१६ प्रतिष्ठाविधिः - आचार्यलक्षणम्

अथ षोडशोऽध्यायः

प्रतिष्ठाविधिः-आचार्यलक्षणम्

अथ परं प्रवक्ष्यामि स्थापनक्रममुत्तमम् ।
स्थापनारम्भकाले तु यजमानोऽथ भक्तिमान् ॥ १ ॥
वैखानसविदो विप्रान् नमस्कृत्य स्वदैववत् ।
तेषु ज्ञानोत्कटं ज्ञात्वा नमस्कृत्य स्वदैववत् ॥ २ ॥
वैखानसेन सूत्रेण निषेकादिक्रियान्वितम् ।
विप्रं स्वाध्यायसंयुक्तं गृहस्थं लक्षणान्वितम् ॥ ३ ॥
शौचाचारविधिं तद्वत्सन्ध्यौपासनमेव च ।
औपासनं वैश्वदेवं जपहोमव्रतानि च ॥ ४ ॥
वैखानसेन विधिना कुर्वाणं शान्तमानसम् ।
श्रद्धाभक्तिसमायुक्तं सर्वकर्मसु निश्चलम् ॥ ५ ॥
षोडशोऽध्यायः

[[२००]]

आहुतीनां पदार्थज्ञमग्निकार्यपरायणम् ।
भूम्याद्येकादशविधिक्रमज्ञं भगवत्परम् ॥ ६ ॥
पुष्टगात्रं सुसम्पन्नं जितेन्द्रियमकल्मषम् ।
युवानं स्थविरं वाऽथ ज्ञानिनं कर्मकारिणम् ॥ ७ ॥
सर्वलक्षणसम्पन्नं वृणुयात्कारको गुरुम् ।
यजमानो गुरुश्चैव देवदेवं प्रणम्य च ॥ ८ ॥
यजमानस्तूक्तकाले गुरवे दक्षिणां ददेत् ।
स्वदेववन्नमस्कृत्य कार्यारम्भमुपक्रमेत् ॥ ९ ॥
उक्तलक्षणसम्पन्नानृत्विजो वृणुयात्सतः ।
मुहूर्तकालः

अयने चोत्तरे कुर्यात्कार्यारम्भं हरेः क्रतोः ॥ १० ॥
मासानां फाल्गुनः श्रेष्ठश्चैत्रो वैशाख एव वा ।
तौ मार्गशीर्षमाघौ द्वौ निन्दितौ ब्रह्मणा पुरा ॥ ११ ॥
शेषेष्वपि च कर्तव्यं त्वरितेनेति मे मतिः ।
पूर्वपक्षे प्रकुर्वीत कृष्णपक्षे त्रिथाऽद्यके ॥ १२ ॥
त्रिषूत्तरेषु रोहिण्यां हस्ते स्वात्यां पुनर्वसौ ।
श्रवणे वारुणे चैव मैत्रे वा वसुदैवते ॥ १३ ॥
अन्यस्मिन् पुण्यनक्षत्रे प्रशस्ते श्रुतिचोदिते । ।
युग्माश्च तिथयस्सर्वाः प्रशस्ता विष्टिवर्जिताः॥ १४ ॥
गुरुभार्गवसौम्यानां वारा ग्राह्याः शुभाश्च ते ।
चरराशिं विवर्ज्यैव स्थिरराशिं प्रगृह्य च ।
ग्रामस्य यजमानस्य चानुकूले दिने चरेत् ॥ १५ ॥

[[२०१]]

अङ्कुरार्पणम्

अतः परं प्रवक्ष्यामि विधिना चाङ्कुरार्पणम् ।
भूपरीक्षादिकं कर्म यस्मिन्नहनि कारयेत् ॥ १६ ॥
तस्मात्तु दिवसात्पूर्वं नवमे वाऽथ सप्तमे ।
पञ्चमेऽहनि वा कुर्याद्विधिना चाङ्कुरार्पणम् ॥ १७ ॥
अङ्कुरार्पणकार्यार्थं पालिकादीन् समाहरेत् ।
पालिकाः कुम्भकांश्चापि शरावानपि सङ्ग्रहेत् ॥ १८ ॥
पालिकादीनां लक्षणम्

बिम्बेन कौतुकेनैव समोच्चः पालिका मताः ।
तदर्धमाना वा कुर्यात्तालमात्रमिताश्च वा ॥ १९ ॥
ध्रुवबेरमुखायामं पालिकायामविस्तरम् ।
तदर्धं मूलविस्तारं क्रमशो ह्रासयेद्बुधः ॥ २० ॥
तच्चतुर्थैकहीनस्तु छिद्रकुम्भः प्रमाणतः ।
त्रिभागादेकभागस्तु कुम्भद्वारस्य चोच्छयः ॥ २१ ॥
आयामात्त्रिगुणो नाहः द्वारो भाग उदाहृतः ।
पञ्चद्वारसमायुक्तान् छिद्रकुम्भान्विशेषतः ॥ २२ ॥
षडङ्गुलसमुत्सेधान् शरावानपि सम्भरेत् ।
विस्तारादि शरावाणां पालिकासममुच्यते ॥ २३ ॥
एवमाहृत्य यत्नेन सम्यग्दग्धं मनोहरम् ।
ब्राह्मणो यजमानश्चेत् गृह्णीयात्तानि षोडश ॥ २४ ॥
क्षत्रियो द्वादशाष्टौ तु वैश्यस्तानि सुसम्भरेत् ।
चत्वारि शूद्रो गृह्णीयात्पालिकादीनि वै पृथक् ॥ २५ ॥
षोडशोऽध्यायः

[[२०२]]

एवमाहृत्य यत्नेन पश्चाद्बीजानि चाहरेत् ।
कङ्कुमुद्गयवांश्चैव निष्पावान् सर्षपानपि ॥ २६ ॥
आतपेनाथ संशोष्य सारभूतानि सम्भरेत् ।
जले तु निक्षिपेत्तानि यावदङ्कुरदर्शनम् ॥ २७ ॥
रात्रावङ्कुरार्पणं

न प्रीतये भगवते कृतमह्न्यङ्कुरार्पणम् ।
तस्मात्सर्वप्रयत्नेन कुर्यान्निश्यङ्कुरार्पणम् ॥ २८ ॥
प्रदोषे वाऽर्पणं कुर्यादङ्कुराणां विशेषतः ।
अङ्कुरवेदिः

आलयात्पुरतो वाऽपि उत्तरे वा मनोरमे ॥ २९ ॥
मण्डपेऽष्टस्तम्भयुते चतुरश्रे सुविस्तृते ।
ऊर्ध्वेऽलङ्कारसहितवितानेन स्वलङ्कृतम् ॥ ३० ॥
मण्डलान्युपलिप्याऽलङ्कुर्याद्वर्णैस्तु पञ्चभिः ।
व्रीहिभिस्तण्डुलैर्वाऽत्र पीठं सम्यक्प्रकल्पयेत् ॥ ३१ ॥
मध्ये ब्रह्माणमुद्दिश्य षोडशाङ्गुलमायतम् ।
त्रिवेदिसहितं पीठं कुर्यात्कर्माङ्गुलोच्छयम् ॥ ३२ ॥
प्राच्यां शेषं समभ्यर्च्य वक्रतुण्डञ्च दक्षिणे ।
पङ्क्तीशं पश्चिमेऽभ्यर्च्य सोमञ्चैव तथोत्तरे ॥ ३३ ॥
विष्वक्सेनञ्च तत्रैव पूजयेच्च यथाविधि ।
इन्द्रादीशानपर्यन्तं जयादीरपि चार्चयेत् ॥ ३४ ॥
भागोन्नतं द्वादशाङ्गुलायतं तिसृभिस्तथा ।
वेदिभिस्सहितं कुर्यात्पीठान्येषां पृथक् पृथक् ॥ ३५ ॥

