अथ अष्टादशोऽध्यायः
पञ्चमूर्तिप्रतिष्ठाविधिः
ॠषय ऊचुः
ब्रह्मपुत्र मुनिश्रेष्ठ नमस्ते वदतां वर! ।
त्वमेव सर्ववेत्ताऽसि त्वमेव ब्रह्मणः प्रियः ॥ १ ॥
श्रोतुमिच्छामहे त्वत्तः यथाऽऽचार्यात्त्वया श्रुतम् ।
त्वत्प्रसादाद्वयं विष्णोः पञ्चमूर्तिविधिक्रमम् ॥ २ ॥
विमानानां विधिं तेषां प्रतिष्ठामर्चनादिकम् ।
दययाऽधीहि भो ब्रह्मन्! कृपालुः विस्तरेण नः ॥ ३ ॥
भृगुरुवाच
युष्माभिश्चोदितं सर्वं प्रवक्ष्याम्यानुपूर्वशः ।
शृणुध्वमृषयस्सर्वे मनसाऽवहितेन वै ॥ ४ ॥
पञ्चमूर्तिविधिः आलयकल्पनं
सहस्रानवरैर्वेदविद्भिः विप्रैरधिष्ठिते ।
देशे पूर्वोक्तमार्गेण स्थानं सम्यक् प्रकल्पयेत् ॥ ५ ॥
तत्र सङ्कल्पिते स्थाने विमानारम्भमाचरेत् ।
नलीनकं तथाऽष्ठाङ्गं सर्वतोभद्रमेव वा ॥ ६ ॥
नन्दीविशालकं वाऽपि बृहद्वृत्तमथापि वा ।
एतेषु तु विमानेषु यजमानेच्छया गुरुः ॥ ७ ॥
किञ्चिद्विमानं निश्चित्य पञ्चमूर्तिं प्रकल्पयेत् ।
शिल्पशास्त्रविधानेन विमानं कारयेद्बुधः ॥ ८ ॥
[[२६५]]
आदिभूमिन्तु सर्वत्र वालुकाभिः प्रपूरयेत् ।
आद्यतले
तस्यास्तु परितः कार्यं मूर्तीनां स्थानमुच्यते ॥ ९ ॥
ऐन्द्रे पुरुषमूर्तेस्तु स्थानं सम्यक् प्रकल्पयेत् ।
विमानरूपमाज्ञाय युक्त्या तत् परिकल्पयेत् ॥ १० ॥
दक्षिणे सत्यमूर्तेस्तु स्थानं सम्यक् प्रकल्पयेत् ।
प्रकल्पयेत्पश्चिमे तु विमानञ्चाच्युतस्य वै ॥ ११ ॥
उत्तरे चानिरुद्धस्य विमानं कल्पयेद्बुधः ।
पुरुषाद्यास्तु यत्रोक्तास्तत्रैवं परिकल्पयेत् ॥ १२ ॥
द्वितीयतले
द्वितीये तु तले चैव स्थानमेवं प्रकल्पयेत् ।
आदिमूर्तिं समुद्दिश्य गर्भागारं प्रकल्पयेत् ॥ १३ ॥
तृतीये च तले चोर्ध्वे शयनं सम्प्रकल्पयेत् ।
आद्ये मध्ये विष्णुमूर्तिं स्थानकं परिकल्पयेत् ॥ १४ ॥
द्वितीये नारसिंहञ्च श्रीभूमिसहितं तथा ।
आसीनं कल्पयेद्देवं दिव्ये सिंहासने प्रभुम् ॥ १५ ॥
सिंहासनस्य चाधस्ताद्देवस्याग्नेयपार्श्वतः ।
किञ्चिद्देवं प्रेक्षमाणं विस्मयोत्फुल्ललोचनम् ॥ १६ ॥
ब्रह्माणं कारयेच्चैव पूर्वोक्तेन विधानतः ।
तथा देवस्य चैशान्ये कल्पयेदीश्वरं शिवम् ॥ १७ ॥
अष्टादशोऽध्यायः
[[२६६]]
तिष्ठन्तं कल्पयेदेनं दशतालेन मानतः ।
कुड्यकौतुकयोर्मध्ये मुनी सम्यक् प्रकल्पयेत् ॥ १८ ॥
एकजानुक्रमगतौ पुष्पाञ्जलिसमन्वितौ ।
नारसिंह तथा कुर्याद्दशतालेन मानतः ॥ १९ ॥
आयामं सर्वतः कुर्यादुपन्यासोक्तमार्गतः ।
परिणाहे तु सर्वत्र मानं ज्ञात्वा तु बुद्धिमान् ॥ २० ॥
अध्यर्धं योजयित्वा तु कारयेत्तु विचक्षणः ।
सिंहस्येव मुखं कुर्याद्दंष्ट्राभिश्च समायुतम् ॥ २१ ॥
शङ्खचक्रधरं कुर्यात्सर्वाभरणसंयुतम् ।
श्वेतवर्णं प्रकुर्वीत किञ्चिद्रूक्षदृगन्वितम् ॥ २२ ॥
नारसिंहन्तु यत्नेन शिलयैव प्रकल्पयेत् ।
श्रीदेवीं दक्षिणे कुर्याद्वामे श्रोणीञ्च कारयेत् ॥ २३ ॥
तत्तद्वर्णसमायुक्तं तत्तत्काले प्रकल्पयेत् ।
प्रवालवर्णं ब्रह्माणं श्वेताभञ्चैव शङ्करम् ॥ २४ ॥
माञ्च प्रवालसङ्काशं पुराणमरुणं चरेत् ।
एवं तले द्वितीये स्यात्तृतीये तु प्रवक्ष्यते ॥ २५ ॥
तृतीयतले
सुखासीनं प्रकुर्वीत श्रीभूमिभ्यां समायुतम् ।
मुनिभ्यामपि संयुक्तं तत्तद्वर्णसमायुतम् ॥ २६ ॥
अन्यानपि क्रमेणैव देवान् सम्यक् प्रकल्पयेत् ।
अथवा शयनं कुर्यादनन्तोपरि शायिनः ॥ २७ ॥
[[२६७]]
तस्यैव पादपार्श्वे तु श्रीदेवीं सम्यगर्चयेत् ।
पादसंवाहनपरां देवदेवं समीक्ष्य वै ॥ २८ ॥
नाभ्यम्बुजसमाविष्टं ब्रह्माणञ्च प्रकल्पयेत् ।
पञ्चायुधानि गरुडं तत्तत् स्थाने प्रकल्पयेत् ॥ २९ ॥
देवस्य पादपार्श्वे तु कल्पयेन्मधुकैटभौ ।
पूजकौ च मुनी द्वौ तु द्वारपालौ प्रकल्पयेत् ॥ ३० ॥
कुर्याच्चामरधारिण्यौ यथोक्तं परिकल्पयेत् ।
अधस्तले - प्राच्याम्
अधस्तले विमानस्य पुरुषं पूर्वतश्चरेत् ॥ ३१ ॥
पुरुषं श्वेतवर्णञ्च सर्वाभरणभूषितम् ।
श्रीभूम्यौ च तथा कुर्याद्दक्षिणोत्तरयोः क्रमात् ॥ ३२ ॥
श्रीदेवीं रक्तवर्णाञ्च सस्यश्यामाञ्च मेदिनीम् ।
माञ्च दक्षिणतः कुर्यात्पुराणञ्चैव वामतः ॥ ३३ ॥
सिंहासनस्य पृष्ठे तु चामरग्राहिणी उभे ।
कुर्यात्सुरासुन्दर्यौ च सर्वलक्षणसंयुते ॥ ३४ ॥
उक्तवर्णैस्समायुक्तं पुरुषं सम्प्रकल्पयेत् ।
अधस्तले दक्षिणतः
सत्यं दक्षिणतः कुर्याद्भिन्नाञ्जनचयप्रभम् ॥ ३५ ॥
धृतिपौष्णी तथा देव्यौ सर्वाभरणभूषिते ।
धृतिस्स्याद्रक्तवर्णा च श्यामा पौष्णी प्रकीर्तिता ॥ ३६ ॥
अष्टादशोऽध्यायः
[[२६८]]
सत्यस्य पृष्ठभागे तु जयाभद्रे च कारयेत् ।
जया श्यामा भवेद्भद्रा रक्तवर्णा प्रकीर्तिता ॥ ३७ ॥
