्रमे विशेषोऽयं शेषं विष्णोरिवाचरेत् ॥ ७१ ॥
वामनविमानं
ग्रामे वा नगरे वाऽपि पत्तने खर्वटेऽपि वा ।
नदीतीराश्रये वापि वेलायां सागरस्य वा ॥ ७२ ॥
शैलाग्रे शैलपार्श्वे वा वनपार्श्वे वनान्तरे ।
स्थानं यत्रैव विस्तीर्णं तत्रापि च मनोरमे ॥ ७३ ॥
कारयेत्तु विधानेन विमानं लक्षणान्वितम् ।
नन्दीविशालमष्टाङ्गं सोमच्छन्दं चतुस्स्फुटम् ॥ ७४ ॥
बृहद्वृत्तविमानं वा दीर्घशालमथापि वा ।
विमानेष्वेषु चैकस्मिन् यजमनेच्छया गुरुः ॥ ७५ ॥
शिल्पशास्त्रोक्तविधिना कारयित्वा गृहं हरेः ।
रम्यं मनोहरं बिम्बं देवदेवस्य कारयेत् ॥ ७६ ॥
कुर्याद्विमानं प्राग्द्वारं प्रत्यग्द्वारमथापि वा ।
पूर्वद्वारन्तु मोक्षार्थी तथाऽऽन्यं भोगकामुकः ॥ ७७ ॥
एकोनविंशोऽध्यायः
[[३०२]]
अध्यर्धद्वारोन्नता स्यादुत्तमा प्रतिमा तथा ।
पादाधिकां वा कुर्वीत द्वारमानमथापि वा ।
बिम्बं सलक्षणं कुर्याद्दशतालोक्तमानतः ॥ ७८ ॥
परशुरामः
जामदग्न्यं जटोपेतं धनुःपरशुपाणिनम् ।
अक्षमालाधरं रक्तवल्कलावासमर्चयेत् ।
शिष्यावपि समायोज्यौ पावनो जवनो मुनी
राघवरामः
अत ऊर्ध्वं राघवस्य रामस्य स्थापनाविधौ ।
तथार्चनायां वक्ष्यामि विशेषं शृणुतर्षयः ॥ ७९ ॥
सकलैर्विदितो ह्येष प्रादुर्भावो जगत्पतेः ।
विजयार्थीं प्रजार्थीं वा मोक्षार्थीं राममर्चयेत् ॥ ८० ॥
ग्रामे वा नगरे वाऽथ पत्तने वाऽथ खर्वटे ।
नद्यास्तीरे तटाके वा पर्वताग्रे वनाश्रये ॥ ८१ ॥
नद्योर्मध्ये तथा तीरे वेलायां सागरस्य वा ।
स्थानेष्वेतेषु दैवेषु प्रतिष्ठाप्य समर्चयेत् ॥ ८२ ॥
कर्षणं विधिवत्कृत्वा खननं पूरणादिकम् ।
आद्येष्टकादिकरणं पूर्वोक्तविधिना चरेत् ॥ ८३ ॥
कुर्यादेकतलं वा स्यादेकगोपुरसंयुतम् ।
विमानं गोपुराद्यैस्तु विधिवन्निर्मितं हरेः ॥ ८४ ॥
विमानं हस्तिपृष्ठं वा प्रशस्तं गोपुराकृति ।
निर्माय श्रद्धया दिव्यमालयं शुभलक्षणम् ॥ ८५ ॥
[[३०३]]
विधिना शूलमादाय शूलस्थापनमाचरेत् ।
दशतालेन मानेन बेरन्यासः प्रशस्यते ॥ ८६ ॥
मृत्क्रियां रज्जुबन्धञ्च घटशर्करिकाक्रियाम् ।
पटाच्छादनसंस्कारं वर्णसंस्कारमेव च ॥ ८७ ॥
लक्षणम्
आचरेत् द्विभुजं देवं धनुर्हस्तं त्रिभिर्नतम् ।
श्यामवर्णं मकुटिनं सर्वाभरणभूषितम् ॥ ८८ ॥
श्रीवत्सवक्षसं कुर्यात्पीताम्बरसुशोभितम् ।
रामः कमलपत्राक्षसर्वसत्वमनोहरः ॥ ८९ ॥
वामभागे च सौमित्रिं दक्षिणे जनकात्मजाम् ।
रामबाहुसमौ तत्र कारयेद्विधिकोविदः ॥ ९० ॥
हेमवर्णां पद्मनेत्रां शुकपिञ्छनिभाम्बराम् ।
सीतां पद्मकरां कुर्यात्सौमित्रिञ्च धनुर्धरम् ॥ ९१ ॥
हनुनाऽञ्जनवर्णेन रक्तवर्णमुखेन च ।
श्वेतवस्त्रेण चैकेन अष्टतालविधौ कृतम् ।
हनूमन्तं महाभक्तं कारयेत्पुरतः स्थितम् ॥ ९२ ॥
एष सायुधकल्पस्स्यादन्यश्चास्ति निरायुधः ।
सिंहासने सहासीनं सीतया रघुनन्दनम् ॥ ९३ ॥
श्यामलाङ्गं मकुटिनं सर्वाभरणभूषितम् ।
श्रीवत्सवक्षसं कुर्याद्दशतालेन मानतः ॥ ९४ ॥
वामपार्श्वे स्थितं कुर्यात्सौमित्रिञ्चानिलात्मजम् ।
‘रामं दाशरथिं वीरं काकुत्स्थ’मिति नामभिः ॥ ९५ ॥
एकोनविंशोऽध्यायः
[[३०४]]
आवहनार्चनादीनि राघवस्य प्रकल्पयेत् ।