[[२०३]]

देवतापदानि

मध्ये ब्रह्माणमावाह्य ब्रह्माणञ्च समर्चयेत् ।
देवानन्यांश्चार्चयेत्तु तत्तत्पूजाक्रमेण ह ॥ ३६ ॥
उत्तमाधमविवेकः

निवेदनसमायुक्तं सर्वेषामुत्तमं भवेत् ।
षण्णां ब्रह्मादिदेवानामर्चनं मध्यमं भवेत् ॥ ३७ ॥
ब्रह्मणे विनिवेद्यान्यदेवानां बलिदापनम् ।
अधमो मार्ग उद्दिष्ट इति प्रोवाच पूर्वजः ॥ ३८ ॥
पालिकादिस्थापनम्

एवं कृत्वा तु यत्नेन पालिकादीन् प्रगृह्य च ।
मृद्भिर्वा सिकताभिर्वा पालिकादीन् प्रपूरयेत् ॥ ३९ ॥
करीषैर्वा पूरयित्वा बीजान्याहृत्य वै ततः ।
पङ्क्तेरुत्तरतः स्थाप्य पालिकादींश्च पूजयेत् ॥ ४० ॥
ब्रह्मणः परितः स्थाप्य पालिकादीन् विचक्षणः ।
पालिकासु च सर्वासु मेदिनीमर्चयेत्क्रमात् ॥ ४१ ॥
छिद्रकुम्भेषु राकाञ्च शरावेषु पृथुष्टुकाम् ।
आवाह्याभ्यर्च्य चार्घ्यन्तं बीजानि च समर्पयेत् ॥ ४२ ॥
बीजावापनं

नववस्त्रपरीधानस्सोत्तरीयाङ्गुलीयकः ।
गुरुर्वा गरुपत्नी वा यजमानोऽथवा पुनः ॥ ४३ ॥
यजमानस्य पत्नी वा वापयेदङ्कुरान् पृथक् ।
शूद्रश्चेद्यजमानस्तु गुरुरेव समर्पयेत् ॥ ४४ ॥
षोडशोऽध्यायः

[[२०४]]

‘सोमं राजान’ मित्युक्त्वा वापनं समुदाहृतम् ।
तत्काले तूर्यघोषैश्च जयशब्दैस्समन्वितम् ॥ ४५ ॥
‘वारीश्चतस्त्र’ इत्युक्त्वा

तोयं तत्र समर्पयेत् ।
ततो वस्त्रैस्समाच्छाद्य

तानि गुप्ते विनिक्षिपेत् ॥ ४६ ॥
पुण्याहं वाचयेत्तत्र विधिनैव यथाक्रमम् ।
यजमानो मुदा युक्तो गुरवे दक्षिणां ददेत् ॥ ४७ ॥
सम्भाराहरणम् - यज्ञपात्राणि ।
अत ऊर्ध्वं प्रवक्ष्यामि द्रव्याणामत्र सङ्ग्रहम् ।
अश्वत्थञ्च शमीजातं सर्वयत्नेन सम्भरेत् ॥ ४८ ॥
त्वगादीन्त्संव्यपोह्यैव काष्ठं सम्यक् प्रगृह्य च ।
अग्निमन्थनसाधनानि

पट्टिकामधरां कुर्याच्चतुर्विंशद्भिरङ्गुलैः ॥ ४९ ॥
उत्सेधो भाग उद्दिष्टः विस्तारस्तु षडङ्गुलः ।
ऊर्ध्वपट्टीञ्च तन्मानामवक्रां सम्प्रगृह्य च ॥ ५० ॥
दण्डं चतुर्विंशायामं द्वादशाङ्गुलनाहकम् ।
अधरारणिं तु हरिणीमूर्ध्वाञ्चैव हुताशनम् ॥ ५१ ॥
दण्डञ्च विष्णुरूपञ्च कल्पयित्वा विचक्षणः ।
एवं संसाध्य यत्नेन गुप्ते तानि विनिक्षिपेत् ॥ ५२ ॥

[[२०५]]

यज्ञपात्रदारूणि

पलाशबिल्वखदिरद्रुमैः पात्रान्तराणि च ।
कल्पयेच्च स्रुवादीनि यज्ञोपकरणानि वै ॥ ५३ ॥
स्रुवः

द्विप्रादेशं स्रुवं कुर्यात्प्रादेशपरिमण्डलम् ।
प्रादेशपरिणाहन्तु स्रुवमूलतले विदुः ॥ ५४ ॥
आनुपूर्व्येण सङ्क्षिप्तं मूलाद्ग्रीवान्तमाचरेत् ।
तदर्धाग्रपरीणाहः बिलादर्वाग्विधीयते ॥ ५५ ॥
गोलकं बिलविस्तारः माषाच्छादनगर्तकः ।
एवं स्रुवं प्रकुर्वीत त्रिभागं परिकल्प्य च ॥ ५६ ॥
जुहूः

द्वितालमात्रमायामः तदर्धं नाह उच्यते ।
एवं मूलं प्रकुर्वीत पद्मस्य मुकुलोपमम् ॥ ५७ ॥
भागं पद्मं समुद्दिष्टं मूले चाग्रमुदाहृतम् ।
मूलादर्धपरीणाहं दण्डाग्रे तु विचक्षणः ॥ ५८ ॥
अग्रे चाष्टाङ्गुलायामं तलं सम्यक्समाचरेत् ।
उभौ पार्श्वे च तन्मानं त्रिकोणञ्चाग्रसंयुतम् ॥ ५९ ॥
भित्तिपार्श्वं प्रकुर्वीत एकाङ्गुलमुदाहृतम् ।
निम्नं विस्तारमुद्दिष्टं क्रमेणाग्रं क्षयं चरेत् ॥ ६० ॥
शेषं तलं प्रकुर्वीत सर्वं युक्त्या समाचरेत् ।
एवं जुहूं प्रकुर्वीत दर्वीं पश्चात्समाचरेत् ॥ ६१ ॥
षोडशोऽध्यायः

[[२०६]]

दर्वी

द्वितालमात्रमायामं घनमेकाङ्गुलं भवेत् ।
अग्रे षडङ्गुलायामं विस्तारं भाग उच्यते ॥ ६२ ॥
मूलं पञ्चाङ्गुलायामं तदर्धं विस्तृतं भवेत् ।
अग्रान्मूलान्तरञ्चैव मध्ये गोलकमुच्यते ॥ ६३ ॥
अग्रान्मध्यात् क्षयं कुर्यान्मूलान्मध्यात् क्षयञ्चरेत् ।
शेषं युक्त्या प्रकुर्वीत दर्वीञ्चैव विचक्षणः ॥ ६४ ॥
उपजुहूः

द्वितालमात्रमायामं तदर्धं नाह उच्यते ।
एवं मूले प्रकुर्वीत अग्रञ्चैव तदर्धकम् ॥ ६५ ॥
ऊर्ध्वं प्रादेशमात्रन्तु चतुरश्रं समन्ततः ।
भित्तिरेकाङ्गुलं प्रोक्तमुन्नतं तु तदर्धकम् ॥ ६६ ॥
मध्ये प्रादेशमात्रन्तु नाहं वै वर्तुलाकृतिम् ।
निम्नं चतुर्यवं प्रोक्तं क्रमान्निम्नं विचक्षणः ॥ ६७ ॥
ऊर्ध्वं षडङ्गुलायामं त्रियश्रं मुकुलोपमम् ।
घृतधारां प्रकुर्वीत वर्तुलां मुकुलाकृतिम् ॥ ६८ ॥
यवद्वयसुविस्तारं तदर्धं निम्नमुच्यते ।
उपजुह्वास्समुद्दिष्टमिति प्रोवाच पूर्वजः ॥ ६९ ॥
समिधः - आज्यं