धातृनाथश्चिरायुश्च पूजकौ सत्यपार्श्वतः ।
कनकाभो धातृनाथश्चिरायुः पीत उच्यते ॥ ३८ ॥
अधस्तले पश्चिमतः
पश्चिमे अच्युतं कुर्यात्कनकाभं चतुर्भुजम् ।
पवित्रीं मेदिनीञ्चैव पार्श्वयोरुभयोश्चरेत् ॥ ३९ ॥
पवित्रीं कनकाभाञ्च शुकश्यामाञ्च मेदिनीम् ।
ख्यातीशञ्चैव पुण्यञ्च पूजकौ द्वौ समाचरेत् ॥ ४० ॥
ख्यातीशश्च प्रवालाभः पुण्यो रक्त उदाहृतः ।
विजया चैव विन्दा च व्याजन्यौ समुदाहृते ॥ ४१ ॥
अधस्तले उत्तरतः
उत्तरे अनिरुद्धञ्च प्रवालाग्निसमप्रभम् ।
अनन्तोत्सङ्ग आसीनं वीरासनसमायुतम् ॥ ४२ ॥
अनन्तस्य फणान् पञ्च प्रकुर्वीत विषोल्बणान् ।
देव्यौ प्रमोदायिनी च मही चैव समीरिते ॥ ४३ ॥
प्रथमा च प्रवालाभा द्वितीयेन्दीवरप्रभा ।
कुमुद्वती चोत्पलका व्याजन्यौ समुदाहृते ॥ ४४ ॥
माञ्चैवाप्यमितञ्चापि पूजकौ परिकल्पयेत् ।
अहं कनकवर्णस्स्याममितः कमलप्रभः ॥ ४५ ॥
[[२६९]]
अधस्तले उपरि मध्ये च
तत्रोपरि च मध्ये च हरिः श्यामाम्बुदप्रभः ।
श्रीभूमिभ्यां सुखासीनः शङ्खचक्रधरः परः ॥ ४६ ॥
मायासंह्लादिनी चैव व्याजन्यौ समुदाहृते ।
माया तु श्यामवर्णा स्याद्रक्ता संह्लादिनी भवेत् ॥ ४७ ॥
माञ्चैव मार्कण्डेयञ्च पूर्ववत्कारयेत्क्रमात् ।
एवमेव विधानेन सर्वा मूर्तीश्च कारयेत् ॥ ४८ ॥
मानविचारः
आदिमूर्त्यादिमूर्तीनां बिम्बान्यत्रोक्तवच्चरेत् ।
देव्योर्बिम्बानि चान्येषां नवतालेन कारयेत् ॥ ४९ ॥
आयामञ्च परीणाहमन्तरं हस्तपादयोः ।
पादप्रसारभेदांश्च दृष्टिभेदं विशेषतः ॥ ५० ॥
शिष्टं त्वाष्ट्रप्रयोगञ्च शिल्पशास्त्रोक्तवच्चरेत् ।
शिल्पविद्यासु निपुणैः सिद्धहस्तैः यतात्मभिः ॥ ५१ ॥
ऊहापोहविधिज्ञैश्च शिल्पिभिः कारयेद्गुरुः ।
एवं परिवृताः मूर्ती द्वारपालांश्च कारयेत् ॥ ५२ ॥
आदिमूर्तिविधौ द्वारपालाः
आदिमूर्तिविधाने तु द्वारपालौ प्रकल्पयेत् ।
बलिन्दं दक्षिणे कुर्याद्वामे तुहिणमेव च ॥ ५३ ॥
बलिन्दं श्यामवर्णञ्च तुहिणं कनकप्रभम् ।
उद्देशकरसंयुक्तं दक्षहस्तसमन्वितम् ॥ ५४ ॥
अष्टादशोऽध्यायः
[[२७०]]
पुरुषमूर्तिं समुद्दिश्य द्वारपालौ प्रकल्पयेत् ।
शङ्खं निधिवरं कुर्याद्दक्षिणे तु विशेषतः ॥ ५५ ॥
पद्मं निधिवरं कुर्याद्वामभागे तथैव च ।
शङ्खं निधिवरं श्वेतं दण्डहस्तसमन्वितम् ॥ ५६ ॥
पद्मं निधिवरं रक्तं किञ्चिद्रूक्षमुखान्वितम् ।
सत्यमूर्तिं समुद्दिश्य द्वारपालौ प्रकल्पयेत् ॥ ५७ ॥
द्वारस्य पश्चिमे भागे शङ्खचूडञ्च कारयेत् ।
द्वारस्य पूर्वभागे तु चक्रचूडञ्च कारयेत् ॥ ५८ ॥
श्वेताभं शङ्खचूडञ्च रक्ताभं चक्रचूडिनम् ।
इत्येवं सत्यमुद्दिश्य द्वारपालौ प्रकल्पयेत् ॥ ५९ ॥
द्वारस्य चोत्तरे पार्श्वे शङ्खं निधिवरं चरेत् ।
पद्मं निधिवरञ्चैव दक्षिणे सम्प्रकल्पयेत् ॥ ६० ॥
एवमच्युतमुद्दिश्य द्वारपालौ प्रकल्पयेत् ।
द्वारस्य पूर्वभागे तु शङ्खचूडं प्रकल्पयेत् ॥ ६१ ॥
द्वारस्य पश्चिमे भागे चक्रचूडञ्च कारयेत् ।
अनिरुद्धं समुद्दिश्य निश्चितौ द्वारपालकौ ॥ ६२ ॥
आदिमूर्त्यादिमूर्तीनाम् एवं स्युः द्वारपालकाः ।
यथायोगं प्रकुर्वीत प्रतिद्वारन्तु पालकौ ॥ ६३ ॥
किञ्चिद्द्वारं समीक्ष्यैव किञ्चिद्रूक्षमुखान्वितौ ।
उद्देशकरसंयुक्तौ दण्डहस्तसमन्वितौ ॥ ६४ ॥
बिम्बं भित्याश्रितं कुर्यादुत्तमं परिचक्षते ।
आलेख्यं वापि कर्तव्यं शक्त्या वै द्वारपालयोः ॥ ६५ ॥
[[२७१]]
पञ्चमूर्तिप्रतिष्ठाप्रयोगः यागशाला
अतः परं प्रवक्ष्यामि स्थापनाक्रममुत्तमम् ।
पूर्वोक्तेनैव मार्गेण दिनं सम्यक् प्रगृह्य च ॥ ६६ ॥
तस्मात्तु दिवसात्पूर्वं नवमे वाऽथ सप्तमे ।
पञ्चमेऽहनि वा कुर्याद्विधिना चाङ्कुरार्पणम् ॥ ६७ ॥
अङ्कुरानर्पयित्वैव कार्यान्तरमथाऽरभेत् ।
आलयस्यैव पुरतः यागशालां प्रकल्पयेत् ॥ ६८ ॥
ऊर्ध्वं तलं समुद्दिश्य पुरतः परिकल्पयेत् ।
द्वादशस्तम्भसंयुक्तां चतुरश्रं समन्ततः ॥ ६९ ॥
स्तम्भान्तरं चतुर्हस्तं हस्तमानं तलोच्छ्रयम् ।
एवं कूटं प्रकल्प्यैव प्रपां वपि च कारयेत् ॥ ७० ॥
नृत्तशाला यदि स्याच्चेत्तत्र यागं प्रकल्पयेत् ।
तन्मध्ये स्थण्डिलं कुर्याच्चतुरश्रं विचक्षणः ॥ ७१ ॥
चतुर्दिशं चतुर्हस्तं हस्तमानं तलोच्छ्रयम् ।
तन्मध्ये देवदेवस्य शय्यास्थानं विनिर्दिशेत् ॥ ७२ ॥
शय्यास्थानस्य परितश्चाग्निकुण्डानि पूर्ववत् ।
आहवनीयस्य पूर्वे तु श्वभ्रं कुर्याद्विचक्षणः ॥ ७३ ॥
श्वभ्रस्य परितः कुर्यात् यथालाभप्रमाणतः ।
एवं स्थानं प्रकल्प्यैव तत्पूर्वे कारयेत्ततः ॥ ७४ ॥
द्वितीयतलमुद्दिश्य शालां तत्पूर्वतश्चरेत् ।
तथा तृतीयस्य शालां तत्प्राच्यां परिकल्पयेत् ॥ ७५ ॥
