अथ द्वादशोऽध्यायः
स्थानकासनशयनानि - स्थानकलक्षणम्
अत ऊर्ध्वं प्रवक्ष्यामि स्थानकस्य च लक्षणम् ।
स्थानकं त्रिविधं योगभोगवीरविभेदतः ॥ १ ॥
योगस्थानकं
दैविकन्तु त्रिधा कृत्वा तेषु भागेषु पूर्वतः ।
भागौ द्वावेकभागं वा व्यपोह्यैव तु पश्चिमे ॥ २ ॥
भागे संस्थापयेद्बिम्बं स्थानकन्तु सुलक्षणम् ।
चतुर्भुजन्तु कृत्वा वै दशतालेन मानतः ॥ ३ ॥
सर्वाभरणसंयुक्तं शङ्खचक्रसमन्वितम् ।
सस्यश्यामनिभं कुर्यात्पीताम्बरसमन्वितम् ॥ ४ ॥
महीं दक्षिणतः कुर्यादेकजानुक्रमेण वै ।
पुष्पाञ्जलिसमायुक्तामानमन्तीं सदाऽऽदरात् ॥ ५ ॥
[[१२३]]
श्यामवर्णां महीं कुर्यात्पुष्पाम्बरसमन्विताम् ।
वामे पुराणं कुर्वीत एकजानुक्रमेण हि ॥ ६ ॥
पुराणञ्च प्रवालाभं जटामण्डलमण्डितम् ।
अक्षमालासमायुक्तं पुष्पाञ्जलिसमन्वितम् ॥ ७ ॥
देवदेवं समीक्ष्यैव नित्यं भक्तिसमन्वितं
कुड्यकौतुकयोर्मध्ये इडापुण्यौ समर्चयेत् ॥ ८ ॥
दक्षिणं भित्तिमाश्रित्य ब्रह्माणाञ्चैव लेखयेत् ।
शङ्करं लेखयेद्वामे तत्तद्वर्णसमायुतम् ॥ ९ ॥
योगस्थानकमुद्दिष्टमेवं कुर्यात् विधानतः ।
भोगस्थानकं
दैविकञ्च त्रिधा कृत्वा भागौ द्वौ पूर्वतस्त्यजेत् ॥ १० ॥
स्थापयेत्पश्चिमे भागे दशतालेन मानतः ।
सर्वाभरणसंयुक्तं शङ्खचक्रसमन्वितम् ॥ ११ ॥
श्यामलाङ्गं चतुर्बाहुं……..चतुर्विधम् ।
एवं बिम्बञ्च कृत्वा तु सर्वालङ्कारसंयुतम् ॥ १२ ॥
श्रीदेवीं दक्षिणे कुर्यात्प्रवालद्युतिशोभिताम् ।
सुस्थितं दक्षिणं पादं वामं पादन्तु कुञ्चितम् ॥ १३ ॥
पद्मं दक्षिणहस्ते तु वामं सम्यक् प्रसार्य च ।
किञ्चिद्देवं समीक्ष्यैव विस्मयोत्फुल्ललोचनाम् ॥ १४ ॥
महीं वामे प्रकुर्वीत पुष्पाञ्जलिसमन्विताम् ।
पुष्पं वामे तु सङ्गृह्य दक्षिणं सम्प्रसार्य च ॥ १५ ॥
द्वादशोऽध्यायः
[[१२४]]
सुस्थितं वामपादञ्च दक्षिणं कुञ्चितं चरेत् ।
देवेशकुड्ययोर्मध्ये श्रीभूम्योः स्थानमुच्यते ॥ १६ ॥
किञ्चित्पश्चिममाश्रित्य देव्यौ ते स्थापयेदुभे ।
पुराणं दक्षिणे कुर्यादेकजानुक्रमेण हि ॥ १७ ॥
भृगुं वामे प्रकुर्वीत
पुष्पाञ्जलिसमन्वितम् ।
यद्वा दक्षिणतः कुर्याद्वामे
पुण्यं प्रकल्पयेत् ॥ १८ ॥
कुड्यकौतुकयोर्मध्ये मुनिस्थानमुदाहृतम् ।
एवमेव विधानेन भोगस्थानकमीरितम् ॥ १९ ॥
वीरस्थानकं
सर्वं दैविकमाश्रित्य स्थापयेत्तु विधानतः ।
देव्यौ मुनी वर्जयित्वा देवेशस्तत्र शिष्यते ॥ २० ॥
वीरमेवं प्रकुर्वीत सर्वाभरणसंयुतम् ।
शङ्खचक्रे विना कुर्यादथ वा तदलङ्कृतम् ॥ २१ ॥
आसनलक्षणम्
आसनं यत् त्रिधा योगभोगवीरविभेदतः ।
प्रोक्तं महर्षिभिः तेषां लक्षणन्तु प्रवक्ष्यते ॥ २२ ॥
योगासनं
किञ्चिद्दैविकमाश्रित्य मानुषे चासनं चरेत् ।
सिंहासनं समं कुर्यादुपधानेन संयुतम् ॥ २३ ॥
[[१२५]]
प्रसार्य दक्षिणं पादं वाममाकुञ्चितं चरेत् ।
स्वागतं दक्षिणं हस्तं वामं कट्यवलम्बितम् ॥ २४ ॥