वटबिल्वपलाशानां न्यग्रोधाश्वत्थयोरपि ।
अपामार्गौदुम्बरयोः शम्याश्च समिधः पृथक् ॥ ७० ॥

[[२०७]]

अष्टाधिकशतं कुर्यात्प्रतिहोममयं क्रमः ।
सहस्रमाज्यसंयुक्ताः सभ्यस्य समिधः स्मृताः ॥ ७१ ॥
यत्नेन चाहरेदाज्यं कापिलं गव्यमेव च ।
तोरणानि

तोरणानि च कुर्वीत चतुर्दिक्षु यथाक्रमम् ॥ ७२ ॥
अश्वत्थं पूर्वतः कुर्यात्पैतृकं दक्षिणे तथा ।
पश्चिमे क्षीरवृक्षञ्च वटवृक्षमथोत्तरे ॥ ७३ ॥
पञ्चहस्तसमुत्सेधं द्विहस्तायुतविस्तृतम् ।
मध्ये त्रिशूलं कुर्यात्तु एकारत्निप्रमाणतः ॥ ७४ ॥
अथवा कारयेद्विद्वान् पादायामं विचक्षणः ।
पादयोरन्तरं तस्य विस्तारः समुदाहृतः ॥ ७५ ॥
एवं यज्ञालये प्रोक्तस्तोरणानां विधौ विधिः ।
गोपुरेषु विमानेषु तोरणानि समाचरेत् ॥ ७६ ॥
अश्वत्थेनैव कुर्याद्वा तत्तद्द्वारप्रमाणतः ।
एषामलाभे चाश्वत्थं गृह्णीयाद्विधिकोविदः ॥ ७७ ॥
दर्भमाला

दर्भमाला च कर्तव्या दर्भैः छिन्नैः समायतैः ।
द्वितालमात्रं तं दर्भं लम्बनार्थं विहाय च ॥ ७८ ॥
प्रक्षिप्य दर्भौ द्वौ तु मध्ये पर्वणि पर्वणि ।
दर्भैः शिष्टाङ्गभागैस्तु रज्जुं कुर्यात्प्रदक्षिणम् ॥ ७९ ॥
एवं संवर्तिताग्रैस्तु दर्भमालानुपालिता ।
‘ग्रहतारागणास्सर्वे रज्ज्वग्रे तु समर्चिताः ॥ ८० ॥
षोडशोऽध्यायः

[[२०८]]

परिरक्षन्तु देवा हि दर्भमालागणे स्थिताः ।
पिशाचदैत्यरक्षांसि विधूय परितस्त्विह ॥ ८१ ॥
सन्ध्याकाले तानि देवाः कालचक्रे स्थितानि वै ।
इत्युक्त्वा नित्यकार्येषु दर्भस्थानमपेक्ष्य च ॥ ८२ ॥
दैविकं कर्म कुर्वीत रक्षार्थ दर्भमालया ।
यागशालाविधिः

अतः परं प्रवक्ष्यामि यज्ञशालाविधिं परम् ॥ ८३ ॥
प्रमुखे दक्षिणे वापि यज्ञशालां प्रकल्पयेत् ।
षोडशस्तम्भसंयुक्तां मध्ये पादविवर्जिताम् ॥ ८४ ॥
पादैर्द्वादशभिर्युक्तां कूटं वा परिकल्पयेत्

पादान्तरं चतुर्हस्तं चतुर्दिक्षु यथाक्रमम् ॥ ८५ ॥
एकहस्ततलोत्सेधं तलं कृत्वाऽतिसुन्दरम् ।
तोरणैः पूर्णकुम्भैश्च अलङ्कुर्यान्मनोहरम् ॥ ८६ ॥
तन्मध्ये स्थण्डिलं कृत्वा चतुर्हस्तप्रमाणतः ।
एकहस्ततलोत्सेधं चतुरश्रं विधानतः ॥ ८७ ॥
तदर्धमथवा कुर्याद्बिम्बाध्यर्धमथापि वा ।
अथवा कारयेद्विद्वान् प्रपां लक्षणसंयुताम् ॥ ८८ ॥
देवालयस्य परितः प्रपां कृत्वा विशेषतः ।
वितानेन समाच्छाद्य स्थूणाश्चाऽऽवेष्ट्य यत्नतः ॥ ८९ ॥
मुक्तादामपताकादिसर्वालङ्कारसंयुतम् ।
दर्भमालापरिक्षिप्तं तोरणैश्चाप्यलङ्कृतम् ॥ ९० ॥
कृत्वैव यज्ञवाटन्तु पश्चाद्बिम्बन्तु शोधयेत् ।

[[२०९]]

बिम्बशुद्धिक्रमः

नवबिम्बप्रतिष्ठा चेत् बिम्बशोधनमुच्यते ॥ ९१ ॥
आलयस्योत्तरे पार्श्वे कुर्यात्कूटं प्रपान्तु वा ।
चतुर्हस्तायतां दिक्षु प्रत्येकं चतुरश्रकाम् ॥ ९२ ॥
चतुर्हस्तसमायुक्तां चतुर्हस्तोच्छयां तथा ।
तालोत्सेधं तलं तत्र वास्तुहोमार्थमिष्यते ॥ ९३ ॥
मण्डपं वा प्रपां वाऽथ विमानाभिमुखे तथा ।
कारयेदधिवासार्थमक्ष्युन्मेषाय कर्मणि ॥ ९४ ॥
सर्वेषां मण्डपानाञ्च प्राकारस्यालयस्य च ।
स्तम्भवेष्टनवस्त्रैश्च नानावर्णपरिष्कृतैः ॥ ९५ ॥
अलङ्कारक्रियां कुर्याद्वाद्यघोषपुरस्सरम् ।
कौतुकस्य पीठसङ्घातः

कुत्वाऽङ्कुरार्पणं रात्रौ प्रभातेऽर्चां नवां यदि ॥ ९६ ॥
कौतुकं बेरमादाय पीठं कृत्वा सलक्षणम् ।
पश्चात् शिल्पिनमाहूय सम्पूज्याभरणाम्बरैः ॥ ९७ ॥
तदर्चायास्तु पीठे तु मध्ये च परितस्तथा ।
पञ्च स्थानानि निम्नानि शिल्पिना परिकल्पयेत् ॥ ९८ ॥
तेषां मध्ये पदे रत्नं ‘ब्रह्मा देवा’ दिना न्यसेत् ।
ऐन्द्रे वज्रं सुसन्न्यस्य याम्ये वैडूर्यमेव च ॥ ९९ ॥
वारुणे स्फटिकं न्यस्य सौम्ये मौक्तिकमेव च ।
तत्तन्मन्त्रं सुमुच्चार्य तत्तद्दिक्षु सुसन्न्यसेत् ॥ १०० ॥
षोडशोऽध्यायः

[[२१०]]

एवं रत्नानि विन्यस्य पञ्चस्थानेषु मन्त्रवित् ।
ताम्रेण शिल्पिना तानि समाच्छाद्य दुढं पुनः ॥ १०१ ॥
तस्मिन् पीठे क्रमेणैव शिल्पिनाऽर्चां सुयोजयेत् ।
दृढं संयोज्य तं पीठे निश्छिद्रमचलं चरेत् ॥ १०२ ॥
अधिवासविधिः