एवं क्रमेण वै कुर्याद्यागशालां सुविस्तृताम् ।
अष्टादशोऽध्यायः
[[२७२]]
द्वितीयतलार्थयागशाला
द्वितीये तु तले यत्र नारसिंहस्तु स्थाप्यते ॥ ७६ ॥
तं नारसिंहमुद्दिश्य कुण्डानि प्रथमं चरेत् ।
तत्प्राच्याञ्चैव पुरुषमूर्तिमुद्दिश्य कल्पयेत् ॥ ७७ ॥
द्वादशस्तम्भसंयुक्तां किञ्चित्प्रागायतां तथा ।
स्तम्भान्तरं चतुर्हस्तं त्रिहस्तं वाऽपि कारयेत् ॥ ७८ ॥
एकहस्ततलोत्सेधं समं कुर्याद्विचक्षणः ।
आहवनीयकुण्डस्य किञ्चित्पूर्वदिगाश्रितम् ॥ ७९ ॥
औपासनविधानेन कुर्यादाहवनीयकम् ।
विहितः पुरुषस्य स्यादग्निराहवनीयकः ॥ ८० ॥
तस्मात्सर्वप्रयत्नेन प्राच्यां कार्यः स पावकः ।
प्राच्यामाहवनीयस्य कुर्यात् श्वभ्रं यथोदितम् ॥ ८१ ॥
श्वभ्रस्य परितः कुर्यात्पङ्क्तिञ्चापि यथोदिताम् ।
कुण्डस्य दक्षिणे पार्श्वे शयनं सम्प्रकल्पयेत् ॥ ८२ ॥
बिम्बाध्यर्धप्रमाणेन तालमात्रसमुन्नतम् ।
इष्टकाभिर्मृदा वाऽपि शय्यास्थानं प्रकल्पयेत् ॥ ८३ ॥
एवं पुरुषमूर्तेस्तु यागशालां प्रकल्पयेत् ।
दक्षिणे सत्यमूर्तेस्तु पूर्वोक्तेन विधानतः ॥ ८४ ॥
यागशालां प्रकल्प्यैव किञ्चिद्दक्षिणमायताम् ।
दक्षिणाग्निञ्च तत्रैव पूर्ववत्कल्पयेद्बुधः ॥ ८५ ॥
तस्य दक्षिणभागे तु शय्यास्थानं प्रकल्पयेत् ।
शय्यायाः दक्षिणे भागे स्नानश्वभ्रं प्रकल्पयेत् ॥ ८६ ॥
[[२७३]]
एवमेव प्रकुर्वीत उक्तमानेन वै गुरुः ।
यागशालामच्युतस्य कल्पयेच्चैव पश्चिमे ॥ ८७ ॥
प्रागायतां तु कुर्वीतं शालामेतां विचक्षणः ।
पूर्वोक्तेनैव मानेन शालां निर्मापयेद्गुरुः ॥ ८८ ॥
मध्ये तु यागशालायां वृत्तं कुण्डन्तु कारयेत् ।
कुण्डस्य दक्षिणे पार्श्वे शयनं सम्प्रकल्पयेत् ॥ ८९ ॥
तस्य दक्षिणभागे तु श्वभ्रं कुर्याद्विचक्षणः ।
अच्युतस्यैवमाकल्प्य यागशालामतः परम् ॥ ९० ॥
शालामप्यनिरुद्धस्य कल्पयेदुत्तरे तथा ।
पूर्वोक्तेनैव मानेन तलं पादञ्च करयेत् ॥ ९१ ॥
मध्ये तु यागशालायाः
त्रिकोणं कुण्डमाचरेत् ।
कुण्डस्य दक्षिणपार्श्वे
शयनं सम्प्रकल्पयेत् ॥ ९२ ॥
द्वारमुत्तरतः कुर्यादनिरुद्धं समीक्ष्य वै ।
कुण्डस्य चोत्तरे पार्श्वे श्वभ्रं सम्यक् प्रकल्पयेत् ॥ ९३ ॥
अनिरुद्धस्य निधिना शालामेवं प्रकल्पयेत् ।
पूर्वदिग्यागशालायामलङ्कारांश्च पूर्ववत् ॥ ९४ ॥
आदिमूर्तेर्यागशालां चतुर्द्वारसमायुताम् ।
चतुस्तोरणसंयुक्तां कल्पयेद्विधिना बुधः ॥ ९५ ॥
नारसिंहस्य शालाञ्च चतुर्द्वारसमायुताम् ।
चतुस्तोरणसंयुक्तामादिमूर्तेरिवाचरेत् ॥ ९६ ॥
अष्टादशोऽध्यायः
[[२७४]]
पुरुषस्य तु शालायाः द्वारं पूर्वे प्रकल्पयेत् ।
कुर्यादश्वत्थतरुणा द्वारतोरणकादिकान् ॥ ९७ ॥
द्वारं दक्षिणतः कुर्यात्सत्ययागगृहस्य तु ।
पैतृकेणैव तरुणा द्वारतोरणकल्पनम् ॥ ९८ ॥
अच्युतस्य तु शालायाः द्वारः पश्चिमतो भवेत् ।
क्षीरवृक्षेण कर्तव्यं तथा द्वारादिकं ततः ॥ ९९ ॥
अनिरुद्धस्य शालायाः द्वार उत्तरतो भवेत् ।
वटवृक्षेण कुर्याच्च तत्रोक्तं द्वारतोरणम् ॥ १०० ॥
तस्यैवोत्तरपार्श्वे तु वास्तुहोमञ्च कारयेत् ।
वास्तुहोमार्थकार्याणि स्थलादीनि (?) च पूर्ववत् ॥ १०१ ॥
प्रतिष्ठाप्रयोगक्रमः
अत ऊर्ध्वं प्रवक्ष्यामि प्रतिष्ठाविधिविस्तरम् ।
नवबिम्बप्रतिष्ठा चेत् प्रथमन्त्वक्षिमोचनम् ॥ १०२ ॥
पञ्चगव्याधिवासादीन् पूर्ववत्कारयेद्बुधः ।
वास्तुहोमञ्च पूर्वोक्तविधिना चैव कारयेत् ॥ १०३ ॥
पूर्वेद्युरेव कर्तव्यं रात्रौ यत्तत् प्रवक्ष्यते ।
पुण्याहं वाचयित्वा तु आलयेषु पृथक् पृथक् ॥ १०४ ॥
स्थानशुद्धिञ्च कृत्वा तु कुम्भपूजां समाचरेत् ।
कुम्भांश्च षट् समादाय सम्यग्दग्धान् मनोहरान् ॥ १०५ ॥
पूर्वोक्तेन विधानेन कुम्भपूजां पृथक् चरेत् ।
बालालयश्चेद्देवेशं प्रणम्यैवानुमान्य च ॥ १०६ ॥
[[२७५]]
कुम्भान् संसाध्य यत्नेन सर्ववाद्यसमायुतम् ।
चतुरस्त्रीनथ द्वौ वा एकं वाऽपि यथाविधि ॥ १०७ ॥
उभाभ्यामपि हस्ताभ्यां गृह्णीयुः कलशान् पृथक् ।
आदिमूर्तेस्तु कलशमादाय प्रथमं गुरुः ॥ १०८ ॥
शिरसा धारयित्वा तु देवस्य पुरतो व्रजेत् ।
देवं श्वभ्रे प्रतिष्ठाप्य कुम्भं दक्षिणतो न्यसेत् ॥ १०९ ॥
पश्चादनुनयेत्कुम्भं पुरुषस्य ततो नयेत् ।
अच्युतस्यानिरुद्धस्याध्वर्यवः कलशान् क्रमात् ॥ ११० ॥
धामप्रदक्षिणं कृत्वा पठन्तः शाकुनान्मनून् ।
न्यसेयुः स्थानमासाद्य देवांस्तांस्तान् यथाक्रमम् ॥ १११ ॥
न्यसेयुः दक्षिणे पार्श्वे कुम्भान् श्वभ्रेषु वै क्रमात् ।
यजमानो गुरुश्चैव वरयेदृत्विजश्शुचीन् ॥ ११२ ॥
स्नातान् स्नानविधानेन स्थितान् सर्वान् विधानतः ।