‘सीतामयोनिजां लक्ष्मीं वैदेही’ मिति जानकीम् ॥ ९६ ॥
‘रामानुजञ्च सौमित्रिं लक्ष्मणं लक्ष्मिवर्धनम् ।
‘कपिराजं हनूमन्तं शब्दराशिं महामतिम् ॥ ९७ ॥
इत्येवं मूर्तिभिः कुर्यादावाहनमथार्चनम् ।
कौतुकं कारयेद्विद्वान् सौवर्णं राजतन्तु वा ॥ ९८ ॥
ताम्रजं दारवं वापि षण्मानपरिकर्मितम् ।
ध्रुवबेरं त्रिधा कृत्वा एकभागं व्यपोह्य च ॥ ९९ ॥
भागद्वयं त्रिधा कृत्वा समस्तञ्चोत्तमं भवेत् ।
भागद्वयं मध्यमं स्यात् एकं भागमथाधमम् ॥ १०० ॥
एकैकन्तु त्रिधा कृत्वा पीठञ्च त्रिविधं भवेत् ।
राघवरामप्रतिष्ठा
एवं कृत्वा यथाशास्त्रं श्रद्धाभक्तिसमन्वितः ॥ १०१ ॥
शुभायनर्तुमासर्क्षतिथिवारान्विते दिने ।
देशकालौ समालोच्य स्थापनारम्भमाचरेत् ॥ १०२ ॥
पूर्वोक्तगुणसम्पन्नानुक्तदोषविवर्जितान् ।
वैखानसविदो विप्रान् शान्तान् दान्तान् जितेन्द्रियान् ॥ १०३ ॥
आहूयात्रैकमाचार्यं वृत्वा तेनोक्तमाचरेत् ।
प्रतिष्ठादिवसात्पूर्वं सप्तमे चाङ्कुरार्पणम् ॥ १०४ ॥
अङ्कुरारोपणादूर्ध्वं कारयेद्द्विजभोजनम् ।
कृत्वाऽक्षिमोचनं पश्चादधिवासांश्च कारयेत् ॥ १०५ ॥
[[३०५]]
गोमूत्रे गोमये क्षीरे दध्नि चैव घृते तथा ।
कुशोदे पृथगेकैकरात्रिमात्राधिवासनम् ॥ १०६ ॥
मृष्टसिक्तोपलेपाद्यैः शोधयेद्देवमन्दिरम् ।
धूपयित्वा तथा धूपैः आलयं समुपाव्रजेत् ॥ १०७ ॥
आलयादुत्तरे पार्श्वे भूमियज्ञं यजेत्क्रमात् ।
पर्यग्निं कारयित्वा तु पञ्चगव्यैस्समुक्ष्य च ॥ १०८ ॥
पुण्याहं वाचयित्वा तु प्रोक्षणैः प्रोक्षणं चरेत् ।
सप्तभिः कलशैः देवं स्नापयेद्विधिना क्रमात् ॥ १०९ ॥
वस्त्रोत्तरीयाभरणैरलङ्कृत्य यथोचितम् ।
पाद्यमाचमनीयञ्च पुष्पं गन्धं तथैव च ॥ ११० ॥
धूपं दीपं तथा चान्नं हविर्दद्याद्यथार्हकम् ।
ताम्बूलञ्च निवेद्यैव नमस्कुर्यात् पुनः पुनः ॥ १११ ॥
शिबिकां रथरङ्गं वा वाहनाद्यं गजादिकम् ।
आदाय देवमारेप्य नयेद् ग्रामं प्रदक्षिणम् ॥ ११२ ॥
शङ्खदुन्दुभिनिर्घोषैः पटहध्वनिभिस्तथा ।
वीणावेणुमृदङ्गाद्यैर्बह्मघोषैश्च संयुतम् ।
प्रदक्षिणं सुखं नीत्वा ग्राममालयमेव वा ॥ ११३ ॥
शय्यामण्डपमध्ये तु धान्यराशिं प्रपूर्य च ।
तदूर्ध्वे च स्तरेत्तल्पान् पञ्च पञ्चाण्डजादिकान् ॥ ११४ ॥
वासांस्युक्ताण्डजादीनामलाभे तत्र संस्तरेत् ।
आस्तीर्य तल्पान् प्रागग्रान् अलङ्कुर्याच्च सर्वतः ।
पुरिञ्चात्र (?) समास्तीर्य प्रोक्षणैः प्रोक्षणं चरेत् ॥ ११५ ॥
एकोनविंशोऽध्यायः
[[३०६]]
पुण्याहं वाचयित्वा तु रक्षाबन्धनमाचरेत् ।
ततः पुरिं शोधयित्वा ‘यद्वैष्णव’ मिति ब्रुवन् ॥ ११६ ॥
शाययेच्छयने देवं देवीभ्यां सह मन्त्रवित् ।
कुम्भञ्च सन्न्यसेद्देवपादपार्श्वे विचक्षणः ॥ ११७ ॥
वस्त्रेण च्छादयेत्पश्चाद्देवं कुम्भसमायुतम् ।
यजमानोऽथ तत्काले ॠत्विग्भिस्सहितं गुरुम् ॥ ११८ ॥
पूजयित्वा विधानेन तत्तत्कार्ये नियोजयेत् ।
प्राच्यामाहवनीयन्तु अन्वाहार्यन्तु दक्षिणे ॥ ११९ ॥
प्रतीच्यां गार्हपत्यन्तु आवसत्थ्यं तथोत्तरे ।
संसाध्य परितो धाम दिशाहोमांश्च कारयेत् ॥ १२० ॥
आघारं विधिवत्कृत्वा मथितेनैव वह्निना ।
