१३ मृत्संस्कारविधिः - ग्राह्यमृदः

अथ त्रयोदशोऽध्यायः

मृत्संस्कारविधिः - ग्राह्यमृदः

अथ वर्णविधौ वक्ष्ये मृदादीनान्तु सङ्ग्रहम् ।
पर्वते वा नदीतीरे तटाके वा मृदं हरेत् ॥ १ ॥
गङ्गासरस्वतीसिन्धुकौशिकीनर्मदासु च ।
वण्णायां कृष्णवेण्याञ्च कावेर्यां यमुनातटे ॥ २ ॥
हिमाचलोर्जयोर्विन्ध्ये विदूरे वेदपर्वते ।
महेन्द्रे माल्यवति च सह्ये किष्किन्ध एव वा ॥ ३ ॥
ओघे चैव महौघे च सेतुबन्धे तथैव च ।
मृदं समाहरेत्तद्वत् सस्यक्षेत्रे प्रसिद्धके ॥ ४ ॥
देवालयसमीपे वा यत्र कुत्रापि पावने ।
यजमानो गुरुश्चैव निमित्तान्युपलक्षयेत् ॥ ५ ॥
श्वः कर्ताऽस्मीति सङ्कल्प्य देवदेवं समर्चयेत् ।
ग्रामस्य यजमानस्य चानुकूले दिने चरेत् ॥ ६ ॥
मृत्सङ्ग्रहणप्रकारः

सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतम् ।
आदाय वै वैवधिकं खनित्रं खननायुधम् ॥ ७ ॥
आलयात्पुरतो गच्छेदुत्तरं वा यथोचितम् ।
किञ्चित् स्थानं समासाद्य तृणगुल्माद्व्यपोह्य च ॥ ८ ॥
मण्डलान्युपलिप्यैव वर्णालङ्कारमाचरेत् ।
यावान् वै प्रतिमाऽऽयामः तावदध्यर्धमेव वा ॥ ९ ॥

[[१३१]]

खनित्वा तालमात्रं वा गृह्णीयात्तत्र मृत्तिकाम् ।
तत्स्थाने पश्चिमे भागे कुण्डं श्रामणकं चरेत् ॥ १० ॥
सूत्रोक्तेन विधानेन भूमियज्ञं समाचरेत् ।
पर्यग्निञ्चैव कृत्वा तु पुण्याहं वाचयेत्ततः ॥ ११ ॥
उपलिप्य च तत्स्थानमलङ्कृत्य विशेषतः ।
हरिणीमर्चयेत्तत्र सप्तविंशतिविग्रहैः ॥ १२ ॥
पश्चिमे चक्रमभ्यर्च्य उत्तरे शान्तमर्चयेत् ।
आचार्यं पूजयित्वा तु वस्त्राभरणकुण्डलैः ॥ १३ ॥
पादौ प्रक्षाल्य चाचम्य खनित्रं सम्प्रगृह्य च ।
आचार्यः प्राङ्मुखः स्थित्वा ‘अतो देवादि’ मुच्चरन् ॥ १४ ॥
खनित्रेण खनित्वा तु विष्णुसूक्तं समुच्चरन् ।
उभाभ्याञ्चैव हस्ताभ्यां मृदमादाय भक्तितः ॥ १५ ॥
सौवर्णे राजते पात्रे ताम्रे कांस्यमयेऽथवा ।
प्रतिमामानमाज्ञाय तदर्हां मृदमाहरेत् ॥ १६ ॥
वैवधेनैव चाहृत्य शाकुनं सूक्तमुच्चरन् ।
देवालयं शनैर्गत्वा प्रदक्षिणमथाचरेत् ॥ १७ ॥
उत्तरे च मृदं स्थाप्य वैवधादीन् प्रपूज्य च ।
आलयात्पुरतो वाऽपि उत्तरे वा मनोरमे ॥ १८ ॥
मण्डलान्युपलिप्यैव धान्यानि च समास्तरेत्

मृत्संस्कारः

उलूखलं स्थाप्य तत्र मुसलानि तथैव च ॥ १९ ॥
त्रयोदशोऽध्यायः

[[१३२]]