वस्त्रयुग्मेन शुद्धेन कुण्डलाभ्यां विशेषतः ॥ ११३ ॥
अङ्गुलीयकसन्तत्या हेममालाभिरेव च ।
यजमानो गुरुं भक्त्या पूजयेच्च विधानतः ॥ ११४ ॥
पादौ प्रक्षाल्य चाचम्य गुरुरानम्य भास्करम् ।
आदिमूर्तेर्यागशालां प्रविशेत्प्रथमं शुचिः ॥ ११५ ॥
आघारं विधिवत्कृत्वा मथितेनैव वह्निना ।
अग्निप्रणयनं कुर्याद्गार्हपत्ये यथाविधि ॥ ११६ ॥
सभ्यादिषु तथा कृत्वा चतुर्दिक्षु यथाक्रमम् ।
शालासु पुरुषादीनामग्निसाधनमाचरेत् ॥ ११७ ॥
अष्टादशोऽध्यायः
[[२७६]]
आघारं विधिवत्कृत्वा हुनेदन्ते च वैष्णवम् ।
पञ्चगव्यादिसहितान् द्वादशैव यथाक्रमम् ॥ ११८ ॥
उपस्नानसमायुक्तान् स्थापयेत्कलशान् क्रमात् ।
पूर्वोक्तेन विधानेन साधयित्वा विचक्षणः ॥ ११९ ॥
नारसिंहप्रतिष्ठा चेत्स्नाप्येन्नारसिंहकम् ।
पुरुषादीन् स्नापयेच्च क्रमात्कलशवारिभिः ॥ १२० ॥
पुरस्ताद्दण्डवेदिञ्च उत्तरादि समाचरेत् ।
प्रागादि सत्यमूर्तेस्तु दक्षिणाद्यच्युतस्य तु ॥ १२१ ॥
पश्चिमाद्यनिरुद्धस्य साधयेत् कलशान् पृथक् ।
तत्तत्पृष्ठे न्यसैच्चैव उपस्नानोदकान् पृथक् ॥ १२२ ॥
पूर्वोक्तेन विधानेन स्नपनं सम्यगाचरेत् ।
विमृज्य पश्चात् प्लोतेन वस्त्रालङ्कारमाचरेत् ॥ १२३ ॥
सर्वासामपि मूर्तीनां यथाशक्ति समाचरेत् ।
शयनं सम्प्रकल्प्यैव पञ्चभिश्चाण्डजादिभिः ॥ १२४ ॥
अलाभे त्वण्डजादीनां वस्त्रैश्शयनमास्तरेत् ।
धान्योपरि चरेद्दिव्यं शयनं त्वण्डजादिभिः ॥ १२५ ॥
उपधानद्वयं कुर्यात्पादयोर्मूध्नि च क्रमात् ।
शय्यामेवं प्रकल्प्यैव प्रोक्षणैः प्रोक्ष्य मन्त्रवित् ॥ १२६ ॥
‘वेदाहमेत’ मुच्चार्य देवांस्तत्र तु रोपयेत् ।
पाद्याद्यर्घ्यान्तमभ्यर्च्य पूजयित्वा पृथक् पृथक् ॥ १२७ ॥
[[२७७]]
मुखवासं निवेद्यैव पुण्याहं वाचयेत्क्रमात् ।
‘स्वस्तिदा’ इति मन्त्रेण बद्ध्वा प्रतिसरं ततः ।
‘यद्वैष्णवं’ समुच्चार्य शयने शाययेत्ततः ॥ १२८ ॥
प्रतिसरः
उच्यते विस्तरेणात्र अयं प्रतिसरक्रमः ।
स्वर्णादिपात्रे गृह्णीयाद्द्रोणमर्धमथापि वा ॥ १२९ ॥
श्यामाकान् तण्डुलान्वापि यथाशक्ति प्रपूरितान् ।
निष्कमात्रसुवर्णेन कुर्यात्प्रतिसरान् सदा ॥ १३० ॥
एकैकं यवविस्तारं तिलमात्रघनान्वितम् ।
मणिबन्धायतं कुर्यात्तान् वा तन्तूंश्च तान्तवान् ॥ १३१ ॥
नालिकेरोपरि न्यस्य पात्रे पूर्वोदिते ततः ।
‘शन्नो निधत्तां’ मन्त्रेणाऽऽवाहयेच्छेषमादरात् ॥ १३२ ॥
समभ्यर्च्य चतुर्मूर्तीः स्वस्तिसूक्तं जपेत्तथा ।
‘कृणुष्व पाज’ सूक्तञ्च रक्षोघ्नांश्च जपेद्गुरुः ॥ १३३ ॥
नारिकेलञ्च नैवेद्यं कदलीं मुखवासकम् ।
निवेदयित्वा चानम्य घण्टानादञ्च कारयेत् ॥ १३४ ॥
घोषयित्वा तु वाद्यादीन् कुर्यात्प्रतिसरोत्सवम् ।
आचार्यो यजमानेन वस्त्राभरणभूषितः ॥ १३५ ॥
क्षौमवेष्टितमूर्धा च स्रग्गन्धाद्यैरलङ्कृतः ।
सग्रन्थिदर्भसंयुक्तं सताम्बूलं सतण्डुलम् ॥ १३६ ॥
रक्षापात्रं समादाय शिष्यमूर्ध्नि विनिक्षिपेत् ।
ॠत्विग्भिश्चेतरैस्सार्धं यजमानपुरस्सरम् ॥ १३७ ॥
अष्टादशोऽध्यायः
[[२७८]]
सर्वालङ्कारसंयुक्तः कुर्वन् धामप्रदक्षिणम् ।
स्वस्तिवाचनपूर्वन्तु यागशालां समाविशेत् ॥ १३८ ॥
पात्रं न्यसित्वा वेद्यान्तु यायात् देवस्य सन्निधिम् ।
उपचारैस्समभ्यर्च्य देवेशायार्चकस्तदा ॥ १३९ ॥
रक्षासूत्रं समादाय नारिकेलयुतं तदा ।
देवस्य दक्षिणे हस्ते स्पर्शयेच्च ततः परम् ॥ १४० ॥
ध्रुत्वा कराभ्याञ्चोभाभ्यां सूत्रमादाय देशिकः ।
हस्ते देवस्य चाचार्यः बन्धयेत्सूत्रमञ्जसा ॥ १४१ ॥
‘स्वस्तिदा’ मन्त्रमुच्चार्य सूत्रबन्ध उदाहृतः ।
‘विष्णुस्त्वा’ मिति मन्त्रेण देव्यौर्वै वामहस्तयोः ॥ १४२ ॥
पूर्ववद्बन्धयेद्धीमान् भूत्वा सफलतण्डुलः ।
आचार्यो दक्षिणे हस्ते धारयेत् एवमेव तम् ॥ १४३ ॥
नारसिंहादिमूर्तीनां बन्धयेत्कौतुकं ततः ।
नालिकेरफलादीनि ताम्बूलञ्च निवेदयेत् ॥ १४४ ॥
प्रतिसरबन्धकालः
प्रतिष्ठायां महाशान्त्यां ध्वजारोहे रथोत्सवे ।
पवित्रारोपणे चैव प्लवे निश्यङ्कुरात्ततः ॥ १४५ ॥
देवेशस्य च देव्योश्च वीशस्यामितचक्रयोः ।
आचार्यस्यर्त्विजाञ्चैव रक्षाबन्धनमाचरेत् ॥ १४६ ॥
कालोत्सवं वर्जयित्वा पवित्रोत्सवमेव च ।
इतरेषूत्सवेषु स्याद्देव्योर्देवस्य चैव तु ॥ १४७ ॥
रक्षाबन्धः सुविहितः पश्चाद्यागं समाचरेत् ।
[[२७९]]
शयनम्
‘येद्वैष्णवं’ समुच्चार्य शयने शाययेद्धरिम् ॥ १४८ ॥
तत्तन्नाम सुसंयोज्य शाययेत्पुरुषोत्तमम् ।
प्राग्द्वारे प्राक्छिरः कुर्याद्यद्दिग्द्वारं ततः शिरः ॥ १४९ ॥
उत्तराच्छादनं कुर्यात्कुम्भं तत्प्रमुखे न्यसेत् ।
प्रधानहोमः हौत्रं
