अथ सप्तदशोऽध्यायः
कुम्भपूजाविधिः
अथ वक्ष्ये कुम्भपूजाविधिं विस्तरतो विभोः ।
शृणुध्वमवधानेन ॠषयः संश्रितव्रताः ॥ १ ॥
द्वात्रिंशत्प्रस्थसम्पूर्णं सम्यक् दग्धं मनोहरम् ।
पक्वबिम्बफलाकारं कुम्भमादाय वै नवम् ॥ २ ॥
सूत्रेण वेष्टयित्वा तु यवान्तरविधानतः ।
नादेयं जलमाहृत्य तत्कुम्भं तत्र शोधयेत् ॥ ३ ॥
धूपयित्वा विधानेन सर्वैर्गन्धैर्विशेषतः ।
वस्त्रपूतेन नादेयजलेन परिपूरयेत् ॥ ४ ॥
उशीराद्यैः परिमलैः द्रव्यैस्संवास्य विन्यसेत् ।
रत्नादिक्षेपणं
न्यसेत्पुष्पाक्षतादीनि नवरत्नानि च न्यसेत् ॥ ५ ॥
पद्मरागञ्च वज्रञ्च वैदूर्यं मौक्तिकं तथा ।
प्रवालेन सहैतानि पञ्च रत्नानि निर्दिशेत् ॥ ६ ॥
पुष्यरागं मरकतं गोमेदञ्चेन्द्रनीलकम् ।
पञ्चरत्नैश्च पूर्वोक्तैर्नवरत्नानि निर्दिशन् ॥ ७ ॥
नवरत्नयुतं तोयं देवेशस्यास्पदं यतः ।
अष्टमङ्गलसंयुक्तं गजतार्क्ष्यसमायुतम् ॥ ८ ॥
कूर्मरूपसमायुक्तं पञ्चायुधसमन्वितम् ।
ब्राह्मणानां हितार्थन्तु स्त्रुक्स्त्रुवौ च कमण्डलुम् ॥ ९ ॥
[[२२९]]
अन्यानि यज्ञभाण्डानि स्युः सुवर्णकृतानि तु ।
अङ्कुशं क्षत्रजातानामस्त्रशस्त्रसमन्वितम् ॥ १० ॥
छत्रचामरसंयुक्तं ध्वजं कनकनिर्मितम् ।
वैश्यानान्तु तुलां कुर्यात् शूद्राणां युगलाङ्गले ॥ ११ ॥
सुवर्णेनैव कृत्वा तु कुम्भपूजार्थमाहरेत् ।
कुम्भं वेद्यां विनिक्षिप्य वस्त्रयुग्मेन वेष्टयेत् ॥ १२ ॥
पल्लवैः पुष्पमालाभिरलङ्कारैश्च भूषयेत् ।
कूर्चञ्च तत्र निक्षिप्य कुम्भं संसाधयेद्बुधः ॥ १३ ॥
देवस्याभिमुखे न्यस्य धान्यवेद्युपरि क्रमात् ।
कुम्भस्य दक्षिणे पार्श्वे उपविष्टस्सुखासने ॥ १४ ॥
उदङ्मुखस्सन्नाचार्यो ध्यानमाविश्य यत्नतः ।
विष्णुसूक्तं जपन्नेव कुम्भे रत्नादि विन्यसेत् ॥ १५ ॥
पादौ भूमिस्पृशौ कृत्वा स्वस्तिकेनैव बन्धयेत् ।
वाममुत्तानकं कुर्यात्करं पश्चाच्च दक्षिणम् ॥ १६ ॥
ध्यानप्रकारः
एवं ब्रह्माञ्जलिं कृत्वा देवदेवमनुस्मरन् ।
निवातगतनिष्कम्पप्रदीप इव निश्चलः ॥ १७ ॥
नयने नासिकाग्रे च विन्यसेत् सुसमाहितः ।
प्रणवो धनुश्शरोह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ॥ १८ ॥
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।
द्वे तत्त्वे ब्रह्मणस्स्यातां मूर्तञ्चामूर्तमेव च ॥ १९ ॥
सप्तदशोऽध्यायः
[[२३०]]
क्षराक्षरस्वरूपे ते सर्वभूतेषु च स्थिते ।
अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् ॥ २० ॥
यथा सर्वगतस्याग्नेऽरण्यां सन्निधिर्भवेत् ।
मन्थनेन तथा विष्णोः ध्यानात्कुम्भे तु सन्निधिः ॥ २१ ॥
एकधा बहुधा तद्वत् शतधा च सहस्त्रधा ।
प्रादुर्भावात्तु दृश्येत सोपाधिस्तु मणिर्यथा ॥ २२ ॥
उपरागवशाद्यद्वत् विशुद्धस्स्फटिको मणिः ।
भिन्नरूपाणि भजते तथा विष्णुस्सनातनः ॥ २३ ॥
यथाग्निरिन्धनैरित्थो महान् भूत्वा प्रकाशते ।
तथा ध्यानेन्धनेनेत्थो विष्णुस्सर्वगतः प्रभुः ॥ २४ ॥
व्योमाकारस्तथा चान्यदृक्स्वरूपं भजेत्तथा ।
निर्गुणं गुणभाक्तेन कल्पयन्तीह केचन ॥ २५ ॥
निस्सङ्गो निर्गुणश्चैव चित्स्वभावो ह्ययोनिजः ।
निरौपम्यो निगूढात्मा काष्ठेऽग्निरिव हि स्थितः ॥ २६ ॥
एको व्यापी समश्शुद्धो निर्गुणः प्रकृतेः परः ।
जन्मवृद्ध्यादिरहितः आत्मा सर्वगतोऽव्ययः ॥ २७ ॥
वेणुरन्ध्रविभेदेन भेदः षड्जादिसञ्ज्ञितः ।
अभेदव्यापिनो वायोस्तथा तस्य महात्मनः ॥ २८ ॥
शकुनीनामिवाकाशे जले वारिभुवामिव ।
पदं तस्य न दृश्येत तत्त्वज्ञानविदो विदुः ॥ २९ ॥
भ्रान्तचित्तस्य चात्माऽपि तथैकस्सन् पृथक् पृथक् ।
नीलपीतादिभेदेन यथैकं दृश्यते नभः ॥ ३० ॥
[[२३१]]
इदं सञ्चिन्त्य मनसा ध्यायेत्साकारमात्मनः ।
तत्र सर्वमिदं प्रोतमोतञ्चैवाखिलं जगत् ॥ ३१ ॥
ततो जगत् जगत्तस्मिन् स जगच्चाखिलं तथा ।
क्षराक्षरमयो विष्णुः बिभर्त्यखिलमीश्वरः ॥ ३२ ॥
आत्मानमस्य जगतो निर्लेपमगुणामलम् ।
ध्यायेच्च कौस्तुभमणिं सुरूपं हरिवक्षसि ॥ ३३ ॥
श्रीवत्ससंस्थानवरमनन्तञ्च समाश्रितम् ।
प्रधानं बुद्धिमप्यस्य गदारूपं समाहितम् ॥ ३४ ॥
भूतादिमिन्द्रियादिञ्च द्विधाऽहङ्कारमीश्वरे ।
ध्यायेद्वै शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् ॥ ३५ ॥
चलस्वरूपमत्यन्तं जवेनान्तरितानिलम् ।
चक्रस्वरूपञ्च मनो ध्यायेद्विष्णुकरे स्थितम् ॥ ३६ ॥
पञ्चवर्णा तु या माला वैजयन्तीति चक्रिणः ।
तां भूतहेतुसङ्घातं भूतमालां विचिन्तयेत् ॥ ३७ ॥
यानीन्द्रियाणि शिष्टानि बुद्धिकर्मात्मकानि वै ।
शररूपाण्यशेषाणि तानि ध्यायेज्जनार्दने ॥ ३८ ॥
बिभर्ति यच्चासिरत्नमच्युतोऽत्यन्तनिर्मलम् ।
विद्यामयन्तु तत् ज्ञानमविद्याकर्मसञ्ज्ञितम् ॥ ३९ ॥
अस्त्रभूषणसंस्थानं स्वरूपं रूपवर्जितम् ।
मायारूपं तथा ध्यायेच्छ्रेयसे प्राणिनां हरेः ॥ ४० ॥
कलाकाष्ठानिमेषादि दिनर्त्वयनहायनैः ।
कालस्वरूपं तं ध्यायेद्विष्णुं समाहितः ॥ ४१ ॥
सप्तदशोऽध्यायः
[[२३२]]
भूर्भुवस्स्वर्महश्चैव जनोलोकस्तथैव च ।
तपस्सत्यमिति ध्यायेल्लोकमूर्तिधरं हरिम् ॥ ४२ ॥
देवमानुषपश्वादिस्वरूपं प्रभुमव्ययम् ।
भूतमूर्तिधरं ध्यायेत्सर्वाधारं सनातनम् ॥ ४३ ॥
ॠचो यजूंषि सामानि तथैवाथर्वणानि च ।
इतिहासोपवेदाश्च वेदान्तेषु तथोक्तयः ॥ ४४ ॥
वेदाङ्गानि समस्तानि मन्वादिगदितानि च ।
शास्त्राण्यशेषाण्यास्थानान्यनुवाकाश्च वै क्वचित् ॥ ४५ ॥
काव्यालापाश्च ये केचिद्गीतकान्यखिलान्यपि ।
शब्दमूर्तिधरस्यैतद्वपुर्ध्यायेन्महात्मनः ॥ ४६ ॥
यानि मूर्तान्यमूर्तानि यान्यत्रान्यत्र च क्वचित् ।