नदीतटाकवापीषु देवागारसमीपतः ।
जलेऽधिवासनं कृत्वा रक्षां सर्वत्र कारयेत् ॥ १०३ ॥
दर्भमालासमायुक्तं परित्राणसमन्वितम् ।
जलं क्षीरोदधिं स्मृत्वा वैष्णवं मन्त्रमुच्चरन् ॥ १०४ ॥
वस्त्रयुग्मं समास्तीर्य देव्योर्देवस्य वै पृथक् ।
प्राक्शिरः शाययेद्देवं विष्णुसूक्तं समुच्चरन् ॥ १०५ ॥
देव्यौ च शाययेत्पश्चात् तत्तन्मन्त्रमुदीरयन् ।
पञ्चाहं त्रियहं वापि एकाहमथवा तथा ॥ १०६ ॥
पञ्चगव्याधिवासादिः

पश्चाद्देवेशमादाय पञ्चगव्येऽधिवासयेत् ।
जलद्रोणीं पूरयेच्च पञ्चगव्यप्रयोगतः ॥ १०७ ॥
जलद्रोण्या अलाभे तु अवटं वापि खानयेत् ।
आलयाद्दक्षिणे पार्श्वे उत्तरे वा मनोरमे ॥ १०८ ॥
बिम्बाध्यर्धप्रमाणेन आयतं चतुरश्रकम् ।
विस्तारं तु तदर्धं स्यात् बिम्बदघ्नञ्च निम्नकम् ॥ १०९ ॥
पञ्चगव्यैस्तु सम्पूर्य पुष्पाक्षतसमन्वितम् ।
कुशदर्भसमायुक्तं गन्धधूपसमन्वितम् ॥ ११० ॥

[[२११]]

एवं संसाध्य यत्नेन विष्णुसूक्तं समुच्चरन् ।
शाययेद्देवदेवेशं प्राक्शिरः प्रयतात्मवान् ॥ १११ ॥
द्व्यहं तथैवमेकाहं पञ्चगव्येऽधिवासयेत् ।
पश्चाद्देवेशमादाय कुशोदे शाययेत्तथा ॥ ११२ ॥
चलेषु नवबिम्बेषु कृत्वा चैवाक्षिमोचनम् ।
पश्चाज्जलाधिवासादि कुर्यादित्येव शासनम् ॥ ११३ ॥
अक्ष्युन्मोचनम् - (अमन्त्रकम्)

प्रतिष्ठोक्तदिनात्पूर्वं त्रियहे वै ध्रुवे नवे ।
शिल्पशास्त्रोक्तविधिना शिल्पिना चाक्षिमोचनम् ॥ ११४ ॥
कारयित्वा गुरुः धीमान् दृष्टिमण्डलमार्गतः ।
दृष्टिमण्डलमध्ये त्तु यूकामात्रं व्यपोहयेत् ॥ ११५ ॥
अमन्त्रकञ्च यत्सर्वं शिल्पिना कारयेत्क्रमात् ।
वस्त्रैराभरणैस्सर्वैः पूजयित्वा तु शिल्पिनम् ॥ ११६ ॥
पीठमानं

तस्मिन् काले ततः कुर्याज्जीवस्थाने विधानतः ।
गर्भालये ब्रह्मभागे प्राणपीठमुदाहृतम् ॥ ११७ ॥
अर्चपीठप्रमाणं स्यात् प्रतिदिक् चतुरङ्गुलम् ।
ऊर्ध्ववेद्यास्तु विस्तारो द्वादशाङ्गुलमुन्नतिः ॥ ११८ ॥
भागावनतमेकैकं भागविस्तारसंयुतम् ।
एवं त्रिवेदिसहितमर्चनापीठमाचरेत् ॥ ११९ ॥
श्रीभूमी तु समुद्दिश्य दक्षिणोत्तरयोः क्रमात् ।
एवमेव प्रकुर्वीत सहैव पृथगेव वा ॥ १२० ॥
षोडशोऽध्यायः

[[२१२]]

बहुबेरप्रतिष्ठा चेत्तत्तत्स्थाने विशेषतः ।
तत्तत्पीठप्रमाणेन चैवं पीठानि कल्पयेत् ॥ १२१ ॥
विमानशुद्धिः

अथ शुद्धिक्रियामार्गं वक्ष्ये देवविमानयोः ।
विमानशुद्धिं वक्ष्यामि प्रथमं विधिना बुधाः ॥ १२२ ॥
श्वेतश्लक्ष्णसुधाक्षोदैः स्थूलं स्थाने तु पूर्वतः ।
आलेपनं प्रकुर्वीत बालस्थाने मृदा तथा ॥ १२३ ॥
शिल्पिकर्मसमाप्तिञ्च शिल्पशास्त्रक्रमेण तु ।
कृत्वा च शिल्पिनं पूज्य विमानञ्चाङ्कणं तथा ॥ १२४ ॥
संशोधयेत्पुनस्तत्र गोभिः शुद्धिञ्च कारयेत् ।
विमानाङ्कणमाक्षिप्य दूर्वाग्रान् सतृणानपि ॥ १२५ ॥
पलालञ्चापि निक्षिप्य पात्राणि सजलानि च ।
पञ्चरात्रं त्रिरात्रं वा एकरात्रमथापि वा ॥ १२६ ॥
समतीते दशाहे तु धेनुनां निकरैर्गवाम् ।
देवालयाङ्कणे चैव शुद्ध्यर्थं शोधयेत्तदा ॥ १२७ ॥
रात्रौ देवालयस्थानां गवां दुग्धं न चाहरेत् ।
दुग्धपानादिसन्तृप्तैः वत्सकैः कृतवल्गितैः ॥ १२८ ॥
वत्सपीतस्तनाग्रेभ्यः संसृतक्षीरबिन्दुभिः ।
गोरोमभिः सफेनैश्च गोशकृन्मूत्रसञ्चितैः ॥ १२९ ॥
शुद्धं भवति तत् स्थानं गावः शुद्धाश्शुभा मताः ।
गोभिः शुद्धिञ्च कृत्वा तु कुर्याद्ब्राह्मणभोजनम् ॥ १३० ॥

[[२१३]]

गर्भगेहे बहिर्वापि ब्राह्मणान् भोजयेत्तदा ।
चतुर्विंशति पञ्चाशच्छतं वाप्यधिकं ततः ॥ १३१ ॥
पवित्रमिति सम्प्रोक्तं तत्स्थाने भोजयेत्ततः ।
भोजनानन्तरं तेषामुच्छिष्टं परिशोधयेत् ॥ १३२ ॥
बिम्बशुद्धिः

बिम्बशुद्धिं प्रवक्ष्यामि ध्रुवकौतुकयोस्ततः ।
वर्णयुक्ते ध्रुवे तत्र चित्राभासे विशेषतः ॥ १३३ ॥
तदालयकृतेनापि वास्तुहोमेन वै तथा ।
अङ्गहोमेन चेष्टेन पुण्याहं प्रोक्षणं चरेत् ॥ १३४ ॥
द्विजेभ्यो रुक्मदानेन यथाशक्ति कृतेन तु ।
भोजनेन च विप्राणां बेरशुद्धिर्विधीयते ॥ १३५ ॥
शिल्पिनन्तु विसृज्यैव पश्चात्कार्यं समाचरेत् ।
परेऽह्णि कार्यं मन्त्रेण गुरुणा चाक्षिमोचनम् ॥ १३६ ॥
अक्षिमोचनमुद्दिष्टं बेरशुद्ध्यर्थमादितः ।
श्रामणकाग्निकुण्डकल्पनम्

पूर्वन्तु वास्तुहोमार्थमालयस्य तथोत्तरे ॥ १३७ ॥
स्थण्डिलञ्चोपलिप्यैव अलङ्कुर्यात्तु वर्णकैः ।
सागरङ्गमनद्यादावाहृत्य सिकताः शुभाः ॥ १३८ ॥
द्वादशाङ्गुलमुत्सेधं तावद्घनमनिन्दितम् ।
द्वात्रिंशदङ्गुलायामं चतुरश्रं समन्ततः ॥ १३९ ॥
षोडशोऽध्यायः