यजमानो गुरुश्चैव होतारमभिपूजयेत् ॥ १५० ॥
ततो हौत्रक्रमेणैव होता हौत्रं प्रशंसयेत् ।
‘अयात्वि’ त्यादिनाऽन्ते वै विष्णोरावाहनं चरेत् ॥ १५१ ॥
नारसिंहप्रतिष्ठा चेन्नारसिंहञ्च योजयेत् ।
मूर्तीरावाहयेन्नाम्ना शैषिकादिसमायुताः ॥ १५२ ॥
आदिमूर्त्यादि रुद्रान्तं दक्षिणप्रणिधौ जले ।
धात्रादिभूतपर्यन्तान् उत्तरप्रणिधौ तथा ॥ १५३ ॥
प्राच्यामाहवनीयस्य स्थित्वा वै पश्चिमामुखः ।
होता पुरुषमुद्दिश्य हौत्रशंसनमाचरेत् ॥ १५४ ॥
पुरुषं मूर्तिभिर्योज्य देवीभ्यां सहितं तथा ।
मुनिभ्यां द्वारपालैश्च युक्तमावाहयेत्ततः ॥ १५५ ॥
ततश्च दक्षिणे सत्यं पारिषद्यसमायुतम् ।
होता हौत्रं समुच्चार्य आवाहनमथाचरेत् ॥ १५६ ॥
मूर्तीनां पुरुषादीनां चतसॄणां विशेषतः ।
तद्देवीनामथाऽऽह्वानं दक्षिणप्रणिधौ भवेत् ॥ १५७ ॥
अष्टादशोऽध्यायः
[[२८०]]
इतरेषाञ्च देवानामुत्तरप्रणिधौ जले ।
आवाहनक्रमेणैव जुष्टाकारमथाचरेत् ॥ १५८ ॥
जुष्टाकारञ्च कृत्वैवं तत्क्रमेणाहुतीर्यजेत् ।
एवं कुर्याद्विधानेन मूर्त्यावाहनमादरात् ॥ १५९ ॥
सभ्ये तु सर्वदैवत्यं जुहुयात्तु यथाक्रमम् ।
पारमात्मिकमन्त्रांश्च जयादीन् जुहुयात्तथा ॥ १६० ॥
ईङ्कारादींश्च जुहुयादष्टाशीतिं तथा हुनेत् ।
यद्देवादींश्च जुहुयात्सर्वदोषापनुत्तये ॥ १६१ ॥
नारसिंहप्रतिष्ठा चेत्सभ्ये हुत्वा विचक्षणः ।
‘यो वा नृसिंह’ इत्युक्त्वा अष्टाधिकशतं हुनेत् ॥ १६२ ॥
व्याहृत्यन्तञ्च जुहुयान्नारसिंहमनुस्मरन् ।
पुरुषं मूर्तिमुद्दिश्य पौरुषं सूक्तमेव च ॥ १६३ ॥
हुनेदाहवनीये तु देवन्तु पुरुषं स्मरन् ।
अष्टाधिकशतं होममन्ते व्याहृतिसंयुतम् ॥ १६४ ॥
‘सत्यस्सत्यस्थ’ इत्युक्त्वा सत्यमुद्दिश्य हूयताम् ।
अन्वाहार्येऽष्टाधिकशतमाहुतीस्संस्मरन् प्रभुम् ॥ १६५ ॥
गार्हपत्ये च होतव्यमच्युतं मनसा स्मरन् ।
विष्णुसूक्तं हुनेदष्टाविंशतिं व्याहृतीस्ततः ॥ १६६ ॥
आवसत्थ्ये च जुहुयादनिरुद्धं स्मरन् क्रमात् ।
एकाक्षरादीन् जुहुयाच्छतमष्टोत्तरं ततः ॥ १६७ ॥
यावत्सङ्ख्या आहुतयो हूयन्ते यत्र यत्र वै ।
समिधस्तावतीस्तत्र पालाशीर्जुहुयात्सह ॥ १६८ ॥
[[२८१]]
एवं हुत्वा तु तद्रात्रौ रात्रिशेषं नयेत्क्रमात् ।
प्रभातकृत्यम्
पुनः प्रभाते धर्मात्मा यजमानयुतो गुरुः ॥ १६९ ॥
ॠत्विजश्चैव ते सर्वे स्नात्वा स्नानविधानतः ।
ब्रह्मयज्ञञ्च कृत्वा तु सूक्तानि च जपेत्क्रमात् ॥ १७० ॥
ततो देवालयं गत्वा चरेयुस्ते प्रदक्षिणम् ।
यागशालाञ्च सम्प्राप्य अग्निं परिसमूह्य च ॥ १७१ ॥
सभ्यादिषु च कुण्डेषु जुहुयाद्वैष्णवं ततः ।
विष्णुसूक्तञ्च हुत्वा तु पौरुषं सूक्तमेव च ॥ १७२ ॥
गर्भालयं प्रविश्याथ पूर्वोक्तेनैव मार्गतः ।
रत्नन्यासञ्च कृत्वा तु आलयेषु पृथक् पृथक् ॥ १७३ ॥
मुहूर्ते समनुप्राप्ते शय्यास्थानगतं हरिम् ।
सम्प्राप्य शयितं देवं प्रणवेन प्रबोधयेत् ॥ १७४ ॥
‘उत्तिष्ठस्व महाबाहो ब्रह्माद्यैरभिवन्दित ।
प्रजानां रक्षणार्थाय भवस्वेह जनार्दन’ ॥ १७५ ॥
एवमुक्त्वा तु देवेशमुत्थाप्य शयनाच्छनैः ।
उत्थाप्यान्यास्तथा मूर्तीः तत्तत् स्थाने निवेश्य च ॥ १७६ ॥
पाद्यादिना प्रपूज्यैव अर्घ्यान्तञ्च यथाक्रमम् ।
वस्त्रादिभिरलङ्कृत्य हेमपुष्पादिभिस्तथा ॥ १७७ ॥
नानावर्णसमायुक्तपुष्पमालाभिरेव च ।
धूपदीपादिसंयुक्तं छत्रपिञ्छादिसंयुतम् ॥ १७८ ॥
अष्टादशोऽध्यायः
[[२८२]]
सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतम् ।
आदिमूर्तिं तथाऽन्यांश्च देवानादाय वै क्रमात् ॥ १७९ ॥
तांस्तान् कुम्भाश्च शिरसा तत्तन्मूर्तीश्च पूर्ववत् ।
विचिन्तयन्तस्तान् देवान् प्रदक्षिणमथाचरेत् ॥ १८० ॥
तत्तदालयमावेश्य उत्तराभिमुखाः स्थिताः ।
जपन्तः पौरुषं सूक्तं तत्तत्कुम्भं न्यसेत्क्रमात् ॥ १८१ ॥
स्थापनम्
‘प्रतद्विष्णुः स्तवत’ इति स्थापनञ्च समाचरेत् ।
विष्णुसूक्तं जपन्नेव स्थापयेत्पुरुषादिकान् ॥ १८२ ॥
पुरुषसूक्तञ्च तत्काले जपेत्पुनरनाकुलः ।
ध्रुवसूक्तं जपित्वा तु पश्चान्न्यासं समाचरेत् ॥ १८३ ॥
‘सुवर्भुवर्भूरि’ त्युक्त्वा देवदेवमनुस्मरन् ।
मूर्ध्नि नाभौ पादयोश्च क्रमेणैव च संस्पृशेत् ॥ १८४ ॥
अकारं हृदये न्यस्य प्रणवेन सुवेष्टयेत् ।
पादयोरन्तरं यत्तु यकारं तत्र सुन्यसेत् ॥ १८५ ॥
प्रतिष्ठा
कुम्भस्थां शक्तिमादाय कूर्चयुक्तेन वारिणा ।
ध्रुवस्य दक्षिणे भागे स्थित्वा चैवोत्तरामुखः ॥ १८६ ॥
पुरुषसूक्तं ततो जप्त्वा स्रावयेत्प्राण इत्युत ।
मूर्ध्नि कूर्चेन संस्राव्य देवदेवं विचिन्त्य च ॥ १८७ ॥
निष्कलं सकले ध्यात्वा सकलीकरणं स्मरेत् ।