उलूखलेऽभ्यर्च्य सोमं मुसले तु सुदर्शनम् ।
आहूय नारीः सम्पूज्य जयाद्यास्ता हृदा स्मरन् ॥ २० ॥
ताभिः सञ्चूर्णयित्वा तु तुषादीन् संव्यपोह्य च ।
शूर्पेण शोधयित्वा तु मृद्भाण्डे सम्प्रपूरयेत् ॥ २१ ॥
नादेयं जलमादाय सर्वगन्धसमायुतम् ।
पूरयित्वा जलेनैव तानि गुप्ते समर्पयेत् ॥ २२ ॥
कल्कद्रव्याणि

आदाय चौषधीः पश्चाच्चूर्णयित्वा विचक्षणः ।
तच्चूर्णं मरिचञ्चैव हारिद्रञ्च विडङ्गकम् ॥ २३ ॥
यवान् माषांश्च मुद्गांश्च गोधूमान् परिगृह्य च ।
समभागान् सुसंहृत्य चूर्णं कुर्याद्विचक्षणः ॥ २४ ॥
चूर्णप्रमाणं कापित्थं निर्यासं परिगृह्य च ।
सर्वं सञ्चूर्णयित्वा तु गुप्ते देशे विनिक्षिपेत् ॥ २५ ॥
पलाशाश्वत्थखदिरापामार्गार्कांस्तथा पुनः ।
नन्द्यावर्तञ्च पद्मञ्च तुलसीं विष्णुपर्णिकाम् ॥ २६ ॥
एतेषाञ्च रसं गृह्य एकपात्रे निधापयेत् ।
क्षीरं घृतञ्च दधि च अर्कक्षीरमथाहरेत् ॥ २७ ॥
अश्वत्थादिचतुर्णाञ्च सारं सम्यक् प्रगृह्य च ।
एतेषान्तु समं गृह्य अतसीस्नेहमुत्तमम् ॥ २८ ॥
अतसीचूर्णसंयुक्तं कपिलाघृतसंयुतम् ।
सर्वासामोषधीनाञ्च चूर्णं मृत्सु विनिक्षिपेत् ॥ २९ ॥

[[१३३]]

नारिकेलस्य सारन्तु चूर्णं कृत्वा विशेषतः ।
निर्यासेन कपित्थस्य युक्त्या तत्र प्रपूरयेत् ॥ ३० ॥
शिल्पशास्त्रसुनिष्णातैः प्रबुद्धैः सम्प्रपूरयेत् ।
तेनोक्तेन प्रकारेण मर्दयित्वा मृदा सह ॥ ३१ ॥
मासं पक्षञ्च सप्ताहं गुप्ते देशे निधापयेत् ।
अष्टबन्धविधिः - द्रव्याणि

अत ऊर्ध्वं प्रवक्ष्यामि अष्टबन्धक्रियाविधिम् ॥ ३२ ॥
गुञ्जाशतं विडङ्गञ्च गैरिकं जञ्जरीयुतम् ।
वाकुलं पर्णसारञ्च निर्यासञ्च कपित्थकम् ॥ ३३ ॥
अश्वत्थादिचतुर्णाञ्च कषायं सम्प्रगृह्य च ।
चूर्णं सङ्गृह्य चैतेषामग्निना पाचयेच्छनैः ॥ ३४ ॥
नारिकेलस्य सारस्य त्रिवृतां रज्जुमाहरेत् ।
ताम्रपत्रस्य नालञ्च युक्त्या सम्यक् समाहरेत् ॥ ३५ ॥
शूले सन्धौ तु सर्वत्र योजयेच्छिल्पिना दृढम् ।
शूलाधारञ्च विधिना भित्तिमाश्रित्य कारयेत् ॥ ३६ ॥
स्कन्धे पृष्ठे च पार्श्वे च हस्तसन्धौ विशेषतः ।
शङ्खचक्रे समुद्दिश्य शूलाधारं प्रकल्पयेत् ॥ ३७ ॥
शक्तश्चेत्ताम्रनालेन भित्तिमाश्रित्य कल्पयेत् ।
शूले च पादमूले तु ताम्रनालेन कारयेत् ॥ ३८ ॥
देवस्य पादमूले तु ताम्रेण तलमाचरेत् ।
यथायुक्ति प्रकुर्वीत कृमीणां नाशनक्षमम् ॥ ३९ ॥
त्रयोदशोऽध्यायः

[[१३४]]

अष्टबन्धं समादाय शूले चैवानुलेपयेत् ।
पश्चान्मृदं समादाय शूले सर्वत्र बन्धयेत् ॥ ४० ॥
हस्तौ पादौ च सर्वत्र ताम्रपत्रेण कारयेत् ।
मृदालेपनहोमः