[[२१४]]

ततो मध्येऽवकाशः स्याच्चतुर्विंशतिकाङ्गुलम् ।
अवगाढन्तु तस्यैव द्वादशाङ्गुलमिष्यते ॥ १४० ॥
ततः कुर्याद्बहिर्वेदिं द्विचत्वारिंशदङ्गुलैः ।
उत्सेधो भाग उद्दिष्टः ऊर्ध्ववेद्या विधानतः ॥ १४१ ॥
मध्यवेद्यास्तु विस्तारः पञ्चाङ्गुल इति स्मृतः ।
उत्सेधो भाग उद्दिष्टः मध्यवेद्याः प्रकीर्तिताः ॥ १४२ ॥
ततः कुर्यादधोवेदिं पञ्चाशद्भिरथाङ्गुलैः ।
उत्सेधो भाग उद्दिष्टः विस्तारस्तु द्विगोलकः ॥ १४३ ॥
दक्षिणे ब्रह्मणः पीठं षोडशाङ्गुलमायतम् ।
चतुरश्रं समं कुर्यात् भागोन्नतिसमन्वितम् ॥ १४४ ॥
तस्य पश्चिमभागे तु पितृस्थानं प्रकल्पयेत् ।
षोडशाङ्गुलमायामः उन्नतं गोलकं भवेत् ॥ १४५ ॥
शूर्पाकारञ्च कृत्वा तु दक्षिणाग्रं प्रकल्पयेत् ।
उत्तरे सोममुद्दिश्य षोडशाङ्गुलमायतम् ॥ १४६ ॥
भागोन्नतं प्रकुर्वीत समवृत्तं तु पीठकम् ।
वेदिप्रमाणं कर्तव्यं सीवनीक्षतचन्द्रवत् ॥ १४७ ॥
एवं श्रामणकं कुण्डं कृत्वाऽथाग्निञ्च साधयेत् ।
अग्निमन्थनम्

आलयात्पुरतो वाऽपि उत्तरे वा मनोरमे ॥ १४८ ॥
स्थण्डिलञ्चोपलिप्यैव वर्णालङ्कारमाचरेत् ।
धान्यराशिञ्च संस्तीर्य दर्भानुपरि संस्तरेत् ॥ १४९ ॥

[[२१५]]

अरणी द्वे सुसन्न्यस्य पूजयेत्तु यथाविधि ।
अर्चयेदधरारण्यां हरिणीं विष्णुवल्लभाम् ॥ १५० ॥
विष्णुमभ्यर्चयेद्दण्डे ऊर्ध्वारण्यां हुताशनम् ।
आचार्यः प्राङ्मुखः स्थित्वा योजयित्वाऽथ मन्त्रवित् ॥ १५१ ॥
रज्जुं मौञ्जीमयीं कृत्वा त्रिवृतां शेषमर्चयेत् ।
‘जातवेद’ इति प्रोच्य मन्थनं सम्यगाचरेत् ॥ १५२ ॥
जपन् वैश्वानरं सूक्तमरण्यां मन्थनं चरेत् ।
यावदग्निसमुत्पत्तिः तावद्वै मन्थनं भवेत् ॥ १५३ ॥
उत्पन्नमग्निमादाय ‘अयन्त’ इति चोच्चरन् ।
परितस्तु करीषाद्यैः योजयित्वाऽथ युक्तितः ॥ १५४ ॥
इन्धनानि सुनिक्षिप्य जातमग्निं सुरक्षयेत् ।
ॠत्विग्वरणं

त्रियहं द्वियहं वाऽपि एकाहं वा विधानतः ॥ १५५ ॥
उपवासञ्च कृत्वा तु ॠत्विजः प्रयतास्तथा ।
स्नात्वा स्नानविधानेन जप्त्वा सूक्तानि वै क्रमात् ॥ १५६ ॥
प्राणायामसहस्रन्तु कुर्युस्सर्वे जितेन्द्रियाः ।
शतञ्चाष्टसमायुक्तं कुर्युर्वाऽत्र समाहिताः ॥ १५७ ॥
ब्रह्मयज्ञञ्च कृत्वा तु स्वकीयाग्नीनुपास्य च ।
ध्यात्वा नारायणं देवं समासीनं यतव्रताः ॥ १५८ ॥
तत्काले यजमानस्तु सर्वांस्तान् सम्प्रणम्य च ।
‘अथावनीद’ मन्त्रेण मण्डलान्युपलिप्य च ॥ १५९ ॥
षोडशोऽध्यायः

[[२१६]]

‘अस्त्वासन’ मिति प्रोच्य आसनान्युपलिप्य च ।
प्राङ्मुखानासयित्वा तु कृच्छान्नं भोजयेत्ततः ॥ १६० ॥
पवित्रं वज्रसंयुक्त ‘मग्निमीलेति’ मन्त्रतः ।
ॠत्विजः प्राशयित्वा तु पायसेन घृतेन च ॥ १६१ ॥
‘शन्नो दे’ वीति मन्त्रेण पश्चादाचमनं ददेत् ।
यजमानश्च तत्काले स्वयं भोजनमाचरेत् ॥ १६२ ॥
तान् पश्चाद्यजमानस्तु तत्तत्कार्ये नियोजयेत् ।
पूर्वोक्तगुणसम्पन्नाश्चत्वारो मूर्तिधारकाः ॥ १६३ ॥
होमेषु षोडश प्रोक्ताः सर्वकर्मसु निश्चलाः ।
एको हौत्रे समुद्दिष्टः एको वै स्नापने तथा ॥ १६४ ॥
अक्षिमोचनकार्यार्थं द्वावत्र वृणुयात्तथा ।
सर्वदेवार्चनार्थन्तु चत्वारस्सम्प्रकीर्तिताः ॥ १६५ ॥
एवमाहृत्य यत्नेन पूजयित्वा पृथक् पृथक् ।
कृत्वा शास्त्रोक्तविधिना भगवन्तमनुस्मरन् ॥ १६६ ॥
ध्यायन्नासीत तद्रात्रौ यजमानस्सदा हरिम् ।
प्रभाते च स धर्मात्मा सूत्रोक्तेन विधानतः ॥ १६७ ॥
स्नात्वा स्नानविधानेन आचार्यः स्थापकैस्सह ।
देवालयं शनैर्गत्वा प्रदक्षिणमथाचरेत् ॥ १६८ ॥
मृष्टसिक्तोपलेपाद्यैः संस्कुर्याद्देवतागृहम् ।
अक्ष्युन्मोचनमुद्दिश्य वास्तुहोमं समाचरेत् ॥ १६९ ॥

[[२१७]]

समन्त्रकाक्ष्युन्मेषप्रयोगः

अक्ष्युन्मेषमथो वक्ष्ये कौतुकस्य ध्रुवस्य च ।
कृत्वाऽङ्कुरार्पणं रात्रौ प्रभाते मध्यमेऽहनि ॥ १७० ॥
प्रासादस्योत्तरे पार्श्वे कृते श्रामणकेऽनले ।
आघारं विधिवत्कृत्वा मथितेनैव वह्निना ॥ १७१ ॥
सूत्रोक्तेन विधानेन भूमियज्ञं यजेत्क्रमात् ।
पर्यग्निञ्चैव कृत्वा तु बिम्बपार्श्वे विशेषतः ॥ १७२ ॥
पञ्चगव्यैः समभ्युक्ष्य गायत्र्या प्रणवाद्यया ।
स्थानशुद्धिं ततः कृत्वा पुण्याहं वाचयेत्क्रमात् ॥ १७३ ॥
औपासनाग्निकुण्डकल्पनं