एकमेव विधानेन नारसिंहं प्रकल्पयेत् ॥ १८८ ॥
[[२८३]]
चतुर्णां पुरुषादीनामेवमावाहनं चरेत् ।
देव्यौ मुनी पूजकौ च सहैवऽऽवाहनं चरेत् ॥ १८९ ॥
ध्रुवस्थां शक्तिमादाय कौतुके च समर्पयेत् ।
विष्णुसूक्तञ्च जप्त्वा तु आवाहनमथाचरेत् ॥ १९० ॥
तत्र देव्यौ शिवादींश्च देवानन्यान् यथाक्रमम् ।
धात्रादीनपि चावाह्य द्वारपालांश्च वै क्रमात् ॥ १९१ ॥
श्रीभूताद्यक्षहन्तान्तान् देवानावाहयेत्तदा ।
आश्रितालयेषु
इन्द्रादिलोकपालानामालयो यदि कल्प्यते ॥ १९२ ॥
तदालयस्याभिमुखे कुण्डमौपासनं चरेत् ।
कृत्वा विधिवदाघारं तत्तन्मन्त्रान् शतं जपेत् ॥ १९३ ॥
सर्वेषां परिवाराणां भूतान्तञ्च यथाक्रमम् ।
स्यादालयो यदि पृथक् तस्य च प्रमुखे पृथक् ॥ १९४ ॥
कुण्डमौपासनं कृत्वा आघारं विधिवच्चरेत् ।
तत्तन्मन्त्रांश्च जुहुयात्प्रत्येकञ्चैकविंशतिम् ॥ १९५ ॥
आवाहनञ्च कृत्वा तु तत्तन्मन्त्रमुदीरयन् ।
एवमावाहनं कृत्वा पादौ प्रक्षाल्य चाचमेत् ॥ १९६ ॥
अग्नीन् सर्वान् विसृज्यैव आदित्यं सम्प्रणम्य च ।
सभ्याग्निं सम्प्रगृह्यैव नित्यहोमाय सन्न्यसेत् ॥ १९७ ॥
देवालयं प्रविश्याथ पुण्याहं वाचयेत्ततः ।
अर्चयित्वा यथान्यायं हविर्भिसन्निवेदयेत् ॥ १९८ ॥
अष्टादशोऽध्यायः
[[२८४]]
सर्वेभ्यः परिवारेभ्यो यथाशक्ति निवेदयेत् ।
शान्तिहेतुकमन्नादि यथाशक्ति प्रदापयेत् ॥ १९९ ॥
दक्षिणादिदानम्
ॠत्विजश्चैव विविधान् वस्त्राभरणकुण्डलैः ।
पूजयेद्धनधान्याद्यैर्नमस्कुर्याच्च देववत् ॥ २०० ॥
सुवर्णपशुभूम्यादीन् गुरवे दक्षिणां ददेत् ।
तस्मिन्नहनि सायाह्ने घोषयेदुत्सवं क्रमात् ॥ २०१ ॥
घोषयित्वा तु तत्काले मृदं पूर्ववदाहरेत् ।
तद्दिने चादिर्मूर्तेस्तु उत्सवं कारयेद्बूधः ॥ २०२ ॥
नारसिंहप्रतिष्ठा चेदुत्सवं तस्य कारयेत् ।
मूर्तीनां पुरुषादीनां तद्रात्रौ स्नपनं चरेत् ॥ २०३ ॥
पूर्वोक्तेनैव मार्गेण स्नपनञ्चैव कारयेत् ।
फलश्रुतिः
एवं यः कुरुते भक्त्या सर्वलोकोपकारकम् ॥ २०४ ॥
ग्रामशान्तिकरञ्चैव देवानामपि बृंहणम् ।
क्षेत्राभिवृद्धिदञ्चैव सस्यानामभिवृद्धिदम् ॥ २०५ ॥
स कृतार्थः पुण्यमूर्तिः लभते वैष्णवं पदम् ।
क्षत्रियस्सर्वयत्नेन सदैवं कर्तुमर्हति ॥ २०६ ॥
शत्रूणां निधनञ्चैव वीर्यवृद्धिञ्च विन्दति ।
सन्ततीनां कुलस्यापि यानवाहनसन्ततेः ॥ २०७ ॥
[[२८५]]
पत्नीभृत्यमनुष्याणां गवाञ्चर्द्धिमवाप्नुयात् ।
इह चैव सुखं भुक्त्वा सार्वभौमो भविष्यति ॥ २०८ ॥
तृतीयतलविषयः
तृतीये तु तले यत्र शयनं परिकल्प्यते ।
शयनोक्तक्रमेणैव सर्वं वै कारयेद्बुधः ॥ २०९ ॥
स्थापनाय विधिं वक्ष्ये शृणुद्ध्वं मुनिसत्तमाः ।
सर्वेषा स्थापकानाञ्च पूर्वोक्तं सर्वमाचरेत् ॥ २१० ॥
‘यो वा त्रिमूर्ति रित्युक्त्वा पौण्डरीके शतं हुनेत् ।
हौत्रं प्रशंस्य तत्काले मूर्त्त्यावाहनमाचरेत् ॥ २११ ॥
‘अनन्तशयनञ्चोक्त्वा अनादिनिधनं तथा ।
अमितं महिमानञ्च अत्यान्ताद्भुत‘ मेव च ॥ २१२ ॥
‘नागराजं सहस्रशीर्षमनन्तं शेष’ मित्युत ।
‘श्रियं धृतिं पवित्रीञ्च प्रमोदायिनी’ मिति क्रमात् ॥ २१३ ॥
‘हरिणीं पौष्णीं क्षोणीञ्च मही’ मिति तथैव च ।
‘विरिञ्चिं वरदञ्चैव ब्रह्माणं पद्मसम्भवम् ॥ २१४ ॥
‘कौमोदकीं गदाञ्चैव भद्रां विष्णुप्रिया’मिति ।
‘शार्ङ्गञ्च कार्मुकञ्चेति चापं त्रिणतमित्यपि ॥ २१५ ॥
‘असिञ्च नन्दकञ्चेति खड्गं विद्युन्निभं’ तथा ।
सुदर्शनञ्च चक्रञ्च सहस्रविकचं तथा ॥ २१६ ॥
अनपायिन’ मित्युक्त्वा चक्रञ्चैव समाह्वयेत् ।
‘पाञ्चजन्यं तथा शङ्खमम्बुजं विष्णुप्रियं’ तथा ॥ २१७ ॥
अष्टादशोऽध्यायः
[[२८६]]
‘गरुडं पक्षिराजञ्च सुपर्णञ्च खगाधिपम्’ ।
‘विष्वक्सेनं तथा शान्तं हरञ्चामित’ मित्यपि ॥ २१८ ॥
‘चिरायुषं मार्कण्डेयं रौहिणेयमुदग्रिणम्’ ।
‘महीं भूमिञ्च धरणीं मेदिनी’ मिति चैव हि ॥ २१९ ॥
धात्रादीनाञ्च षण्णां वै नामान्युक्तानि पूर्ववत् ।
‘मणिकं महाबलञ्चैव विमलं द्वारपालकम् ॥ २२० ॥
‘सन्ध्यां प्रभावतीञ्चैव ज्योतिरूपां दृढव्रताम्’ ।
‘तापसं सिद्धिराजञ्च सर्वदोषविवर्जितम् ॥ २२१ ॥
सहस्राश्वमेधिन’ञ्चैव तापसञ्च समाह्वयेत् ।
‘वैखानसं तपोयुक्तं सिद्धिदं सर्वदर्शिनम्’ ॥ २२२ ॥
‘श्रीभूतं श्वेतवर्णञ्च वैष्णवं मुखपालिनम्’ ।
न्यक्षादीनान्तु नामानि पूर्वोक्तानि समाचरेत् ॥ २२३ ॥
इन्द्रादिलोकपालानां भूतान्तञ्च यथाक्रमम् ।
आवाहनक्रमेणैव जुष्टाकारादिकं चरेत् ॥ २२४ ॥
मुधुकैटभवर्जञ्च शेषं पूर्वोक्तवच्चरेत् ।
अर्चनौत्सवबिम्बे च स्नापने बिम्ब एव च ।
तत्रतत्रोक्तविधिना सर्वं कुर्याद्विचक्षणः ॥ २२५ ॥