सन्ति वै वस्तुजातानि तानि सर्वाणि तद्वपुः ॥ ४७ ॥
यत्र सर्वं यतस्सर्वं यस्सर्वं सर्वतश्च यः ।
सर्वगत्वादनन्तस्य स एवाहमिति स्थितिः ॥ ४८ ॥
मत्तः सर्वमहं सर्वं मयि सर्वं सनातने ।
अहमेवाक्षयो नित्यः परमात्मा न संशयः ॥ ४९ ॥
एवं सञ्चिन्तयेद्विष्णुमभेदेनाऽऽत्मनो गुरुः ।
तन्मयत्वमनुप्राप्य आत्मसूक्तं जपेत्क्रमात् ॥ ५० ॥
आवाहनप्रकारः
आवाहनक्रमेणैव तत आवहनं चरेत् ।
देव्यौ च परिषद्यांश्च तत्रैवावाहयेत्क्रमात् ॥ ५१ ॥
[[२३३]]
नवबेरप्रतिष्ठा चेदेवं वै कारयेद्बुधः ।
पुनः प्रतिष्ठा चेद्विद्वान् कुम्भं संसाध्य पूर्ववत् ॥ ५२ ॥
पुराणबिम्बात्तच्छक्तिं ध्यात्वा कुम्भे सुसन्न्यसेत् ।
कुम्भस्य शालाप्रवेशः
सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतम् ॥ ५३ ॥
स्तोत्रध्वनिसमायुक्तं शकुनसूक्तसमन्वितम् ।
कुम्भं सङ्गृह्य शिरसा आचार्यः पुरतो व्रजेत् ॥ ५४ ॥
पश्चाद्देवं समादाय व्रजेयुर्मूर्तिधारकाः ।
धामप्रदक्षिणं कृत्वा गत्वा वै स्नपनालयम् ॥ ५५ ॥
श्वभ्रमध्ये प्रतिष्ठाप्य विष्णुसूक्तं समुच्चरन् ।
श्वभ्रस्य दक्षिणे पार्श्वे न्यसेत्कुम्भं यमान्तरे ॥ ५६ ॥
शिष्टानि सर्वकार्याणि यथोक्तानि समाचरेत् ।
स्नापनप्रकारः
शङ्खे वा शुक्तिकायां वा तोयं संसाध्य मन्त्रतः ॥ ५७ ॥
प्रोक्षयित्वा तु कलशानधिदेवान्त्समर्चयेत् ।
पाद्याद्यर्घ्यान्तमभ्यर्च्य देवेशं मनसा स्मरन् ॥ ५८ ॥
आचार्यः शिष्यसहितो वस्त्राभरणभूषितः ।
‘वसोः पवित्र’ मित्युक्ता स्नापयेत्पञ्चगव्यकैः ॥ ५९ ॥
‘अग्न आयाहि’ मन्त्रेण घृतेन स्नापयेद्विभुम् ।
‘अग्निमीले’ ति मन्त्रेण मधुना स्नापयेद्धरिम् ॥ ६० ॥
‘इषे त्वोर्जे’ त्वेति जपन् दध्ना संस्नापयेत्तथा ।
‘शन्नो देवी’ ति मन्त्रेण क्षीरेण स्नापयेत्ततः ॥ ६१ ॥
सप्तदशोऽध्यायः
[[२३४]]
‘अभित्वा शूर’ इत्युक्ता गन्धोदेन समाचरेत् ।
‘इमा ओषधय’ इति स्नापयेदक्षतोदकैः ॥ ६२ ॥
‘जपन् द’ त्वेति मन्त्रेण स्नापयेत्तु फलोदकैः ।
‘चत्वारि वा’ गिति जपन् कुशोदेनाभिषेचयेत् ॥ ६३ ॥
‘तत्पुरुषायेति’ मन्त्रेण रत्नयुक्तेन वारिणा ।
‘पूतस्तस्ये’ ति मन्त्रेण जप्योदेन ततः परम् ॥ ६४ ॥
सर्वौषध्युदकेनैव ‘चत्वारीति’ समुच्चरन् ।
यैर्द्रव्यैः स्नापयेद्देवं पूर्वं तैः प्रोक्षयेद्घटम् ॥ ६५ ॥
उपस्नानेषु सर्वेषु ‘वारीश्चतस्रः’ उच्चरेत् ।
प्रतिद्रव्यं विशेषेण पाद्याद्यर्घ्यान्तमर्चयेत् ॥ ६६ ॥
पश्चात्प्लोतेन विमृजे‘न्मित्रस्सुपर्ण’ उच्चरन् ।
नववस्त्रैरलङ्कृत्य भूषयेदपि भूषणैः ॥ ६७ ॥
दिव्यगन्धैरलङ्कृत्य नाभेरूर्ध्वञ्च सर्वतः ।
हेमपुष्पैरलङ्कुर्यान्मुक्तादामभिरन्वितैः ॥ ६८ ॥
नानावर्णसमायुक्तैः भूषयेत्पुष्पदामभिः ।
पाद्याद्यर्घ्यान्तमभ्यर्च्य प्रणम्यैवानुमान्य च ॥ ६९ ॥
पन्थानं शोधयित्वाऽद्भिः सलाजैः कुसुमैस्तिलैः ।
अलङ्कुर्यात्पताकाभिः विविधैः पुष्पदामभिः ॥ ७० ॥
सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतम् ।
समुच्छितैः ध्वजैः छत्रैः धूपाद्यैस्सुसमायुतम् ॥ ७१ ॥
यन्त्रारूढाश्च नृत्येरन् अप्सरोवत् स्त्रियोऽग्रतः ।
[[२३५]]
प्रभूतबलिः
द्रोणं द्रोणार्धकं वाऽपि आढकं वा स्वशक्तितः ॥ ७२ ॥
माषद्वयसमायुक्तं कुलत्थनिष्पावसंयुतम् ।
पाचयित्वा विधानेन कटाहे निर्वपेद्बुधः ॥ ७३ ॥
लाजैश्च तिलचूर्णैश्च अपूपैस्सक्तुभिस्सह ।
पूष्पतोयसमायुक्तं कूर्चयुक्तं सहाक्षतम् ॥ ७४ ॥
प्रभूतबलिमाहृत्य प्रक्षिपेत्सर्वसन्धिषु ।
चतुष्कोणे त्रिकोणे च द्विकोणे चैव सर्वतः ॥ ७५ ॥
भूतयक्षपिशाचेभ्यो नागेभ्यो राक्षसैस्सह ।
मध्यादि चोत्तरान्तञ्च निर्वपेदिति शासनम् ॥ ७६ ॥
तोयं दत्वाऽथ पूर्वं तु पश्चात्पुष्पं तथैव च ।
बलिं दत्वा गुरुर्धीमान् ततस्तोयं समावपेत् ॥ ७७ ॥
सन्धौ सन्धौ च सर्वत्र एवमेव प्रदापयेत् ।
पश्चाद्देवं समादाय याने त्वारोप्य यत्नतः ॥ ७८ ॥
‘रथन्तरं’ समुच्चार्य रथमारोपयेद्धरिम् ।
आरोप्य शिबिकायां वा वैष्णवं मन्त्रमुच्चरन् ॥ ७९ ॥
भक्तैः परिवृतो गुच्छेच्छाकुनं सूक्तमुच्चरन् ।
पश्चाद्ग्रामं प्रविश्यैव कुर्याद्ग्रामप्रदक्षिणम् ॥ ८० ॥
पश्चादालयमाविश्य यागस्थाने सुसन्न्यसेत् ।
एवं कर्तुमशक्तश्चेत्कुर्याद्धामप्रदक्षिणम् ॥ ८१ ॥
बिम्बगौरवमुद्दिश्य नाचरेद्वा प्रदक्षिणम् ।
यन्त्रेण योजयित्वा तु देवागारं प्रवेशयेत् ॥ ८२ ॥
सप्तदशोऽध्यायः
[[२३६]]
शयनालङ्करणं
यागस्थानस्य मध्ये तु स्थण्डिले शयनं चरेत् ।
मण्डलञ्चोपलिप्यैव पर्णैस्संस्कृत्य पञ्चभिः ॥ ८३ ॥
ब्रीहिभिस्तण्डुलैश्चापि परिपूर्य समन्ततः ।
तस्योपरि विधानेन बैल्वं फलकमाक्षिपेत् ॥ ८४ ॥
पञ्च शयनानि
अण्डजैर्मुण्डजैश्चैव लोमजैश्चर्मजैस्तथा ।
वामजैश्च क्रमेणैव उपर्युपरि संस्तरेत् ॥ ८५ ॥
अण्डजन्तु विजानीयात् पक्षिणां पिञ्छसम्भवम् ।
कार्पासशाल्मलादीनि मुण्डजन्तु विदुर्बुधाः ॥ ८६ ॥
आविकन्तु मृगाणान्तु रोमजं रोमजं स्मृतम् ।
सिंहव्याघ्रादिजन्तूनां चर्म चर्मजमुच्यते ॥ ८७ ॥
पट्टवस्त्रादिनिचयं वामजं परिकीर्तितम् ।
अलाभे त्वण्डजादीनां प्रत्येकं वस्त्रमास्तरेत् ॥ ८८ ॥
अष्टमङ्गलादिन्यासः
एवं संस्तीर्य मन्त्रज्ञो ‘वेदाहं’ मन्त्रमुच्चरन् ।
ऐन्द्राद्यैशान्यपर्यन्तं श्रीवत्सादीन् न्यसेत्क्रमात् ॥ ८९ ॥
पूर्णकुम्भांश्च परितस्त्वङ्कुरांश्च विशेषतः ।
दीपांश्च परितो न्यस्येत् धान्यपीठे विचक्षणः ॥ ९० ॥
आयुधानि न्यसेत्तद्वत् धान्यपीठे समन्ततः ।
ततः सङ्कल्प्य शयनं पश्चाद्देवं प्रणम्य च ॥ ९१ ॥
[[२३७]]
सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतम् ।
