१४ प्रतिमालक्षणकथनम् - अङ्गुलादिसञ्ज्ञाः

अथ चतुर्दशोऽध्यायः

प्रतिमालक्षणकथनम् - अङ्गुलादिसञ्ज्ञाः

अथ परं प्रवक्ष्यामि प्रतिमानान्तु लक्षणम् ।
मानोन्मानप्रमाणाद्यैः लक्षणं सम्प्रवक्ष्यते ॥ १ ॥
मानाङ्गुलम्

अङ्गुलानां त्रिधोक्तानां लक्षणं वक्ष्यते पृथक् ॥ २ ॥
अप्रत्यक्षघना नित्या अणवः परिकीर्तिताः ।
अणुभ्यश्च तथाष्टभ्यो रथरेणुर्विनिश्चितः ॥ ३ ॥
अष्टभ्यो रथरेणुभ्यः केशाग्रमभिधीयते ।
केशाग्रेभ्यतथाष्टभ्यो लिक्षा चेति विनिश्चितः ॥ ४ ॥
लिक्षाभ्यश्च तथाष्टभ्यो यूका चेति विनिश्चितः ।
यूकाभ्यश्च तथाष्टभ्यो यवमध्यमुदाहृतम् ॥ ५ ॥
अष्टभ्यो यवमध्येभ्यो मानाङ्गुलमुदाहृतम् ।
देहलब्धाङ्गुलं

चित्रेऽर्धचित्रे वाऽऽलेख्ये देहलब्धप्रमाणतः ॥ ६ ॥
यथेष्टं तद्विभज्येत शतं विंशतिसंयुतम् ।
देहलब्धाङ्गुलन्त्वेतत् शास्त्रविद्भिरुदाहृतम् ॥ ७ ॥
मात्राङ्गुलम्

मध्यमाङ्गुलिमध्यन्तु पर्व यन्मानमुच्यते ॥ ८ ॥
उत्तमाधममध्यानामुत्तमाधममध्यमम् ।
मात्राङ्गुलमिति प्रोक्तं पुरुषाणां विभागशः ॥ ९ ॥

[[१४२]]

अङ्गुलसञ्ज्ञापर्यायवाचकपदानि

अङ्गुलन्तु भवेन्मात्रं द्व्यङ्गुलं गोलकं भवेत् ।
तदेव तु कला प्रोक्ता द्वे कले भाग उच्यते ॥ १० ॥
अङ्गुलानां दश द्वे च यम इत्यभिधीयते ।
द्वौ यमौ तत्र विद्वद्भिररत्निरिति कीर्तिता ॥ ११ ॥
रत्निः संवृतमुष्टिः स्यादरत्निः प्रसृताङ्गुलिः ।
चत्वारि मानानि

मानं प्रमाणमुन्मानमुपमानञ्च कथ्यते ॥ १२ ॥
ऊर्ध्वमानन्तु सर्वेषां भवेन्मानं हि देहिनाम् ।
प्रत्यङ्गे यत्प्रमाणन्तु तत्प्रमाणमिहोच्यते ॥ १३ ॥
अङ्गानां यत्परीणाहमुन्मानमिदमुच्यते ।
औपम्यं क्रियते भावे उपमानं तदुच्यते ॥ १४ ॥
उक्तं समस्तं सञ्ज्ञाभिः ज्ञात्वा कार्यं समाचरेत् ।
तालमानप्रकारः - शिरोदेशः

षोडशैवाङ्गुलश्लक्ष्णम् उत्सेधस्तु प्रमाणतः (?) ॥ १५ ॥
उत्सङ्गात्तपनीमध्यादन्तरन्तु प्रमाणतः ।
द्वादशाङ्गुलञ्चायामः शिरसः परिकीर्तितः ॥ १६ ॥
कर्णपवर्तयोर्मध्ये विस्तारो द्वादशाङ्गुलम् ।
शिरसस्तस्य संस्थानमायतं वृत्तमिष्यते ॥ १७ ॥
वृत्तमण्डलयोर्मध्ये तिर्यक् तत्तु दशाङ्गुलम् ।
मध्ये केशान्तरं ज्ञेयमुत्सेधाच्चतुरङ्गुलम् ॥ १८ ॥

[[१४३]]

विंशत्यङ्गुलनिर्माणं केशान्तात् प्राक्तु पृष्ठयोः ।
शिरोमध्यं तु विज्ञेयं भ्रमराञ्जनसन्निभम् ॥ १९ ॥
केशान्तं तत्र हन्वग्रादन्तरा द्वादशाङ्गुलम् ।
तत्केशान्ताच्च यद्भागं नासामूलं द्विगोलकम् ॥ २० ॥
शिरोमध्यन्तु विज्ञेयं मध्ये केशाद्दशाङ्गुलम् ।
नवाङ्गुलप्रमाणेन स्यातां पार्श्वौ तु मध्यतः॥ २१ ॥
मध्ये ज्ञेयं शिखामूलं समन्तात्परिकीर्तितम् ।
सुसूक्ष्मा मूर्धजा ज्ञेयाश्चामराञ्जनसन्निभाः ॥ २२ ॥
आकेशात्तत्र हन्वग्रादन्तरं द्वादशाङ्गुलम् ।
आकेशान्ताच्च यद्भागं नासामूलं द्विगोलकम् ॥ २३ ॥
नासामूलात्पुटौ स्यातां द्विकले परिकीर्तिते ।
पुटार्धन्तु भवेन्मानं द्विगोलकसमन्वितम् ॥ २४ ॥
नेत्रे

नासामूलसमत्वेन नेत्रे अप्यभिधीयताम् ।
नेत्ररेखाभ्रुवोर्मध्ये उत्सेधो द्व्यङ्गुलं भवेत् ॥ २५ ॥
असङ्गतप्रमाणन्तु भवेदध्यर्धमङ्गुलम् ।
तत ऊर्ध्वं तापनीमध्यर्धाङ्गुलमीरितम् ॥ २६ ॥
तत ऊर्ध्वं ललाटः स्यादध्यर्धद्व्यङ्गुलं भवेत् ।
(तत ऊर्ध्वं ललाटः स्यात्केशान्तं द्व्यङ्गुलं भवेत्) ॥ २७ ॥
भ्रुवोस्तलस्य विस्तारो भवेदध्यर्धमङ्गुलम् ।
पुरोगसन्धिपार्श्वानां नाहस्तत्र दशाङ्गुलम् ॥ २८ ॥
चतुर्दशोऽध्यायः

[[१४४]]

शङ्खायामं वामपक्षे द्विकला परिकीर्तिता ।
अपाङ्गस्तस्य चोत्सेधः केशान्तात् त्र्यङ्गुलं भवेत् ॥ २९ ॥
द्व्यङ्गुलञ्चाक्षिपिण्डस्तु विस्तारायामतस्ततः ।
आयामार्धमनी स्यातां (?) गोलकं द्वियवाधिकम् ॥ ३० ॥
मात्रार्धं वर्ममध्यन्तु अधरञ्चोत्तरं तथा ।
वर्मणो बहुलं ज्ञेयं यवमध्यप्रमाणतः ॥ ३१ ॥
षड्यवाः पक्ष्मणो ज्ञेया यवमध्ये प्रकीर्तिताः ।
मध्यात्पर्श्वे क्षयो ज्ञेयश्चानुपूर्व्यात् क्षयो भवेत् ॥ ३२ ॥
चतुर्यवास्त्वधरे प्रोक्ता वक्ताच्चाप्यधिकाः स्मृताः ।
सङ्ख्या तु पक्ष्मणो ज्ञेया अशीतिः परिनिश्चिता ॥ ३३ ॥
अक्ष्णोरथान्तरं ज्ञेयं त्रिमात्रं परिकीर्तितम् ।
करवीरान्तरं तत्र यवहीनं त्रियङ्गुलम् ॥ ३४ ॥
पञ्चमात्रं भवेद्दृष्ट्योरन्तरं परिकीर्तितम् ।
आयामात्करवीरन्तु अर्धोत्तरयवं स्मृतम् ॥ ३५ ॥
मण्डलानि

यवमध्यं भवेद्दृष्टिः ज्योतिर्भागो यवस्य तु ।
कक्ष्यं पञ्चयवं प्रोक्तं श्वेतं तत्सुगुणं विदुः ॥ ३६ ॥
पक्ष्माणो मण्डलञ्चादौ द्वितीयं श्वेतमण्डलम् ।
तृतीयं मण्डलं कृष्णं चतुर्थं दृष्टिमण्डलम् ॥ ३७ ॥
पञ्चमन्तु भवेज्ज्योतिः विभागानयने स्मृतम् ।

[[१४५]]

