१५ परिषद्देवतालक्षणम्

अथ पञ्चदशोऽध्यायः

परिषद्देवतालक्षणम्

अतः परं पारिषद्यलक्षणं सम्प्रवक्ष्यते ।
इन्द्रादीनां तथाऽन्येषां परिषद्वर्गगामिनाम् ॥ १ ॥
(……………………………… ।
नवार्धतालमानेन कुर्यात् बिम्बं यथाक्रमम् ॥ २ ॥
हरः सस्यनिभः प्रोक्तस्सुवर्णाम्बरसंयुतः ।
तेन भावेन कर्तव्यं वपुर्विष्णोरिव स्मृतम् ॥ ३ ॥
दशतालपरीणाहं नवतालादनन्तरम् ।
तन्मध्यमं तदा ग्राह्यं दिव्यं संहननं समम् ॥ ४ ॥
अच्युतस्येवाभरणं ब्रह्मसूत्रं विना तथा ।
श्रीवत्सं दिव्यचिह्नञ्च विना रूपं समाचरेत्) ॥ ५ ॥
दिक्पालाः (इन्द्रः)

आसीनं द्विभुजं कुर्यादासने वज्रपाणिनम् ।
स्थितं शच्या महिष्याऽस्य श्रेष्ठमासनमुच्यते ॥ ६ ॥
किरीटं मकुटं तस्य पार्श्वे वर्जितदण्डकम् ।
हस्ते तु वज्रं कर्तव्यमासने चेन्निरायुधम् ॥ ७ ॥
इन्द्राणीं दक्षिणे कुर्याद्वामे च च्छन्दगां शुभाम् ।
पद्मामिव तथेन्द्राणीमिलामिव च च्छन्दगाम् ॥ ८ ॥
पद्मभूमी यथा विष्णोरिन्द्रस्यैते मते तथा ।
घृताच्यलम्बुके चापि कुर्याद्वै परिचारिके ॥ ९ ॥

[[१७५]]

लोमशञ्च त्रितञ्चैव पूजकौ तौ समर्चयेत् ।
माञ्च पुण्यमिव स्थाने दक्षिणे वाम एव वा ॥ १० ॥
घृताची श्यामवर्णा चालम्बुकोत्पलपत्रभा ।
लोमशोऽञ्जनवर्णश्च त्रितो गोधूमसमप्रभः ॥ ११ ॥
पृथक् चेदालयं तस्य परिवारांस्तु कारयेत् ।
निर्माल्यधारिणं वीरं रक्तोत्पलदलप्रभम् ॥ १२ ॥
गोपुरागारयोर्मध्ये स्थापयेद्वारणाधिपम् ।
स्थापयेच्चापि पर्जन्यं महाशनिसमन्वितम् ॥ १३ ॥
पर्जन्यं श्यामवर्णञ्च सर्वलोकशुभावहम् ।
वज्रस्थानसमायुक्तं रथस्थानसमन्वितम् ॥ १४ ॥
अग्निः

अग्निं कुर्याद्यथान्यायं नवतालेन मानतः ।
अग्निं किंशुकवर्णाभं प्रज्वलत्केशसंयुतम् ॥ १५ ॥
हयस्तु वाहनं तस्य रोहितो नाम नामतः ।
शङ्खश्च शैषिकस्तस्य कुन्देन्दुसदृशप्रभः ॥ १६ ॥
स्वाहास्वधा उभे देव्यौ मुक्ताहेमनिभे सती ।
शक्तिरस्यायुधं दिव्यं सर्वामरपुरोधसः॥ १७ ॥
यमः

कृष्णाम्बुदनिभं कुर्याच्छमनं दण्डपाणिनम् ।
पाशं वामकरे कुर्याज्जानु च व्रणसंयुतम् ॥ १८ ॥
माता तेन परामृष्टा धात्री मातृसरूपिणी ।
मातृशापात्ततः पादो दक्षिणो व्रणसंयुतः ॥ १९ ॥
पञ्चदशोऽध्यायः

[[१७६]]

सर्वाभरणसंयुक्तः कुशेशयविलोचनः ।
देवी सत्यव्रता नाम सुता सा कृष्णवर्त्मनः ॥ २० ॥
कुन्देन्दुसदृशाभा सा वर्णतः परिकीर्तिता ।
मुनिः शङ्खिलको नाम पूजकः श्वेत उच्यते ॥ २१ ॥
महिषो वाहनं तस्य व्यालध्वजसमन्वितः ।
शैषिकस्त्वचलो नाम यमस्य परिकीर्तितः ॥ २२ ॥
र्निॠतिः

त्रिणेत्रो र्निॠतिर्नीलः शूलपाणिः द्विबाहुकः ।
पत्नी च भञ्जनी नाम वर्णतस्सस्यसन्निभा ॥ २३ ॥
शैषिकः कलभो नाम किंशुकाभस्स उच्यते ।
शार्दूलो वाहनं तस्य र्निॠतेः समुदाहृतः ॥ २४ ॥
वरुणः

वरुणो नीलवर्णश्च रक्ताम्बरधरः शुचिः ।
दण्डपाशकरस्तस्य वाहनं गज उच्यते ॥ २५ ॥
शैषिकः पुण्यनामा च देवी च कनका मता ।
कनका नाम शर्यातेः गन्धर्वस्य सुता मता ॥ २६ ॥
वरुणस्य प्रिया देवी सती कुन्देन्दुसप्रभा ।
ध्वजः सिंहः समाख्यातो मुनिर्वत्सल उच्यते ॥ २७ ॥
…………………………………. ।
सुप्रतीको बलाकाभो वत्सलोऽग्निसमप्रभः॥ २८ ॥
सर्वाभरणसंयुक्तो देवो भोगेश्वरो वरः ।

[[१७७]]

वायुः

जवनश्चाच्छसङ्काशो वायू राजा महानकः ॥ २९ ॥
असिहस्तश्च तं कुर्याद्दिव्यं मकुटमुत्तमम् ।
अञ्जना नाम तद्देवी वैदूर्यसदृशप्रभा ॥ ३० ॥
अर्धासने च तां कुर्याद्वाहनं गज उच्यते ।
शैषिको बलको नाम लोहिताक्षश्च शूलधृक् ॥ ३१ ॥
कुबेरः