ब्रह्मघोषसमायुक्तं शकुनसूक्तसमन्वितम् ॥ ९२ ॥
पूर्ववत्कुम्भमादाय देवेशसहितं क्रमात् ।
शयने देवमारोप्य कुम्भञ्चात्रैव स्थापयेत् ॥ ९३ ॥
देव्यौ च स्थापयेत्पश्चात् दक्षिणोत्तरयोः क्रमात् ।
कुम्भञ्च पुरतो न्यस्य वैष्णवं मन्त्रमुच्चरन् ॥ ९४ ॥
पाद्याद्यर्घ्यान्तमभ्यर्च्य देवेशं मनसा स्मरेत् ।
प्रतिसरबन्धः
सौवर्णं तान्तवं वाऽथ कृत्वा प्रतिसरं बुधः ॥ ९५ ॥
हेमादिपात्रे सन्न्यस्य शालितण्डुलपूरिते ।
वाद्यघोषसमायुक्तं स्वस्तिसूक्तसमन्वितम् ॥ ९६ ॥
देवालयं परीत्यैव देवस्य पुरतो न्यसेत् ।
पुण्याहं वाच्य तत्काले विधिवन्मन्त्रपूर्वकम् ॥ ९७ ॥
स्वस्तिसूक्तं समुच्चार्य स्पृशेत्प्रतिसरं तथा ।
उच्चरन् ‘स्वास्तिदा’ मन्त्रं कुर्यात्कौतुकबन्धनम् ॥ ९८ ॥
ध्रुवोऽस्ति चेद्विमानस्थः बध्नीयात्पूर्वमेव तत् ।
देव्योश्च वामकरयोः बध्नीयाद्विधिवत्ततः ॥ ९९ ॥
विमानं प्रथमं यत्र बद्ध्वा प्रतिसरं ततः ।
सूत्रं त्रिवृतमादाय पादमूले विशेषतः ॥ १०० ॥
दर्भमालाञ्च परितः प्रादक्षिण्यक्रमेण वै ।
सप्तदशोऽध्यायः
[[२३८]]
शायनम्
‘यद्वैष्णवं’ समुच्चार्य शयने शाययेद्धरिम् ॥ १०१ ॥
यद्दिग्द्वारं विमानं स्यात्कुर्यात्तद्दिशि वै शिरः ।
कृत्वोपधानं शिरसः तथा कृत्वा च पादयोः ॥ १०२ ॥
उत्तराच्छादनं कुर्याद्वासोभिरभितस्तथा ।
बहुबेरप्रतिष्ठा चेत्स्नापनादीन् पृथक् चरेत् ॥ १०३ ॥
बहुभूमिप्रतिष्ठा चेत्प्रत्येकं कुम्भमाहरेत्
हौत्रप्रशंसनम्
अत ऊर्ध्वं प्रवक्ष्यामि हौत्रकल्पं यथाक्रमं
यजमानो गुरुञ्चापि ॠत्विजश्चापि पूजयेत् ॥ १०४ ॥
प्रत्येकं वस्त्रयुग्मेन तथा पञ्चाङ्गभूषणैः ।
सुवर्णपशुभूम्यादीन् गुरवे दक्षिणां ददेत् ॥ १०५ ॥
राजा दद्यात्तु गुरवे दक्षिणां विंशतिं शतम् ।
ग्रामश्चेत्पादहीनन्तु दद्यादाचार्यदक्षिणाम् ॥ १०६ ॥
इतरे दद्युरधमं निष्काणामेकविंशतिम् ।
पादाधिकं पञ्चनिष्कं स्थापकानां पृथक् पृथक् ॥ १०७ ॥
अन्येषामृत्विजां दद्यात् निष्कत्रयपथा पृथक् ।
पश्चाद्धोतारमाहूय सम्पूज्यार्घ्यादिभिस्ततः ॥ १०८ ॥
आचार्यं कृतकार्यन्तु नमस्कुर्यात्स्वदैववत् ।
होता चैव तु तत्काले पादौ प्रक्षाल्य चाचमेत् ॥ १०९ ॥
‘सभ्यस्यैव तु पूर्वस्मिन् देशे तिष्ठेत् कृताञ्जलिः ।
अध्वर्यु‘र्होतरे’ हीति वदेदग्निं प्रणम्य च ॥ ११० ॥
[[२३९]]
‘अध्वर्यो देवते’ त्यादि होता ब्रूयादुपांशु तु ।
पश्चादाचम्य होता वै कूर्चमादाय पाणिना ॥ १११ ॥
पश्चिमाभिमुखो भूत्वा प्रणवोच्चारपूर्वकम् ।
‘नामः प्रवक्त इत्यादीन् पठेन्मन्त्रान् समाहितः ॥ ११२ ॥
स्वनाम गोत्रसहितं संयोज्य विधिपूर्वकम् ।
‘हिं भूर्भुवस्सुव’ रिति तत्काले प्राङ्मुखश्शुचिः ॥ ११३ ॥
हौत्रक्रमेण वै होता शंसेद्धौत्रं विधानतः ।
ओङ्कारन्तु यदा होता प्रवदेत्क्रमवित्तदा ॥ ११४ ॥
श्रुत्वाऽध्वर्युरथौङ्कारं तदन्ते समिधः क्षिपेत् ।
अध्वर्युणा नियुक्तस्तु होताऽऽवाहनमुच्चरेत् ॥ ११५ ॥
‘आयातु भगवा’ नुक्त्वा विष्णुमावाहयेत्ततः ।
क्रमाद्देव्यौ पारिषद्यान् नाम्नैवावाहनं चरेत् ॥ ११६ ॥
आवाहने चतुर्मूर्तिविधिरेवं प्रपठ्यते ।
आवाहनप्रकारः-सर्वदैवत्यक्रमः
‘विष्णुञ्च पुरुषं सत्यमच्युतञ्चानिरुद्धकम्’ ॥ ११७ ॥
‘श्रियं धृतिं पवित्रीञ्च प्रमोदादयिनी’मिति ।
‘हरिणीञ्चैव पौष्णीञ्च श्रोणीमित मही’मिति ॥ ११८ ॥
‘ब्रह्माणं प्रजापतिञ्च पितामहमिति क्रमात् ।
‘हिरण्यगर्भ’ मित्युक्त्वा विधिनाऽऽवाहयेत्तदा ॥ ११९ ॥
‘रुद्रञ्चोमापतिञ्चैव गोपतिं शर्व’मित्यपि ।
‘मार्कण्डेयञ्च पुण्यञ्च पुराणममितं’तथा ॥ १२० ॥
‘पद्मापितरं धातृनाथं ख्यातीशं भृगु’ मेव च ।
सप्तदशोऽध्यायः
[[२४०]]
द्वारदेवाः
‘धातारं दम्भिनञ्चेति सनिलं गन्धवं’ तथा ॥ १२१ ॥
‘विधातारञ्च कीनाशं मुरुण्डं न्यर्ण’ मेव च ।
‘भृतिं भुवङ्गमुत्सङ्गं पीठ’ ञ्चैव समाह्वयेत् ॥ १२२ ॥
‘पतङ्गमुत्करञ्चेति अपदानं कपर्दिनम्’ ।
‘पतिरं बलिदञ्चेति मध्यगं वङ्खरं’ तथा ॥ १२३ ॥
‘वरुणं तेजिनञ्चेति दंशिनञ्च तरस्विनम्’ ।
द्वारपालाः
‘मणिकं महाबलञ्चेति विमलं द्वारपालकम्’ ॥ १२४ ॥
‘सन्ध्यां प्रभावतीञ्चेति ज्योतीरूपां दृढव्रताम्’ ।
‘तापसं सिद्धिराजञ्च सर्वदोषविवर्जितम् ॥ १२५ ॥
सहस्त्राश्वमेधिन’ मिति तापसं सम्यगाह्वयेत् ।
‘वैखानसं तपोयुक्तं सिद्धिदं सर्वदर्शिनम्’ ॥ १२६ ॥
‘किष्किन्धं बहुमर्दञ्च बहुसेनं दृढव्रतम्’ ।
‘तीर्थमुद्वाहकञ्चैव सर्वयोग्यमुदावहम्’ ॥ १२७ ॥
श्रीभूतः दिक्पालाः
‘श्रीभूतं श्वेतवर्णञ्च वैष्णवं मुखपालिनम्’ ।
‘इन्द्रं शचीपतिञ्चेति पुरुहूतं पुरन्दरम्’ ॥ १२८ ॥
‘अग्निं जातवेदसमिति पावकञ्च हुताशनम् ।
‘यमञ्च धर्मराजञ्च प्रेतेशमिति च ब्रुवन् ॥ १२९ ॥
[[२४१]]
‘मध्यस्थ’ मिति चोक्त्वा तु धर्मराजं समाह्वयेत् ।
‘आरम्भाधिपतिञ्चेति र्निॠतिं नील’मेव च ॥ १३० ॥
‘सर्वरक्षोधिप’ मिति र्निॠतिञ्च समाह्वयेत् ।
‘वरुणं प्रचेतसमिति रक्ताम्बरमिति क्रमात् ॥ १३१ ॥
यादस्पति’मिति गुरुर्वरुणं सम्यगाह्वयेत् ।
‘जवनं भूतात्मकं वायुमुदान’ञ्च समाह्वयेत् ॥ १३२ ॥
‘कुबेरं धन्यं पौलस्त्यं यक्षराज’ मिति क्रमात् ।
‘ईशानमीश्वरञ्चैव देवञ्चेति भवं’ तथा ॥ १३३ ॥
आदित्यादयः
‘आदित्यं भास्करञ्चैव सूर्यं मार्ताण्डमेव च ।
विवस्वन्त’ मिति प्रोच्य भास्करं सम्यगाह्वयेत् ॥ १३४ ॥
‘अङ्गारकञ्च वक्रञ्च रक्तञ्चैव धरासुतम्’ ।
‘सूर्यपुत्रञ्च मन्दञ्च रैवत्यञ्च शनैश्चरम्’ ॥ १३५ ॥
‘पीतवर्णं गुरुं तैष्यं बृहस्पति’ मिति क्रमात् ।
‘बुधं श्यामञ्च सौम्यञ्च श्रविष्ठाज’ मिति क्रमात् ॥ १३६ ॥