आहवनीये जुहुया ‘दतो देवा’ दि वैष्णवम् ॥ १२१ ॥
दक्षिणाग्नौ तु जुहुयात्पौरुषं सूक्तमेव च ।
गार्हपत्ये तथा विद्वान् यद्देवाद्याहुतीर्यजेत् ॥ १२२ ॥
विष्णुसूक्तसमायुक्तं मूर्तिहोमं तथोत्तरे ।
हौत्रं तत्र प्रशंस्यैव मूर्त्यावाहनमाचरेत् ॥ १२३ ॥
आवाहनक्रमेणैव चतुर्थ्यन्तं प्रयुज्य च ।
जुष्टाकारं ततः कुर्यात्तत्क्रमेणाहुतीर्यजेत् ॥ १२४ ॥
राघवस्य प्रधानग्नावन्वाहार्ये यजेदिदम् ।
‘स्वौजसा सर्व’ मन्त्रेण हुनेदष्टोत्तरं शतम् ॥ १२५ ॥
चतुर्दिक्षु विधानेन वेदानध्यापयेत्क्रमात् ।
नृतैर्गेयैश्च वाद्यैश्च रात्रिशेषं व्यपोह्य च ॥ १२६ ॥
[[३०७]]
पुनः प्रभाते धर्मात्मा यजमानयुतो गुरुः ।
स्नात्वा स्नानविधानेन सूक्तानि च जपेत्क्रमात् ॥ १२७ ॥
मुहूर्ते समनुप्राप्ते उद्धृत्य च पुरिं ततः ।
कुम्भं बिम्बसमायुक्तं नीत्वा धामप्रदक्षिणम् ॥ १२८ ॥
प्रविशेदालयं पश्चात् बिम्बस्थापनमाचरेत् ।
कुम्भस्थां शक्तिमादाय तत्तद्बिम्बे न्यसेद्बुधः ॥ १२९ ॥
बीजाक्षरं सुसन्न्यस्येत्पश्चात्पुण्याहमाचरेत् ।
उपचारैस्समभ्यर्च्य सप्तविंशतिभिस्ततः ॥ १३० ॥
पायसादीन् निवेद्यैव दक्षिणादानमाचरेत् ।
देवदेवं नमस्कुर्याद्भक्तिश्रद्धासमन्वितः ॥ १३१ ॥
उत्सवञ्चोत्सवान्ते च स्नपनं कारयेत्तथा ।
स्वप्रधाने समुद्दिष्टो विधिरेष मयाऽनघाः ॥ १३२ ॥
अप्रधानं यदि भवेद्दिशाहोमं विना चरेत् ।
रत्नन्यासस्तथा नेष्टः उत्सवोऽपि न सम्मतः ॥ १३३ ॥
एवं यः कुरुते भक्त्या रामं दाशरथिं प्रति ।
स भुक्त्वा चैहिकान् भोगान् ततो मोक्षमवाप्नुयात् ॥ १३४ ॥
कृष्णः
अतः परं प्रवक्ष्यामि कृष्णस्य स्थापनाविधिम् ।
प्रादुर्भावेषूत्तमस्य पुरुषस्य जगत्पतेः ॥ १३५ ॥
स्वेच्छया भगवानीशः धर्मग्लानिर्यदा भवेत् ।
तदा धर्मस्य रक्षार्थं संहाराय दुरात्मनाम् ॥ १३६ ॥
एकोनविंशोऽध्यायः
[[३०८]]
अवतारं करोतीशः रामकृष्णदिसञ्ज्ञया ।
प्रादुर्भावेषूत्तमौ तौ शक्तिमन्तौ विशेषतः ॥ १३७ ॥
रामकृष्णौ ततश्शक्तिं
तयोस्सम्पूज्य मानवाः ।
इह लोके सुखं भुक्त्वा
विष्णोस्सायुज्यमाप्नुयुः ॥ १३८ ॥
कृष्णस्यालयनिर्माणप्रतिमालक्षणादिकम् ।
प्रतिष्ठां स्नपनञ्चैव पूजनाद्यं क्रमेण वै ॥ १३९ ॥
वक्ष्यामि विस्तरेणैव शृणुध्वमृषिसत्तमाः ।
ग्राममध्ये च पूर्वे च दक्षिणे पश्चिमे तथा ॥ १४० ॥
कारयेदुत्तरे चैव विदिशास्वपि मन्दिरम् ।
आरामे वा नदीतीरे पर्वते वा वनाश्रये ॥ १४१ ॥
समुद्रवेलादेशे वा अन्यस्मिन् वा मनोरमे ।
सरस्तटाकतीरे वा नदीसागरसङ्गमे ॥ १४२ ॥
नगरे पत्तने वापि खर्वटे कुटिके तथा ।
भूमिं परीक्ष्य पूर्वं वै शुचौ देशे मनोरमे ॥ १४३ ॥
कर्षणं विधिवत्कुर्याद्यावत्प्राकारविस्तरम् ।
कृष्णस्य मन्दिरं कुर्यात्संस्कारयुतमुक्तवत् ॥ १४४ ॥
कुम्भाकारं त्रिकूटं वा हस्तिपृष्ठमथापि वा ।
नन्द्यावर्तं विमानं वा कृष्णस्योत्तममिष्यते ॥ १४५ ॥
अथ वा मण्डपं वापि कूटं वा राजधानिकम् (?) ।
कुर्यादेकतलं गेहमेकप्राकारसंयुतम् ॥ १४६ ॥
[[३०९]]
पीठगोपुरसंयुक्तं यानशैषिकसंयुतम् ।
एवं कृत्वा यथान्यायं शूलस्थापनमाचरेत् ॥ १४७ ॥