देवालयस्य परितः कुण्डमौपासनं चरेत् ।
स्थण्डिलञ्चोपलिप्यैव वालुकाभिः प्रपूरयेत् ॥ १७४ ॥
द्वात्रिंशदङ्गुलायामं चतुरश्रं समन्ततः ।
षडङ्गुलसमुत्सेधं स्थलं सम्यक् प्रकल्प्य च ॥ १७५ ॥
तत्र मध्येऽवकाशः स्याच्चतुर्विंशतिकाङ्गुलम् ।
अवगाढन्तु तस्यैव भागमात्रमुदाहृतम् ॥ १७६ ॥
तद्बाह्ये बाह्यवेदिस्स्याच्चत्वारिंशद्भिरङ्गुलैः ।
उत्सेधो विस्तरश्चैव भागमात्रं प्रवक्ष्यते ॥ १७७ ॥
ब्रह्मसोमपितृस्थानकल्पनं विधिना चरेत् ।
द्वादशाङ्गुलमायामं चतुरश्रं समन्ततः ॥ १७८ ॥
उत्सेधो भाग उद्दिष्टं ब्रह्मस्थानस्य कारयेत् ।
तस्य पश्चिमभागे तु पितृस्थानं प्रकल्पयेत् ॥ १७९ ॥
षोडशोऽध्यायः

[[२१८]]

द्वादशाङ्गुलमायाममुन्नतं गोलकं भवेत् ।
शूर्पाकारं तु कृत्वा तु दक्षिणाग्रं प्रकल्पयेत् ॥ १८० ॥
उत्तरे सोममुद्दिश्य स्थानं वृत्तं समाचरते् ।
द्वादशाङ्गुलमायाममुन्नतं गोलकं भवेत् ॥ १८१ ॥
वेदिप्रमाणं कर्तव्यं सीवनीक्षतचन्द्रवत् ।
अक्षिमोचनमुद्दिश्य चैवमौपासनं चरेत् ॥ १८२ ॥
अक्ष्युन्मेषहोमः

आघारं विधिवत्कृत्वा मथितेनैव वह्निना ।
अङ्गहोमञ्च हुत्वा तु कापिलेन घृतेन वै ॥ १८३ ॥
तदलाभेऽन्यगव्येन माहिषाजाविकं विना ।
मूर्धादि पादपर्यन्तमङ्गं प्रत्येकमुच्चरन् ॥ १८४ ॥
स्वाहान्तं योजयिवा तु देवेशं मनसा स्मरन् ।
विष्णुसूक्तञ्च जुहुयाद् व्याहृत्यन्तमतः परम् ॥ १८५ ॥
सुपुष्टाङ्गां सवत्साञ्च गामेकां स्थापयेत्पुरः ।
तिलराशिं तथा धान्यराशिं सम्भृत्य भक्तितः ॥ १८६ ॥
देवस्याभिमुखे कृत्वा पश्चाद्वर्णं प्रगृह्य च ।
सुवर्णेन कृतेनैव पात्रे तूलिकयाऽन्विते ॥ १८७ ॥
देवस्य दक्षिणे पार्श्वे उत्तराभिमुखः स्थितः ।
पटप्रच्छादनं कृत्वा ध्यायन् षण्मण्डलाधिपान् ॥ १८८ ॥
पक्ष्म वर्म तथा रक्तशुक्लकृष्णानि चिन्तयन् ।
तथा ज्योतिर्मण्डलञ्च यानि षण्मण्डलानि वै ॥ १८९ ॥

[[२१९]]

पृथिव्यापस्तथा तेजो वायुराकाश इत्यपि ।
परमात्मेति च ज्ञेया ये ते षण्मण्डलाधिपाः ॥ १९० ॥
विष्णुसूक्तं गुरुर्जप्त्वा अक्ष्युन्मोचनमारभेत् ।
वैष्णवं सूक्तमुच्चार्य ज्योतिर्मण्डलमाचरेत् ॥ १९१ ॥
‘श्रिये जाते’ ति मन्त्रेण श्रीदेव्याश्चाक्षिमोचनम् ।
मेदिनी मन्त्रमुच्चार्य मेदिन्याश्चाक्षिमोचनम् ॥ १९२ ॥
तत्तन्मन्त्रं समुच्चार्य परिवाराक्षिमोचनम् ।
प्रतिष्ठोक्तदिनात्पूर्वं द्वितीये वा समाहितः ॥ १९३ ॥
आचार्यो मन्त्रसंयुक्तमाचरेदक्षिमोचनम् ।
पश्चादग्निं विसृज्यैव आदित्यं प्रणमेद्बुधः ॥ १९४ ॥
दर्शनद्रव्यदर्शनम्

प्रच्छन्नपटमाबद्ध्य देवस्याग्रे विशेषतः ।
सौवर्णादिषु पात्रेषु घृतं मधु तथा दधि ॥ १९५ ॥
क्षीरञ्च पृथगाहृत्य प्रत्येकं प्रस्थसम्मितम् ।
द्रव्याणि दर्शनीयानि देवस्याग्रे विनिक्षिपेत् ॥ १९६ ॥
अष्टौ धान्यानि च पृथक् राशीः कृत्वाऽग्रतः पृथक् ।
पटमुत्सार्य काले तु जयशब्दसमन्वितम् ॥ १९७ ॥
वाद्यघोषसमायुक्तं देवेशं सम्प्रणम्य च ।
दर्शयेद्देवदेवस्य द्रव्यं द्रव्यं समाहितः ॥ १९८ ॥
जप्त्वा गोदानसूक्तन्तु सवस्त्रां कांस्यदोहनम् ।
स्वर्णशृङ्गां रौप्यखुरां सवत्सां गां प्रदर्शयेत् ॥ १९९ ॥
षोडशोऽध्यायः

[[२२०]]

आचार्यं पूजयित्वा तु वस्त्राभरणकुण्डलैः ।
शिष्यांश्च पूजयेत्तद्वद्वस्त्रयुग्माङ्गुलीयकैः ॥ २०० ॥
हिरण्यपशुभूम्यादि गुरवे दक्षिणां ददेत् ।
ब्राह्मणान् भोजयित्वा तु तर्पयेद्दक्षिणादिभिः ॥ २०१ ॥
वास्तुहोमः (वास्तुपुरुषलक्षणम्)

प्रतिष्ठोक्तदिनात्पूर्वं द्वितीये वा तृतीयके ।
आलयस्योत्तरे पार्श्वे वास्तुहोम उदीरितः ॥ २०२ ॥
(वास्तुहोमप्रसङ्गे तु वास्तुपूरुष उच्यते) ।
कल्पयेद्वास्तुपुरुषं दशतालेन मानतः ॥ २०३ ॥
आलये गोपुरे चैव मण्डपे चाङ्कणेऽपि वा ।
यावान् विस्तार उद्दिष्टः तावांस्तस्याङ्गमुच्यते ॥ २०४ ॥
द्वौ वास्तुपुरुषौ ज्ञेयौ चलाचलविभेदतः ।
प्राक्च्छिरोऽधोमुखो मुख्यः भूमिस्थस्स तु सर्वदा ॥ २०५ ॥
स स्थाणू रुद्रदेहात्मा शर्व इत्यभिधीयते ।
तस्योपरि च यश्शेते चलस्सर्वप्रभुर्वरः ॥ २०६ ॥
मध्याह्ने प्राक्च्छिराश्शेते स सायं दक्षिणाशिराः ।
निश्यर्धे पश्चिमशिराः प्रातरुत्तरदिक्च्छिराः ॥ २०७ ॥
सदाऽम्बरमुखो भूत्वा सङ्क्रमेत्सङ्क्रमक्रमात् ।
एवं विज्ञाय मनसा वास्तुहोमं समाचरेत् ॥ २०८ ॥
आलयस्योत्तरे कुर्याद्वास्तुकुण्डं विचक्षणः ।
मण्डपे मध्यमे कुर्याद्गोपुरे च तथैव च ॥ २०९ ॥