‘शुकञ्च भार्गवं काव्यं परिसर्पिण’ मित्यपि ।
‘नलिनीं जाह्नवीञ्चैव गङ्गां वै लोकपावनीम् ॥ १३७ ॥
‘वसिष्ठं सोमं यज्ञाङ्गमिन्दुं चन्द्र’ मिति क्रमात् ।
‘भवञ्च शर्वमीशानं क्रमात्पशुपतिं तथा ॥ १३८ ॥
उग्रं रुद्रञ्च भीमञ्च महादेव’ मितीरयेत् ।
‘जगद्भुवं यजद्भुवं विश्वभुवमिति क्रमात् ॥ १३९ ॥
सप्तदशोऽध्यायः
[[२४२]]
रुद्रभुवं ब्रह्मभुवं भुवद्भुव’ मुदीर्य च ।
‘पुरुषं सत्यमित्युक्त्वा अच्युतञ्चानिरुद्धकम् ॥ १४० ॥
‘धात्रीं महोदरीं रौद्रीं महाकाली’ मिति क्रमात् ।
‘भूर्ज्येष्ठायिनीमिति च भुवर्ज्येष्ठायिनीमिति ॥ १४१ ॥
सुवर्ज्येष्ठायिनीमिति कलिराजयिनीमिति ।
कलिपत्नी’ मिति तथा ज्येष्ठां वै सम्यगाह्वयेत् ॥ १४२ ॥
‘रौद्रीं कात्यायनीञ्चैव वैष्णवीं विन्ध्यवासिनीम्’ ।
‘कुण्ठिनीं नन्दिनीञ्चैव धरित्रीं रजतप्रियाम्’ ॥ १४३ ॥
‘ग्रन्थिनीं वेगिनीञ्चैव प्रजयाञ्च प्रबर्हिणीम् ।
‘कृच्छ्रिणीं शाखिनीञ्चैव वाहिनीं योक्त्रिणी’मिति ॥ १४४ ॥
‘कुष्ठिनीं जारिणीञ्चैव छर्दिनीञ्च प्रवाहिणीम् ।
‘विकारिणीं दामिनीञ्च बैसिनीं विद्युता’मिति ॥ १४५ ॥
‘ददृणीमिन्दुकरीञ्चैव सौमनसी प्रविद्युताम् ।
इन्द्रियविकारिणीञ्चैव अर्वन्तीञ्च समाह्वयेत् ॥
गङ्गावाणीं सृजन्ती’ ञ्च चतुर्मूर्तिभिराह्वयेत् ॥ १४६ ॥
सप्तर्षयः
‘पद्मापितरं धातृनाथं ख्यातीशं भृगुमेव’ च ॥ १४७ ॥
‘सम्भूतीशं मरीचिञ्च शोचिष्मन्तमिति क्रमात् ।
पौर्णमासभृत’ ञ्चेति मरीचिं सम्यगाह्वयेत् ॥ १४८ ॥
‘क्षमाधवञ्च पुलहं कर्दमाद्यं महाधृतिम्’ ।
‘पुलस्त्यं प्रीतिभर्तारं वशङ्करमिति क्रमात् ॥ १४९ ॥
[[२४३]]
दान्तो नीराज’ मित्युक्त्वा चाह्वयेच्च विधानतः ।
‘सिद्धिराजं निष्कसूनुं सन्नतीशं क्रतुं’ तथा ॥ १५० ॥
‘ऊर्जापतिं राजपूर्वं वसिष्ठं वाक्पतिं’ तथा ।
‘अत्रिं नियामकञ्चैव सत्यनेत्रगुरुं तथा ॥ १५१ ॥
अनसूयापति’ ञ्चेति चतुर्मूर्तिभिराह्वयेत् ।
‘गविष्ठं त्रैष्टुभञ्चेति गुह्यमाकाश’ मेव च ॥ १५२ ॥
‘असुं समीरणञ्चेति वायुञ्च पृषदश्वकम् ।
‘वीतिहोत्रमाभुरण्यं शुद्धमग्नि’ मितीरयेत् ॥ १५३ ॥
‘पवित्रममृतं तोयं गह्वर’ ञ्चेति वै क्रमात् ।
‘हरिणीञ्च तथा पौष्णीं क्षोणीमथ मही’ मिति ॥ १५४ ॥
‘सिद्धिं वाणीं ब्रह्मपत्नीं सरस्वती’ मिति चाह्वयेत् ।
‘श्रियं धृतिं पवित्रीञ्च प्रमोदा(धा)यिनी’ मिति च ॥ १५५ ॥
‘न्यक्षं दधित्यकञ्चैव पीवरं चार्यकं’ तथा ।
‘विवस्वन्तञ्च भरतं विश्वकर्माण’ मित्यपि ॥ १५६ ॥
‘मरीचिमन्तमित्युक्त्वा आह्वयेत विचक्षणः ।
‘मित्रमित्वरमित्युक्त्वा राजिष्मन्तं रमणकम्’ ॥ १५७ ॥
‘महीधरञ्च क्षत्तारमुर्वरोहञ्च शेवधिम्’ ।
‘हविरक्षकमाग्नेयं शैलूषं पचनं’ तथा ॥ १५८ ॥
‘सर्वेश्वरं जगन्नाथं चामुण्डं सर्वतश्चरम्’ ।
‘ब्रह्माणीं पिङ्गलाञ्चेति गौरीं वै सर्वतोमुखीम्’ ॥ १५९ ॥
‘सरित्प्रियां विश्वरूपामुग्राञ्चैव गणेश्वरीम्’ ।
‘वैशाखिनीं खण्डिनीञ्च गायत्रीं षण्मुखी’मिति ॥ १६० ॥
सप्तदशोऽध्यायः
[[२४४]]
विश्वगर्भां विषोर्मिणीं कृष्णाञ्च द्रुहिणी’ मिति ।
‘वाराहीं वरदामुर्वीं विषहां वेदधारिणीम्’ (?) ॥ १६१ ॥
‘पुष्परक्षकं हरितमधिवासञ्च फुल्लकम्’ ।
‘बलिरक्षकञ्च दण्डञ्च सर्वज्ञं सममेव’ च ॥ १६२ ॥
‘विष्वक्सेनञ्च शान्तञ्च हरञ्चैवामितं’ तथा ।
‘वक्रतुण्डमेकदंष्ट्रं विकटञ्च विनायकम्’ ॥ १६३ ॥
‘गरुडं पक्षिराजञ्च सुपर्णञ्च खगाधिपम्’ ।
‘नागराजं सहस्त्रशीर्षमनन्तं शेष’ मित्यपि ॥ १६४ ॥
‘सुदर्शनञ्च चक्रञ्च सहस्रविकचं’ तथा ।
‘अनपायिन’ मिति च सुदर्शनमथाऽऽह्वयेत् ॥ १६५ ॥
‘जयमत्युच्छ्रितं धन्यं ध्वज’ मित्याह्वयेद्ध्वजम् ।
‘पाञ्चजन्यञ्च शङ्खञ्च अम्बुजं विष्णुप्रिय’मिति ॥ १६६ ॥
‘यूथाधिपं नित्यमुग्रं महाभूताख्यमेव’ च ।
‘पाकोऽर्जुनं हस्तमगम् अक्षहन्तं तथैव च ॥ १६७ ॥
विष्णुभूतञ्चेति देवानाह्वयेद्विधिवद्बुधः ।
सभ्याध्वर्युश्च तत्काले दक्षिणप्रणिधौ जले ॥ १६८ ॥
विष्णुमूर्त्यादिरुद्रान्तं चतुर्मूर्तिविधानतः ।
‘आवाहया’ मीत्युक्त्वा तु तत्तद्देवमनुस्मरन् ॥ १६९ ॥
आवाहयेत्ततः पश्चादुत्तरप्रणिधौ जले ।
धात्रादिविष्णुभूतान्तान् देवानन्यान् समाह्वयेत् ॥ १७० ॥
आवाहयेदन्यदेवान् तत्तद्धोमेषु च क्रमात् ।
[[२४५]]
जुष्टाकारस्वाहाकारौ
आवाहनक्रमेणैव चतुर्थ्यन्तेन वै पृथक् ॥ १७१ ॥
जुष्टाकारं तथा कुर्यात्तत्क्रमेणाहुतीर्यजेत् ।
अग्निध्यानं
तदा कुण्डगतं वह्निं ध्यायेदेवं गुरूत्तमः ॥ १७२ ॥
पश्चिमाभिमुखं देवमतिरक्तांशुकं परम् ।
कुण्डमध्ये समासीनं ब्राह्ममासनमास्थितम् ॥ १७३ ॥
स्वाहास्वधायुतं देवं सर्वदेवात्मकं विभुम् ।
ज्वालाकेशं शिखाजिह्वं सप्तार्चिभिरलङ्कृतम् ॥ १७४ ॥
द्विभुजन्तु तदा ध्यायेत्तस्मिन्नग्नौ हुनेत्सदा ।
होमकालः
समिच्चरुघृताद्यैश्च ज्वलितेऽग्नौ स्मरन् हुनेत् ॥ १७५ ॥
अशब्दं भिद्यमानेषु दीप्तेष्वग्निकणेषु च ।
यदा हुते घृते वह्निः स्वयमेवोद्गतोऽर्चिषा ॥ १७६ ॥
समुज्ज्वलति निर्धूमे हुनेदाहुतिरुत्तमा ।
एवं सर्वत्र होमेषु ध्यायन्नग्निं हुनेद्धविः ॥ १७७ ॥
यज्ञपात्रग्रहणे विशेषः
मध्येऽङ्गुष्ठानामिकयोः समाङ्गुल्योः स्रुवं तथा ।
प्रदेशिनीमध्यमे च स्रुवस्याधः प्रसार्य च ॥ १७८ ॥
कनिष्ठाङ्गुलिं विसृज्यैव गृह्णीयाद्धोमकर्मणि ।
चतुरङ्गुलप्रमाणञ्च यथा च्छिन्नं स्रुवं तथा ॥ १७९ ॥
सप्तदशोऽध्यायः
[[२४६]]
घृतं स्रुवेण सङ्गृह्य मन्त्रमुच्चार्य सर्वकम् ।
‘स्वाहे’ त्युक्त्वा हुनेदग्नौ तं तं देवं हृदा स्मरन् ॥ १८० ॥