आलयात्पुरतश्चैव प्राच्यामाहवनीयके ॥ ४१ ॥
आघारं विधिवत्कृत्वा पुरुषसूक्तञ्च हूयताम् ।
जयादीनपि हुत्वा तु पाञ्चभौतिकसंयुतम् ॥ ४२ ॥
हुत्वा चैव विधानज्ञः प्रत्येकञ्चैकविंशतिम् ।
मृदं पश्चात्समादाय विष्णुसूक्तं समुच्चरन् ॥ ४३ ॥
पुनः पुनर्मर्दयित्वा देवागारं प्रवेशयेत् ।
सर्ववाद्यसमायुक्तं शकुनसूक्तसमन्वितम् ॥ ४४ ॥
ब्रह्मघोषसमायुक्तं जयाशब्दसमन्वितम् ।
शूलस्य दक्षिणे पार्श्वे स्थित्वा चैवोत्तरामुखः ॥ ४५ ॥
मृदालेपः

पुरुषसूक्तं जपित्वा तु मृदमादाय भक्तितः ।
मूर्धादिपादपर्यन्तं मृदमालिप्य यत्नतः ॥ ४६ ॥
देवानन्यान् समुद्दिश्य तत्तन्मन्त्रमुदीरयन् ।
मृदमालिप्य यत्नेन मूर्धादिषु च सर्वतः ॥ ४७ ॥
पश्चाच्छिल्पिनमाहूय पूजयित्वा विशेषतः ।
शिल्पशास्त्रोक्तविधिना शिल्पिना कारयेत्ततः ॥ ४८ ॥

[[१३५]]

षण्मासं वा त्रिमासं वा मासं वापि यथोचितम् ।
शोषयित्वा तु बिम्बानि कारयेत्तु शनैः शनैः ॥ ४९ ॥
अङ्गोपाङ्गेषु सर्वत्र उज्जानं (?) च यथाऽर्हतः ।
शिल्पशास्त्रोक्तविधिना कारयेत्तु यथाऽर्हतः ॥ ५० ॥
शर्करासंस्कारः - लेपनञ्च

शर्करा सम्प्रगृह्यैव चूर्णं कृत्वा विशेषतः ।
शनैःशनैः शोषयित्वा नादेयेन जलेन वै ॥ ५१ ॥
निर्यासेन कपित्थस्य पिचुना सहितेन वै ।
पेषण्या पेषयेत्सम्यक् सर्वगन्धसमायुतम् ॥ ५२ ॥
एवं संसाध्य यत्नेन यजमानयुतो गुरुः ।
आलयाद्दक्षिणे पार्श्वे अन्वाहार्यं प्रकल्पयेत् ॥ ५३ ॥
आघारं विधिवत्कृत्वा विष्णुसूक्तं सुहूयताम् ।
जयादीनपि हुत्वा तु यद्देवादिसुहूयताम् ॥ ५४ ॥
विष्णुसूक्तं समुच्चार्य मर्दयित्वा तु शर्कराः ।
सर्ववाद्यसमायुक्तं देवागारं प्रवेशयेत् ॥ ५५ ॥
बिम्बस्य दक्षिणे स्थित्वा पुरुषसूक्तं समुच्चरन् ।
मूर्धादिपादपर्यन्तं शर्करालेपमर्पयेत् ॥ ५६ ॥
काले शिल्पिनमाहूय पूजयित्वा विशेषतः ।
शिल्पशास्त्रोक्तविधिना प्रतिमां कारयेत्ततः ॥ ५७ ॥
मासं पक्षञ्च सप्ताहं शोषयित्वा विधानतः ।
त्रयोदशोऽध्यायः

[[१३६]]