इन्द्रनीलनिभो वीरः पीताम्बरधरो युवा ।
कार्यः कुबेरो यक्षेशः…………….. ॥ ३२ ॥
मकुटं पार्श्वको नाग आयुधं दण्ड उच्यते ।
हंसयुक्तो रथस्तस्य वाहनं परिकीर्तितम् ॥ ३३ ॥
देवी यवनला प्रोक्ता सैव ॠद्धिः प्रकीर्तिता ।
दमनः पूजकः प्रोक्तः कपिलश्चाङ्घ्रिपूजकः ॥ ३४ ॥
दमनश्चाग्निवर्णस्स्यात्कपिलस्सोमवर्णभाक् ।
श्यामस्तु धनिनश्शेषो वर्णतश्श्याम एव सः ॥ ३५ ॥
ईशानः

पाटलीकुसुमाभस्तु शिवो वृषभवाहनः ।
त्रिणेत्रस्तु ध्वजश्चोक्षाः पत्नी रतिजया मता ॥ ३६ ॥
कुण्डाक्षरस्य सुता रम्या इन्दीवरनिभा शुभा ।
दादीभको नाम मुनिः पूजकः श्वेत उच्यते ॥ ३७ ॥
पञ्चदशोऽध्यायः

[[१७८]]

शैषिको यमजिन्नाम स तु वै पद्मसन्निभः ।
शूलञ्च परशुं तस्य आयुधं परिकल्पयेत् ॥ ३८ ॥
आदित्यः

रुद्रस्यैवापरा मूर्तिः त्रिणेत्रो मकुटी तथा ।
बिम्बं मार्ताण्डस्य कुर्यात्पृष्ठे मण्डलसंयुतम् ॥ ३९ ॥
चतुष्पादं कारयेच्च द्विपादमथवा रविम् ।
दोर्भिः द्वादशभिर्युक्तं व्याघ्रचर्माम्बरं तथा ॥ ४० ॥
शुक्लाम्बरधरञ्चापि देवेशं रुक्मलोचनम् ।
आसीनं वा स्थितं वापि विधिवत्स्वस्तिकासने ॥ ४१ ॥
यज्ञोपवीतिनं कुर्यात्सप्ताश्वैस्सुदृढैः पुनः ।
आयुधैरपि संयुक्तं गदापाशादिशक्तिभिः ॥ ४२ ॥
उल्लोलयन्तं विशिखं स्थाने चेत्सर्वमाचरेत् ।
दृष्टिं सानुग्रहं कुर्याद्दत्ताभयकरं पुनः ॥ ४३ ॥
पत्नी सुवर्चला नाम रेणुकेति च यां विदुः ।
शैषिकस्त्वमितः प्रोक्तो भास्करस्याग्निसन्निभः ॥ ४४ ॥
मुनिः कनकमाली स्याद्बलिजिच्च विचक्षणः ।
वैखानसो मुनिर्धीमान् स्वर्णमाली प्रकीर्तितः ॥ ४५ ॥
बलिजित् वालखिल्यश्च तावुभौ च सितासितौ ।
बडबा वाहनं तस्य विश्वरंहेति कीर्तितः ॥ ४६ ॥
सर्वान् केतूंस्तथा कुर्यात्प्रमाणं शुकवर्णिनः ।
शुकनासाखुरानश्वान् रुक्मकेशान्तलोचनान् ॥ ४७ ॥

[[१७९]]

देवीं निजगपत्राङ्गा पिङ्गला बडबा मता ।
अरुणं वाहनस्थाने कपिलं रुक्मकेशकम् ॥ ४८ ॥
सर्वाभरणसंयुक्तं पादौ…………….. ।
उत्पत्यादिकमन्यञ्च मया प्रोक्तं प्रकीर्णके ॥ ४९ ॥
न लौहं कांस्यकं कार्यं तत्पात्रं परिवर्जयेत् ।
स्निग्धं कुसुम्भवर्णञ्च कृत्वा मार्ताण्डमर्चयेत् ॥ ५० ॥
ध्वजे च शरभं कुर्यात्पृष्ठपादं बलान्वितम् ।
नवतालायतो…….न्यग्रोधपरिमण्डलः ॥ ५१ ॥
विष्वक्सेनः

अतः परं प्रवक्ष्यामि विष्वक्सेनस्य लक्षणम् ।
नवतालायतं बेरं किरीटेन समायुतम् ॥ ५२ ॥
ब्रह्मसूत्रं विना सर्वाभरणैरुपशोभितम् ।
आकुञ्च्य दक्षिणं पादं वामं पादं प्रसार्य च ॥ ५३ ॥
जयया सुखमासीनं भार्ययाऽग्निसमप्रभम् ।
शक्त्यायुधं दण्डपाणिं पुष्पपाणिं प्रजाहितम् ॥ ५४ ॥
कृत्वाऽर्चयेद्धनार्थी तु पूज्यमानं सदाऽमरैः ।
स्थानस्यैवाभिवृद्ध्यर्थं विष्वक्सेनं प्रचक्षते ॥ ५५ ॥
गरुत्मान्

वेदानामुत्तमां मूर्तिं गरुडं नवतालकम् ।
कुर्याद्धाटकवर्णञ्च शुकपिञ्जरवाससम् ॥ ५६ ॥
पञ्चदशोऽध्यायः

[[१८०]]

झल्लरीमेखलाबद्धकिङ्किणीजालशोभितम् ।
अङ्गदे कुण्डले कुर्याद्धस्तयोः कर्णयोरथ ॥ ५७ ॥
छन्नवीरोत्तराबन्धं कौबेरमकुटं तथा ।
बाह्वोराकुञ्चितौ पक्षौ पञ्चवर्णैश्च सुन्दरौ ॥ ५८ ॥
पक्षयोः कीचकान् कुर्यादर्धायामसुसंयुतान् ।
आमध्यबन्धसंयुक्तान् विवृतान् कोर्परोश्रितान् ॥ ५९ ॥
बिन्दुपिञ्जरवर्णाक्तान् पञ्चवर्णैश्च मिश्रितान् ।
तथा मरकताभाञ्च नासिकां चित्रकृच्चरेत् ॥ ६० ॥
तिस्रश्चूडास्समाख्याता मकुटस्य तु शोभनाः ।
उपर्युपरि सञ्छन्ना युक्त्या बन्धूकसन्निभाः ॥ ६१ ॥
आसने चासनं तस्य यत्र (वज्र) पीठमुदाहृतम् ।
एकं जानुनि पीड्याथ ब्रह्मासनमथापि वा ॥ ६२ ॥
शैशवं नागराजञ्च बाहुलम्बितमाचरेत् ।
आमूलश्यामलं रम्यं कुञ्जरं तत्र शैषिकम् ॥ ६३ ॥
तमाभरणवत्कुर्यात् स्मयमानञ्च गर्वितम् ।
वाहनानाञ्च सम्पत्तिः गरुडस्थापनाद्भवेत् ॥ ६४ ॥
पदार्थिनाञ्च सर्वेषामितरेषाञ्च सर्वथा ।
वक्रतुण्डः