अङ्गुष्ठानामिकाभ्याञ्च तथा मध्यमया सह ।
घृताक्तां समिधं गृह्य प्रागग्रं जुहुयाद्विधिः ॥ १८१ ॥
मन्त्रान्ते पूर्ववद्धोमं जुहुयाज्जातवेदसि ।
न्यग्रोधफलमात्रन्तु गृह्णीयात् सघृतं चरुम् ॥ १८२ ॥
जुहुयाद्विधिना वह्नौ पूर्वोक्तेन क्रमेण वै ।
सभ्याग्निसाधकौ वह्निं ज्वलितं सम्प्रणम्य च ॥ १८३ ॥
लाजैः सतिलचूर्णैश्च अपूपैस्सक्तुभिः सह ।
आज्येन मिश्रितं सर्वं प्रतिहोमं हुनेत् शुचिः ॥ १८४ ॥
वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ।
पूरयित्वा जुहूं पश्चाद्देवदेवमनुस्मरन् ॥ १८५ ॥
हुनेद्विंशतिकृत्वस्तु व्याहृत्यन्तं तथा पृथक् ।
एवं सभ्ये पौण्डरीके महाशान्तिरथोच्यते ॥ १८६ ॥
सर्वदोषोपशमनी सर्वकर्मसमृद्धिदा ।
पौण्डरीके महाशान्तिः
दधि क्षीरञ्च लाजांश्च कापिलञ्च घृतं तथा ॥ १८७ ॥
समभागान् सुसङ्गृह्य हुनेत्पद्मानले गुरुः ।
वैष्णवं विष्णुसूक्तञ्च पौरुषं सूक्तमेव च ॥ १८८ ॥
अग्निहोत्रहवण्या तु जुहुयात्पुरुषं स्मरन् ।
सर्वान् कामानवाप्यैव सायुज्यं प्राप्नुयान्नरः ॥ १८९ ॥
[[२४७]]
इन्द्रादीशानपर्यन्तमालयं परितः स्थितान् ।
ध्यात्वा दिगीशान्मनसा तत्तन्मन्त्रैः पृथक् पृथक् ॥ १९० ॥
व्याहृत्यन्तन्तु जुहुयात्प्रत्येकं विंशतिं गुरुः ।
सभ्याध्वर्युस्तु तत्काले परिषिच्य च पावकम् ॥ १९१ ॥
पञ्च वारुणमन्त्रांश्च चित्तादींश्च यथाक्रमम् ।
अभ्यातानान् राष्ट्रभृतः यद्देवादीन् विशेषतः ॥ १९२ ॥
जुहुयाद्विधिवत्सर्वान् व्याहृत्यन्तं पृथक् पृथक् ।
सर्वदेवार्चनम्
पश्चात्समर्चयेद्देवान् स्वनामपदपूर्वकम् ॥ १९३ ॥
विष्णुं पूर्वं समभ्यर्च्य श्रीभूमिसहितं क्रमात् ।
दक्षिणे मार्कण्डेयञ्च वामे ख्यातीशमेव च ॥ १९४ ॥
दक्षिणे भित्तिमाश्रित्य स्थितं ब्रह्माणमर्चयेत् ।
उत्तरे भित्तिमूले च ईश्वरञ्च समर्चयेत् ॥ १९५ ॥
द्वारदेवाः
कवाटदेवान् धात्रादीनर्चयेत्क्रमतः पृथक् ।
धातारं दक्षिणे भागे विधातारञ्च वामतः ॥ १९६ ॥
(भृतिञ्च वामभागे तु पतङ्गं दक्षिणे तथा (?)) ।
ऊर्ध्वे पतङ्गमभ्यर्च्य भुवङ्गञ्चाधरेऽर्चयेत् ॥ १९७ ॥
पतिरं दक्षिणे स्तम्भे वरुणञ्चोत्तरेऽर्चयेत् ।
द्वारपालाः
द्वारे च प्रथमे पालं मणिकं मुनिमर्चयेत्॥ १९८ ॥
सप्तदशोऽध्यायः
[[२४८]]
द्वारवामेऽर्चयेत् देवीं मणिकस्य प्रभावतीम् ।
द्वितीयद्वारपालौ च तापसं दक्षिणेऽर्चयेत्॥ १९९ ॥
वामे सिद्धिदमभ्यर्चेत् किञ्चिद्द्वारसमीक्षकौ ।
अथवा शङ्खचक्रे च केषाञ्चित्पक्ष उच्यते॥ २०० ॥
यत्र यत्र तु यो द्वारः भविष्यति कवाटवान् ।
तत्र तत्र कवाटेशान् धात्रादीन् षट् समर्चयेत्॥ २०१ ॥
श्रीभूतादयः
सोपानमध्ये श्रीभूतं प्राङ्मुखं सम्यगर्चयेत् ।
इन्द्रं रुद्रं श्रियञ्चैव शैलूषञ्चाग्निमेव च॥ २०२ ॥
एतान् देवान् समभ्यर्चेत् पश्चिमाभिमुखान् क्रमात् ।
अङ्गारकं गुहञ्चैव दुर्गां वै यममेव च॥ २०३॥
शनैश्चरं रोहिणीश्च सप्तमातॄरपि क्रमात् ।
एतान् दक्षिणतः कुर्यादुत्तराभिमुखान् क्रमात्॥ २०४ ॥
र्नैॠते र्निॠतिञ्चैव बृहस्पतिमतः परम् ।
धात्रीं विष्णुञ्च वरुणं बुधं ज्येष्ठां तथैव च॥ २०५ ॥
पुष्परक्षकवायू वै पश्चिमे सम्यगर्चयेत् ।
एतानभ्यर्चयेद्यत्नात् प्राङ्मुखानेव सर्वथा॥ २०६ ॥
शुक्रं सप्त ॠषींश्चैव गङ्गाञ्चैव विशेषतः ।
पञ्च भूतांश्चार्चयेत्तु विष्वक्सेनं ततः परम्॥ २०७ ॥
एतानुत्तरपार्श्वे तु पूजयेद्दक्षिणामुखान् ।
ईशानञ्चैव दण्डञ्च सिद्धिञ्चैव तथाऽर्चयेत्॥ २०८ ॥
[[२४९]]
ऐन्द्रद्वारस्य वामे तु पश्चिमाभिमुखान् क्रमात् ।
ईशानं बलिरक्षञ्च तथा देवीं सरस्वीतम् ॥ २०९ ॥
ऐन्द्रद्वारस्य वामे तु अर्चयेत्पश्चिमामुखान् ।
न्यक्षादयः
प्राच्यां न्यक्षं समभ्यर्च्य विवस्वन्तञ्च दक्षिणे ॥ २१० ॥
मित्रं वै पश्चिमे भागे उत्तरे च महीधरम् ।
विमाने कल्पयेदेतान् तत्तदाशामुखान् क्रमात् ॥ २११ ॥
गोपुरागारयोर्मध्ये वाहनं (?) सम्यगर्चयेत् ।
वक्रतुण्डादयः
गोपुरस्य बहिः प्राच्यां वक्रतुण्डन्तु दक्षिणे ॥ २१२ ॥
वामेऽर्चयेन्नागराजमिति धर्मो व्यवस्थितः ।
गोपुरात्तु बहिः प्राच्यां चक्रञ्चैव समर्चयेत् ॥ २१३ ॥
ध्वजं पश्चात्समभ्यर्च्य शङ्खञ्चैव ततः परम् ।
यूथाधिपं समभ्यर्च्य तत्स्थाने च यथाक्रमम् ॥ २१४ ॥
भूतस्थाने द्वितीये तु विष्णुभूतं समर्चयेत् ।
मूलस्थानप्रतिष्ठा चेत् पारिषद्यसमन्वितम् ॥ २१५ ॥
अथवा पूजयेद्विद्वान् पारिषद्यान् पृथक् पृथक् ।
उत्तमं वस्त्रसंयुक्तं पूजनन्तु पृथक् पृथक् ॥ २१६ ॥
हविरन्तं तथा तेषां पूजनं मध्यमं भवेत् ।
अर्घ्यान्तमधमं प्रोक्तमिति वेदानुशासनम् ॥ २१७ ॥
सप्तदशोऽध्यायः
[[२५०]]
अथवा यागशालायाः परितः सम्प्रपूजयेत् ।
एवमेव प्रकुर्वीत पूर्वद्वारे विशेषतः ॥ २१८ ॥
सत्यादि दक्षिणे द्वारे
पश्चिमे त्वच्युतादिकम्
उत्तरे चानिरुद्धादि
योजयित्वा तु बुद्धिमान् ॥ २१९ ॥
एवं कृत्वा विधानेन प्रतिद्वारं विशेषतः ।
स्थानं प्रदक्षिणीकृत्य प्रयतेनान्तरात्मना ॥ २२० ॥
शयानं देवमासाद्य प्रणम्यैवानुमान्य च ।
‘सुवर्भुवर्भूस्थ’ इति मूर्धानं नाभिमेव च ॥ २२१ ॥
पादौ च देवदेवस्य संस्पृशेत्क्रमविद्बुधः ।
सहस्राहुतिहोमः
अध्वर्युरथ तत्काले सभ्याग्निं परिषिच्य च ॥ २२२ ॥
सहस्राहुतिमन्त्रैस्तु घृतेन जुहुयात्ततः ।
‘स्वस्ति चैवेति जुहुयात्प्रजापतय इत्यपि ॥ २२३ ॥
अग्निर्धीमतये चेति आदित्येभ्यश्च होमयेत् ।
विश्वेभ्यो देवेभ्य इति मरुद्गणेभ्य’ इत्यपि ॥ २२४ ॥
षड्भिरेतैर्होममन्त्रैर्महाव्याहृतिभिः सह ।
दशमन्त्रैस्समाहृत्य शतवारं हुतैर्भवेत् ॥ २२५ ॥