त्रिविधा दृष्टिः

दर्शने चक्षुषोर्भेदस्त्रिविधः परिकीर्तितः ॥ ३८ ॥
अधश्चोर्ध्वं समञ्चेति चान्तरे बहवस्तथा ।
ऊर्ध्वे सप्त यवाः प्रोक्तास्समे पञ्चयवाः स्मृताः ॥ ३९ ॥
अधस्तात् त्रियवाः प्रोक्ताश्चान्ते भेदो न विद्यते ।
रोषे भये च युक्ते तु प्रमाणं त्रियवं भवेत् ॥ ४० ॥
एकमात्रयवाधिक्यं सन्देहे नात्र विद्यते ।
नेत्रमूलं भ्रुवोर्मूलमुत्सेधादर्धम्मङ्गुलम् ॥ ४१ ॥
भ्रुवोर्मूलान्तरं ज्ञेयं मात्रार्धन्तु प्रमाणतः ।
भ्रुवोर्मध्यन्तु विस्तारात् द्व्यर्धं यवमुदाहृतम् ॥ ४२ ॥
पूर्वे चान्ते तनू स्यातामन्ते कौटिल्यमुच्यते ।
अष्टाङ्गुलप्रमाणन्तु भ्रुवः कृष्णञ्च गौलकम् ॥ ४३ ॥
पूर्वे चान्ते तनू स्यातामन्ते कौटिल्यमुच्यते ।
रोषे भयेऽपि चैकैकं भवेदर्धाङ्गुलोच्छितम् ॥ ४४ ॥
नासा

अध्यर्धद्व्यङ्गुलं प्रोक्तं विस्तारो नासिकापुटे ।
ऊषेवं ? तत्र नासाग्रं गोजीमूलप्रमाणकम् ॥ ४५ ॥
अध्यर्धमङ्गुलं ज्ञेयमुत्तमञ्चाभिधीयते ।
प्रमाणादधिकं तत्र नासाग्रं द्वियवं भवेत् ॥ ४६ ॥
अग्रनासा दशयवा विस्तृता परिकीर्तिता ।
विस्तारो मध्यनासाया यवास्सप्त प्रमाणतः ॥ ४७ ॥
चतुर्दशोऽध्यायः

[[१४६]]

विस्तारस्य च मूलन्तु त्रियवं समुदाहृतम् ।
अङ्गुलन्तु यवाधिक्यं पुटायामप्रमाणतः ॥ ४८ ॥
पुटोत्सेधप्रमाणन्तु यवहीनाङ्गुलं भवेत् ।
द्व्यङ्गुलन्तु पुटात्पार्श्वे निर्गता नासिका भवेत् ॥ ४९ ॥
बाहुल्यन्तु पुटं तत्र अर्धाधिकयवं भवत् ।
आयाममङ्गुलं स्रोतो विस्तारादर्धमङ्गुलम् ॥ ५० ॥
स्रोतोऽन्तरमथायामः षड्यवाः परिकीर्तिताः ।
विस्तारो द्व्यङ्गुलं प्रोक्तस्त्वधः क्षिप्तं भवेत्ततः ॥ ५१ ॥
तदधस्ताद्यवा गोजी आयामस्सप्त उच्यते ।
ओष्ठौ

ऊर्ध्वं क्षिप्ता त्वधः स्थूला विस्तारात् द्वियवा भवेत् ॥ ५२ ॥
अधस्तादुत्तरा पाली विस्ताराद्यव एव तु ।
उत्सेधादुत्तरोष्ठस्य प्रमाणं द्वियवं भवेत् ॥ ५३ ॥
उन्नतं गोजिपार्श्वन्तु क्षिप्तं सृक्काश्रितं ततः ।
उत्तरोष्ठस्य संस्थानं पाली तस्याकृतिर्भवेत् ॥ ५४ ॥
उद्गमञ्चोत्तरोष्ठस्य प्रमाणञ्चाङ्गुलं भवेत् ।
अधरात्तस्य पाली च यवमित्यमिधीयते ॥ ५५ ॥
तस्य वृत्तं भवेत्तिर्यक् गोलकार्धाङ्गुलान्वितम् ।
निम्नमीषद्भवेन्मध्यं क्षिप्रं सृक्काश्रितं ततः ॥ ५६ ॥
रक्तभागमिति प्रोक्तं प्रवालसदृशं भवेत् ।
उद्गमस्त्वधरोष्ठस्य अङ्गुलार्धाङ्गुलान्वितम् ॥ ५७ ॥

[[१४७]]

भागे सिते च विज्ञेयं क्रमेण परिवर्जयेत् ।
प्रमाणमधिकं ज्ञेयं षड्यवाः परिकीर्तिताः ॥ ५८ ॥
निम्नमीषत्ततः सृक्का श्मश्रुरेखाविभूषिता ।
दन्ताः

तिर्यक्चतुर्यवाः प्रोक्ता दन्ताः पञ्चोच्छिताः पुरः ॥ ५९ ॥
शेषाणामुपदन्तानां विस्तारः त्रियवं स्मृतम् ।
चतुर्यवोच्छयस्तेषां दंष्ट्रोत्सेधो यवाधिकः ॥ ६० ॥
विस्तारादधरा दन्ताः त्रियवाश्चतुरुच्छयाः ।
उत्सेधादधरा दंष्ट्राः यवैस्समधिकास्स्मृताः ॥ ६१ ॥
हानव्यास्त्रियवोत्सेधा विस्ताराद्वाचतुर्यवाः ।
मध्ये दन्तस्थले ज्ञेया हानव्याश्च चतुर्यवाः ॥ ६२ ॥
सप्ताङ्गुलपरीणाहं मानतो दन्तबन्धनम् ।
अधरे दन्तमानन्तु षडङ्गुलमिति स्मृतम् ॥ ६३ ॥
शुद्धाः स्निग्धा समाः शुक्लाः पूजिताश्च निरन्तराः ।
द्वात्रिंशत्परिमाणेन अधरोत्तरयोः स्मृताः ॥ ६४ ॥
जिह्वा

विस्तारात्त्र्यङ्गुला जिह्वा आयामाच्चतुरङ्गुला ।
दन्तमूलञ्च तालुश्च जिह्वा रक्ताधरं तथा ॥ ६५ ॥
ओष्ठादधस्ताच्चिबुकं विस्तारं द्वियवं भवेत् ।
हनू

हनूत्सेधेऽङ्गुलं तत्र त्रियवादधिकं स्मृतम् ॥ ६६ ॥
चतुर्दशोऽध्यायः

[[१४८]]

तिर्यक् त्रियङ्गुलं तस्य हनुपिण्डमिति स्मृतम् ।
आयामानुगतं ज्ञेयं हन्वग्रात्सप्त चाङ्गुलम् ॥ ६७ ॥
तिर्यग्घ्नयोस्तयोर्मध्ये अन्तरं द्व्यङ्गुलं भवेत् ।
गलम्

अङ्गुलं गलवृत्तञ्च तस्य वृत्तं प्रशस्यते ॥ ६८ ॥
अनिम्नं मांसलं वृत्तं मुखरेखाविभूषितम् ।
मुखं

हनुश्च गलवृत्तञ्च गण्डशीरलवत्कृतम् (?) ॥ ६९ ॥
ललाटं नासामूलञ्च ओष्ठस्तु त्रिकलः स्मृतः

अपाङ्गमङ्गुलं ज्ञेयं विस्तारात्परिकीर्तितम् ॥ ७० ॥
अपाङ्गे कर्णमूलन्तु अन्तरन्तु द्विगोलकम् ।
पञ्चाङ्गुला तथा रेखा कृष्णमूला ततो भवेत् ॥ ७१ ॥
सभ्रूसेधसमः प्रोक्तः कर्णोत्सेधः प्रमाणतः ।
विजूषावङ्गुलौ ज्ञेयौ विस्तारादर्धमङ्गुलम् ॥ ७२ ॥
विजूषावर्तयोर्मध्ये विस्तारस्त्र्यङ्गुलं भवेत् ।
पिप्पल्यावर्तयोर्मध्ये कर्णोत्सेधं द्विगोलकम् ॥ ७३ ॥
अधस्तात्पिप्पली ज्ञेया आयामादङ्गुलं भवेत् ।
निम्नमर्धाङ्गुलं ज्ञेयं कर्णमध्यप्रमाणतः ॥ ७४ ॥
उत्सेधः त्र्यङ्गुलस्तस्य विस्तारादङ्गुलं भवेत् ।
अर्धाङ्गुलं भवेत् स्त्रोतो विस्तारायामतस्ततः ॥ ७५ ॥

[[१४९]]