वक्रतुण्डं तथा कुर्याद्बाह्यगोपुरदक्षिणे ॥ ६५ ॥
एकदन्तयुतं कुर्याद्गजस्येव मुखं चरेत् ।
कण्ठादूर्ध्वं गजाकारं बालमौलिसमन्वितम् ॥ ६६ ॥

[[१८१]]

भूतार्धवामनाकारं प्रवालाभं चतुर्भुजम् ।
दक्षिणं सङ्कुशं वामं वज्रमुष्टिधरं परम् ॥ ६७ ॥
गजसाम्रफलोपेतं कदलीफलकाङ्क्षिणम् ।
इक्ष्वेकहस्तं कुर्वीत सर्पैश्च परिवेष्टितम् ॥ ६८ ॥
सव्यैकाननमव्यग्रमर्धसाचीकृतेक्षणम् ।
वामे चाम्रफलोपेतं सप्तभिर्वाथ पञ्चभिः (?) ॥ ६९ ॥
अनन्तः

द्वारस्य वामभागे च अनन्तं परिकल्पयेत् ।
सुवर्णवर्णं तं शेषं शङ्खक्षीरनिभन्तु वा ॥ ७० ॥
आनीलाम्बरसंवीतं सर्वाभरणसंयुतम् ।
एकजानुसमासक्तमूर्ध्वे मकुटसंयुतम् ॥ ७१ ॥
सिंहासने वा कुर्वीत तथा पद्मासनेऽपि वा ।
द्विभुजं नागराजन्तु रक्तनेत्रासिपाणिकम् ॥ ७२ ॥
सुरया सहितं देवमप्सरोभिस्तथैव च ।
फणन्तु मध्यमं तस्य भवेत्पञ्चाङ्गुलायतम् ॥ ७३ ॥
अष्टाङ्गुलसमुत्सेधं फणानामानुपूर्व्यतः ।
………………………………….. ॥ ७४ ॥
अङ्गारकः

शक्तिपाणिस्तथा भौमः वक्रः शैषिक उच्यते ।
रक्तः पत्नी शुकजुषा वाहनञ्चाश्व इष्यते ॥ ७५ ॥
श्वेतश्च कृष्णफालश्च कृष्णवालः प्रकीर्तितः ।
पञ्चदशोऽध्यायः

[[१८२]]

शनैश्चरः

कुर्याच्छनिमसिश्यामं शेषपृष्टे विचक्षणः ॥ ७६ ॥
देवीञ्च कुमुदां नाम वराहं वाहनं तथा ।
बृहस्पतिः

कुर्याद्बृहस्पतिं देवं मकुटं पुरिमैर्युतम् ॥ ७७ ॥
कदलीवनमध्यस्थं तारया प्रियया युतम् ।
पुष्पश्यामाम्बरो धीमान् भक्तस्तस्यापि पीवरः ॥ ७८ ॥
हंसस्तु वाहनं ज्ञेयं ध्वजो नित्यं कुशः स्मृतः ।
बुधः

तारेयं विष्णुवर्णाङ्गमिलां देवीं समाचरेत् ॥ ७९ ॥
शेषो वसिष्ठको नाम कङ्को वाहनमुच्यते ।
ध्वजश्श्येनस्समाख्यातो रवेर्दक्षिणबाहुकः ॥ ८० ॥
शुक्रः

काव्यो धिषणतुल्यस्स्याज्जायाऽस्य सुमता मता ।
मेघाश्च वाहनं तस्य येऽग्निजा इति कीर्तिताः ॥ ८१ ॥
शेषस्तु सुमदो नाम चिह्नमग्निरुदाहृतः ।
गङ्गा

सर्वाभरणसंयुक्तां गङ्गां कुर्याद्विचक्षणः ॥ ८२ ॥
पीठे कूर्माकृतौ देवीं पद्महस्तां तथाऽऽसने ।
घृतञ्चैककरे पद्ममाजिघ्रन्तीं समाचरेत् ॥ ८३ ॥

[[१८३]]

प्रसारितासनं कुर्यात्तस्या न स्थानमिष्यते ।
शाकुरिः शैषिकस्तस्या वाहनं हंस इष्यते ॥ ८४ ॥
स्त्रीणां ध्वजस्तु हंसस्स्यात् कलिपत्नीपतेः सदा ।
चन्द्रः

आत्रेयं हरिवत्कुर्याच्छितं मण्डलमाचरेत् ॥ ८५ ॥
मिश्ररुक्मनिभं श्वेतमिश्रमाहितकं स्मृतम् (?) ।
राजानं द्विभुजं कुर्यादिन्द्रमौलिसमन्वितम् ॥ ८६ ॥
ताराञ्च रोहिणीं कुर्याद्दक्षिणे चास्य चासने ।
वामे च फल्गुनीं कुर्यात्पद्माभूमी यथा हरेः ॥ ८७ ॥
इषुधी चाक्षये तस्य चक्रस्थानेऽभिपूजयेत् ।
अश्वा हिरण्यरोमाणः श्वेताश्चाष्टौ प्रकीर्तिताः ॥ ८८ ॥
प्रवालपादनासास्ते शुकपिञ्छखुरा वराः ।
शशाकृतिस्तस्य चोर्ध्वे दक्षिणे सूत्रशीर्षतः ॥ ८९ ॥
लक्ष्मभागसमायामकिणं वामे तथोपरि ।
पुरुषोक्तन्तु सर्वाङ्गं द्विभुजं पीनबाहुकम् ॥ ९० ॥
शुभसंहननं कुर्यात्सोमं नित्यं मुदाऽन्वितम् ।
तारार्थं युध्यमानन्तु देवेन्द्रेणानुयायिना ॥ ९१ ॥
प्राहरत्किल तं युद्धे शूलेन वृषवाहनः ।
जहाराच्छिद्य तं शूलं मध्ये प्राप तु लक्षणम् ॥ ९२ ॥
तदा प्रभृति सोमस्य किणं शिरसि दक्षिणे ।
अपलायनमिच्छेच्चेदर्चयेदिन्दुमुत्तमम् ॥ ९३ ॥
पञ्चदशोऽध्यायः