पूर्ववद्दारु सङ्गृह्य शूलं कृत्वा विचक्षणः ।
कृष्णलक्षणं
दशतालोक्तविधिना मानोन्मानादि लक्षयन् ॥ १४८ ॥
रत्नन्यासं ततः कृत्वा शूलस्थापनमाचरेत् ।
रज्जुबन्धं मृत्क्रियाञ्च योजयेद्घटशर्कराः ॥ १४९ ॥
एवं कृत्वा यथान्यायं पटाच्छादनमाचरेत् ।
पादादुष्णीषपर्यन्तमेवं मान उदाहृतः ॥ १५० ॥
द्विभुजं त्रिणतं कुर्याद्देवं सुन्दरविग्रहम् ।
सस्यश्यामनिभं प्रोक्तं कृष्णरूपं विशेषतः ॥ १५१ ॥
रक्तवस्त्रधरं कुर्यात्कृष्णं भूषणभूषितम् ।
उण्णीषन्तु ततः कुर्यात्कृष्णं पुरिम (?) संयुतम् ॥ १५२ ॥
सहस्रकुन्तलैर्युक्तं शिरस्सम्यक् समाचरेत् ।
दक्षिणे कर्णनालन्तु रत्नकुण्डलसंयुतम् ॥ १५३ ॥
पञ्चरत्नसमायुक्तमन्यत्र परनालिकम् ।
वामञ्च कर्णनालञ्च शङ्खपत्रेण योजयेत् ॥ १५४ ॥
पद्मपत्रेक्षणं राजत्पीनोष्ठपुटसंयुतम् ।
हारं श्रीच्छन्दमेवं स्यान्मुक्तामालामथोपरि ॥ १५५ ॥
बाहुबन्धं ततः कुर्यात्किम्पुरिं मुखमध्यमे ।
अधस्तादुलिकाञ्चैव योजयेद्वामदक्षिणे ॥ १५६ ॥
एकोनविंशोऽध्यायः
[[३१०]]
प्रकोष्ठे च तथा कुर्यात्कटकत्रितयं बुधः ।
हस्ताङ्गुलीयरत्नानि युक्तियुक्तं प्रयोजयेत् ॥ १५७ ॥
उत्तरीयं तथा विद्वान् वनमालाञ्च कारयेत् ।
छन्नवीरसमायुक्तमुरोबन्धञ्च योजयेत् ॥ १५८ ॥
कटिबन्धं तथा कुर्यात्सर्वरत्नसमन्वितम् ।
नूपुरं त्रिमुखं कुर्यान्मुखरत्नसमन्वितम् ॥ १५९ ॥
अथ दक्षिणहस्तन्तु क्रीडायष्टिसमन्वितम् ।
वामेन कोर्परेणात्र गरुडं लम्बयेत्क्रमात् (?) ॥ १६० ॥
अहीनयौवनञ्चैव नातिबालञ्च कारयेत् ।
क्रीडारससमायुक्तं दिव्यरूपञ्च कारयेत् ॥ १६१ ॥
पादाङ्गुलिसमासक्तपादबन्धञ्च कारयेत् ।
तस्य दक्षिणपार्श्वे तु रुक्मिणीं कारयेत्क्रमात् ॥ १६२ ॥
पक्ववाकुलवर्णाञ्च शुकवर्णाम्बरं तथा ।
सर्वाभरणसंयुक्तां नवतालेन कारयेत् ॥ १६३ ॥
आदाय दक्षिणे हस्ते औत्पलं पुष्पमेव च ।
प्रसार्य वामहस्तन्तु किञ्चिद्देवं निरीक्ष्य च ॥ १६४ ॥
सत्यभामाञ्च वामे तु रक्तवस्त्रां स्वलङ्कृताम् ।
श्यामवर्णां तथा कुर्यात्पुष्पमालाधरां करे ॥ १६५ ॥
सर्वाभरणसंयुक्तां श्रीमन्मकुटबन्धनाम् ।
वामपार्श्वे गरुत्मन्तं गोपालकमथापि वा ॥ १६६ ॥
गरुडं पूर्ववत्कुर्याद्गोपालं गोपवेषकम् ।
श्वेताम्बरधरं कुर्याद्रक्तवस्त्रधरं तथा ॥ १६७ ॥
[[३११]]
वंशहस्तञ्च गोपालं किञ्चिद्देवं निरीक्ष्य च ।
भगाङ्गुलाधिकं कुर्यादष्टतालेन योजयेत् ॥ १६८ ॥
श्रीदामानं तथा कुर्यान्नरमञ्जलिसंयुतम् ।
कङ्कुश्यामनिभं कुर्याच्छ्वेताम्बरधरं तथा ॥ १६९ ॥
षण्मात्राधिकमानेन अष्टतालेन योजयेत् ।
निर्माल्यहरिणञ्चोक्तविधिना कारयेद्बुधः ॥ १७० ॥
सुन्दरं वाहनं कुर्याद्गरुडांशं तथैव च ।
एवं कृत्वा यथान्यायमर्चयेन्मूर्तिभेदतः ॥ १७१ ॥
कृष्णमूर्तिक्रमः
‘पुण्यं नारायणं कृष्णं वटपत्रसुशायिनम् ।
त्रिदशाधिप’ मित्युक्त्वा अर्चयेद्विधिपूर्वकम् ॥ १७२ ॥
‘रुक्मिणीं सुन्दरीञ्चैव पवित्रीं कृष्णवल्लभाम्’ ।
‘सत्यरूपां सतीञ्चेति सन्नतीञ्च क्षमा’ मिति ॥ १७३ ॥
गरुडं पूर्ववच्चैव मूर्तिभेदैः समर्चयेत् ।
‘गोपालं सर्वनाथञ्च तथा कृष्णसखं तथा ॥ १७४ ॥