[[२२१]]

प्रासादस्योत्तरे कुर्यात् स्थण्डिलं चतुरश्रकम् ।
गोमयेनोपलिप्यैव वर्णालङ्करणं चरेत् ॥ २१० ॥
वास्तुपूरुषरूपन्तु कल्पयित्वा विचक्षणः ।
कुण्डं श्रामणकं तस्य पूर्वोक्तेन विधानतः ॥ २११ ॥
कुक्षिप्रदेशे कुर्वीत धनधान्यविवृद्धये ।
बाहुप्रदेशे कुर्वीत पुत्रपौत्राभिवृद्धये ॥ २१२ ॥
नाभेरधःप्रदेशे तु वास्तुकुण्डं न कारयेत् ।
कुण्डमेवं कल्पयित्वा साधितेनैव चाग्निना ॥ २१३ ॥
आघारं विधिवत्कृत्वा अदितेन्वादिभिः क्रमात् ।
परिस्तीर्य तु मन्त्रज्ञः पश्चादग्निं प्रणम्य च ॥ २१४ ॥
समिद्भिर्मूलमध्याग्रघृताक्ताभिर्यजेत्ततः ।
‘भूमियज्ञाय स्वाहे’ ति ‘यज्ञदेवे’ ति च क्रमात् ॥ २१५ ॥
‘मेदिनी-देवी’ ‘समुद्रेति-श्रृङ्गे-वायुपरी’ति च ।
व्याहृत्यन्तञ्च हुत्वा तु उल्कया चाग्निमाहरेत् ॥ २१६ ॥
‘अहमग्नेऽग्निमि’ त्युक्त्वा मूलबिम्बस्य पार्श्वतः ।
गर्भालये च सर्वत्र तथा चैवार्धमण्डपे ॥ २१७ ॥
स्नपनालये च कुर्वीत गोपुरे च तथैव च ।
प्राकारादिषु सर्वत्र प्रादक्षिण्यक्रमेण वै ॥ २१८ ॥
दर्शयित्वा विधानज्ञः पश्चादग्निं विसर्जयेत् ।
पञ्चगव्यं समादाय मृत्पात्रे तु विशेषतः ॥ २१९ ॥
प्रोक्षयेत्कुशकूर्चेन ‘अणोरणीया’ निति मन्त्रतः ।
मूलबिम्बस्य परितः दर्शयित्वा च सर्वशः ॥ २२० ॥
षोडशोऽध्यायः

[[२२२]]

पुनः कृत्वा तु पुण्याहं तत्र प्रोक्षणमाचरेत् ।
पश्चादग्निं समासाद्य परिस्तीर्य च पावकम् ॥ २२१ ॥
‘ये ते शतमुदुत्तममयाश्चाग्ने’ति च क्रमात् ।
‘आपस्सृजन्तु’ ति चत्वारो हूयन्ते वारुणाः स्मृताः ॥ २२२ ॥
‘विश्वदेवञ्च’ इत्युक्ता ‘विश्वे अद्य’ ततः परम् ।
वैश्वदेवञ्च हुत्वा तु वैष्णवञ्च सुहूयताम् ॥ २२३ ॥
‘अतो देवा-इदं विष्णुः-त्रीणिपदा विचक्रमे ।
विष्णोः कर्माणि-तद्विष्णोः-तद्विप्रास’ इति ब्रुवन् ॥ २२४ ॥
‘रुद्रमन्यञ्च’ हुत्वा तु ‘त्र्यम्बक’ञ्च ततः परम् ।
‘ब्रह्म जज्ञान’मित्युक्त्वा ‘हिरण्यगर्भ’ इति ब्रुवन् ॥ २२५ ॥
‘मिश्रवासस’ इत्युक्त्वा ‘युवमेतानि’ हूयताम् ।
‘अग्नीषोमविम’ प्रोच्य ‘आन्यं दिव’ इतीरयन् ॥ २२६ ॥
हुत्वा ‘बृहस्पति’ रिति ‘बृहस्पतिस्सोम’ मित्यपि ।
‘बृहस्पते अतियदि’ ति ‘उपायमे’ ति हूयताम् ॥ २२७ ॥
‘त्रातारादी’ स्ततो हुत्वा ऐन्द्रमन्त्रांस्त्रयोदश ।
‘यमो दाधार-नमस्ते’ ति यममन्त्रौ हुनेत्तथा ॥ २२८ ॥
‘मित्रस्य चर्षणी’ति ‘मित्रो जना’निति ब्रुवन् ।
‘प्रसमित्रे’ ति हुत्वा तु व्याहृन्यन्तं पृथक् पृथक् ॥ २२९ ॥
एवं हुत्वा विधानेन अन्ततः परिषेचयेत् ।
विमानाङ्गहोमः

विमानञ्चेन्नवं तत्र विमानाङ्गाहुतीर्यजेत् ॥ २३० ॥

[[२२३]]

उपानाय जगत्यै च ‘कुमुदायेति’ हूयताम् ।
वल्लिकायै च हुत्वा त्तु ‘खण्डायेति’ ततः परम् ॥ २३१ ॥
पाट्टिकायै ततो हुत्वा ताटिकायै ततः परम् ।
कर्कर्यै चैव हुत्वा तु कुम्भायेति ततः परम् ॥ २३२ ॥
फलकायै च हुत्वा तु कपोताय ततः परम् ।
ग्रीवाया च हुत्वा तु स्कन्धग्रीवाय इत्यपि ॥ २३३ ॥
स्थूपिकायै च हुत्वा तु व्याहृत्यन्तं पृथक् पृथक् ।
जयादीनपि हुत्वा तु विष्णुसूक्तं हुनेत्ततः ॥ २३४ ॥
वास्त्वग्नौ वास्तुहोमञ्च जुहुयात्तत्र तत्र तु ।
अन्तहोमं ततो हुत्वा आदित्यं प्रणमेत्क्रमात् ॥ २३५ ॥
अग्न्यायतनम् - कुण्डलक्षणम् ।
अत ऊर्ध्वं प्रवक्ष्यामि अग्न्यायतनलक्षणम् ।
शय्यास्थानस्य पूर्वे तु कुण्डं श्रामणकं चरेत् ॥ २३६ ॥
पूर्वोक्तेन विधानेन ऐन्द्रे चौपासनं चरेत् ।
धनुराकृतिकं कुर्याद्याम्ये वेदिद्वयान्वितम् ॥ २३७ ॥
त्रिंशदङ्गुलसम्भ्रान्त्या कृते वृत्तेऽर्धभाजिते ।
अर्वाचीनेन चार्धेन कल्पितो धनुराकृतिः ॥ २३८ ॥
अन्वाहार्याग्निरुदितः क्षेत्रमौपासनाग्निवत् ।
उत्सेधं विस्तृतिञ्चैव भागं वेद्याः समाचरेत् ॥ २३९ ॥
ब्रह्मसोमपितृस्थानान्याहरेदुक्तमार्गतः ।
द्वादशाङ्गुलमायामः उन्नतं भाग उच्यते ॥ २४० ॥
षोडशोऽध्यायः

[[२२४]]