[[१८४]]

रथस्तु वाहनं नाम स्वयं द्रुहिणनिर्मितम् ।
स्थापयेत्तं खगस्थाने तस्य चेदालयः कृतः ॥ ९४ ॥
अश्वान् समर्पयेत्तत्र मन्त्रैरेतैरुदाहृतैः ।
सुखञ्च जयदं सक्तिं विशोकं युद्धपारगम् ॥ ९५ ॥
हृष्टं सम्राजमानन्दमष्टौ सम्पूजयेद्धयान् ।
विमलं पुष्यकञ्चैव मुनी तौ पूजने स्मृतौ ॥ ९६ ॥
सित श्यामाम्बरं कुर्याद्विमलं पुण्यगर्भितम् ।
अमलः पुष्यको ज्ञेयः सोम उक्तस्समासतः ॥ ९७ ॥
श्रीः

पद्मपीठे समासीनां मण्डले चोर्ध्वकर्णिके ।
तथा प्रसारितकरां देवीं ध्रुतकुशेशयाम् ॥ ९८ ॥
शातकुम्भमयैः कुम्भौः सिच्यमानां दिशां गजैः ।
अथवा शयनारूढां क्रीडन्तीं सह विष्णुना ॥ ९९ ॥
मानोक्तेन तु मानेन श्रीदेवीं कारयेत्सुधीः ।
रोहिण्यः

रोहिणीः कारयेत्सर्वाः भूमिवद्भूषणैर्युताः ॥ १०० ॥
सङ्क्रीडमानास्तास्सर्वा भूषणैस्समलङ्कृताः ।
मयूररथ्यो रोहिण्यः कृकलासध्वजप्रियाः ॥ १०१ ॥
सुमुखा नन्दिनी माया कीकसा च सुलोचना ।
वाहिनी यायिनी कामा शैष्यस्सर्वाः प्रकीर्तिताः ॥ १०२ ॥

[[१८५]]

अक्षञ्च लोहिताक्षञ्च कुर्यात्तासाञ्च रक्षणे ।
अर्चयित्वातु तास्सर्वा रक्षयेच्च विशेषतः ॥ १०३ ॥
सर्वास्ताः पिञ्जवत्यश्च पुष्पहस्ताः प्रमोदनाः ।
शुक्लकञ्चुकसंयुक्ताः नित्यं लोकप्रसादकाः ।
धात्री

कुर्याद्धात्रीं महारौद्रीं दंष्टा्रभ्यां समलङ्कृताम् ॥ १०४ ॥
बालमौल्युत्तरासङ्गां सान्त्रशूलाञ्च षड्भुजां

रक्तोग्रनयनापाङ्गीं भ्रूभङ्गविकटोग्रकाम् ॥ १०५ ॥
स्त्रीणामिव च तद्वक्त्रमतिरौद्रं समाचरेत् ।
कपालपाशहस्ताञ्च रक्तकुञ्चितमूर्धजाम् ॥ १०६ ॥
उग्रपीठे समासीनामदृहाससमन्विताम् ।
बेरं कुर्याद्यथायोग्यं तस्याश्चेदालयं पृथक् ॥ १०७ ॥
ज्येष्ठा

त्रिपीठकाख्ये पीठे तु ज्येष्ठा कुर्याद्विचक्षणः ।
प्रसारासनगां स्थाने दैविके मानुषे चरेत् ॥ १०८ ॥
वामहस्तेन सम्पूर्णं हरन्तीं निधिभाजनम् ।
दक्षिणं पुष्पहस्तञ्च किञ्चिल्लम्बोदरीं शुभाम् ॥ १०९ ॥
सरक्तपुष्पवस्त्रान्तामतिपीनचलस्तनीम् ।
तस्याश्च दक्षिणे पुत्रं तस्या बाहुप्रमाणातः ॥ ११० ॥
पीतं वृषभकं नाम शुकवर्णहिताम्बरम् ।
सहासने ततस्तस्या दण्डपाणिं समुन्नतम् ॥ १११ ॥
पञ्चदशोऽध्यायः

[[१८६]]

वृषभस्य शिरस्तस्य पूर्वोक्तं किञ्चिदुन्नतम् ।
वामे च मैञ्जलिं तस्याः सुतां परमलालिताम् ॥ ११२ ॥
अर्धसाचीकृतापाङ्गामर्धासनसमाहिताम् ।
रक्तनीपलपरीताङ्गीं रक्तोत्पलकरां पराम् ॥ ११३ ॥
पादमेकं प्रसार्यैकमाकुञ्च्य परिकल्पयेत् ।
तेषां पृष्ठे तथा कुर्याद्व्याजिन्यौ दक्षिणे क्रमात् ॥ ११४ ॥
सारोचितां सरुचिरां कुर्यात् स्थाने यथाक्रमम् ।
पृथक् चेदालयं तस्या वाहनं खरयुग्रथः ॥ ११५ ॥
खराणाञ्चैव पञ्चाशत् रथे तस्याः प्रकीर्तिताः ।
कृष्णः काको ध्वजो ज्ञेयः नितम्बा चैव शैषिकी ॥ ११६ ॥
परिवारः खरास्तस्याः षोडशस्युर्दुरासदाः ।
आलेख्यास्ते क्लृप्तबिम्बाः सर्वलोकस्य नाशकाः ॥ ११७ ॥
पिशाचसमकायास्ते नित्याञ्चाभोज्यभोजनाः ।
………………………………………… ॥ ११८ ॥
निद्रा

निद्राया लक्षणं वक्ष्ये तां कुर्यादष्टबाहुकाम् ।
शङ्खचक्रधरं स्थाने आकुञ्चितपदां तथा ॥ ११९ ॥
शूलासिचापसहितां गदापाशादिधारिणीम् ।
शुकं सुरुचिरे स्थाने स्थितमादाय वामगम् ॥ १२० ॥
तनुकां पद्मके पीठे स्थापयेदिति शासनम् ।
माहिषे तु शिरस्येव तां देवीं स्थापयेत्क्रमात् ॥ १२१ ॥

[[१८७]]