सर्वाध्यक्षं’ तथा चैव गोपालं सम्यगर्चयेत् ।
‘श्रीदामानं पुण्यरूपं पुण्यात्मकमिति क्रमात् ॥ १७५ ॥
तथा देवसखञ्चे’ ति निर्माल्याहारिणं तथा ।
‘सुन्दरञ्च विहङ्गञ्च तुङ्गं वै तार्क्ष्यमेव च ।
वाहनं मूर्तिमन्त्रैस्तु कृष्णप्रियमथार्चयेत् ॥ १७६ ॥
एकोनविंशोऽध्यायः
[[३१२]]
स्थापने विशेषः
नवधा क्रममालक्ष्य इदं स्यादधमोत्तमम् ।
पूर्वोक्तेनैव मार्गेण अष्टदिक्षु तथाऽर्चयेत् ॥ १७७ ॥
मूलबिम्बस्य चायामं त्रिधा कृत्वा विचक्षणः ।
एकभागं व्यपोह्यैव द्विभागं सम्प्रगृह्य च ॥ १७८ ॥
तद्द्विभागं त्रिधाकृत्य समस्तञ्चोत्तमं भवेत् ।
द्विभागं मध्यमं प्रोक्तमेकभागं तथाऽधमम् ॥ १७९ ॥
एकैकं त्रिविधं कृत्वा नवधां भेद उच्यते ।
कर्मार्चाबिम्बमुद्दिष्टं यथाशक्ति विधानतः ॥ १८० ॥
सौवर्णं राजतं वापि ताम्रजं वापि कारयेत् ।
ध्रुवकौतुकयोस्सर्वसारूप्यञ्चोत्तमं भवेत् ॥ १८१ ॥
पीठं कृत्वा विधानेन रत्नन्यासादिकं चरेत् ।
प्रतिष्ठाविधिः
प्रतिष्ठादिवसात्पूर्वं सप्तमे चाक्षिमोचनम् ॥ १८२ ॥
गोमूत्रे गोमये क्षीरे दध्नि सर्पिषि वै क्रमात् ।
कुशोदे चैकैकरात्रमधिवासं पृथक् चरेत् ॥ १८३ ॥
एवं कर्तुमशक्तश्चेत् पञ्चगव्येऽथवा तथा ।
एकाहं वा बिम्बशुद्धिनिमित्तमधिवासयेत् ॥ १८४ ॥
तस्मादुद्धृत्य बिम्बानि आम्लेन परिशोधयेत् ।
‘भूरानिलय’ इत्युक्त्वा गन्धतोयेन वै पुनः ॥ १८५ ॥
[[३१३]]
प्रोक्ष्य प्लोतेन सम्मृज्यालङ्कुर्यात् वस्त्रभूषणैः ।
शयने शाययेद्देवं वस्त्रेणाच्छादनं चरेत् ॥ १८६ ॥
कुम्भपूजादिकं कर्म पूर्ववत्कारयेद्बुधः ।
अनुक्तमत्र यत्किञ्चिच्छयनादिषु कर्मसु ॥ १८७ ॥
कृष्णनामात्र संयोज्य शेषं पूर्ववदाचरेत् ।
स्वप्रधानमशक्तश्चेन्मन्दिरे द्वारपार्श्वयोः ॥ १८८ ॥
प्रथमाऽऽवरणे वापि स्थापयेत्तु विचक्षणः ।
ध्रुवबेरप्रतिष्ठा च रत्नन्यासश्च नो तदा ॥ १८९ ॥
कालीयमर्दनकृष्णः
कालीयस्य फणाग्रे तु सङ्घट्टनपरं चरेत् ।
कुर्याद्बालं प्रनृत्यन्तं विस्मयोत्फुल्ललोचनम् ॥ १९० ॥
पताकाहस्तमेकन्तु धृताहिञ्चैव वामकम् ।
प्रभामण्डलसम्बद्धपादपद्मविभूषितम् ॥ १९१ ॥
तत्पार्श्वे नागपत्न्यश्च सर्वाभरणभूषिताः ।
कृताञ्जलिपुटाः कार्या देवमानस्य चादरात् ॥ १९२ ॥
एवं कृष्णं प्रकुर्वीत कालीयशिरसि स्थितम् ।
अनन्तलीलाललितकृष्णरूपाणि कारयेत् ॥ १९३ ॥
नवनीतनटः
नवनीतनटञ्चापि कृष्णमेवं प्रकल्पयेत् ।
पद्मपीठोपरि गतमाकुञ्च्यैकं पदं विभुम् ॥ १९४ ॥
सन्धार्य दक्षिणे हस्ते नवनीतं तथेतरत् ।
प्रसार्य हस्तं नृत्यन्तं हर्षोत्फुल्लविलोचनम् ॥ १९५ ॥
एकोनविंशोऽध्यायः
[[३१४]]
कृष्णरूपाण्यसङ्ख्यानि सङ्ख्या तुं नैव शक्यते ।
बहुना किमिहोक्तेन रूपमिष्टं शुभं चरेत् ॥ १९६ ॥
पूर्ववत् स्थापयित्वा तु अर्चयेत्तु विधानतः ।
यद्यद्रूपधरं ध्यात्वा पूजयेद्भक्तिमान्नरः ॥ १९७ ॥
तत्तद्रूपधरो देवः सर्वकामान् प्रयच्छति ।
अर्चनस्नपनादीनि विधिनोक्तेन कारयेत् ॥ १९८ ॥
अथ चेदेकबेरं स्यात् ध्रुवहीनं विशेषतः ।
तत्तन्मूर्तिं समुच्चार्य पीठस्य परितः क्रमात् ॥ १९९ ॥