पूर्वं नालस्य बाहुल्यं यवद्वयमुदाहृतम् ।
अध्यर्धद्वियवं प्रोक्तमूर्ध्वावर्तप्रमाणतः ॥ ७६ ॥
मध्यमं द्वियवं ज्ञेयं सर्वतस्समुदाहृतम् ।
बाहुल्यन्तु ततः प्रोक्तमर्धाङ्गुलमिति स्मृतम् ॥ ७७ ॥
पूर्वं नालस्य बाहुल्यं यवद्वयमुदाहृतम् ।
विस्तारस्तस्य विज्ञेयमर्धाङ्गुलमिहोच्यते ॥ ७८ ॥
बाहुल्यन्तु यवं प्रोक्तं मध्यनालात्तु मानतः ।
विस्तारस्तस्य विज्ञेयो यवाः पञ्च इति स्मृताः ॥ ७९ ॥
पृष्ठनालस्य मानन्तु ईषत् क्षिप्तं भवेत्ततः ।
नाललम्बमिति प्रोक्तं भवेत्तस्य द्विगोलकम् ॥ ८० ॥
नालयोरन्तरं तत्र त्रियवोनाङ्गुलं विदुः ।
अध्यर्धमङ्गुलं ज्ञेयं कर्णबन्धप्रमाणतः ॥ ८१ ॥
अध्यर्धमङ्गुलं तस्य विस्तारः परिकीर्तितः ।
उत्सेधात्कर्णबन्धे स्याद्वृत्तञ्चैवाङ्गुलं भवेत् ॥ ८२ ॥
निर्गमान्मध्यकर्णन्तु गूहादध्यर्धमङ्गुलम् ।
षट्कलन्तु भवेन्नाहमन्तरं कर्णपृष्ठयोः ॥ ८३ ॥
कला कृकाटिका ज्ञेया ग्रीवापृष्ठञ्च सम्मतम् ।
ककुदं त्र्यङ्गुलं प्रोक्तं ग्रीवाधस्तात्तु मानतः ॥ ८४ ॥
हिक्का गलात्तयोर्मध्ये ग्रीवोत्सेधो द्विगोलकम् ।
पञ्चविंशत्परीणाहमधिकार्धाङ्गुलान्वितम् ॥ ८५ ॥
चतुर्दशोऽध्यायः

[[१५०]]

शिरोधरा भवेत्तत्र त्रिरेखा परिमण्डिता ।
रेखाणामन्तरं तत्र अङ्गुलं त्रियवान्वितम् ॥ ८६ ॥
हिक्का च द्व्यङ्गुला ज्ञेया विस्तारायामतस्ततः ।
जतृणी

आयामाज्जतृणी ज्ञेये हिक्काधोऽष्टाङ्गुला स्मृता ॥ ८७ ॥
अंसमध्यन्तु हिक्कान्तं तिर्यक्सूत्रसमो भवेत् ।
उरः

उरो द्वियवविस्तारादंससन्ध्यन्तरं भवेत् ॥ ८८ ॥
हिक्काहृदययोर्मध्ये उरस्स्याद्द्वादशाङ्गुलम् ।
उरोमध्यमिति ज्ञेयं हिक्काधस्तान्नवाङ्गुलम् ॥ ८९ ॥
नाभीहृदययोर्मध्ये अन्तरं द्वादशाङ्गुलम् ।
नाभेस्स्यान्मेढ्रमूलस्य चान्तरं द्वादशाङ्गुलम् ॥ ९० ॥
उरोमध्यमिति ज्ञेयं हिक्काधस्तान्नवाङ्गुलम् ।
द्वादशाङ्गुलविस्तीर्णमुरोमध्यं स्तनान्तरम् ॥ ९१ ॥
तन्मध्ये तु च हिक्काया अन्तरन्तु प्रमाणतः ।
एकादशाङ्गुलं ज्ञेयमधिकार्धाङ्गुलान्वितम् ॥ ९२ ॥
अध्यर्धमङ्गुलं ज्ञेयं स्तनमण्डलमानतः ।
चूचुकस्य प्रमाणं स्यात्तन्मध्ये द्वियवान्तरम् ॥ ९३ ॥
कक्षयोरन्तरं तिर्यगुरो द्वाविंशदङ्गुलम् ।
उरसस्स्तनपीठस्य कक्षान्तं द्वादशाङ्गुलम् ॥ ९४ ॥

[[१५१]]

स्तनपार्श्वे तु विज्ञेयं स्तनपीठं त्रियङ्गुलम् ।
हृदयेऽर्धं भवेत्क्रोडं निम्नमीषत्सुपूजितम् ॥ ९५ ॥
उरस्समुन्नतं वृत्तमुपदिग्धं सुपूजितम् ।
श्रोण्या अर्धं भवेत्कुक्षिः विस्तारो द्वादशाङ्गुलम् ॥ ९६ ॥
अङ्गुल्यः - करयोः

नवाङ्गुलं करतलं तिर्यक् पञ्चाङ्गुलं भवेत् ।
मध्यमाङ्गुलमायामः पञ्चाङ्गुलमिहोच्यते ॥ ९७ ॥
मध्यप्रदेशिनी रिक्ता भवेत्तस्य चतुर्यवम् ।
मध्यादनामिका रिक्ता भवेत्तस्य चतुर्यवम् ॥ ९८ ॥
अनामिका कनिष्ठा तु रिक्ता चाङ्गुलमेव च ।
अङ्गुष्ठस्य चतुर्मात्रमायामः परिकीर्तितः ॥ ९९ ॥
अङ्गुष्ठस्य भवेत्तत्रक्षिप्तमङ्गुलपार्श्वतः ।
अधः प्रदेशिनीमूलाद्विस्तारो द्वियवं भवेत् ॥ १०० ॥
प्रदेशिन्या मध्यमाया द्वयोर्मूलं समं भवेत् ।
नीचैरनामिकाबन्धं मध्ममं द्वियवं भवेत् ॥ १०१ ॥
नीचैरनामिकाबन्धात् कनिष्ठायाश्चतुर्यवम् ।
करतलं

तलपार्श्वे कनिष्ठाया मणिबन्धप्रमाणतः ॥ १०२ ॥
पञ्चाङ्गुलं भवेत्तत्र आयामः परिकीर्त्तितः ।
शुकोदरस्य विस्तारस्तलमध्यं त्रियङ्गुलम् ॥ १०३ ॥
चतुर्दशोऽध्यायः

[[१५२]]

व्द्यङ्गुलन्तु भवेत्तिर्यक् तलपार्ष्णी शुकोदरौ ।
द्व्यङ्गुलं तलमध्ये तु विस्तारायामतस्ततः ॥ १०४ ॥
आयतञ्चोन्नतं वृत्तं हृदयं स्याद्द्वियङ्गुलम् ।
समद्विपर्व विज्ञेयं शिरस्तत्र नवाङ्गुलम् ॥ १०५ ॥
बाहुमध्यपरीणाहो भवेदष्टादशाङ्गुलम् ।
श्रोणी

श्रोणीबन्धो भवेत् स्फूर्तः अन्तरं द्वादशाङ्गुलम् ॥ १०६ ॥
अष्टाङ्गुलमिति ज्ञेयं विस्तारायामतस्ततः ।
उन्नतौ संहतौ चापि स्फिक्पिण्डौ च सुपूजितौ ॥ १०७ ॥
ऊर्वोस्स्यादन्तरं तिर्यक् सीवनी त्र्यङ्गुला स्मृता ।
हस्तौ

अत ऊर्ध्वं प्रवक्ष्यामि हस्तमानं द्विजोत्तमाः ॥ १०८ ॥
अंसग्रीवान्तरं तत्र स्कन्धायामो द्विगोलकः ।
कोर्परस्यां ससन्धेश्च अन्तरन्तु प्रमाणतः ॥ १०९ ॥
बाहुरायामतो ज्ञेयः एकादशकलो भवेत् ।
तलकोर्परयोर्मध्ये प्रमाणं परिकीर्तितम् ॥ ११० ॥
ज्ञेयो नवकलायामः प्रकोष्ठः परिकीर्तितः ।
उच्छयो बाहुशिरसस्सन्ध्योर्गोलकसम्मितः ॥ १११ ॥
कक्षाद्बाहुशिरोमध्यमायामस्तु नवाङ्गुलम् ।
बाहुमूलपरीणाहो भवेदष्टादशाङ्गुलम् ॥ ११२ ॥

[[१५३]]

उच्छयः पुष्कलो बाहुः पिचुकावंसपीठयोः ।
नाहः प्रबाहुमूलस्य भवेत्पञ्चदशाङ्गुलम् ॥ ११३ ॥
मणिबन्धस्य नाहस्स्यात्समात्रार्धं दशाङ्गुलम् ।
ततो वै बाहुसंस्थानं पुरस्तादीषदायतम् ॥ ११४ ॥
कुक्षिः