देव्योः स्थापनकल्पः
अतः परं प्रवक्ष्यामि देव्योर्वै स्थापनाविधिम् ।
द्विविधो मार्ग उद्दिष्टस्सहैव पृथगेव च ॥ २२६ ॥
स्थानके तु ध्रुवे तत्र देवीयुक्तन्तु कौतुकम् ।
स्थितमेवाचरेत्तद्वदासीनञ्चासने चरेत् ॥ २२७ ॥
[[२८७]]
देव्यौ संस्थापयेत्तत्र सह वा पृथगेव वा ।
सहासने यथा देव्यौ किञ्चिद्देवं समीक्ष्य वै ॥ २२८ ॥
स्थाप्येऽन्तरं देवदेव्योः भागं तालं यवद्वयम् ।
पृथगासने तु ते स्यातां देवं सम्यक् समीक्ष्य वै ॥ २२९ ॥
स्थानके तु ध्रुवे येन देव्यौ मार्गेण संस्थिते ।
तेन मार्गेण वै कुर्याद्देव्यौ कौतुक एव च ॥ २३० ॥
स्थानके चासने वाऽपि ध्रुवे देवीविवर्जिते ।
कौतुकं कारयेद्यत्नात् देवीभ्यां युक्तमेव तु ॥ २३१ ॥
उत्तमं बिम्बपूजैव प्रोच्यते त्रिषु सन्धिषु ।
बिम्बालाभेऽप्यशक्तौ वा कूर्चे चावाह्य चार्चयेत् ॥ २३२ ॥
दक्षिणे चोत्तरे वापि पीठं कृत्वा त्रिवेदिकम् ।
कौतुकार्थं व्यसित्वा तु तत्रैवार्चनमाचरेत् ॥ २३३ ॥
सामृते हारके वाऽपि कौतुकं यत्र चोदितम् ।
श्रीभूमिसहितं कुर्यादुत्तमोत्तममुच्यते ॥ २३४ ॥
स्थापनक्रमः
जलाधिवासं कृत्वा तु देवीभ्याञ्च सहैव तु ।
स्नापनार्थन्तु तत्रैव श्वभ्रं देवस्य पूर्ववत् ॥ २३५ ॥
श्रीभूम्योश्च ततः श्वभ्रे दक्षिणोत्तरयोश्चरेत् ।
देवस्य पुरतश्चैव पूर्ववत्कलशान् न्यसेत् ॥ २३६ ॥
पवित्रीमुद्दिश्य पूर्वे तु सप्त वै कलशान् न्यसेत् ।
महीमुद्दिश्य तत्पूर्वे कलशान् सप्त विन्यसेत् ॥ २३७ ॥
अष्टादशोऽध्यायः
[[२८८]]
पूर्वोक्तेन विधानेन स्नपनं सम्यगाचरेत् ।
वस्त्राद्यैरप्यलङ्कृत्य देवं देवीसमन्वितम् ॥ २३८ ॥
सर्वालङ्कारसंयुक्तं देवं देवीसमन्वितम् ।
सर्ववाद्यसमायुक्तं शयने देवमर्पयेत् ॥ २३९ ॥
देव्यौ च शाययेत्पश्चात् दक्षिणोत्तरयोः क्रमात् ।
पुण्याहं वाचयित्वा तु बध्नीयात्कौतुकं पृथक् ॥ २४० ॥
यथोक्तं स्थापनं पूर्वं देवदेवस्य तत्क्रमात् ।
होमपूर्वं तत्क्रमेण सर्वं कुर्यात्प्रयत्नतः ॥ २४१ ॥
पवित्र्यै दक्षिणाग्नेस्तु दक्षिणे तु विशेषतः ।
कुण्डमौपासनं कृत्वा आघारं विधिवद्यजेत् ॥ २४२ ॥
तस्य चैवोत्तरे पार्श्वे क्षोणीमुद्दिश्य यत्नतः ।
कुण्डमौपासनं कृत्वा आघारं विधिवद्यजेत् ॥ २४३ ॥
आघारान्ते तु जुहुयान्मनसा संस्मरन् श्रियम् ।
‘शं सा नियच्छ’ त्विति च ‘भूयाम’ इति च ब्रुवन् ॥ २४४ ॥
श्रीसूक्तेनापि जुहुयादेकविंशतिवारकम् ।
(श्रीशताष्टकमन्त्रैश्च पद्मपत्रैर्हुनेत्ततः ॥ २४५ ॥
भूशताष्टकमन्त्रैश्च बिल्वपत्रैः शताष्टकम् ।
एवं हुत्वा महीं ध्यायन् महीसूक्तेन हूयताम् ॥ २४६ ॥
एकविंशतिकृत्वस्तु व्याहृत्यन्तं तथा हुनेत् ।
मुहूर्ते समनुप्राप्ते कुम्भमादाय चात्वरः ॥ २४७ ॥
देवदेवं समासाद्य देवीभ्यां सहितं ततः ।
सर्वालङ्कारसहितं सर्ववाद्यसमायुतम् ॥ २४८ ॥
[[२८९]]
देवेशं स्थापयेत् स्थाने विष्णुसूक्तं समुच्चरन् ।
श्रीसूक्तमुच्चरन् पश्चात् स्थापयेच्च श्रियं बुधः ॥ २४९ ॥
महीसूक्तं समुच्चार्य चोत्तरे स्थापयेन्महीम् ।
देवीभ्यां सहितं देवमर्चयित्वा हविर्ददेत् ॥ २५० ॥
देव्योः पश्चात् स्थापनम्
अतः परं प्रवक्ष्यामि देव्योस्संस्थापनाविधौ ।
निमित्तान्तरमन्यञ्च प्रकारं तत्र कर्मणि ॥ २५१ ॥
देवे संस्थापिते पूर्वं देवीभ्याञ्चैव वर्जिते ।
पश्चात् देवीस्थापनेच्छा यदि कर्तुः प्रजायते ॥ २५२ ॥
देव्यौ संस्थापयेदेव शास्त्रोक्तेनैव वर्त्मना ।
देव्योस्तु बिम्बे निर्माय सर्वलक्षणसंयुते ॥ २५३ ॥
ग्रामस्य यजमानस्य चानुकूले शुभे दिने ।
स्थापयेदुक्तविधिना अङ्कुरार्पणमाचरेत् ॥ २५४ ॥
प्रयोगक्रमः
आलयात्पुरतो वाऽपि दक्षिणे वा मनोरमे ।
यागशालां प्रकुर्वीत दक्षिणोत्तरमायताम् ॥ २५५ ॥
यथाविभवविस्तारमलङ्कारांश्च कारयेत् ।
आदाय बिम्बे यत्नेन नववस्त्राद्यलङ्कृते ॥ २५६ ॥
कृत्वा जलाधिवासादीन् रक्षां सर्वत्र कारयेत् ।
यागशालामध्यदेशे स्थण्डिलं कारयेद्बुधः ॥ २५७ ॥
बिम्बाध्यर्धप्रमाणेन दक्षिणोत्तरमायतम् ।
मध्ये विष्णोः दक्षिणे तु श्रियो देव्यास्तथोत्तरे ॥ २५८ ॥
अष्टादशोऽध्यायः
[[२९०]]
हरिण्याः स्थापनार्थन्तु पीठानि परिकल्पयेत् ।
अब्जाग्निकुण्डमाग्नेय्यां पूर्ववत्कारयेद्धरेः ॥ २५९ ॥
तस्य दक्षिणभागे तु कुण्डमौपासनं श्रियः ।
तस्योत्तरे तथा मह्यास्तथैवौपासनं चरेत् ॥ २६० ॥
कुण्डानामुत्तरे चैषां कुण्डं श्रामणकं चरेत् ।
पूर्वोक्तेनैव विधिना कुर्याच्छ्वभ्रादिकं तथा ॥ २६१ ॥
पश्चाद्देव्यौ समादाय श्वभ्रयोः स्थापयेत्पृथक् ।
शास्त्रोक्तेन विधानेन भूमियज्ञन्तु कारयेत् ॥ २६२ ॥