पुष्पं दद्यात् चतुर्दिक्षु देव्योर्देवस्य चैव तु ।
पुष्पन्यासं विना कुर्यात्पूजां पाद्यादिविग्रहैः ॥ २०० ॥
तत्तत्प्रधानमन्त्रान्ते मूर्तिमन्त्रांस्तु योजयेत् ।
अष्टोपचारैरभ्यर्च्य कौतुकन्तु विशेषतः ॥ २०१ ॥
(पीठदेवांस्तथाऽभ्यर्चेत् सप्तविंशतिविग्रहैः ।
षोडशैर्विग्रहैर्वापि तं तं देवमनुस्मरन्) ? ॥ २०२ ॥
मानुषवासुदेवः
अत ऊर्ध्वं मानुषस्य वासुदेवस्य वै विधिम् ।
प्रवक्ष्यामि समासेन शृणुध्वमृषिसत्तमाः ॥ २०३ ॥
मनुष्यवपुषं देवं द्विभुजं शङ्खचक्रिणम् ।
श्यामलाङ्गञ्च तं कुर्यात्सर्वाभरणसंयुतम् ॥ २०४ ॥
दक्षिणे रुक्मिणीं देवीं स्वर्णाभाञ्च किरीटिनीम् ।
रक्ताम्बरधराञ्चैव सर्वाभरणभूषिताम् ॥ २०५ ॥
[[३१५]]
सव्ये पद्मधरां हस्ते प्रसार्येतरमास्थिताम् ।
दक्षिणे बलभद्रन्तु बलिनं मुसलायुधम् ॥ २०६ ॥
सर्वाभरणसंयुक्तं श्वेतं नीलाम्बरान्वितम् ।
तस्य दक्षिणपार्श्वे तु प्रद्युम्नं रक्तवर्णकम् ॥ २०७ ॥
पीतकौशेयवसनं किरीटाद्यैश्च भूषितम् ।
एकं दीर्घक्षुरकरं वामं कट्यवलम्बितम् ॥ २०८ ॥
अनिरुद्धं वामपार्श्वे प्रवालाग्निसमप्रभम् ।
पुष्पाम्बरधरं कुर्यात् खड्गखेटकधारिणम् ॥ २०९ ॥
पार्श्वे साम्बं तथा कुर्यान्नीलाम्बुदसमप्रभम् ।
श्वेताम्बरं तथा कुर्याद्दण्डदानकरं पुनः ॥ २१० ॥
ब्रह्माणं दक्षिणे कुर्याच्चतुर्भुजसमन्वितम् ।
पूर्वोक्तेन प्रकारेण दशतालप्रमाणतः ॥ २११ ॥
गरुडञ्चोत्तरे कुर्यात्पूर्वोक्तनवतालतः ।
तद्रूपं कौतुकं कुर्यादाश्रित्य नवधा विधिम् ॥ २१२ ॥
मध्ये तु वासुदेवन्तु कारयेद्वा चतुर्भजम् ।
एवं मानुषरूपन्तु गोपुरे दीर्घशालकम् ।
स्थापयित्वाऽर्चयेद्देवं सर्वकामार्थसिद्धये ॥ २१३ ॥
दैविकवासुदेवः
अत ऊर्ध्वं दैविकन्तु वासुदेवं वदामि वः ।
सोमच्छन्दविमाने वा बृहद्वृतेऽपि वा हरिम् ॥ २१४ ॥
चतुर्भुजधरं देवं शङ्खचक्रधरं परम् ।
अभयं दक्षिणं हस्तं वामं कट्यवलम्बितम् ॥ २१५ ॥
एकोनविंशोऽध्यायः
[[३१६]]
किरीटाद्यैस्समस्तैश्च भूषणैरपि भूषितम् ।
रक्ताम्बरधरं देवं दशतालेन मानतः ॥ २१६ ॥
कारयेच्चोभयोः देव्यौ पार्श्वयोः कारयेत्तथा ।
बलभद्रादिदेवांश्च पूर्वोक्तविधिना चरेत् ॥ २१७ ॥
निरायुधान् सायुधान्वा देवीभ्यां सह वा विना ।
कारयेत्सह देवीभ्यां विशेषस्सम्प्रवक्ष्यते ॥ २१८ ॥
‘रेवतीं रोहिणीञ्चेति रमामिन्दुकरी’मिति ।
रक्तां नीलां तथा श्यामां पीतवर्णां समाचरेत् ॥ २१९ ॥
एकं पुष्पधरं हस्तं कुर्यादेकं प्रसारितम् ।
देवीवियुक्तं युक्तं वा मार्गद्वयमथाचरेत् ॥ २२० ॥
स्थापनविधिः
एवं दैविकमार्गस्स्यात् स्थापनं तु प्रवक्ष्यते ।
पञ्चवीरोक्तविधिना क्रमादग्निषु पञ्चसु ॥ २२१ ॥
सभ्ये विष्णुं समुद्दिश्य हौत्रं तत्र समाचरेत् ।
‘वासुदेवं यदुवरं भूहितं पुरुषोत्तमम्’ ॥ २२२ ॥
‘सत्यभामां सतीञ्चैव सन्नतीं विष्णुवल्लभाम्’ ।
ब्रह्मणः पद्महोमस्स्याद्वीशस्यौपासनं चरेत् ॥ २२३ ॥
‘रुक्मिणीं सुन्दरीं देवीं श्रिय’ ञ्चेति समर्चयेत् ।
‘रामं यदुवरं चैव हलायुध’ मिति क्रमात् ॥ २२४ ॥
‘प्रद्युम्नञ्च सुरूपाक्षं मदनांशं महाबलम्’ ।
‘अनिरुद्धं महान्तञ्च वैराग्य’मिति च क्रमात् ॥ २२५ ॥