पटसंस्कारः

नवं मृदु सुसूक्ष्मञ्च कार्पासं वस्त्रमाहरेत् ॥ ५८ ॥
अग्रं पादञ्चाङ्कयित्वा मुखं पृष्ठं तथैव च ।
आलयस्य प्रतीच्यान्तु गार्हपत्यं प्रकल्पयेत् ॥ ५९ ॥
आघारं विधिवत्कृत्वा मथितेनैव वह्निना ।
पारमात्मिकसंयुक्तमीङ्कारादि समायुतम् ॥ ६० ॥
व्याहृत्यन्तञ्च जुहुयाद्देवेशं मनसा स्मरन् ।
सर्ववाद्यसमायुक्तं देवागारं प्रवेशयेत् ॥ ६१ ॥
तान्तवं वस्त्रमादाय विष्णुसूक्तं समुच्चरन् ।
मुखे किञ्चित्सुसञ्छाद्य देवदेवं प्रणम्य च ॥ ६२ ॥
काले शिल्पिनमाहूय पूजयित्वा यथाविधि ।
वस्त्रमादाय हस्ताभ्यां छादयित्वा विधानतः ॥ ६३ ॥
मूर्धादिपादपर्यन्तं वेष्टयित्वा तु सर्वतः ।
शर्करादिक्रमं सर्वं सर्वाभरणसंयुतम् ॥ ६४ ॥
शिल्पिना कारयेत्पश्चात् शिल्पशास्त्रोक्तमार्गतः ।
वर्णसंस्कारः षड्वर्णाः

अतः परं प्रवक्ष्यामि वर्णानां विधिमुत्तमम् ॥ ६५ ॥
श्वेतो रक्तस्तथा पीतस्तथैव शुकसन्निभः ।
चाषपत्रनिभः कृष्ण इति षड्वर्णजातयः ॥ ६६ ॥
श्वेतरक्तावुभौ वर्णौ सत्त्वजाविति कीर्तितौ ।
श्यामकाञ्चनवर्णौ तु राजसावित्युदाहृतौ ॥ ६७ ॥

[[१३७]]

चाषपत्रनिभः कृष्णवर्णश्चोक्तौ तु तामसौ ।
परस्परं मिश्रणेन बहवो वर्णजातयः ॥ ६८ ॥
रक्तमिश्रः श्वेतमिश्रः पीतमिश्रस्तथैव च ।
श्याममिश्रश्चाषमिश्रः कृष्णमिश्रस्तथैव च ॥ ६९ ॥
एवमादिविभेदेन जायन्ते वर्णजातयः ।
देवतानां पार्षदानाञ्च वर्णादिः-जयाद्यष्टौ

जया च सितरक्ताङ्गी दूर्वाङ्कुरनिभांशुका ॥ ७० ॥
शुकपत्राम्बरा चैव विजया हाटकप्रभा ।
विन्दा हरितवर्णाङ्गी रक्तवस्त्रा प्रकीर्तिता ॥ ७१ ॥
पुष्टिका कनकाभाङ्गी श्यामवस्त्रा वराङ्गना ।
नन्दका पद्मसङ्काशा चाषपत्रनिभांशुका ॥ ७२ ॥
कुमुद्वती कुमुदाभा सस्यश्यामनिभांशुका ।
उत्पला चोत्पलाभाङ्गी नीलवस्त्रा वरानना ॥ ७३ ॥
विशोकाऽशोकपुष्पाभा शुकपत्राम्बरा वधूः ।
सर्वाभरणसंयुक्ता जयाद्यप्सरसस्सदा ॥ ७४ ॥
तिथयः

नीलेन्दीवरसङ्काशा कुहूर्हेमनिभाम्बरा ।
सिनीवाली सितश्यामा शमीपुष्पनिभाम्बरा ॥ ७५ ॥
हेममिश्रसिताङ्गी च राका रक्ताम्बरप्रिया ।
अनुमतिस्सितश्यामा शमीपुष्पनिभाम्बरा ॥ ७६ ॥
त्रयोदशोऽध्यायः

[[१३८]]

नन्दा भद्रा जया रक्ता पूर्णा चापि सिता मताः ।
व्युत्क्रमेणैव गृह्णीयाद्वस्त्रमासामिति स्थितिः ॥ ७७ ॥
सप्तमी चाष्टमी चापि हेमश्यामनिभे उभे ।
विपरीतं तयोर्वस्त्रमिति शास्त्रस्य निश्चयः ॥ ७८ ॥
सुभद्रा द्वादशी पीता जपापुष्पनिभाम्बरा ।
कन्या त्रयोदशी रक्ता श्यामलाम्बरसंयुता ॥ ७९ ॥
सुमुखी चतुर्दशी श्यामा तप्तहेमनिभाम्बरा ।
पौष्णी च पौर्णमासी स्याच्छ्यामला पीतकाम्बरा ॥ ८० ॥
तिथयश्च तथैवैताः कीर्तिता दश पञ्च च ।
उक्तं वर्णं समादाय वर्णलेपनमाचरेत् ॥ ८१ ॥
वर्णांश्च साधयित्वा तु यथार्हं सुविचिन्त्य च ।
निर्यासेन समायुक्तान् साधयेत्तु विचक्षणः ॥ ८२ ॥
नयनोन्मीलनं