रम्यां सुलोचनापाङ्गां कुष्णकुञ्चितमूर्धजाम् ।
तन्वीञ्च कुचभारोग्रां सूक्ष्मकर्णां त्रिलोचनाम् ॥ १२२ ॥
काम्याभरणसर्वाङ्गीं दुष्टकन्यासुवेषगाम् ।
लतावलयसम्बद्धां झल्लरीभिस्सुसंवृताम् ॥ १२३ ॥
कौबेरमौलिसंयुक्तामतिसुन्दरगात्रकाम् ।
तस्याः पृष्ठे समे पार्श्वे विशल्यां विरुजां तथा ॥ १२४ ॥
व्याजिन्यौ ते तथा कुर्यात्कुन्दबन्धूकसन्निभे ।
ख्यातीशपुण्ययोः स्थाने सुमनामञ्जनां तथा ॥ १२५ ॥
तस्याश्च कौशिकी नाम शैषिकी परिकीर्तिता ।
कौशिकी श्वेतवर्णा स्यात्सुमना पीतका तथा ॥ १२६ ॥
अञ्जनाञ्जनसङ्काशा सुशोभास्साक्षमालिकाः ।
वहने वाहनं तस्याः सिंहः कृष्णमृगस्तथा ॥ १२७ ॥
सिंहः प्रभञ्जनो नाम कृष्णः सार उदाहृतः ।
दक्षिणोत्तरयोस्तस्या विन्यसेदिति शासनम् ॥ १२८ ॥
ध्वजश्चास्यास्समाख्यातस्स्वस्तिकः सिंहलक्षणः ।
नीलोत्पलदलो नाम भूतग्राही च वीजकः ॥ १२९ ॥
भूतः पङ्गुपदो नाम रुक्मवर्णोऽरुणेक्षणः ।
(सप्तर्षयः)-भृगुः

नवार्धतालमानेन माञ्च कुर्याञ्चतुर्भुजम् ॥ १३० ॥
ब्राह्ममासनमासीनं ब्रह्माञ्जलिकरद्वयम् ।
अङ्के वामे तथोत्तानं प्रसृतं तस्य चोपरि ॥ १३१ ॥
पञ्चदशोऽध्यायः

[[१८८]]

हस्तञ्च दक्षिणं तस्य चोपर्युत्तानमाचरेत् ।
नासाग्रे प्रसृता दृष्टिर्योगदृष्टिरिति स्मृता ॥ १३२ ॥
दक्षिणे चोर्ध्वगे हस्ते कलशं मम कारयेत् ।
वामे शिक्यञ्च संशुद्धं ब्रह्मदण्डञ्च वैणवम् ॥ १३३ ॥
जातिहिङ्गुलिकाभं वै मुखञ्च मकुटे जटाम् ।
ताम्रास्य नयनं कुर्यात्सम्मुखे मृगचर्म च ॥ १३४ ॥
शुष्कवल्कलवस्त्रञ्च मुनिभिस्सह वा विना ।
परिवारैश्च सहितं विना चेन्मद्गृहे तथा ॥ १३५ ॥
समृद्धिश्च धनश्चोभौ………….. ।
एतौ सस्यजपावर्णौ व्याजनौ कुकुराक्षकौ ॥ १३६ ॥
देवी सरस्वती चान्या ब्रह्मश्रीः परिकीर्तिता ।
किञ्चार्धमासनं तस्याः कुर्यात्तु पृथगेव वा ॥ १३७ ॥
शैषिकञ्चार्चयेन्नित्यं प्रियव्रतमपाक्षिकम् ।
मन्त्रांस्तान् वाहनं कुर्याद्यावन्तस्स्युस्समाहिताः ॥ १३८ ॥
स्थापने मम नक्षत्रं कुर्यात्प्रोष्ठपदोत्तरम् ।
उत्तरां फल्गुनीञ्चाथ पौर्णमासीञ्च सप्तमीम् ॥ १३९ ॥
मुनीन् सर्वान् समासीनान् सम्भूतीशादिकान् समान् ।
तदा द्विबाहुकान् स्थाने सर्वलोकपितामहान् ॥ १४० ॥
पितॄन् देवान् धारयतः तपसा सर्वमानुषान् ।
द्याञ्च गां लोकचक्षूंषि सदा गह्वरवाहनान् ॥ १४१ ॥
जङ्गमान् स्थावरानन्यान् तपसा तारयिष्यतः ।
लब्धप्रसादास्ते विष्णोः जगत्पालनतत्पराः ॥ १४२ ॥

[[१८९]]

तस्मात्तानर्चयेन्नित्यं सर्वलोकैकशान्तये ।
अनावृष्टिगदोत्पातवह्नितोयविषादिकम् ॥ १४३ ॥
विलुम्पनञ्च प्रोद्भूतदैविकं भयमष्टधा ।
नश्यन्ति दोषा यत्रैते पूज्यन्ते मुनयः क्रमात् ॥ १४४ ॥
सप्तर्षयः पत्न्यश्च

मरीचिः पुलहश्चैव पुलस्त्यः क्रतुरेव च ।
वसिष्ठोऽत्रिरहञ्चेति मुनयस्सप्तकीर्तिताः ॥ १४५ ॥
सम्भूतिश्च क्षमा चैव प्रीतिस्सन्नतिरेव च ।
ऊर्जाख्यात्यनसूयाश्च ॠषिपत्न्यः प्रकीर्तिताः ॥ १४६ ॥
पत्न्यस्ता क्रमशः प्रोक्ताः कुर्याद्वै विरहासने ।
गविष्ठः(आकाशः)

गविष्ठं पद्मसङ्काशं कुर्याद्वै पीतवाससम् ॥ १४७ ॥
सर्वाभरणसंयुक्तं मकुटं दैविकं तथा ।
बेरं सुखासने कुर्याद्गविष्ठस्य परं क्रमात् ।
गविष्ठो दण्डपाणिस्स्यादसिपाणिरपि स्मृतः ॥ १४८ ॥
पृषदश्वः (वायुः)

श्यामस्तु पीतको वायुः पूर्वं कौसुम्भकाम्बरः ।
…………………………………….. ॥ १४९ ॥
आभुरण्यः (अग्निः)

आभुरण्यो नीलवासाः हरिपिञ्जरमूर्धजः ।
तं कुर्यान्मध्यमे तस्य वामे कुर्यात्तु गह्वरम् ॥ १५० ॥
पञ्चदशोऽध्यायः

[[१९०]]