[[३१७]]
सर्वतेजोमयञ्चेति अनिरुद्धं समर्चयेत् ।
‘साम्बं सर्वसुखञ्चेति समृद्धं सामगं’ तथा ॥ २२६ ॥
ब्रह्माणं गरुडञ्चापि पूर्वोक्तैर्नामभिर्यजेत् ।
विष्ण्वादिपञ्चमूर्तिश्च श्रियञ्चेति महीमिति ॥ २२७ ॥
मानुषोक्तक्रमेणैव कुर्यादावाहनादिकम् ।
आवाह्य बलभद्रादींस्तत्तद्धोमे विशेषतः ।
जुष्टाकारांस्तथा स्वाहाकारान् पूर्वोक्तवच्चरेत् ॥ २२८ ॥
सभ्ये तु वैष्णवं हुत्वाऽऽहवनीये तु पौरुषम् ।
दक्षिणे विष्णुसूक्तञ्चैकाक्षरादि तु पश्चिमे ॥ २२९ ॥
उत्तरे विष्णुगायत्रीं ब्राह्मं ब्रह्मानले यजेत् ।
गारुडं गरुडस्याग्नौ तांस्तान् स्त्रीसहितान् स्मरन् ॥ २३० ॥
प्रत्येकं विंशतिं हुत्वा पश्चादग्निं विसर्जयेत् ।
स्नपनं शायनं कुम्भसाधनं स्यात्समीपतः ॥ २३१ ॥
मध्ये च दक्षिणे पार्श्वे क्रमादेवं समाचरेत् ।
एवं मूर्त्यर्चनं कुर्याच्छेषं पूर्वोक्तवच्चरेत् ॥ २३२ ॥
आदिमूर्तिः
अत ऊर्ध्वं प्रवक्ष्यामि आदिमूर्तेस्तु स्थापनम् ।
मूर्तीनामनिरुद्धस्तु सर्वासामादिरुच्यते ॥ २३३ ॥
कुम्भाकारविमानं वा चतुर्मुखमथापि वा ।
सोमच्छन्दं त्रिकूटं वा श्रियावृत्तमथापि वा ।
पूर्वोक्तेन विधानेन विमानं सम्यगाचरेत् ॥ २३४ ॥
एकोनविंशोऽध्यायः
[[३१८]]
आदिमूर्तिञ्च कुर्वीत
अनन्तासनसंयुतम् ।
पूर्वादिवृत्तं कुर्वीत
त्रिरावृत्त्या प्रदक्षिणम् ॥ २३५ ॥
वृत्तं समं प्रकुर्वीत सर्पाकारसमन्वितम् ।
तस्य मध्ये सुखासीनं सर्पभोगे तथाऽऽश्रितम् ॥ २३६ ॥
उपधानं सर्पभोगे कृत्वा चैव शनैश्शनैः ।
मकुटोपरि सञ्छाद्य विषवेगसमन्वितान् ॥ २३७ ॥
फणानां पञ्चवर्णानां युतं पञ्चभिरादरात् ।
बेरायामसमायाममनन्तासनमिष्यते ॥ २३८ ॥
प्रसार्य दक्षिणं पादं वाममाकुञ्च्य सुस्थितम् ।
शङ्खचक्रधरं देवं सर्वाभरणभूषितम् ॥ २३९ ॥
अनिरुद्धं रक्तवर्णं प्रवालसदृशद्युतिम् ।
पूर्वोक्तेन प्रमाणेन कारयेद्बिम्बमुत्तमम् ॥ २४० ॥
नारसिंहवराहाभ्यामर्चितं वादिदैवतम् ।
दक्षिणे नारसिंहञ्च वामे वाराहमर्चयेत् ॥ २४१ ॥
एकजानुक्रमेणैव तौ स्ववर्णसमायुतौ ।
पुष्पाञ्जलिसमायुक्तौ देवदेवं समीक्ष्य वै ॥ २४२ ॥
मध्ये ब्रह्मस्थानभित्त्योः पूजकस्थानमिष्यते ।
अर्चयित्वा विधानेन पूर्वोक्तेन क्रमेण तु ।
उत्सवं स्नपनञ्चैव बल्यादीन् पूर्ववच्चरेत् ॥ २४३ ॥
[[३१९]]
गजेन्द्रमोक्षणम्
अतः परं प्रवक्ष्यामि आविर्भावांश्च शार्ङ्गिणः ।
गजेन्द्रस्य तु मोक्षार्थं शिंशुमारवधाय च ॥ २४४ ॥
गरुडस्कन्धमारुह्य ग्राहसंसृष्टचक्रकम् ।
शङ्खं शार्ङ्गञ्च वामाभ्यां धरन्तं वेगसंयुतम् ॥ २४५ ॥
उद्धृत्य दक्षिणं पाणिं किञ्चिदालोलकुन्तलम् ।
एवं चतुर्भुजं कुर्यात्कृपारोषसमन्वितम् ॥ २४६ ॥
इषुधिभ्याञ्च संयुक्तं शिंशुमारनिरीक्षणम् ।
अर्धज्यागतमार्गेण चासीनं पीतवाससम् ॥ २४७ ॥
तार्क्ष्यं दक्षिणहस्तेन स्पृशन्तं स्फुरिताधरम् ।
ग्राहे साचीकृतावाहमर्धेषद्भृकुटीमुखम् ? ॥ २४८ ॥
जलस्थशिंशुमारेण ग्रस्ताङ्घ्रिं पुरतः स्थितम् ।
ऊर्ध्वाननं गजेन्द्रञ्च पुष्करोद्धृतपङ्कजम् ॥ २४९ ॥
कृत्वैवं पूजयेद्देवं विष्णुं गरुडवाहनम् ।