नाभेरधो भवेत्कुक्षिरायामेनैव षट्कलः ।
अधस्तान्मेहनात्पीठस्यायामश्चतुरङ्गुलम् ॥ ११५ ॥
ऊर्ध्वमूला भवेच्छ्रोणी चोर्ध्वमष्टाङ्गुलं स्मृतम् ।
कटिः

नाभेरधस्तात् कुक्षिस्स्यात् कटिमध्यमिति स्मृतम् ॥ ११६ ॥
कटीतटस्य विस्तारो भवेद्विंशतिरङ्गुलम् ।
पूजिता तु कटी प्रोक्ता सुवृत्ता चायता शुभा ॥ ११७ ॥
नाभिः

नाभिरर्धाङ्गुलं निम्ना सर्वतस्समुदाहृता ।
नाभेरधो द्विमात्रन्तु वस्त्रपर्यन्तमुच्यते ॥ ११८ ॥
द्विकलोर्ध्वं भवेन्नाभेस्स्तनमध्यमिति स्मृतम् ।
तिर्यगष्टौ कला मध्ये त्रिगुणः परिणाहतः ॥ ११९ ॥
वलीभ्यां सहिता ज्ञेया ताभ्यां रम्या कटी भवेत् ।
निषण्णस्योदरायामो द्व्यङ्गुलं लुप्यते पुनः ॥ १२० ॥
आसनस्य प्रभेदाद्वा द्विचत्वारिंशदङ्गुलम् ।
विस्तारो मेहनापीठं षडङ्गुलमिति स्मृतम् ॥ १२१ ॥
चतुर्दशोऽध्यायः

[[१५४]]

मेढ्रम्

मेढ्रं पञ्चाङ्गुलायाममुन्मानं स्यात् षडङ्गुलम् ।
आयामात्कर्णिका ज्ञेया भवेदध्यर्धमङ्गुलम् ॥ १२२ ॥
सप्ताङ्गुलपरीणाहस्तस्यैव परिकीर्तितः ।
आयामेन भवेत् स्रोतश्चतुर्यवमिति स्मृतम् ॥ १२३ ॥
एकमात्रं भवेदग्रमायामात्परिकीर्तितम् ।
मुष्कौ

मुष्कौ पञ्चाङ्गुलालम्बावधिकार्धाङ्गुलान्वितौ ॥ १२४ ॥
अध्यर्धद्व्यङ्गुलोत्सेधौ विस्तारस्य फलं भवेत्

संयतौ च सुवृत्तौ च आयतौ च सुपूजितौ ॥ १२५ ॥
आयामात्सवनी ज्ञेया मुष्कसन्धिः द्विगोलकम् ।
पायुः

द्वियङ्गुलं भवेत्पायुः विस्तारायामतस्ततः ॥ १२६ ॥
अष्टादशाङ्गुलं पश्चात् श्रोणीकक्षान्तरं भवेत् ।
पुरतो बाहुमूलं स्यात् पृष्ठं तत्र दशाङ्गुलम् ॥ १२७ ॥
पृष्ठम्

पृष्ठमानं प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः ।
ककुदश्रोणिमध्ये तु मध्ये वंश इति स्मृतम् ॥ १२८ ॥
पञ्चदशकलायामो वंश इत्यभिधीयते ।
विस्तारात् द्व्यङ्गुलं निम्नं मध्ये वंशस्य पूजितम् ॥ १२९ ॥

[[१५५]]

कक्षयोरन्तरं तस्य चतुर्विंशाङ्गुलं भवेत् ।
ककुदः पालिकाग्रन्तु अन्तरञ्चतुरङ्गुलम् ॥ १३० ॥
त्रियवाकृतिसंस्थाने फलके परिकीर्तिते ।
अथासफलके स्यातामायामेऽष्टाङ्गुले स्मृते ॥ १३१ ॥
कक्षं तिर्यक् भवेत्तत्र अष्टाङ्गुलसमन्वितम् ।
पृष्ठीफलकयोर्मध्ये तिर्यगष्टाङ्गुलं भवेत् ॥ १३२ ॥
कक्षादूर्ध्वं भवेत्तस्य अङ्गुष्ठस्य समन्ततः ।
अङ्गुलीनां तु सर्वासां समं पर्वद्वयं भवेत् ॥ १३३ ॥
आङ्गुलीनान्तु चोन्मानं मूलमग्रं तथैव च ।
अङ्गुल्यः - पादयोः

मध्यमाङ्गुलकोन्मानं यवास्सप्त त्रियङ्गुलम् ॥ १३४ ॥
अग्रन्तु व्द्यङ्गुलं प्रोक्तं यवैः पञ्चभिरन्वितम् ।
षड्यवन्तु नखायामं विस्तारेण चतुर्यवम् ॥ १३५ ॥
नानाप्रदेशिनीं ज्ञेयं त्रिमात्रं षड्यवाधिकम्

अग्रं द्वियङ्गुलं प्रोक्तं यवाधिकसमन्वितम् ॥ १३६ ॥
नखायामः प्रदेशिन्या यवाः पञ्चेति च स्मृताः ।
अनामिकाया उन्मानं त्रिमात्रं षड्यवाधिकम् ॥ १३७ ॥
अग्रमानं भवेत्तत्र द्व्यङ्गुलन्तु यवान्वितम् ।
यवाः पञ्च नखायामः अध्यर्धन्तु यवत्रयम् ॥ १३८ ॥
कनिष्ठा त्र्यङ्गुला ज्ञेया नाहश्चतुर्यवान्वितः ।
चतुर्यवो नखायामः विस्तारस्त्रियवं स्मृतम् ॥ १३९ ॥
चतुर्दशोऽध्यायः

[[१५६]]

अङ्गुष्ठमूलमुन्मानं त्रिमात्रसप्तयवान्वितम् ।
अग्रं द्विगोलकं ज्ञेयं समन्तात्परिकीर्तितम् ॥ १४० ॥
अङ्गुष्ठस्य नखायामो यवास्सप्त प्रकीर्तिताः

विस्तारेण यवाः पञ्च सर्वतस्समुदाहृताः ॥ १४१ ॥
आनुपूर्व्यात् सुवृत्तास्स्युः अङ्गुल्यः श्लिष्टबन्धनाः ।
नखास्सुतनुमात्राश्च मांसभग्नास्सुपूजिताः ॥ १४२ ॥
आयामात्तलपृष्ठन्तु द्विगोलकमिति स्मृतम् ।
पृष्ठतोऽङ्गुलिपार्श्वेभ्यः पूर्वेभ्यस्तु पृथक् पृथक् ॥ १४३ ॥
अग्रं द्विगोलकं ज्ञेयं समन्तात्परिकीर्तितम् ।
त्रिभागोने भवेतां द्वे द्वे चाङ्गुल्यग्रपर्वणि ॥ १४४ ॥
तलपार्श्वे भवेत्पार्ष्णी बाहुल्यात्त्यङ्गुली भवेत् ।
मांसलं कूर्मपृष्ठन्तु मध्ये निम्नं तलं शुभम् ॥ १४५ ॥
स्पष्टाभिर्मृदुवर्णाभिर्लेखाभिश्चित्रितो भवेत् ।
तनुताम्रैर्नखैः स्निग्धैः प्रदीर्घाः श्लिष्टसन्धयः ।
यवसन्धानवृद्धिश्च प्रशस्ताङ्गुलयस्स्मृताः (?) ॥ १४६ ॥
पादौ - ऊरू

अतः परं प्रवक्ष्यामि पादमानं पृथग्विभोः ।
ऊरुमूलमधो नाभेः दशाङ्गुलमिति स्मृतम् ॥ १४७ ॥
जानुमध्यादधस्तात्तु सन्धेश्चैवोत्तरं भवेत् ।
ऊरू आयामतो ज्ञेयौ कोलकानि त्रयोदश ॥ १४८ ॥
जानुमध्यस्य गुल्फस्य अन्तरन्तु तयोस्ततः ।

[[१५७]]

जङ्घा

त्रयोदशकला ज्ञेया जङ्घाऽऽयामप्रमाणतः ॥ १४९ ॥
जङ्घोर्वोस्सङ्गमो जानु मध्ये चैव प्रकीर्तितम् ।
जानु

द्विकलं तत्र जानु स्याद्विस्तारोऽध्यर्धगोलकम् ॥ १५० ॥
प्रच्छन्नञ्चोन्नतञ्चेति जानु तत्र प्रशस्यते ।
गुल्फौ

विस्तारो गोलकं गुल्फाद् गुल्फं वृत्तं प्रशस्यते ॥ १५१ ॥
पुरस्तादुन्नतञ्चोरुरुत्कृष्टश्च भवेत्ततः ।
सामान्यतः