गह्वरः (जलम्)

तृतीयप्रकृतिं कुर्याद् गह्वरञ्चोत्पलप्रभम् ।
हरिपिञ्जरवस्त्रन्तं भूतानाञ्च चतुर्गुणम् ॥ १५१ ॥
मेदिनी

सर्वेषां वामतः कुर्यान्मेदिनीं वामलोचनाम् ।
पञ्चभूतानां स्थानानि

एकासनान् कुञ्चितापसव्यपादान् समाचरेत् ॥ १५२ ॥
आभुरण्यं गह्वरञ्च शक्तिपाणी समाचरेत् ।
गविष्ठपत्नी विख्याता विधिना सत्यलोचना ॥ १५३ ॥
वायोश्च चलिका नामाऽभुरण्यं च सङ्ख्यका ।
त्रयाणामपि देविनां पृथक् स्थानं विधीयते ॥ १५४ ॥
विद्या

विद्यां चतुर्भुजां कुर्याद्रक्तां ध्रुतकुशेशयाम् ।
दक्षिणे त्वक्षमालाञ्च करे वामे कमण्डलुम् ॥ १५५ ॥
ज्ञानमुद्रां दक्षिणाधः करे वामे च पुस्तकम् ।
एकं प्रसारिणं कुर्यात्सुरूपां शैषिकीं तथा ॥ १५६ ॥
पुष्करा च विशोका च व्यजिन्यौ परिकीर्तितौ ।
पुष्कराङ्कुशसङ्काशा विशोका दुग्धवर्णिनी ॥ १५७ ॥
विश्वपाद्गालवौ चैव पूजकौ तु मुनीश्वरौ ।
विश्वपादञ्जनाभस्तु भाभो गालव उच्यते ॥ १५८ ॥

[[१९१]]

उग्रं भीमं महाभूतं विकटं दण्डपाणिनम् ।
कालाम्बुदाभं कृत्वा तु तलके स्थापयेदिति ॥ १५९ ॥
स्कन्दः

स्कन्दं पलाशपुष्पाभं षड्भुजं वा चतुर्भुजम् ।
बालमौलिसमायुक्तं विकचप्रीतिवाचकम् ॥ १६० ॥
देवयानीञ्च तत्पार्श्वे स्थाने चेन्न समाचरेत् ।
आसने दक्षिणे तेन चासित्वान्योन्यवीक्षणे ॥ १६१ ॥
अर्धसाचीकृतं देव्याः तस्यार्धं भर्तुरिष्यते ।
सर्वेषामपि देवानामासनञ्चैव दैविके ॥ १६२ ॥
देवी श्यामनिभा तस्य देवयानी वराङ्गना ।
दुहिता सा हि धर्मस्य नित्यं धर्मपरायणा ॥ १६३ ॥
तस्यालये तु विधिना सुसेनं स्थापयेत्क्रमात् ।
सुसेनोऽञ्जनवर्णस्स्याच्छूलहस्तो गदायुधः ॥ १६४ ॥
वाहनं हस्तिनं कुर्यान्मयूरं वा यथोचितम् ।
नवहस्तनिभं कुर्यादुत्सेधस्सप्तहस्तकः ॥ १६५ ॥
आयामार्धं ततः पादाः शेषं नाह उदाहृतः ।
प्रदेश….न्नतो विद्याच्छिरसो मस्तकं तयोः ॥ १६६ ॥
नाहेनार्धपरीणाहः पादहीनन्तु गात्रयोः ।
गात्रार्धपरिणाहो वा पादहीनः करोर्ध्वकः ॥ १६७ ॥
भूमिलम्बं तथा कुर्यात्करं वालमनुच्छितम् ।
मानं नखानां तत्रैव चतुरङ्गुलमिष्यते ॥ १६८ ॥
पञ्चदशोऽध्यायः

[[१९२]]

भागान्तराणां तेषां वै सर्वं बोद्धव्यमित्यथ ।
तयोर्मानं यथेभस्य मानं कुर्याद्भयङ्करम् ॥ १६९ ॥
इभानामेव सर्वेषां मानमित्थमुदाहृतम् ।
ऐरावतं विनाऽन्येषां नीलो वर्णः प्रकीर्तितः ॥ १७० ॥
ऐरावतहस्ती

स्याद्द्वादशकरायामो मितं करिपतेः सदा ।
सतालनवहस्तः स्यादुत्सेधः सर्वसम्मतः ॥ १७१ ॥
प्रवालाभश्चतुर्दन्तः श्वेतवर्णो गजाधिपः ।
दन्ताश्च युग्मसंस्थानां युगलाश्शोभना मताः ॥ १७२ ॥
परिणाहादिकं तेषामूर्ध्वं युक्त्या समाचरेत् ।
नीलहस्ती

तथा च नीलहस्ती स्यादिन्द्रनीलनिभश्शुभः ॥ १७३ ॥
वराहस्य महाविष्णोर्वाहनं परिकीर्त्यते ।
पञ्चहस्तायतं पृष्ठे स त्रिपञ्चार्धदेहकम् ॥ १७४ ॥
तस्यार्धमूर्ध्वकर्णस्य नाहस्तस्य षडङ्गुलम् ।
अग्रभागपरीणाहे शिरव्यास्य? त्वङ्गुलास्तु षट् ॥ १७५ ॥
गोलकं विस्तृतं तस्य तुण्डं वा चतुरङ्गुलम् ।
भुजमात्रेक्षणे कुर्याद्भुजमात्रे उभे तले ॥ १७६ ॥
मयूरः

पञ्चाक्षकाः समाख्याताः सुन्दराः पञ्चवर्णकाः ।
मयूरा ये प्रदृश्यन्ते तथा प्रकृतमानकाः ॥ १७७ ॥

[[१९३]]

दिव्या चेदधिकं मानं देहानाञ्च समाचरेत् ।
हस्तं पादं तथाऽऽयामत्रितयं तत्समं स्मृतम् ॥ १७८ ॥
चूडा षडङ्गुलं प्रोक्तं विस्तारः कोलकं भवेत् ।
गोलकोत्सेधसौन्दर्यं वीक्ष्य कुर्याद्विचक्षणः ॥ १७९ ॥
चक्रं