अन्तरं भाग उद्दिष्टः पैतृकं गोलकं चरेत् ।
पश्चिमे वृत्तकुण्डः स्याद्वेदिद्वयसमन्वितः ॥ २४१ ॥
अथाष्टादशभिः सार्धैरङ्गुलैश्च भ्रमीकृते ।
वृत्ते तदूर्ध्ववेदिस्स्यात् वृत्तकुण्डस्य मानतः ॥ २४२ ॥
उत्सेधो विस्तृतिश्चैव वेद्योर्भागं प्रचक्षते ।
ब्रह्मसोमपितृस्थानान्युक्तमार्गेण कारयेत् ॥ २४३ ॥
त्रिकोणञ्चोत्तरे कुर्यान्मेखलाद्वयसंयुतम् ।
सपादत्रियवैर्युक्ताष्टचत्वारिंशदङ्गुलैः ॥ २४४ ॥
भुजमानयुतः कुण्डस्त्रिभुजस्त्वावसत्थ्यकः ।
विस्तार उन्नतञ्चैव वेद्योर्भागं प्रचक्षते ॥ २४५ ॥
शेषञ्च पूर्ववत्कुर्यादग्निकुण्डं विशेषतः ।
सभ्यस्य दक्षिणे कुर्यात्पौण्डरीकं क्रमाद्बुधः ॥ २४६ ॥
द्वादशाङ्गुलमुत्सेधं समवृत्तं प्रकल्पयेत् ।
अथाष्टादशभिस्सार्धैरङ्गुलैश्च भ्रमीकृते ॥ २४७ ॥
वृत्तं तदूर्ध्ववेदिस्स्यात्पौण्डरीकानलस्य वै ।
उत्सेधो विस्तृतिश्चैव ऊर्ध्ववेद्या द्विगोलकम् ॥ २४८ ॥
निम्नमष्टाङ्गुलं कुर्याच्छिष्टं मृद्भिश्च पूरयेत् ।
मध्यवेद्यास्समुत्सेधं भागमात्रं प्रचक्षते ॥ २४९ ॥
विस्तारो भाग उद्दिष्टो मध्यवेद्यास्तथैव च ।
अधोवेद्यास्समुत्सेधश्चतुरङ्गुलमेव च ॥ २५० ॥
रसाङ्गुलन्तु विस्तारः दलैष्षोडशभिर्युतः ।
ब्रह्मसोमपितृस्थानान्याचरेत्पूर्ववद्बुधः ॥ २५१ ॥

[[२२५]]

कुर्यादौपासनाग्निञ्च प्रमुखे वीशशेषयोः ।
इन्द्रादिलोकपालानामालयास्सन्ति यत्र वै ॥ २५२ ॥
अग्निमौपासनं कुर्यात्तत्तदालयसम्मुखे ।
भूतस्थाने प्रकुर्वीत भूतपीठस्य पूर्वतः ॥ २५३ ॥
एवं कुण्डानि निर्माय पश्चादग्निं सुसाधयेत् ।
स्नानश्वभ्रं

देवालयस्य पुरतः स्नापनार्थं विचक्षणः ॥ २५४ ॥
मण्डपं वा प्रपां वाऽपि शालां वा कूटमेव वा ।
कारयित्वा विधानेन मध्ये श्वभ्रञ्च कारयेत् ॥ २५५ ॥
अर्चापीठप्रमाणाद्धि प्रतिदिक् चतुरङ्गुलम् ।
हित्वाऽवकाशमौपासनाग्निवत् श्वभ्रमाचरेत् ॥ २५६ ॥
शालालङ्कारः

श्वभ्रस्य परितः कुर्यात्पङ्क्तिं किष्कुप्रमाणतः ।
पञ्चकिष्कुप्रमाणं वा यथालाभमथापि वा ॥ २५७ ॥
द्वितालविस्तृताञ्चैव सङ्गतां गोलकोन्नताम् ।
तण्ङुलैर्व्रीहिभिर्वाऽपि पङ्क्तिं सम्प्रतिकारयेत् ॥ २५८ ॥
चतुर्द्वारसमायुक्तां द्वितालां तालमानतः ।
दर्भमालाञ्च परितः पादाग्रेष्ववलम्बयेत् ॥ २५९ ॥
वितानेन समाच्छाद्य स्थाणूनां वेष्टनं चरेत् ।
मुक्तादामपताकाद्यैरलङ्गुर्याद्विशेषतः ॥ २६० ॥
द्वारतोरणसंयुक्तं पूर्णकुम्भसमन्वितम् ।
क्रमुकैः कदलीभिश्च इक्षुकाण्डैरलङ्कृतम् ॥ २६१ ॥
षोडशोऽध्यायः

[[२२६]]

एवं सुसाध्य यत्नेन गृहीत्वा कलशानि च ।
संशोध्याऽऽम्लादिना शुद्धतोयेनाऽऽवेष्ट्य तन्तुना ॥ २६२ ॥
पूरयित्वा ततो द्रव्यैः शरावैश्च पिधाय वै ।
संसाध्यैवमलङ्कारैः पश्चात्संस्थापयेद्बुधः ॥ २६३ ॥
सप्तकलशस्नपनप्रयोगः - कलशन्यासप्रकारः

द्रव्यपूर्णानि कलशान्यादाय विनयानतः ।
उभाभ्यामपि हस्ताभ्यामुक्तस्थानेषु सन्न्यसेत् ॥ २६४ ॥
ऐशान्ये पञ्चगव्यन्तु ईशानेन्द्रान्तरे घृतम् ।
इन्द्राग्न्योरन्तरे चैव न्यसेन्मधु यथाविधि ॥ २६५ ॥
दधि न्यसेदथाग्नेय्यां यमाग्न्योरन्तरे पयः ।
यमनीलान्तरे गन्धं र्नैॠत्यामक्षतोदकम् ॥ २६६ ॥
नीलवारुणयोर्मध्ये स्थापयेत्तु कुशोदकम् ।
वरुणोदानयोर्मध्ये सन्न्न्यसेच्च फलोदकम् ॥ २६७ ॥
रत्नोदकञ्च वायव्ये जप्योदं वायुसोमयोः ।
ईशानसोमयोर्मध्ये न्यसेत्सर्वौषधीजलम् ॥ २६८ ॥
उपस्नानानि सर्वेषां तत्तद्वामे सुसन्न्यसेत् ।
एवं विन्यस्य कलशान्यधिदेवान्त्समर्चयेत् ॥ २६९ ॥
वस्त्रैरावेष्ट्य कलशान्यूर्ध्वं पुष्पाणि निक्षिपेत् ।
यागस्थानं समासाद्य कुण्डेष्वैन्द्रादिषु क्रमात् ॥ २७० ॥
आघारं विधिवत्कृत्वा मथितेनैव वह्विना ।
परिवाराग्निषु तथा सर्वेष्वाघारमाचरेत् ॥ २७१ ॥

[[२२७]]

एवं कृत्वा विधानेन पश्चात्कार्यं समाचरेत् ।
अधिवासगतं देवमासाद्यैवानुमान्य च ॥ २७२ ॥
पूर्वालङ्कृतवस्त्रादीन् समुद्धार्याप्रमादतः ।
तत उद्धृत्य देवेशमाम्लेन परिशोधयेत् ॥ २७३ ॥
वस्त्रैराभरणैस्स्रग्भिरलङ्कृत्यार्चयेत्क्रमात् ।
कुम्भवेदिः

आलयाभिमुखे चैव मण्डलञ्चोपलिप्य च ॥ २७४ ॥
पञ्चवर्णैरलङ्कृत्य धान्यराशिं प्रकल्पयेत् ।
तण्डुलानुपरि न्यस्येत्पुष्पाणि च तथाऽक्षतान् ॥ २७५ ॥
तत्र देवञ्च संस्थाप्य पाद्याद्यर्घ्यान्तमर्चयेत् ।
नववस्त्रपरीधानः सोत्तरीयस्स्वलङ्कृतः ।
तस्मिन् काले गुरुर्धीमान् कुम्भपूजां समाचरेत् ॥ २७६ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे भगवत्प्रतिमालक्षणकथनं नाम षोडशोऽध्यायः ॥
षोडशोऽध्यायः

[[२२८]]