सुश्लिष्टौ जानुगुल्फौ च ऊरू करिकरोपमौ ॥ १५२ ॥
वृत्तौ चैवोन्नतौ पिण्डौ ॠजुसङ्गात्पुरस्ततः

उन्मानादूरुमूलन्तु षट्त्रिंशाङ्गुलमिष्यते ॥ १५३ ॥
ऊरुमध्यस्य चोन्मानं भवेदष्टादशाङ्गुलम् ।
जङ्घापीठेऽपि चोन्मानं भवेदष्टादशाङ्गुलम् ॥ १५४ ॥
गुल्फादूर्ध्वं भवेज्जङ्घा चोन्मानन्तु दशाङ्गुलम् ।
आयामात्तलसन्धिश्च पञ्चाङ्गुलमिहोच्यते ॥ १५५ ॥
अक्षाधस्तात्तलोत्सेधः प्रमाणं चतुरङ्गुलम् ।
अक्षात्पीठं भवेत्पार्ष्णिः द्विगोलकसमन्वितम् ॥ १५६ ॥
चतुर्दशोऽध्यायः

[[१५८]]

अङ्गुलिबन्धः

अक्षात् स्यादङ्गुलीबन्धस्तथा चाष्टाङ्गुलायतः ।
अङ्गुष्ठः द्विकलायामः द्विपर्वसहितो भवेत् ॥ १५७ ॥
अङ्गुलीनान्तु विज्ञेयास्त्रिपर्वसहिता यदि ।
तलपृष्ठं भवेत्तत्र पञ्चाङ्गुलसमुन्नतम् ॥ १५८ ॥
अङ्गुष्ठमूलपर्यन्तमुत्सेधस्तु त्रियङ्गुलम् ।
द्विपर्वणोर्भवेन्मध्यमुच्छयो द्व्यङ्गुलं भवेत् ॥ १५९ ॥
आयामस्तस्य विज्ञेयमङ्गुलं त्रियवाधिकम् ।
नखानि

अग्रपर्वान्नखान्मूलमङ्गुलं द्वियवाधिकम् ॥ १६० ॥
नखायाममिति प्रोक्तं यवाः पञ्च प्रमाणतः ।
तिर्यक् सप्तयवायामं समं तत्र नखाः शुभाः ॥ १६१ ॥
नखादग्रं भवेत्तत्र षड्यवाः परिकीर्तिताः ।
अङ्गुष्ठमध्यमुन्मानं त्रियवं पञ्चाङ्गुलान्वितम् ॥ १६२ ॥
आयामात् द्विकला ज्ञेया प्रदेशिनी त्रियवाधिका ।
आयामान्मूलपर्यन्तं द्व्यङ्गुलं परिकीर्तितम् ॥ १६३ ॥
तस्यैव मध्यमं पर्व अङ्गुलं परिचक्षते ।
अग्रपर्वनखान्मूलमर्धाङ्गुलमिति स्मृतम् ॥ १६४ ॥
आद्यामस्त्रियवं प्रोक्तं तिर्यक् पञ्चयवो नखः ।
चतुर्यवोन्नतं तत्र प्रमाणं परिकीर्तितम् ॥ १६५ ॥

[[१५९]]

अग्राङ्गुल्याश्च उन्मानं द्विकला त्रियवाधिका ।
मध्यपर्वण उन्मानं द्व्यङ्गुलं त्रियवाधिकम् ॥ १६६ ॥
मध्यमाङ्गुलिकायामं द्विगोलमिति स्मृतम् ।
आयामान्मूलपर्यन्तं यवहीनं त्रियङ्गुलम् ॥ १६७ ॥
मध्यपर्व भवेत्तस्य यवहीनं त्रियङ्गुलम् ।
मध्यपर्वनखान्मूलमन्तरञ्च चतुर्यवम् ॥ १६८ ॥
नखादग्रं भवेत्तत्र त्रियवं समुदाहृतम् ।
अग्राङ्गुल्यास्तथोन्मानं द्वियङ्गुलं षड्यवाधिकम् ॥ १६९ ॥
मध्यपर्वण उन्मानं त्र्यङ्गुलं समुदाहृतम् ।
ज्ञेयस्त्वनामिकायामश्चाध्यर्धत्र्यङ्गुलं भवेत् ॥ १७० ॥
मूलपर्व भवेद्यत्तु यवहीनं त्रियङ्गुलम् ।
मध्यपर्व भवेत्तस्य यवहीनाङ्गुलं तथा ॥ १७१ ॥
अग्रपर्वान्नखान्मूलमध्यर्धद्वियवो नखः ।
अध्यर्धद्वियवो ज्ञेयः नखस्तिर्यक् त्रयो यवाः ॥ १७२ ॥
नखादग्रं भवेत्तस्य द्वियवं समुदाहृतम् ।
अग्राङ्गुल्यास्तथोन्मान द्व्यङ्गुलं द्वियवाधिकम् ॥ १७३ ॥
मध्यपर्वण उन्मानं त्र्यङ्गुलं परिकीर्तितम् ।
नाहो द्वियङ्गुलं मध्यं यवाः पञ्चाधिकान्विताः ॥ १७४ ॥
आयामस्तु कनिष्ठस्य अध्यर्धन्तु द्वियङ्गुलम् ।
आयामान्मूलपर्वन्तु प्रमाणादङ्गुलं भवेत् ॥ १७५ ॥
अधिकार्धं भवेत्तस्य द्वियवं समुदाहृतम् ।
अधिकार्धं यवाः पञ्च मध्यपर्वप्रमाणतः ॥ १७६ ॥
चतुर्दशोऽध्यायः

[[१६०]]

अग्रपर्वनखान्मूलं त्रियवं समुदाहृतम् ।
अध्यर्धद्वियवं तत्र आयामाद् द्वियवा नखाः ॥ १७७ ॥
अधिकार्धयवं तत्र नखादग्रं प्रमाणतः ।
अग्राङ्गुल्यास्तथोन्मानं द्व्यङ्गुलं द्वियवाधिकम् ॥ १७८ ॥
मध्यपर्वण उन्मानं द्व्यङ्गुलं परिकीर्तितम् ।
प्रदेशिन्यङ्गुष्ठयोस्तिर्यगन्तरन्तु चतुर्यवम् ॥ १७९ ॥
अङ्गुष्ठात्तु प्रदेशिन्या आयामस्त्रियवो भवेत् ।
चतुर्यव प्रदेशिन्या मध्यमाद्धानिरिष्यते ॥ १८० ॥
षड्यव मध्यमाद्धानिरनाम्न्यास्तु प्रकीर्तितः ।
अनाम्न्याः कनिष्ठिकायास्तु अङ्गुलन्तु प्रमाणतः ॥ १८१ ॥
अनाम्न्याः अङ्गुलं हानिः कनिष्ठा चोच्यते पुनः ।
अङ्गुलीबन्धविस्तारः त्रिकलस्समुदाहृतः ॥ १८२ ॥
अधस्ततः प्रमाणन्तु पृथक् सर्वं ब्रवीमि वः ।
पार्ष्णिः पञ्चाङ्गुलायामा विस्तारस्तावदेव तु ॥ १८३ ॥
त्रितलोग्रतलस्तिर्यगायामश्चतुरङ्गुलः ।
शिरोभागाः

मूर्धा चेत्पादयोर्मध्ये (?) निर्दिष्टश्च प्रमाणतः ॥ १८४ ॥
अखिलं ब्रह्मणोद्दिष्टं प्रदेशं शृणुत द्विजाः ।
शिरसो मध्ये तत्रैव बिन्दुं समुपलक्षयेत् ॥ १८५ ॥
बिन्द्वग्रादप्युभौ पार्श्वे बिन्दुपिण्डौ विशेषतः ।
कपालस्य समुद्रौ च शिरःपृष्ठे विनिर्दिशेत् ॥ १८६ ॥

[[१६१]]

बिन्द्वग्रात्पुरतश्चापि मूर्धा चेत्यभिधीयते ।
पुरोगं मध्यकेशान्तं मूर्धा च पुरतो विदुः ॥ १८७ ॥
पुरोगसन्धिर्विज्ञेयः पुरोगः प्रयतस्ततः ।
कर्णयोरुपरिष्टात्तु कर्णशष्कुलिकौ स्मृतौ ॥ १८८ ॥
केशान्तं मध्यकेशान्तमुक्षेपाद्वर्तते ततः ।
तत्पार्श्वयोरुपक्षेपः कूर्चौ कर्णाश्रितौ विदुः ॥ १८९ ॥
भ्रुवौ