कुर्याच्चक्रं नराकारं चक्रचूलीसमन्वितम् ।
चक्रं बहिर्मुखं कुर्याच्छरोऽङ्गाराग्निसन्निभम् ॥ १८० ॥
पादहीनं वैनतेयाद्धीन (?) मस्यार्धमेव वा ।
आस्थानमण्डपस्थाने स्थापयेद्दैविके क्रमात् ॥ १८१ ॥
तस्माद्ध्वजस्य स्थाने च कुर्याद्बिम्बं यथाक्रमम् ।
ध्वजस्थाने गरुडः

ध्वजस्थं गरुडं कुर्यादासनेऽर्पितपादकम् ॥ १८२ ॥
आकुञ्चितं वामपादं सुप्रसारितबाहुकम् ।
दधतं दक्षिणे हस्ते पद्ममुत्पलमेव वा ॥ १८३ ॥
अष्टाङ्गुलं पुष्पनालं प्रभूतप्रतिभं महत् ।
पुष्पप्रेक्षमुखं कुर्यात्सानन्दं स्मेरगर्वितम् ॥ १८४ ॥
एष ग्रामहितः प्रोक्तः जयार्थञ्चान्य उच्यते ।
जानुनाऽऽपीडय पीठन्तु सव्येनान्येन वा तथा ॥ १८५ ॥
वज्रं वा विजिघृक्षन्तमुग्रदृष्टिं चरेदिति ।
पद्मे पद्मासनासीनं सुखं ध्यायन्तमव्ययम् ॥ १८६ ॥
पञ्चदशोऽध्यायः

[[१९४]]

ॠषीणाञ्च हितार्थाय कुर्यादेवं विचक्षणः ।
अशक्तस्तु ध्वजविधेः मण्डपे सम्यगर्चयेत् ॥ १८७ ॥
गर्भस्थं स्वामिनं दृष्ट्वा ध्वजं कुर्यादिति स्थितिः ।
शङ्खः

जलजं चक्रवत्कुर्यान्मकुटे शङ्खसंयुतम् ॥ १८८ ॥
तद्वर्णञ्चैव युक्त्या वै नीलवाससमच्युतं

यूथाधिपस्य पीठे वै बिम्बं कुर्याद्विचक्षणः ॥ १८९ ॥
बिम्बञ्चेत्क्रियते तस्य यमकं पीठमुच्यते ।
स्थले पादासने चैव कर्तव्यं तदधस्स्थले ॥ १९० ॥
पूर्वञ्च पश्चिमे कुर्यात्पश्चिमं वृत्तकं विदुः ।
वृत्तञ्चाप्यधिरुह्यैवं दण्डपाणिर्बहिर्मुखः ॥ १९१ ॥
चतुरश्रे तथा चोर्ध्वे भूतान् सर्वांश्च कारयेत् ।
साधारण्येन तालप्रस्तारकथनम्

अत ऊर्ध्वं प्रवक्ष्यामि सामान्यप्रस्तरक्रमम् ॥ १९२ ॥
दशतालं सार्धनवमष्टसप्ताथ षट् क्रमात् ।
पञ्चतालं चतुस्तालं त्रितालञ्चाभिधीयते ॥ १९३ ॥
ब्रह्मा विष्णुर्हरश्चेति त्रयस्ते दशतालकाः ।
इन्द्रो रविस्तथा स्कन्दो नवार्धमितमानकाः ॥ १९४ ॥
इतरे लोकपालाश्च नवतालमितास्स्मृताः ।
मानुषाकृतयः शुद्धा न्यग्रोधपरिमण्डलाः ॥ १९५ ॥

[[१९५]]

अष्टताला नरा ज्ञेया जघन्याः सप्ततालकाः ।
षड्भिः कुब्जास्समाख्याताः पञ्चतालास्तु वामनाः ॥ १९६ ॥
चतुस्तालास्तथा भूताः त्रितालाः किन्नराः स्मृताः ।
मुखं तालं यवञ्चैव द्वादशाङ्गुलसञ्ज्ञकाः ॥ १९७ ॥
दशतालं तु विज्ञेयं सविंशतिशताङ्गुलम् ।
एवं ज्ञात्वा तु कर्तव्यं चिन्तयित्वा यथार्हकम् ॥ १९८ ॥
तलभेदेन विमानानां प्राशस्त्यम्

अतः परं प्रवक्ष्यामि विमानन्यासलक्षणम् ।
उत्तमं मध्यमञ्चैव तथाऽधममिति क्रमात् ॥ १९९ ॥
एकैकं त्रिविधं कृत्वा नवधा मार्ग उच्यते।
पुनस्तदेवमेकैकं त्रिविधं त्रित्रिकं क्रमात् ॥ २०० ॥
सप्तविंशतिधा भेदो विमानानामुदीर्यते ।
यत्प्रोक्तं द्वादशतलमिति तत्स्यादमानुषम् ॥ २०१ ॥
इन्द्रादिलोकपालानामर्चनार्हन्तु शार्ङ्गिणः ।
न हि सप्ततलादूर्ध्वं किञ्चिदस्तीह भूतले ॥ २०२ ॥
शिलानिर्माणप्रशंसा

चिरकालार्चनं काङ्क्षन् नेष्टकाभिः क्रियाश्चरेत् ।
यावच्छक्यं दृढं कुर्याच्छिलाभिः निर्मितिं सदा ॥ २०३ ॥
भविष्यदर्थमुद्दिश्य युगशक्तिं विचिन्त्य च ।
उत्तमन्तु मनुष्याणां पञ्चभूमिर्विधीयते ॥ २०४ ॥
पञ्चदशोऽध्यायः

[[१९६]]

पञ्चहस्तप्रमाणन्तु विष्णोस्तदधमाधमम् ।
सर्वेषामेव देवानां त्रिहस्तमधमाधमम् ॥ २०५ ॥
तस्माद्धीनं न कर्तव्यं देवानामिति हि श्रुतम् ।
स्थानं विनाऽधिपादीनां मण्डपं वा विधीयते ॥ २०६ ॥
पञ्चहस्तमथाऽऽरभ्य आपञ्चदशहस्ततः ।
अधमं त्रिकमत्रैव योजयेत्सर्वकर्मसु ॥ २०७ ॥
त्रयोदशमथाऽऽरभ्य पञ्चविंशतिकादधः ।
मध्यमं त्रिकमिष्टं स्याद्यथा शक्यं तथाऽर्पयेत् ॥ २०८ ॥
एकविंशतिमारभ्य पञ्चविंशतिकावधि ।
उत्तमं तत्र कर्तव्यं त्रिकमित्यभिधीयते ॥ २०९ ॥
अधमे चोत्तमं कुर्याद्यदि कुर्यात्तदुत्तमम् ।
उत्तमे चाधमं कुर्यान्न कुर्यादिति शासनम् ॥ ३१० ॥
प्रकारान्तरेण तलभेदेन तरतमभेदः