सौवर्णं पात्रमादाय शक्त्या तूलिकया युतम् ।
वर्णान् तत्र समादाय साधयित्वा पृथक् पृथक् ॥ ८३ ॥
विमानस्योत्तरे पार्श्वे आवसत्थ्यं प्रकल्प्य च ।
आघारं विधिवत्कृत्वा पुरुषसूक्तं सुहूयताम् ॥ ८४ ॥
विष्णुसूक्तं ततो जप्त्वा जयादीनपि होमयेत् ।
यद्देवादींस्ततो हुत्वा पारमात्मिकमेव च ॥ ८५ ॥
होमं हुत्वा विधानेन व्याहृत्यन्तं पृथक् पृथक् ।
सर्ववाद्यसमायुक्तं शकुनसूक्तसमन्वितम् ॥ ८६ ॥

[[१३९]]

ब्रह्मघोषसमायुक्तं जयशब्दसमन्वितम् ।
देवस्य दक्षिणे स्थित्वा कुर्याच्चैवाक्षिमोचनम् ॥ ८७ ॥
वर्णञ्च वामहस्तेन आदाय विधिवद्बुधः ।
तूलिकां दक्षिणेनोपान्ताङ्गुष्ठानामभिः शनैः ॥ ८८ ॥
श्यामवर्णं समादाय ‘अतो देवा’ दिमुच्चरन् ।
अभिमन्त्र्य तु तद्वर्णं पुरुषसूक्तं समुच्चरन् ॥ ८९ ॥
ललाटादिषु सर्वत्र किञ्चिच्चाङ्गेषु सर्वतः ।
योजयित्वा विधानेन देवेशं मनसा स्मरन् ॥ ९० ॥
‘भूतो भूते’ ष्विति प्रोच्य मकुटादिषु सर्वतः ।
यद्यद्वर्णञ्चाभरणं तत्तद्वर्णं सुयोजयेत् ॥ ९१ ॥
‘तेजो वत्सव’ इत्युक्त्वा वस्त्रेणैव सुयोजयेत् ।
‘नवो नव’ इति वदन् नखे वर्णं सुयोजयेत् ॥ ९२ ॥
‘सूर्योऽसी’ ति जपित्वा तु

दक्षिणेऽक्ष्णि तु योजयेत् ।
‘चन्द्रोऽसी’ति च जप्त्वा तु

वामनेत्रे च योजयेत् ॥ ९३ ॥
‘चित्रं देवे’ ति चोक्त्वा तु हस्ते रक्तं तु योजयेत् ।
काले शिल्पिनमाहूय वस्त्राभरणकुण्डलैः ॥ ९४ ॥
पूजयित्वा विशेषेण यजमानयुतो गुरुः ।
देवस्य दक्षिणे पार्श्वे स्थित्वा चैवोत्तरामुखः ॥ ९५ ॥
शिल्पशास्त्रोक्तमार्गेण शिल्पिना लेखयेद्गुरुः ।
यद्वर्णं यत्प्रदेशे तु तद्वर्णं तत्र चार्पयेत् ॥ ९६ ॥
त्रयोदशोऽध्यायः

[[१४०]]

षड्वर्णान् योजयित्वा तु यथार्हं सुविचिन्त्य च ।
बिम्बस्य सर्वतः कुर्यात्सर्वाङ्गं सुमनोहरम् ॥ ९७ ॥
आचार्यः शिल्पिभिःसार्धं सदा शास्त्रं विचिन्त्य च ।
फलश्रुतिः

एवं यः कुरुते भक्त्या सर्वशान्तिकरं परम् ॥ ९८ ॥
स्थानाभिवृद्धिदञ्चैव ग्रामादीनाञ्च वर्धनम् ।
राष्ट्राभिवृद्धिदञ्चैव राज्ञश्च बलवर्धनम् ॥ ९९ ॥
कर्ता निवसति स्वर्गे यावदाभूतसम्प्लवम् ।
पश्चाद्विष्णुपदं याति पुनरावृत्तिवर्जितम् ॥ १०० ॥
विपरीते वैपरीत्यं भविष्यति न संशयः ।
तस्मात्सर्वप्रयत्नेन शास्त्रोक्तं सर्वमाचरेत् ॥ १०१ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे मृत्संस्कारविधिर्नाम त्रयोदशोऽध्यायः ॥

[[१४१]]