सहस्राहुतिसञ्ज्ञोऽयं होमस्सर्वार्थसाधकः ।
एवं ह्यसङ्कुलैर्मन्त्रैरावर्त्य शतशः क्रमात् ॥ २२६ ॥
व्याहृत्यन्तञ्च जुहुयात् देवेशं मनसा स्मरन् ।
[[२५१]]
पारमात्मिककल्पः
विष्णुमुद्दिश्य यत्नेन विष्णुसूक्तं हुनेत्तदा ॥ २२७ ॥
अतो देवादिभिर्हुत्वा जुहुयात्पारमात्मिकम् ।
एवं हुत्वा तु मन्त्रज्ञो ध्यायेद्वै विष्णुमव्ययम् ॥ २२८ ॥
‘शं सा नियच्छ’ त्विति च ‘भूयाम’ इति च क्रमात् ।
‘मेदिनी-देवी-समुद्र-श्रृङ्गे-वायुपरी-विष्णुपत्नी’मिति ॥ २२९ ॥
‘चिरायुषेति हुत्वा तु पुण्यौघ’ञ्च ततः परम् ।
‘पद्मापित्रेति हुत्वा तु भृगवे’ इति हूयताम् ॥ २३० ॥
‘ब्रह्म जज्ञान’ मिति च ‘हिरण्यगर्भस्समे’ ति च ।
‘रुद्रमन्यं-त्र्यम्बक’ मिति रुद्राय होमयेत् ॥ २३१ ॥
‘द्यावापृथिव्यो’ रिति च ‘यस्याः श्रिय’ इतीर्य च ।
‘तस्थुषो धृत्या’ इति च ‘य एष’ इति हूयताम् ॥ २३२ ॥
हुने ‘द्वितत्य विश्वञ्च-यो नो भी’ ति च हूयताम् ।
एते धात्रादिमन्त्रास्स्युः तैर्होमः परिकीर्तितः ॥ २३३ ॥
‘मुनीन्द्र ब्रह्मनित्या’ येति मणिकाय हुनेत्तथा ।
‘सन्ध्यायै मुनिपत्न्यै’ इति सन्ध्यामनुर्भवेत् ॥ २३४ ॥
‘तापसाय वैखानसाय’ इति मन्त्रौ तु तापसौ ।
‘किष्किन्धाय-तीर्था’ येति किष्किन्धाय हुनेत्ततः ॥ २३५ ॥
‘त्रातारमिन्द्र’ मिति च ‘महान्-महानिन्द्रो नृव’ दिति ।
‘भुवस्त्वमिन्द्र-इत्येन्द्रसानसिं-प्रससाहिषे ॥ २३६ ॥
अस्माकमिन्द्रोऽभूदिन्द्रो-द्यौर्व्योम भू’ रिति ।
‘इन्द्रं प्रणवन्त-मितीन्द्रो-वृत्रमिन्द्रो-बभूव’ च ॥ २३७ ॥
सप्तदशोऽध्यायः
[[२५२]]
‘इन्द्रोऽस्माक’ मितीन्द्राय हुनेन्मन्त्रान् त्रयोदश ।
‘अग्निर्मूर्धा दिव’ इति ‘अयमग्नि’श्च वह्नये ॥ २३८ ॥
‘यमो दाधार-नमस्ते’ द्वौ तु याम्यमनू स्मृतौ ।
‘वसवः प्रथमो देव’ इति ‘सहस्राक्षश्च’ र्नैॠतेः ॥ २३९ ॥
‘ये ते शतमुदुत्तम-मयाश्चाग्न इतीर्य च ।
आपस्सृज’ न्त्विति हुनेच्चत्वारो वारुणाः स्मृताः ॥ २४० ॥
‘मिश्रवासस-एता’ नित्येतौ वैश्रवणौ यजेत् ।
‘ईशान-ईशईशित्रे’ तीशानाय च हूयताम् ॥ २४१ ॥
(एवं हुत्वा विधानेन परिस्तीर्य च पावकम्) ।
‘उदुत्यं जातवेदसं-चित्रं देवे’ ति हूयताम् ॥ २४२ ॥
‘ममाग्न’ इ ‘त्यहमग्नेः-अग्न आयाहि’ भिः हुनेत् ।
शनैश्चराय जुहुया ‘त्प्रभुर्देवो-ग्रहाधिपः’ ॥ २४३ ॥
‘बृहस्पतिः’ हुनेदादौ द्वितीयञ्च ‘बृहस्पतिः ।
बृहस्पते अतिय’ दिति ‘उपयामे’ ति हूयताम् ॥ २४४ ॥
‘श्रविष्ठजो यस्तद्विष्णोः-तद्विप्रासे विपन्यवः ।
‘प्रजापते’ ति हुत्वा तु ‘सुभूस्स्वय’ मिति क्रमात् ॥ २४५ ॥
‘भूभामि’नीति हुत्वा तु ‘इष्टगामिनि’ मन्त्रकम् ।
‘सोम यास्ते-याते धामे’ ति सौम्यमन्त्रद्वयं हुनेत् ॥ २४६ ॥
‘रुद्रमन्यं-त्रियम्बकं’ रुद्राय ‘जगद्भुवमुदीर्य च’ ।
‘जगद्भुवश्च-सुब्रह्मण्यः-सुब्रह्मण्यो-जगद्भुवः’ ॥ २४७ ॥
‘जगद्भुवश्च-षण्मन्त्रान् स्कन्दाय च सुहूयताम् ।
‘अतो देवा-इदं विष्णु’ रिति मन्त्रौ तु वैष्णवम् ॥ २४८ ॥
[[२५३]]
‘या ब्रह्मचारिणी’ त्येव ‘सा चारुजन्मे’ ति च ।
‘काल्यै च जुहुयादेतौ द्वौ मन्त्रौ च ततः परम् ॥ २४९ ॥
‘यैषाऽमराणां गुरवे-याम्यानि’ द्वौ ततः परम् ।
‘जातवेदस’ इति तथा ‘सनः पर्षदती’ति च ॥ २५० ॥
‘तामग्निवर्णा’ ञ्च ततो ‘दुर्गां देव’ मिति क्रमात् ।
‘अग्नेत्वमि’ ति ‘पू’ श्चेति ‘विश्वा’ नीतिततः क्रमात् ॥ २५१ ॥
‘अग्ने अत्रिवन्मनसा - पृतनाजित’ मित्यपि ।
‘सनः पर्ष’ दिति दुर्गायै सूक्तं दौर्गं हुनेद्बुधः ॥ २५२ ॥
‘नन्दिन्याऽपोऽथ शाखा भू-देवीप्रवाहिणीति च ।
बिसिनीभूता-प्रविद्युता-गङ्गावाणी’ तथैव च ॥ २५३ ॥
‘विद्यां नो-माता ह्यमेया-आयामह’ मिति क्रमात् ।
‘यया सतः सत्य’ मिति ‘प्रसविण्यङ्ग’ इत्यपि ॥ २५४ ॥
‘याभ्यो हि तप्त’ मित्युक्त्वा ‘या मानसे’ ति वै क्रमात् ।
जुहुयाद्रोहिणीभ्यश्च मन्त्रानेतान् क्रमेण वै ॥ २५५ ॥
‘यतस्स्वमासी’ दिति च ‘अस्मा अस्मा’ दिति क्रमात् ।
भार्गवौ जुहुयादेतौ ततश्चाङ्गिरसौ यजेत् ॥ २५६ ॥
‘कस्याऽङ्गिराऽभू’ दिति च ‘विस्मापयति’ च क्रमात् ।
‘व्यावर्धते’ यः-सस्मार ‘इति तौ पुलहाय वै ॥ २५७ ॥
‘य एषोदान-आनन्दरो पौलस्त्यौ प्रकीर्तितौ ।
‘प्रप्रायशो-ये निःष्यन्ता’ क्रतोर्मन्त्रौ प्रकीर्तितौ ॥ २५८ ॥
‘यो नो वसिष्ठ-स्सप्ते’ ति वासिष्ठौ सम्प्रकीर्तितौ ।
‘य आनसूयेश’ इति ‘य एष’ इति चात्रये ॥ २५९ ॥
सप्तदशोऽध्यायः
[[२५४]]
‘स एकोऽभूद्दिवा निशं-यस्त्रैष्टुभ’ इति क्रमात् ।
‘प्रकाम्य-यो मातरिश्वा’ इति मन्त्रौ ततो हुनेत् ॥ २६० ॥
‘वृषाकपेरिह’ इति ‘ओजो’ भीति ततो मनू ।
‘आपो विश्व’ ञ्च ‘चातुर्य’ मिति मन्त्रौ ततः परम् ॥ २६१ ॥
‘तयाऽदित्या निर्विशन्ति-तत्त्रीण्येषे’ति च क्रमात् ।
खवाय्वग्न्यम्बुभूमीनां मन्त्रास्स्युः तान् क्रमाद्धुनेत् ॥ २६२ ॥
‘पावकानो-महो अर्णः’ धिषणायै मनू हुनेत् ।
‘शं सा नियच्छ’ त्विति च ‘भृयाम’ इति वै ततः ॥ २६३ ॥
‘य उत्तमोऽग्नेः पथा यं’ इति न्यक्षस्य कीर्तितौ ।
‘यमर्पयन्ति-यस्संहरे’ ति वैवस्वतौ स्मृतौ ॥ २६४ ॥
‘ॠचामधीशो-नीता’ मित्येतौ मैत्रौ प्रकीर्तितौ ।
‘येनैष्टे’ च ‘समू’ ह्येति क्षत्तुर्मन्त्रौ प्रकीर्तितौ ॥ २६५ ॥
‘चरुं पचेद्यः-छुल्ल्यां’ हि हविरक्षकदैवतौ ।
चामुण्डस्य तथा रौद्रौ जुहुयाद्विधिवत्ततः ॥ २६६ ॥
‘चतुर्मुखी’ ति हुत्वा तु ‘या लोके’ ति च हूयताम् ।
‘त्रिणेत्रधारी’ च तथा ‘चिह्नञ्चे’ ति च हूयताम् ॥ २६७ ॥
‘ज्वालामाला-बालान् हरी’ षाण्मुख्यौ परिकीर्तितौ ।
‘युगे युगे-सर्वं रमे’ति वैष्णव्यौ जुहुयाद्बुधः ॥ २६८ ॥