तलप्राकारचूडाभिः परिवारार्चनादिभिः

विन्यासभेदं वक्ष्यामि शृणुध्वमृषिसत्तमाः ॥ २११ ॥
अधमं स्यादेकतलं विमानं पूजने स्मृतम् ।
मध्यमं द्वितलं प्रोक्तं त्रितलञ्चोत्तमं भवेत् ॥ २१२ ॥
यत्रैव शयनं प्रोक्तं तत्र चोत्तममुच्यते ।
वराहनारसिंहाद्या यत्र यत्र प्रकल्पिताः ॥ २१३ ॥
उत्तमं तत्र कर्तव्यमिति शास्त्रस्य निश्चयः ।
एकप्राकारसंयुक्तमधमं परिकीर्तितम् ॥ २१४ ॥

[[१९७]]

द्विप्राकारसमायुक्तं मध्यमञ्चाभिधीयते ।
त्रिप्राकारं विशेषेण ह्युत्तमन्तु विदुर्बुधाः ॥ २१५ ॥
एको द्वावधिका यत्र प्राकारास्तत्र चोत्तमम् ।
गोपुरं चूलिकाञ्चापि प्रमुखे प्रमुखे चरेत् ॥ २१६ ॥
पञ्चगोपुरसंयुक्तमुत्तमोत्तममुच्यते ।
चत्वारि त्रीणि द्वे चैकमिति ह्रासः क्रमाद्भवेत् ॥ २१७ ॥
समालोच्य यथाशक्ति यथार्हं परिकल्पयेत् ।
यत्रैव परिवारास्स्युः तत्र रक्षा प्रकीर्तिता ॥ २१८ ॥
अनपायिगणानान्तु रक्षां कुर्यान्न वा दृढम् ।
वीश एवाधमे स्थाप्यः मध्यमे चक्रसंयुतः ॥ २१९ ॥
उत्तमे ध्वजसंयुक्तः त्रिष्वेवं क्रम उच्यते ।
कर्तुश्शक्तिरथेच्छा चेत्सर्वान्त्सर्वत्र कारयेत् ॥ २२० ॥
राजराष्ट्राभिवृद्ध्यर्थं मानतः कृतमुत्तमम् ।
अनपायिनां स्थानं

वीशं प्रतिमुखं कुर्यादन्यथा तु विपर्ययः ॥ २२१ ॥
चक्रन्तूभयधा कुर्याद्बुद्ध्या बुद्ध्वा तु कारयेत् ।
न कुर्यादेककक्ष्यायां पृथक्कक्ष्या विधीयते ॥ २२२ ॥
अनन्तः शुभ उद्दिष्टः अनपायिषु सर्वथा ।
अनपायिविहीने तु सर्वं दुष्टं भविष्यति ॥ २२३ ॥
ईशानसोमयोर्मध्ये विष्वक्सेनालयं चरेत् ।
विष्णोः प्रियतरश्शान्तः अनपायिगणाधिपः ॥ २२४ ॥
पञ्चदशोऽध्यायः

[[१९८]]

तत्स्थाने तं प्रकुर्वीत स्थानमन्यत्परित्यजेत् ।
उत्तमे मध्यमे चास्य कल्पयेदर्हमालयम् ॥ २२५ ॥
सेनापतिं चरेद्बाह्यावरणे सर्वरक्षकम् ।
ब्रह्मपद्मविधानेन यत्र शङ्कुः प्रतिष्ठितः ॥ २२६ ॥
ब्रह्मस्थानं तत्प्रधानं सर्वदेवेष्वयं विधिः ।
चतुरश्रेष्वायतेषु मन्दिरेषु निबोधत ॥ २२७ ॥
चतुरः सूत्रसंयोगं ब्रह्मस्थानस्य लक्षणम् ।
तद्वास्तु ब्रह्मणः स्थानं तत्पश्यन्ति दिवौकसः ॥ २२८ ॥
परिवारैस्समाविष्टे मध्यमे चैव कारयेत् ।
यत्र यत्रैव मध्यं स्यात्तत्तद्ब्राह्ममिति स्थितिः ॥ २२९ ॥
मध्यस्थानं विभज्यैव परिवारान् प्रकल्पयेत् ।
दूरे समीपे वा युक्त्या प्रतिसूत्रं प्रकल्पयेत् ॥ २३० ॥
एकस्यां दिशि तान् सर्वान् सम्यक् प्रतिपदं चरेत् ।
मित्रस्य बलिपीठन्तु मध्यमं ब्राह्ममुच्यते ॥ २३१ ॥
बलिस्थानं ध्वजस्थानं चक्रस्थानं तथैव च ।
तथा चूलिकमध्याद्वा मत्वा सम्यक् समाचरेत् ॥ २३२ ॥
अधमेषु न कर्तव्यं ब्रह्मस्थानं विधानतः ।
अधमे सम्प्रयोगे तु स्थलगर्भस्य पार्श्वतः ॥ २३३ ॥
प्रासादे मण्डपे वाऽपि लभ्यते यत्र चान्तरम् ।
देवं शैषिकसंयुक्तमर्चयेदिति कल्पनम् ॥ २३४ ॥
अधमाधममित्याह भगवान् विखना मुनिः ।
शैषिकं गरुडञ्चैव द्वावेवाधममध्यमे ॥ २३५ ॥

[[१९९]]

दिग्देवान् सम्प्रकल्प्यैव रविणा सह संयुतान् ।
पूर्वोक्तस्थाननिहितानेकादश समर्चयेत् ॥ २३६ ॥
अधमोत्तममित्याहुः मुनयश्शास्त्रकोविदाः ।
द्वितीयावरणे त्वेवं भौमादीनां यथाक्रमम् ॥ २३७ ॥
स्थानं सम्यक् प्रकल्प्यैव पूर्वोक्तेन विधानतः ।
अर्चयेन्नित्यमेवन्तु मध्यमाधममुच्यते ।
ग्रन्थान्तरेषु ज्ञातव्यं मध्यमाधमतः परम् ॥ २३८ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे परिषदालयलक्षणकथनं नाम पञ्चदशोऽध्यायः ॥