भ्रुवोरुपरि पार्श्वे तु ॠषीके तु विनिर्दिशेत् ।
ॠषीकाभ्यन्तरं तिर्यक् ललाटमुपलक्षयेत् ॥ १९० ॥
तपनीमध्यमेऽधस्तात् भ्रूसङ्गमिति संस्थितम् ।
पक्ष्माणि

अक्षिप्रच्छादने त्वाहुः पक्ष्मणी चाधरोत्तरे ॥ १९१ ॥
पक्ष्मोपरि भवेत्तत्र भ्रुवस्तलमिति स्मृतम् ।
भ्रुवोरग्रञ्च मध्यञ्च भ्रुवोः पुच्छं तथैव च ॥ १९२ ॥
मण्डलानि

वर्म चाभ्यन्तरे ज्ञेयं पक्ष्म शुक्ले प्रमण्डलम् ।
शुक्लमण्डलयोर्मध्ये ज्योतिर्मण्डलमिष्यते ॥ १९३ ॥
अपाङ्गावाधि चाक्ष्णोस्तु बाह्यतः परिकीर्तितम् ।
प्रधावकरवीरौ च विज्ञेयावक्षिसंयुतौ ॥ १९४ ॥
चतुर्दशोऽध्यायः

[[१६२]]

नासा

नासाग्रं नासिमूलञ्च नासामध्यं तथैव च ।
स्रोतस्स्रोतोन्तरञ्चैव पार्श्वे नासापुटौ विदुः ॥ १९५ ॥
ओष्ठौ

उत्तरोष्ठञ्च गोजी च गोजीपार्श्वं तथैव च ।
अधरोष्ठञ्च सृक्का च उत्तरा पालिरेव च ॥ १९६ ॥
अधस्ताच्चाधरोष्ठस्य चिबुकं परिकीर्तितम् ।
अधस्ताच्चिबुकस्यापि हनुमध्यं विनिर्दिशेत् ॥ १९७ ॥
दन्ताः - दंष्ट्राः

पुरोदन्ताश्च चत्वारः चत्वारश्चाधरोत्तराः ।
तेषां पार्श्वे च दंष्ट्रास्स्युश्चतस्त्रोऽप्यधरोत्तराः ॥ १९८ ॥
पार्श्वे चैवोपदंष्ट्राश्च ऊर्ध्वदन्तस्थलं स्मृतम् ।
अभ्यन्तरन्तु दन्तानां भवेद्दन्तावरोपणम् ॥ १९९ ॥
दन्तमूलन्तु यो बन्धः विज्ञेयं दन्तबन्धनम् ।
हनुबन्धनं

हन्वग्रे मूलबन्धांश्च निर्वशेद्धनुवन्धनम् ॥ २०० ॥
जिह्वाग्रश्च पुरस्ताश्च जिह्वामूलनिबन्धनम् ।
जिह्वामध्ये च पार्श्वे च कर्णनालनिबन्धनम् ॥ २०१ ॥
तालुः

ताल्वग्रं तालुमध्यञ्च तालुपार्श्वञ्च निर्दिशेत् ।
अभ्यन्तरकपोलञ्च विज्ञेयाश्चौष्ठसन्धयः ॥ २०२ ॥

[[१६३]]

कपोलौ

सगदौ च गदाग्रौ च सन्धिदेशगतस्य च ।
कपोलौ चाग्रपादौ च कर्णमूलौ विनिर्दिशेत् ॥ २०३ ॥
नेत्रपिण्डौ कपोलौ च गण्डपार्श्वे ततः परम् ।
स्रोतसी मध्यकर्णौ च कर्णपिप्पलिके स्मृते ॥ २०४ ॥
आवर्तौ तत्र विजुषौ उत्साधौ तत्र नालकौ ।
पूर्वनालञ्च मध्यञ्च पृष्ठनालं ततः परम् ॥ २०५ ॥
गूहात्तु कर्णपृष्ठौ च गूहं तत्र विनिर्दिशेत् ।
ग्रीवाहन्वोस्तयोर्मध्ये निर्दिशेत्सगदान्तरम् ॥ २०६ ॥
गलं

तत्रैव तु गलं ज्ञेयं गलमन्तरमाश्रितम् ।
स्कन्धौ हिक्कान्तरञ्चापि कर्णावप्युपलक्षयेत् ॥ २०७ ॥
पार्श्वयोः कर्णनालन्तु मध्ये तत्र विनिर्दिशेत् ।
ककुदं कृकटी चैव पृष्ठं ग्रीवा ततः परम् ॥ २०८ ॥
जत्रुणी

कण्ठाधस्तात्ततश्चापि जतृणी परिकीर्तिते ।
जत्रुमध्यं भवेत्तत्र हिक्कापार्श्वं ततः परम् ॥ २०९ ॥
हिक्काधस्तात्ततश्चापि वक्षोमध्यं विनिर्दिशेत् ।
ककुदौ च निसन्धौ च ग्रीवायां पार्श्वतो मतौ ॥ २१० ॥
ककुदात्पार्श्वयोश्चापि जत्रुसन्धिः प्रकीर्तितः ।
अधस्तादंसमध्यन्तु कक्षसूत्रादधो भवेत् ॥ २११ ॥
चतुर्दशोऽध्यायः

[[१६४]]

ततः कक्षसुपार्श्वन्तु कक्षं समुपलक्षयेत् ।
क्रोडः - स्तनपीठं

वक्षोमध्यादधस्तात्तु क्रोडं सम्यगुदाहृतम् ॥ २१२ ॥
उरोमध्यस्य पार्श्वे तु स्तनपीठं विनिर्दिशेत् ।
स्तनपीठस्य पार्श्वे तु स्तनपिण्डौ च चूचुकौ ॥ २१३ ॥
हृदयं

क्रोडनाभ्यन्तरञ्चापि हृदयन्तु विदुर्बुधाः ।
तनुमध्यञ्च पार्श्वे च नाभेरुपरि निर्दिशेत् ॥ २१४ ॥
नाभिपार्श्वे भवेत्कुक्षिकोष्ठं समुपलक्षयेत् ।
गुह्यस्थानानि

तथैव मेहनापीठं मेहनासन्धिरेव च ॥ २१५ ॥
स्रोतश्च कणिकश्चैव मेहनानि विनिर्दिशेत् ।
श्रोण्यग्रे च कटीमध्ये कटिपार्श्वे ततः परम् ॥ २१६ ॥
मुष्कौ च मुष्कबन्धौ च मुष्कान्तरमथोच्यते ।
पायुश्च सीवनी चैव मुष्कबन्धादथोच्यते ॥ २१७ ॥
पृष्ठवंशः

ततः परं पृष्ठवंशं फलकादन्तरं भवेत् ।
अथासफलके मूलमध्यमग्रं तथैव च ॥ २१८ ॥
ककुन्दरौ कटीसन्धी स्फिक्पिण्डौ चान्तरं भवेत् ।
उभयोः पिण्डयोर्मध्ये पिण्डपार्श्वं ततः परम् ॥ २१९ ॥

[[१६५]]

स्फिक्पिण्डयोरधस्तात्तु पिण्डसन्धिं विनिर्दिशेत् ।
ततः प्रभायाः पीठञ्च नखं नखशिखा भवेत् ॥ २२० ॥
प्रदेशिनी चाग्रमूलं पृष्ठं समुपकल्पयेत् ।
कोर्परौ

कोर्परस्य बहिः सन्धिं कोर्परार्धं विनिर्दिशेत् ॥ २२१ ॥
पुरस्तान्मणिबन्धञ्च नखाग्रं परिकीर्तितम् ।
तलपार्श्वे तलसन्धिं तलपृष्ठं विनिर्दिशेत् ॥ २२२ ॥
बाहू

बाह्वोरुपरि विज्ञेयं समपीठं समुन्नतम् ।
बाह्वोरभ्यन्तरं ज्ञेयं बाहुपिण्डमिति स्मृतम् ॥ २२३ ॥
बाहुपृष्ठञ्च पार्श्वञ्च कक्षपृष्ठं ततः परम् ।
बाह्वोरधस्तात्कक्षञ्च बाहुसन्धिं विनिर्दिशेत् ॥ २२४ ॥
ततः प्रभायां वंशस्य पृष्ठं समुपलक्षयेत् ।
कोर्परस्य बहिः सन्धी कोर्पराणि विनिर्दिशेत् ॥ २२५ ॥
पुरस्तान्मणिबन्धञ्च नखाग्रं परिकीर्तितम् ।
तलपार्श्वे तलसन्धी तलपृष्ठं विनिर्दिशेत् ॥ २२६ ॥
तलमध्यश्च पार्ष्णी च अङ्गुष्ठानि शुकोदरम् ।
क्षिप्रमङ्गुष्ठपार्श्वन्तु हृदयं तललेखतः ॥ २२७ ॥
अङ्गुष्ठाग्रञ्च मूलञ्च नखं नखशिखा भवेत् ।
प्रदेशिनी चाग्रमूलमग्रं पर्व ततः परम् ॥ २२८ ॥
चतुर्दशोऽध्यायः