‘कल्पेष्वन्तेष्विति’ तथा वाराह्यै जुहुयात्ततः ।
‘सा स’ र्वेति च ‘माले’ ति तथैन्द्राण्यौ प्रकीर्तितौ ॥ २६९ ॥
‘चण्डी हरी’ ति ‘मोही’ ति काल्यै च जुहुयाद्बुधः ।
मातॄणामथ हुत्वा तु वैघ्नञ्चैव यजेत्क्रमात् ॥ २७० ॥
[[२५५]]
पुष्परक्षकमुद्दिश्य ‘धाता-फुल्ले’ त्यतः परम् ।
फुल्लाय च ततो हुत्वा बलिरक्षकाय च हूयताम् ॥ २७१ ॥
‘विश्वान् बलिं’ ‘सौर्यहित’ इत्युक्त्वा च सुहूयताम् ।
‘आग्नेयः-प्रेक्ष्याम’ इति वैष्वक्सेनौ प्रकीर्तितौ ॥ २७२ ॥
‘शतधारं-कदापिसृजत’ इत्येतौ गारुडौ स्मृतौ ।
‘धर्मौघमादौ-योगन्धर’ न्निति इभास्यस्यमनू स्मृतौ ॥ २७३ ॥
‘यमर्पयन्ति-शन्नो निधत्तां’ इति शेषमनू स्मृतौ ।
‘भूमाननोऽग्नो-वन्द्यो न’ इति सौदर्शनौ स्मृतौ ॥ २७४ ॥
‘आसाग्र-ओजो बलाय’ द्वौ ध्वाजौ परिकीर्तितौ ।
‘तन्मा यशोऽग्र’ इति च ‘अस्मादित्यम्बुजाय वै ॥ २७५ ॥
‘भूतानां-भूतो भूतेषु-अक्षहन्त’ इति त्रयः ।
‘ये भूताश्च’ चतुर्थस्स्युः भूतमन्त्रान् क्रमात् हुनेत् ॥ २७६ ॥
जुहुयाद्व्याहृतिञ्चान्ते तं तं देवमनुस्मरन् ।
पुरुषसूक्तञ्च हुत्वा तु विष्णुसूक्तं ततः परम् ॥ २७७ ॥
यद्देवादींश्च जुहुयाद्विष्णुसूक्तं तथाऽन्ततः ।
प्रधानेतराग्निषु होमः
आहवनीये तु तत्काले पुरुषसूक्तं सुहूयताम् ॥ २७८ ॥
अन्वाहार्ये च होतव्यं विष्णुसूक्तं विशेषतः ।
गार्हपत्ये विधानेन ब्राह्मञ्चैकाक्षरादि च ॥ २७९ ॥
आवसत्थ्ये च होतव्यं रुद्रसूक्तं ततः परम् ।
पौण्डरीके च जुहुयात्पारमात्मिकमेव च ॥ २८० ॥
सप्तदशोऽध्यायः
[[२५६]]
सभ्यञ्च पौण्डरीकञ्च विनाऽन्याग्नीन् विसर्जयेत्।
नृत्यैर्गीतैश्च वाद्यैश्च रात्रिशेषं नयेत्क्रमात् ॥ २८१ ॥
स्थापनदिनारम्भकृत्यम्
पुनः प्रभाते धर्मात्मा यजमानयुतो गुरुः ।
स्नात्वा स्नानविधानेन सूक्तानि च जपेत् क्रमात् ॥ २८२ ॥
ततः प्रविश्याग्न्यगारं कुशाक्षतसमायुतः ।
पुष्पैर्गन्धैस्तथा धूपैः दीपैरपि विशेषतः ॥ २८३ ॥
स्थापनार्थं कृतं पीठं गोमयेनोपलिप्य च ।
पञ्चगव्यैस्समभ्युक्ष्य रत्नादीनि समाहरेत् ॥ २८४ ॥
ब्रह्मस्थानं समासाद्य श्वभ्रं कुर्याच्च यत्नतः ।
द्वादशाङ्गुलमायामं चतुरश्रं विक्षचणः ॥ २८५ ॥
मध्ये निम्ने तु तस्यैव उक्तमानं सुबुद्धिमान् ।
पूर्वोक्तेनैव मार्गेण रत्नन्यासं समाचरेत् ॥ २८६ ॥
क्षौमेनाच्छाद्य रत्नानि सुधया परिपूरयेत् ।
महाशान्तिहोमः
यज्ञशालां ततो गत्वा देवेशं सम्प्रणम्य च ॥ २८७ ॥
पश्चादब्जाग्निमासाद्य परिषिच्य च पावकम् ।
श्वेताब्जानां शतं गृह्य कापिलेन घृतेन वै ॥ २८८ ॥
आप्लुत्य विष्णुगायत्र्या जुहुयात् भक्तिसंयुतः ।
रक्ताब्जं बिल्वपत्रञ्च पूर्ववज्जुहुयाद् बुधः ॥ २८९ ॥
[[२५७]]
हुत्वा पुरुषसूक्तेन वैष्णवं जुहयात्ततः ।
यद्देवादींस्ततो हुत्वा ब्राह्ममैन्द्रञ्च वारुणम् ॥ २९० ॥
रात्रिसूक्तं ततो हुत्वा विश्वजित्सूक्तमेव च ।
सारस्वतञ्च जुहुयान्महाशान्तिरियं भवेत् ॥ २९१ ॥
एवं हुनेत् महाशान्तिं समस्तदुरितापहम् ।
सर्वदोषोपशमनं सर्वकामसमृद्धिदम् ॥ २९२ ॥
सर्वद्रव्यैश्च सम्पूर्णा सा क्रिया सुक्रिया भवेत् ।
अध्वर्युश्चैव तत्काले अग्निमानम्य चादरात् ॥ २९३ ॥
सभ्येऽग्नौ वैष्णवं हुत्वा पञ्चविंशतिवारकम् ।
समिद्घृताभ्यां चरुणा व्याहृत्यन्तं हुनेत् पृथक् ॥ २९४ ॥
इन्धनानि च निक्षिप्य अग्निञ्च परिरक्षयेत् ।
देवोद्धरणम् - अलङ्करणञ्च
शय्यास्थं देवमासाद्य प्रणम्यैवानुमान्य च ॥ २९५ ॥
सुप्तं हरिं भक्तियुतः प्रणवेन प्रबोधयेत् ।
‘उत्तिष्ठ सुमहाबहो ब्रह्माद्यैरभिवन्दित! ॥ २९६ ॥
प्रजानां रक्षणार्थं त्वं भवस्वेह जनार्दन!’ ।
इत्येवमुक्त्वाऽऽचार्यो वै देवमुद्धृत्य वै तथा ॥ २९७ ॥
विमोच्य वस्त्राभरणजातान्यन्यानि योजयेत् ।
भूषणान्यर्पये ‘द्भूतो भूतेष्वि’ ति समुच्चरन् ॥ २९८ ॥
तत्तत्स्थानेष्वलङ्कृत्य देवमानम्य चादरात् ।
पुष्पाद्यैरप्यलङ्कृत्य नानावर्णैः विशेषतः ॥ २९९ ॥
सप्तदशोऽध्यायः
[[२५८]]
दिव्यगन्धैरलङ्कृत्य नाभेरूर्ध्वञ्च सर्वशः ।
चित्रकक्ष्यासमायुक्तवस्त्रैः कुर्यादलङ्क्रियाम् ॥ ३०० ॥
पश्चाद्देवं प्रणम्यैव पाद्याद्यर्घ्यान्तमर्चयेत् ।
गुरुं सम्पूज्य तत्काले यजमानो मुदान्वितः ॥ ३०१ ॥
तथा पदार्थिनस्सर्वान् नमस्कुर्यात्स्वदैववत् ।
देवमानम्य च ब्रूयादिमं मन्त्रं स्मरन् हरिम् ॥ ३०२ ॥
‘क्षमस्व पुण्डरीकाक्ष भक्तस्य मम शक्तितः ।
यद्यदिष्टमनिष्टं वा भगवंश्चरितं मया’ ॥ ३०३ ॥
इत्युक्त्वा देवदेवेशं प्रणमेच्च पुनः पुनः ।
यागशालायाः प्रस्थानम्
मुहूर्ते समनुप्राप्ते दैवज्ञं पूजयेत्ततः ॥ ३०४ ॥
सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतम् ।
बार्हिणच्छत्रसंयुक्तमङ्कुरैश्च समन्वितम् ॥ ३०५ ॥
पताकाध्वजसंयुक्तमष्टमङ्गलसंयुतम् ।
ब्रह्मघोषसमायुक्तं शकुनसूक्तसमन्वितम् ॥ ३०६ ॥
आक्ष्वेलितास्फोटिताद्यैर्जयशब्दैश्च संयुतम् ।
तोयधारासमायुक्तं पुष्पवृष्टिसमन्वितम् ॥ ३०७ ॥
कुम्भं सङ्गृह्य शिरसा आचार्यः पुरतो व्रजेत् ।
देवं सङ्गृह्य पश्चाद्वै व्रजेयुर्मूर्तिधारकाः ॥ ३०८ ॥
देवीभ्याञ्चैव सह चेत् ते नयेद्दक्षवामयोः ।
बहुभूमिप्रतिष्ठा चेत्तत्तद्बुद्ध्वाऽथ बुद्धिमान् ॥ ३०९ ॥
[[२५९]]
तत्तत्काले प्रकुर्वीत एवमेव विधानतः ।
प्रदक्षिणं ततः कृत्वा देवालयमुपाव्रजेत् ॥ ३१० ॥
विष्णुसूक्तं समुच्चार्य स्थापयित्वा ततः परम् ।
ध्रुवसूक्तं ततो जप्त्वा पुंसूक्तेन समन्वितम् ॥ ३११ ॥
एकाक्षरादिकं जप्त्वा स्थापयेयुर्विचक्षणाः ।
बिम्बावाहनम्
आचार्यः पुरतः कुम्भं धान्यपीठे सुसन्न्यसेत् ॥ ३१२ ॥