पर्यग्निञ्चैव कृत्वा तु बिम्बपार्श्वे विशेषतः ।
पुण्याहं वाचयित्वा तु प्रोक्षणैः प्रोक्षणं चरेत् ॥ २६३ ॥
देवस्य पुरतः कुम्भपूजां पूर्ववदाचरेत् ।
कुम्भं देवं क्रमान्नीत्वा श्वभ्रमध्ये तु विन्यसेत् ॥ २६४ ॥
कुम्भञ्च दक्षिणे न्यस्येत् धान्यपीठे यमान्तरे ।
पूर्वोक्तेन विधानेन कुण्डेष्वाघारमाचरेत् ॥ २६५ ॥
आघारान्ते च जुहुयाद्वैष्णवञ्च पृथक् पृथक् ।
पूर्वोक्तेनैव मार्गेण स्नपनं सम्यगाचरेत् ॥ २६६ ॥
प्लोतेन विमृजेच्चैव वस्त्रमाल्यैश्च भूषयेत् ।
अण्डजादीनि चास्तीर्य प्रकल्प्य शयनानि च ॥ २६७ ॥
देवमारोप्य शयने पश्चाद्देव्यौ निवेशयेत् ।
पुण्याहं वाचयित्वा तु बद्ध्वा प्रतिसरं ततः ॥ २६८ ॥
शयने शाययेद्देवं देव्यौ पश्चात्तथा पृथक् ।
उत्तराच्छादनं कुर्याद्वस्त्रैश्शुभ्रैरथाहतैः ॥ २६९ ॥
[[२९१]]
अब्जाग्निकुण्डमासाद्य परिषिच्य च पावकम् ।
जुहुयात्पौरुषं सूक्तं विष्णुसूक्तमतः परम् ॥ २७० ॥
‘अतो देवादि’ जुहुयात्तथा मन्त्रान् जयादिकान् ।
श्रियश्चौपासने कुण्डे तामुद्दिश्य हृदा स्मरन् ॥ २७१ ॥
‘शं सा नियच्छ’ त्विति च ‘भूयाम’ इति च क्रमात् ।
श्रीसूक्तेन समायुक्तं जुहुयात्पञ्चविंशतिम् ॥ २७२ ॥
मह्याश्चौपासने कुण्डे महीसूक्तोदितक्रमात् ।
मेदिन्यादीन् पञ्च मन्त्रान् जुहुयात्पञ्चविंशतिम्॥ २७३ ॥
(श्रीभूशताष्टकैर्मन्त्रैः जुहुयात्पद्मबिल्वकैः)
प्रत्येकञ्च समिद्भिश्च घृताक्ताभिर्हुनेत् पृथक्
जुहुयान्मनसा ध्यायन् व्याहृत्यन्तं पृथक् पृथक् ।
नृत्तैर्गीतैश्च वाद्यैश्च रात्रिशेषं व्यपोह्य च ॥ २७४ ॥
प्रभाते चैव धर्मात्मा स्नात्वा स्नानविधानतः ।
अग्नौ कार्याणि सर्वाणि कुर्यात्पूर्वोक्तमार्गतः ॥ २७५ ॥
मुहूर्ते समनुप्राप्ते देवं देव्यौ प्रणम्य च ।
निर्माल्यं संव्यपोह्यैव नूतनालङ्कृतिं चरेत् ॥ २७६ ॥
पाद्याद्यर्घ्यान्तमभ्यर्च्य सर्ववाद्यसमायुतम् ।
सर्वालङ्कारसंयुक्तं शकुनसूक्तसमन्वितम् ॥ २७७ ॥
देवीभ्यां सहितं देवं नीत्वा धामप्रदक्षिणम् ।
शनैश्शनैस्तथा गत्वा गर्भालयमुपाव्रजेत् ॥ २७८ ॥
देवेशं ब्रह्मणः स्थाने स्थापयित्वाऽथ मन्त्रवित् ।
श्रीदेवीं दक्षिणे स्थाप्य उत्तरे च महीं बुधः ॥ २७९ ॥
अष्टादशोऽध्यायः
[[२९२]]
पूर्वोक्तेन विधानेन कुर्यादावाहनं बुधः ।
तत्तन्मन्त्रं समुच्चार्य न्यसेत् बीजाक्षरं बुधः ॥ २८० ॥
(ध्रुवबेरात्समादाय पूर्वोक्तविधिना ततः ।) ।
आराध्य देवं देवशं देवीभ्यां सहितं ततः ॥ २८१ ॥
हविस्सम्यङ्निवेद्यैव देवेशं प्रणमेद्बुधः ।
देव्योर्विवाहः
अथेच्छन् यजमानस्तु प्रतिष्ठान्तु समाप्य वै ॥ २८२ ॥
‘ममेयं दुहिता श्रीश्च मही चान्या सुते’ ति च ।
ध्यायन् शुद्धेन मनसा बन्धुभिस्सहितः शुचिः ॥ २८३ ॥
आनीय देव्यौ देवञ्च स्वगृहं भक्तिसंयुतः ।
राजवत्पूजयेत्तत्र मधुपर्कादिभिर्हरिम् ॥ २८४ ॥
अग्निशालामलङ्कृत्य विवाहोचितवर्त्मना ।
आघारं विधिवत्कृत्वा वैखानसविधानतः ॥ २८५ ॥
विवाहोक्तक्रमेणैव कन्यादानादिकं चरेत् ।
मां वा पयोनिधिं वाऽपि कर्ताऽऽत्मानं विचिन्तयेत् ॥ २८६ ॥
श्रीदेवीं कन्यकां दद्यात् वराय हरये ददत् ।
हरिण्या दानसमये भावयेत्कश्यपं स्वयम् ॥ २८७ ॥
प्रादुर्भावेषु चान्येषु तत्कालपितरं स्वयम् ।
सञ्चिन्त्य कन्यकादानं कुर्याद्भक्त्या यथा पिता ॥ २८८ ॥
राजालङ्कारमार्गेण पूजयेच्च पुनः क्रमात् ।
आचार्यदक्षिणां दद्यात् तथाऽन्यांश्च पदार्थिनः ॥ २८९ ॥
[[२९३]]
भक्तानपि च सम्पूज्य यथाविभवविस्तरम् ।
वैवाहिकं समाप्यैव प्रभूतञ्च निवेदयेत् ॥ २९० ॥
ध्रुवसन्दर्शनाद्यास्तु नेष्यन्ते तु क्रिया हरेः ।
विस्तरस्तु विशेषेण द्रष्टव्यस्संहितान्तरे ॥ २९१ ॥
ग्रामं प्रदक्षिणं नीत्वा सर्वालङ्कारसंयुतम् ।
स्वस्थाने देवतागारे देवं देव्यौ च नाययेत् ॥ २९२ ॥
संस्थापयित्वाऽर्चयेच्च विग्रहैर्विविधैर्गुरुः ।
एवं यः कुरुते भक्त्या श्रीभूम्योः पुरुषस्य वै ॥ २९३ ॥
पाणिग्राहोत्सवं तस्मिन् ग्रामे शान्तिर्भविष्यति ।
वेदानां बृंहणञ्चैव धनधान्योपबंृहणम् ॥ २९४ ॥
सर्वसम्पत्समृद्धिस्स्यात्सदा तद्ग्रामवासिनाम् ।
मोदते यजमानश्च इह लोके परत्र च ॥ २९५ ॥
तस्मात्सर्वप्रयत्नेन कुर्याद्वैवाह्यमुत्तमम् ।
योगभोगादिभेदेषु व्यत्ययोऽपीष्यते क्वचित् ॥ २९६ ॥
ध्रुवे तु योगमार्गेण प्रतिष्ठाप्य यदाऽर्चिते ।
पश्चाद्देव्यौ प्रतिष्ठाप्य भोगमार्गः प्रशस्यते ॥ २९७ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे पञ्चमूर्तिप्रतिष्ठाविधि परिषदालयलक्षणादिकथनं नाम
अष्टादशोऽध्यायः ॥
अष्टादशोऽध्यायः
[[२९४]]