[[१६६]]

नखं नखशिखा चैव पृष्ठं पर्व ततो भवेत् ।
मध्यमाङ्गुलिपर्वन्तु (?) अग्रं मध्यं विनिर्दिशेत् ॥ २२९ ॥
आनामिकाया अग्रन्तु मूलमग्रं विनिर्दिशेत् ।
नखं नखशिखा चैव पृष्ठं पर्व ततः परम् ॥ २३० ॥
कनिष्ठामध्यमं मूलमग्रं पर्व ततः परम् ।
नखं नखशिखा चैव पृष्ठपार्श्वे ततो भवेत् ॥ २३१ ॥
तललेखायताञ्चैव लक्षयेदङ्गुलिं ततः ।
अभ्यन्तरनिबद्धन्तु ऊरुमूलं विनिर्दिशेत् ॥ २३२ ॥
परुषञ्चोरुमूलार्धमूरुसन्धिं विनिर्दिशेत् ।
नाभ्यन्तरोरुमूलाधः पाण्डुपिण्डौ च लक्षयेत् ॥ २३३ ॥
पाण्डुपिण्डौ पुरस्तात्तु ऊरुं समुपलक्षयेत् ।
ऊरुमध्यात्तु पृष्ठन्तु शङ्कुलीत्यभिधीयते ॥ २३४ ॥
वक्तसन्धिर्भवेत्पार्श्वे ऊरुं समुपलक्षयेत् ।
ऊरुमध्यादधस्तात्तु ऊर्वोरग्रं विनिर्दिशेत् ॥ २३५ ॥
अग्रादधस्ततश्चापि जानुनी परिकीर्तिते ।
जानुमध्यञ्च पार्श्वे च ज्ञेये जानुकपालिके ॥ २३६ ॥
जघनं जानुसन्धेस्तु पृष्ठतश्च विनिर्दिशेत् ।
जान्वधस्तात्ततश्चापि जङ्घे समुपलक्षिते ॥ २३७ ॥
पृष्ठसन्धेरधस्तात्तु जङ्घापिण्डे विनिर्दिशेत् ।
जङ्घापिण्डे तु पार्श्वे तु इषीके परिकीर्तिते ॥ २३८ ॥
पिण्डाधस्तात्ततश्चापि ज्ञेयं पार्ष्णिशिरस्ततः ।
जङ्घाधस्तात्ततश्चापि जङ्घामूलं विनिर्दिशेत् ॥ २३९ ॥

[[१६७]]

पार्ष्णिसन्धिस्ततोऽधस्तात् पार्ष्णिशीर्षं तथोच्यते ।
तलसन्धेस्तु पार्श्वे तु तलाक्षं परिकीर्तितम् ॥ २४० ॥
सन्ध्योरन्तरतो ज्ञेयं तलकूर्चमिति स्मृतम् ।
तलपृष्ठं ततो ज्ञेयं प्रपदं परिकीर्तितम् ॥ २४१ ॥
मण्डलस्य तु विज्ञेयं मध्यमं तस्य तस्य तु ।
पुरतस्तलमध्यस्य हृदयं परिकीर्तितम् ॥ २४२ ॥
पार्ष्णिमध्यं ततो विद्यादङ्गुष्ठं हृदयं ततः ।
अङ्गुष्ठाग्रञ्च मूलञ्च नखं नखशिखा भवेत् ॥ २४३ ॥
पुरतस्तलमध्ये स्याद्धृदयं परिकीर्तितम् ।
प्रदेशिनीमध्यमग्रं नखं नखशिखा विदुः ॥ २४४ ॥
मध्यमा मध्यमाग्रञ्च नखं नखशिखा तथा ।
अनामिकाग्रमध्यञ्च नखं नखशिखा तथा ॥ २४५ ॥
कनिष्ठमग्रं मध्यञ्च नखं नखशिखा तथा ।
प्रदेशिन्यङ्गुष्ठयोर्मध्ये शङ्गुलीत्यभिधीयते ॥ २४६ ॥
स्थावरा चेति विज्ञेयं दशाङ्गुल्यन्तरं ततः ।
रक्तं सम्यक् प्रदेशानां विभागात्तत्र तद्भवः ॥ २४७ ॥
प्रदेशः सङ्ग्रहात् ज्ञेयः चतुश्शतं त्रिसप्ततिः ।
व्याख्यातमानुपूर्व्येण विज्ञेयं शास्त्रकोविदैः ॥ २४८ ॥
नाशिष्याय च देयं स्यान्न चावर्षोषिताय च ।
एवमेव विधानेन प्रतिमां सम्यगाचरेत् ॥ २४९ ॥
चतुर्दशोऽध्यायः

[[१६८]]

शिष्टं त्वाष्ट्रप्रयोगेण आचार्यः शिल्पिभिस्सह ।
ऊहापोहेन वै कुर्याद्युक्तयुक्त्या च कारयेत् ।
एवमेव विधानेन कारयेदिति शासनम् ॥ २५० ॥
परिषद्देवविचारः

सुपर्णस्य च वीशस्य इन्द्रादीनां यथाक्रमम् ।
सर्वेषां परिवारणां भूतानाञ्च यथाक्रमम् ॥ २५१ ॥
उक्तकालं समालोक्य तत्तद्वर्णसमायुतम् ।
शिल्पिभिः कृतपर्यन्तं (?) तत्तद्वाहनसंयुतम् ।
तत्तद्देवीसमायुक्तं कारयेत्तु विधानतः ॥ २५२ ॥
स्थाननवककल्पनम्

अतः परं प्रवक्ष्यामि नवस्थानविधिं क्रमात् ।
ॠज्वागतन्तु विज्ञेयं पूर्वं तत्र प्रभाषितम् ॥ २५३ ॥
तथार्धज्यागतं ज्ञेयं साचीकृतमथोच्यते ।
अध्यर्धाक्षं ततो ज्ञेयं पार्श्वागतमतः परम् ॥ २५४ ॥
ॠज्वागतपरावृत्तमर्धज्यागतमेव च ।
साचीकृतपरावृत्तम् अध्यर्धाक्षं ततः परम् ॥ २५५ ॥
नवेति वृत्तयो ज्ञेयाः विभागात् परिकीर्तिताः ।
अन्योन्यापेक्षया तत्र वृत्तयस्तु पृथक् पृथक् ॥ २५६ ॥
ॠजवस्त्रिविधाः ज्ञेयाः विभागं शृणुतर्षयः ।
ॠज्वागतपरावृत्तं पार्श्वगतमिहोच्यते ॥ २५७ ॥
उद्योतपरभागश्च इत्येते त्रिविधाः स्मृताः ।

[[१६९]]

(१) ॠज्वागतम्

ॠज्वागतं प्रवक्ष्यामि पर्वं तत्र विनिर्गतम् ॥ २५८ ॥
हिक्काचरणयोर्मध्ये ऊर्ध्वं नाभेस्तथैव च ।
एषां सूत्रनिविष्टानां भवेदृज्वागतं पुनः ॥ २५९ ॥
स्थितस्तत्रनिषण्णो वा तत्तु ॠज्वागतं भवेत् ।
कर्णमूलाक्ष्योः पार्श्वे वृत्तं तत्र त्रियङ्गुलम् ॥ २६० ॥
कर्णयोरङ्गुली क्षीणा भवेत्कर्णौ निबन्धयेत् ।
मानोन्मानौ समौ ज्ञेयौ पार्श्वे तत्र समन्ततः ॥ २६१ ॥
अङ्गानि सममालेख्य कर्तव्यं शास्त्रतो भवेत् ।
एवमृज्वागतं ज्ञेयं वृत्तं तत्र विशेषतः ॥ २६२ ॥
(२) अर्धज्यागतम्

अतः परं प्रवक्ष्यामि अर्धज्यागतमेव च ।
कर्णमूलात् क्षयः कार्यः परभागाद्द्विगोलकम् ॥ २६३ ॥
अनुगण्डे ललाटे च कलार्धन्तु क्षयं नयेत् ।
बाहूरसोश्च पार्श्वे च ऊरौ कट्योस्तथैव च ॥ २६४ ॥
हीनन्तु कोलकं सर्वं समन्तात्परिकीर्तितम् ।
अर्धज्यागतमित्याहुः वृत्तं तत्र मनोहरम् ॥ २६५ ॥
(३) साचीकृतं