त्रैलोक्यं मोहितं येन यद्रुषा कृपयाऽपि च ॥ २५० ॥
त्रैलोक्यमोहनं नाम प्रतिमां परिकल्पयेत् ।
तस्य पूजनया लोकः त्रिलोकविजयी भवेत् ॥ २५१ ॥
ऐहिकामुष्मिकं सर्वं लभते नात्र संशयः ।
शत्रुक्षयो भवेच्चैव सर्वाभीष्टञ्च सिद्ध्यति ॥ २५२ ॥
किङ्कुर्वाणा भवन्त्यस्य प्राणिनस्सर्वदा भुवि ।
अन्ते कलेबरं त्यक्त्वा सायुज्यं लभते हरेः ॥ २५३ ॥
एकोनविंशोऽध्यायः
[[३२०]]
लोहाद्यैः प्रतिमां कुर्याच्चित्राभासेऽथवा हरिम् ।
पूजयेदुक्तमार्गेण विष्णुं गरुडवाहनम् ।
अनेनैव तु मार्गेण तस्य स्युः सर्वसम्पदः ॥ २५४ ॥
सूर्यमण्डलान्तस्थमूर्तिः
अतः परं प्रवक्ष्यामि आविर्भावेषु चोत्तमम् ।
अन्यद्रूपं सूर्यमण्डलान्तस्स्थं कमलासने ॥ २५५ ॥
समासीनं हिरण्याभं शङ्खचक्रगदाधरम् ।
हारकेयूरमकरकुण्डलाञ्चितविग्रहम् ॥ २५६ ॥
पीतेन वाससा चान्यैर्दिव्यैर्दिव्याम्बरैर्युतम् ।
रक्तास्यपाणिचरणं श्रीवत्साङ्कं चतुर्भुजम् ॥ २५७ ॥
योगासनसमायुक्तं भ्राजमानं सुखोद्वहम् ।
एवं सङ्कल्प्य यत्नेन योगाद्यैरर्चयेद्धरिम् ॥ २५८ ॥
बिम्बं कर्तुमशक्तश्चेद्ध्यायेदादित्यमण्डले ।
सायुज्यमाप्नुयात्तेन नरो निर्धूतकल्मषः ॥ २५९ ॥
क्षीरार्णवस्थमूर्तिः
अथ प्रपूजयेद्देवमनन्तशयनं हरिम् ।
क्षीरार्णवे शेषभोगे योगनिद्रावशं गतम् ॥ २६० ॥
सहस्त्रफणसञ्छन्नमूर्धभागं तथाऽम्बुधौ ।
नाभिसञ्जातपद्मोदरासीनचतुराननम् ॥ २६१ ॥
दिव्याभरणसंयुक्तं देवीभ्यां मृदिताङ्घ्रिकम् ।
पञ्चायुधैः परिवृतं मधुकैटभसेवितम् ॥ २६२ ॥
[[३२१]]
सतार्क्ष्यं तार्क्ष्यरहितं द्विभुजं वा चतुर्भुजम् ।
चित्रे वाऽऽभासके वाऽथ पूजयेत्सर्वसिद्धये ॥ २६३ ॥
अनिरुद्धः
अथवाऽऽराधयेद्देवमादिमूर्तिं सनातनम् ।
अनिरुद्धं तस्य पूजाप्रकारः पूर्वमीरितः ॥ २६४ ॥
विष्णुञ्च पुरुषञ्चैव सत्यञ्चैवाच्युतं तथा ।
समाहृत्य तु पञ्चापि मूर्तीर्विधिवदर्चयेत् ॥ २६५ ॥
श्रीधरः
तथा श्रीधरमूर्तिञ्च पूजयेद्धृदये क्कचित् ।
चन्द्रमण्डलमध्ये तु सुखासीनं तु श्रीधरम् ॥ २६६ ॥
मुक्तादामावृतञ्चैव शङ्खचक्रधरं तथा ।
मुक्ताफलैरेव कृतैः भूषणैस्सुविभूषितम् ॥ २६७ ॥
श्रीधरं प्रतिमां कृत्वा पूजयेत्सर्वसिद्धये ।
विश्वरूपधरः
विश्वरूपञ्च देवेशं पूजयेद्दैवतं तथा ।
अनेकभुजसंयुक्तमनेकायुधधारिणम् ॥ २६८ ॥
अनेकदेवतोपेतमनेकाभरणोज्जवलम् ।
अनेकविस्मयोपेतं वन्द्यमानं सुरादिभिः ॥ २६९ ॥
तथा दन्तसहस्रान्तर्विलीनजगदन्तरम् ।
स्थितं कृत्वाऽर्चयेद्विद्वान् सर्वशत्रुक्षयाय वै ।
सर्वोपद्रवनाशार्थं सर्वकार्यार्थसिद्धये ॥ २७० ॥
एकोनविंशोऽध्यायः
[[३२२]]
हरिशाङ्करः
हरिशाङ्करमन्यं वै पूजयेद्भक्तिसंयुतः ।
अर्धं वैष्णवरूपञ्च अथाऽर्धं शाङ्करं वपुः ॥ २७१ ॥
रूपं लक्षणवत्कृत्वा पूजयेत्तु विचक्षणः ।
वैष्णवैश्च तथा रौद्रैर्मन्त्रैः स्थापनमाचरेत् ॥ २७२ ॥
शेषं युक्त्या प्रकुर्वीत अर्चनादिकमादरात् ।
अन्यानि देवरूपाणि शास्त्रोक्तानि शुभानि च ।
संस्थाप्य पूजयेदिच्छन् भक्तो भक्तिसमन्वितः ॥ २७३ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे दशावतारकल्पो नाम एकोनविंशोऽध्यायः ॥