‘सुवर्भुवर्भूस्स्थ’ इति मूर्धानं नाभिमेव च ।
पादौ च संस्पृशेत्तद्वद्देवेशस्य समाहितः ॥ ३१३ ॥
यकारं पादयोर्न्यस्य अकारं हृदये न्यसेत् ।
प्रणवेनैव संवेष्ट्य ओङ्कारं मूर्ध्नि विन्यसेत् ॥ ३१४ ॥
तत्तु ब्रह्ममयं ध्यात्वा प्रणवेनैव वेष्टयेत् ।
पश्चात्कूर्चं समादाय पूर्वोक्तध्यानमास्थितः ॥ ३१५ ॥
आत्मसूक्तं ततो जप्त्वा सकलीकरणं चरेत् ।
कुम्भस्थां शक्तिमादाय ‘आयातु भगवा’निति ॥ ३१६ ॥
कूर्चेन पश्चात् तत्तोयं दृढचित्तः समाहितः ।
बिम्बस्य मूर्ध्नि विधिना स्रावयेत्प्राणकल्पनम् ॥ ३१७ ॥
‘विष्णुञ्च पुरुषं सत्यमच्युतञ्चानिरुद्धकम्’ ।
पञ्चमूर्तीः समुच्चार्य आवाहनमथाऽऽचरेत् ॥ ३१८ ॥
दक्षिणे वै श्रियं देवीं महीं वामे तथाऽऽह्वयेत् ।
तत्तन्मन्त्रं समुच्चार्य अन्यानावाहयेत्तथा ॥ ३१९ ॥
सप्तदशोऽध्यायः
[[२६०]]
कौतुकाद्यावाहनम्
‘संयुक्तमेत’ दित्युक्त्वा न्यसेत्सम्बन्धकूर्चकम् ।
ध्रुवस्य पुरतः पीठे पुष्पन्यासं समाचरेत् ॥ ३२० ॥
ध्रुवस्य शक्तिं तत्काले समावाह्य च कौतुके ।
अर्चायामौत्सवे चैव तथैवाऽऽवाहनं चरेत् ॥ ३२१ ॥
श्रीभूम्योश्च तथाऽऽवाह्य
ततः कौतुकपार्श्वयोः ।
पीठदेवान् समावाह्य
मुनी चावाहयेत्क्रमात् ॥ ३२२ ॥
ब्रह्मेशौ स्थापितौ यत्र तौ तत्राऽऽवाहयेत्क्रमात् ।
धात्रादिद्वारदेवांश्च द्वारे द्वारे समाह्वयेत् ॥ ३२३ ॥
तथैव द्वारपालादीनिन्द्रादींश्च यथाक्रमम् ।
विष्णुभूतान्तमावाह्य यागशालां समाविशेत् ॥ ३२४ ॥
अब्जाग्निं तु विसृज्यैव आदित्यं प्रणमेत्ततः ।
पुण्याहं वाचयेत्पश्चात्कृतं पूर्णं भवेत्ततः ॥ ३२५ ॥
अर्चनं
सप्तविंशतिभेदेन देवदेवं ततोऽर्चयेत् ।
देव्यौ चैव समभ्यर्च्य परिवारांस्तथाऽर्चयेत् ॥ ३२६ ॥
पायसादि निवेद्यैव प्रभूतं हविरर्पयेत् ।
बलिं पश्चात् क्षिपेत्तासु तासु दिक्षु यथाक्रमम् ॥ ३२७ ॥
बलिमुत्थाप्य काले वै सर्वशान्तिक्रमेण वै ।
………………………………………. ॥ ३२८ ॥
[[२६१]]
बहुबेरप्रतिष्ठा चेदेवमेव विधानतः ।
तले तले प्रकुर्वीत एवमेव विधिः स्मृतः॥ ३२९ ॥
प्रतिष्ठान्तोत्सवः
तद्दिने चापराह्णे तु घोषणादिर्विधीयते ।
नवाहं वाऽथ सप्ताहं पञ्चाहं त्रियहन्तु वा॥ ३३० ॥
उत्सवोक्तविधानेन चोत्सवं सम्यगाचरेत् ।
एकाहिकन्तु कुर्याच्चेन्न ध्वजारोहणं चरेत्॥ ३३१ ॥
स्नपनं वा प्रकुर्वीत तद्रात्रौ तु विचक्षणः ।
उत्सवान्तदिने रात्रौ स्नपनं सम्यगाचरेत्॥ ३३२ ॥
यथोक्तमकरणे दोषः
अत्रोक्तं यत्तु तत्सर्वं विधिनैवं समाचरेत् ।
द्रव्यहीने द्रव्यहानिः क्रियाहीने च कर्मणः॥ ३३३ ॥
मन्त्रहीने च सर्वार्थान् नाशयेच्च फलं क्रतोः ।
तस्माच्छास्त्रोक्तमार्गेण यजमानस्समाहितः॥ ३३४ ॥
सर्वं समाचरेद्भक्त्या न भूयान्नास्तिकः क्वचित् ।
दक्षिणादानं
सम्प्राप्ते दक्षिणाकाले दद्याच्छ्रद्धासमन्वितः॥ ३३५ ॥
‘यज्ञस्य दक्षिणा जीव’ इति हि श्रूयते श्रुतिः ।
तस्मादवश्यं देया हि दक्षिणा फलकाङ्क्षिभिः॥ ३३६ ॥
अज्ञानादर्थलोभाद्वा यदि दद्यान्न दक्षिणाम् ।
पदार्थिनां भवेत्तत्र तत्क्रियाजनितं फलम्॥ ३३७ ॥
गुरोश्च स्थापकादीनां यजमानो न चाप्नुयात् ।
सप्तदशोऽध्यायः
[[२६२]]
विनियुक्तद्रव्योपयोगः
प्रतिष्ठायामुत्सवेषु स्नपनादौ च वस्तु यत् ॥ ३३८ ॥
उपयुक्तं तत् क्रियासु पूजनार्थाहृतञ्च यत् ।
वस्त्रधान्यादिकं सर्वं पात्राणि विविधानि च ॥ ३३९ ॥
आचार्यायैव सन्दद्यात् न कुर्यात् अन्यथा क्वचित् ।
अनर्हमुपयोगाय द्रव्यं दर्भादिकं तथा ॥ ३४० ॥
काष्ठादिकन्तु यच्छिष्टं दाहयेदप्सु वा क्षिपेत् ।
स्रुवं जुहूञ्च दर्वीञ्च दर्भमालादिकं तथा ॥ ३४१ ॥
एवमादीनि देवार्थं तत्रैव परिरक्षयेत् ।
प्रतिष्ठाफलश्रुतिः
एवं यः कुरुते भक्त्या विष्णोः स्थापनमुत्तमम् ॥ ३४२ ॥
ब्राह्मणः श्रद्दधानस्तु यतवाक्कायमानसः ।
तस्य कायकृतं पापं तत्क्षणादेव नश्यति ॥ ३४३ ॥
सर्वयज्ञफलं लब्ध्वा सर्वान् कामानवाप्य च ।
एकविंशतिपूर्वांश्च परानप्येकविंशतिम् ॥ ३४४ ॥
प्रापयित्वाऽऽत्मनाऽन्ते तु विष्णुलोकं स गच्छति ।
विष्णुलोकं समासाद्य तद्विष्णोः परमं पदम् ॥ ३४५ ॥
प्राप्नोति तत्रोक्तफलमिति पूर्वजशासनम् ।
क्षत्रियो विजयं कीर्तिं लब्ध्वाऽन्यूनपरिग्रहः ॥ ३४६ ॥
सर्वक्षत्राभिवन्द्यश्च सागरान्तां लभेत गाम् ।
सभुक्त्वा चैहिकान् भोगान् विष्णोस्सारूप्यमाप्नुयात् ॥ ३४७ ॥
[[२६३]]
वैश्योऽतिधनसम्पन्नस्तेजस्वी पुत्रपौत्रवान् ।
सर्वान् मनोरथान् भुक्त्वा विष्णोस्सामीप्यमाप्नुयात् ॥ ३४८ ॥
शूद्रस्तु धनसम्पन्नस्तेजस्वी कुलवर्धनः ।
कामं भुक्त्वैहिकान् भोगान् विष्णुसालोक्यमृच्छति ॥ ३४९ ॥
अनुमन्ता च यस्तत्र तस्य पापं प्रणश्यति ।
पूर्वजन्मकृतं पापमिह जन्मनि वा कृतम् ॥ ३५० ॥
पूर्वं गता ये पितरः पितामहप्रपितामहाः ।
मातृवंशे च ये पूर्वं गता मातामहादयः ॥ ३५१ ॥
पत्नीवंशप्रजाताश्च मित्राणाञ्चैव वंशजाः ।
भृत्यवर्गाश्च सम्बन्धिजातास्सर्वविधाः स्थिताः ॥ ३५२ ॥
पूर्वे परे चैकविंशाः यजमानेन संयुताः ।
इह लोके सुखं भुक्त्वा स्वर्गे लोके च वै चिरम् ॥ ३५३ ॥
विष्णुलोके वसेयुश्च पुनरावृत्तिवर्जिताः ।
जीर्णोद्धारणफलं
जीर्णोद्धारक्रियाकर्तुः फलं स्याद्द्विगुणं पुनः ॥ ३५४ ॥
लोकशान्तिर्भवेच्चैव राजराष्ट्रविवर्धनम्।
आरोग्यदं प्रजानाञ्च सर्वसम्पत्करं भवेत् ॥ ३५५ ॥
वर्षदन्तु यथाकालं तस्माद्यष्टव्यमेव हि ।
इत्येवं भगवान् प्राह ब्रह्मा लोकपितामहः ॥ ३५६ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे प्रतिष्ठाविधिर्नाम सप्तदशोऽध्यायः ॥
सप्तदशोऽध्यायः
[[२६४]]