साचीकृतं प्रवक्ष्यामि यथावदनुपूर्वशः ।
कर्णमूलात् क्षयः कार्यः परः पञ्चाङ्गुलान्वितः ॥ २६६ ॥
चतुर्दशोऽध्यायः

[[१७०]]

नेत्रे कपोले केशान्ते हनू कर्णौ तथैव च ।
सर्व््त्रापि क्षयं विद्यात् शरीरेऽपि क्षयं तथा ॥ २६७ ॥
संस्थानात् कक्षयोर्ज्ञेयं पञ्चाङ्गुलसमन्वितम् ।
अविरोधेन कर्तव्यः प्रत्यङ्गेषु क्षयं तथा ॥ २६८ ॥
(४) अध्यर्धाक्षम्

अध्यर्धाक्षन्तु विज्ञेयं शृणुध्वं तत्समासतः ।
कर्णमूलात् क्षयः कार्यः परभागे त्रिगोलकम् ॥ २६९ ॥
भ्रुवोर्ललाटे नेत्रे च हनौ चापि तथैव च ।
स्तनात् क्षयः क्षये ज्ञेयः षडङ्गुलमिति स्मृतम् ॥ २७० ॥
(५) पार्श्वागतपरावृत्तम्

पार्श्वमध्ये तु विज्ञेयं मध्यसूत्रं प्रतिष्ठितम् ।
पार्श्वागतन्तु विज्ञेयं पार्श्वमेवागतं ततः ॥ २७१ ॥
(६) ॠज्वागतपरावृत्तम्

प्रवक्ष्यामि यथा प्रोक्तं परावृत्तं समन्ततः ।
पृष्ठमध्ये तु तं विद्यान्मध्यसूत्रं प्रतिष्ठितम् ॥ २७२ ॥
ॠज्वागतपरावृत्तमिति तद्वै प्रकीर्तितम् ।
(७) अर्धज्यागतपरावृत्तम्

अर्धज्यागतवृत्तं तत् क्षयं यच्चतुरङ्गुलम् ॥ २७३ ॥
अर्धज्यागतपूर्वन्तु परावृत्तमितीर्यते ।
(८) साचीकृतपरावृत्तं

साचीकृतपरावृत्ते साचीकृतसमं क्षयम् ॥ २७४ ॥

[[१७१]]

(९) अध्यर्धाक्षपरावृत्तम्

अध्यर्धाक्षपरावृत्ते अध्यर्धात् क्षयसङ्क्षयम् ।
पार्श्वागतन्तु नवमे तेनैता वृत्तयः स्मृता (?) ॥ २७५ ॥
तासां नवानां वृत्तीनामन्योन्यान्तरसम्भवाः ।
क्रमेण यवहीनांस्तु वृत्तिभेदांश्च लक्षयेत् ॥ २७६ ॥
वृत्त्यन्तरणि

अष्ट वृत्यन्तराणि स्युः परावृत्तं समाश्रिताः ।
अष्टौ तत्र परावृत्ता अर्धज्यागतमाश्रिताः ॥ २७७ ॥
साचीकृतपरावृत्तास्त्वष्टौ भेदाः प्रकीर्तिताः ।
परावृत्ताः तथाऽष्टौ तु अध्यर्धाक्षसमाश्रिताः ॥ २७८ ॥
चतुष्षष्टिस्समाख्याता वृत्तिभेदास्समन्ततः ।
वृत्त्यन्तराणि सूक्ष्माणि कर्तव्यानि पृथक् पृथक् ॥ २७९ ॥
तासु व्यस्तमिश्रभेदः

व्यस्तं मिश्रमिति प्रोक्तं सर्वं द्विविधमुच्यते ।
अनुक्तमानुपूर्व्येण सर्वतः परिकीर्त्यते ॥ २८० ॥
उद्योतपरभागस्थं व्यस्तन्तु परिकीर्तितम् ।
व्यस्तं तत्रैव विज्ञेयमध्यर्धाक्षमुदाहृतम् ॥ २८१ ॥
एते त्रयोऽपि विज्ञेयाः व्यस्ता वृत्तिविभागशः ।
मिश्रं तस्य विभागन्तु शृणुध्वं मुनिसत्तमाः ॥ २८२ ॥
साचीकृतञ्चाध्यर्धाक्षमर्धज्यागतमेव च ।
तत्र ता मिश्रिताः प्रोक्ता ॠज्वागतसमाश्रिताः ॥ २८३ ॥
चतुर्दशोऽध्यायः

[[१७२]]

ॠज्वागतं वा विज्ञेयं साचीकृतमथोच्यते ।
अध्यर्धाक्षं भवेद्व्यस्तं पार्श्वागतमतः परम् ॥ २८४ ॥
शिरसा मिश्रिताः प्रोक्ता अर्धज्यागतमाश्रिताः ।
चतस्त्रस्तास्तु विज्ञेया वृत्तयो मिश्रसञ्ज्ञिताः ॥ २८५ ॥
पार्श्वागतं वा विज्ञेयमर्धज्यागतमेव वा ।
अध्यर्धाक्षं परावृत्तं साचीकृतमतः परम् ॥ २८६ ॥
साचीकृतपरावृत्तं वृत्तयः परिकीर्तिताः ।
शिरसा मिश्रिताः प्रोक्ताः पार्श्वागतसमाश्रिताः ॥ २८७ ॥
एते त्रयोऽपि विज्ञेया वृत्तयः परिकीर्तिताः ।
उद्योतपरभागस्थं परावृत्तमथोच्यते ॥ २८८ ॥
अर्धज्यागतपृष्ठन्तु व्यस्तमित्यभिधीयते ।
उद्योतपरभागस्थं परावृत्तमिहोच्यते ।
साचीकृतपरावृत्तं मिश्रमित्यभिधीयते ॥ २८९ ॥
अध्यर्धाक्षपरावृत्तं साचीकृतपरोऽपि वा ।
अर्धज्यागतपृष्ठं वा वृत्तयः परिकीर्तिताः ॥ २९० ॥
ॠज्वागतपरावृत्तं शिरसा मिश्रिताः स्मृताः ।
एते त्रयोऽपि विज्ञेया विभागाः परिकीर्तिताः ॥ २९१ ॥
साचीकृतपरावृत्ता अध्यर्धाक्षपरास्तथा ।
ॠज्वागतपराश्चापि वृत्तयः परिकीर्तिताः ॥ २९२ ॥
शिरसा मिश्रिताः प्रोक्तास्साचीकृतपराश्रिताः ।
एते त्रयोऽपि विज्ञेया विभागाः परिकीर्तिताः ॥ २९३ ॥

[[१७३]]

पार्श्वागतञ्चाध्यर्धाक्षं साचीकृतपरन्तु वा ।
अर्धज्यागतपृष्ठन्तु शिरसा मिश्रिताः स्मृताः ॥ २९४ ॥
एते त्रयोऽपि विज्ञेया विभागः परिकीर्तिताः ।
अध्यर्धाक्षपरावृत्तं साचीकृतपरन्तु वा ॥ २९५ ॥
अर्धज्यागतपृष्ठन्तु वृत्तयः परिकीर्तिताः ।
शिरसा मिश्रिताः प्रोक्ता अध्यर्धाक्षं समाश्रिताः ॥ २९६ ॥
एते त्रयोऽपि विज्ञेया विभागाः परिकीर्तिताः ।
पार्श्वगतञ्चाध्यर्धाक्षं साचीकृतपरन्तु वा ॥ २९७ ॥
अर्धज्यागतपृष्ठन्तु वृत्तयः परिकीर्तिताः ।
शिरसा मिश्रिताः प्रोक्ता अध्यर्धाक्षं समाश्रिताः ॥ २९८ ॥
चतस्रस्तास्तु विज्ञेया वृत्तस्स्युर्विभागशः ।
एवं नवभ्यो वृत्तिभ्यः स्थानमन्यन्न विद्यते ॥ २९९ ॥
तिर्यक्ष्वपि च सर्वेषु विविधाकृतिजातिषु ।
स्थावरेष्वपि सर्वेषु यज्ञसञ्ज्ञान्वितेषु वै ॥ ३०० ॥
आसनेषु च हर्म्येषु मण्डपेषु गृहेषु च ।
शयनेष्वपि यानेषु शस्त्रादिषु च युक्तितः ॥ ३०१ ॥
विग्रहाणां प्रमाणेन मानोन्मानादिकल्पनम् ।
अनुमानप्रमाणेन कुर्याद् वृत्तिं यथाक्रमम् ॥ ३०२ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे भगवत्प्रतिमालक्षणकथनं नाम चतुर्दशोऽध्यायः ॥
चतुर्दशोऽध्यायः

[[१७४]]