शङ्खचक्रधरं कुर्यात्सर्वाभरणभूषितम् ।
इलापुण्यार्चितं यत्तु योगासनमिहोच्यते ॥ २५ ॥
इलाञ्च दक्षिणे कुर्यादेकजानुक्रमेण ह ।
वामे पुण्यं प्रकुर्वीत पुष्पाञ्जलिसमन्वितम् ॥ २६ ॥
स्थानं पूर्वोक्तमुद्दिष्टं योगासनविधावपि ।
भोगासनं
श्रीभूमिसहितं कुर्याद्देवदेवं विशेषतः ॥ २७ ॥
श्रीदेवीं दक्षिणे कुर्यान्महीं वामे च कारयेत् ।
प्रसार्य दक्षिणं पादं वाममाकुञ्चितं चरेत् ॥ २८ ॥
पद्मं दक्षिणहस्ते तु वामं कट्यवलम्बितम् ।
किञ्चिद्देवं समीक्ष्यैव श्रीदेवीञ्चापि कारयेत् ॥ २९ ॥
वामं पादं प्रसार्यैव दक्षिणं कुञ्चितं चरेत् ।
पद्मं वामे तु सङ्गृह्य देवदेवं समीक्ष्य वै ॥ ३० ॥
सिंहासने सहासीनं देवमुद्वीक्ष्य चादरात् ।
आसीनामासने देवीं महीं कुर्याद्विचक्षणः ॥ ३१ ॥
अन्तरं देवदेव्योस्स्यात् भागं तालं यवद्वयम् ।
पृथगासने तथा कुर्याद्भोगभावो न सम्भवेत् ॥ ३२ ॥
सिंहासनस्य पृष्ठे तु व्याजिन्यौ भद्रकाजये ।
जयाञ्च दक्षिणे कुर्याद्वामे चैव तु भद्रकाम् ॥ ३३ ॥
द्वादशोऽध्यायः
[[१२६]]
जयाञ्च श्यामवर्णां तु पुष्पाम्बरधरां शुभाम् ।
हस्ते च दक्षिणे कुर्याच्चामरञ्च विशेषतः ॥ ३४ ॥
रक्ताभा भद्रका चोक्ता पीताम्बरवरप्रिया ।
चामरं वामहस्ते तु कुर्यादानम्य चादरात् ॥ ३५ ॥
अथवा कारयेद्विद्वान् किष्किन्धं सुन्दरं क्रमात् ।
किष्किन्धं दक्षिणे कुर्याद्वामे वै सुन्दरं चरेत् ॥ ३६ ॥
सुन्दरं वामहस्ते तु धरन्तं चामरं शुभम् ।
देवद्रुमं प्रकुर्वीत देवदेवस्य पृष्ठतः ॥ ३७ ॥
नानापुष्पसमायुक्तं नानापल्लवसंयुतम् ।
कारयित्वा विधानेन छत्रञ्चोपरि चन्द्रभाम् ॥ ३८ ॥
भित्तौ बाहूपरि लिखेत्प्रभामण्डलमन्तरा ।
एवं सुखासनं प्रोक्तं ब्रह्मणा परमेष्ठिना ॥ ३९ ॥
वीरासनम्
एवमेव विधानेन बद्ध्वा वस्त्रं तथाऽऽसने ।
स्थितिं वीरासनं प्राहुर्नारसिंहे विशेषतः ॥ ४० ॥
अथवा दक्षिणं पादं कुञ्चितं कारयेत्तथा ।
वामं पादं प्रसृतञ्च केषाञ्चित्पक्ष उच्यते ॥ ४१ ॥
त्रिविधशयनलक्षणम्
अतः परं प्रवक्ष्यामि शयनस्य विधिं क्रमात् ।
शयनञ्च त्रिधा योगभोगवीरक्रमाद्भवेत् ॥ ४२ ॥
सोमच्छन्दविमानं वा दीर्घशालामथापि वा ।
कूटं वा मण्डपं वाऽपि शयनाय प्रकल्पयेत् ॥ ४३ ॥
[[१२७]]
दशतालयुतं वाऽपि द्वारस्य सममेव वा ।
यजमानसमं वाऽपि गर्भगेहसमन्तु वा ॥ ४४ ॥
शयनं सम्प्रकल्प्यैव सर्वाभरणभूषितम् ।
योगशयनं
सस्यश्यामनिभं कुर्यादनन्तोपरि शायिनम् ॥ ४५ ॥
बेरायामं त्रिधा कृत्वा तत्रैकं शयनोच्छ्रयम् ।
सव्यं हस्तं प्रसार्यैव प्रह्लादस्य शिरःस्थले ॥ ४६ ॥
शयानं देवदेवशं कुर्याद्योगाख्यशायने ।
प्रह्लादं रक्तवर्णञ्च शयनस्य समं तथा ॥ ४७ ॥
बालरूपं तथा कुर्यात्सर्वाभरणभूषितम् ।
वामकूर्परमूर्ध्वं स्यान्नताङ्गुलिसमन्वितम् ॥ ४८ ॥
स्वीयं कायं त्रिरावर्त्य तल्पीकृप्य हरेर्मृदम् ।
फणान् पञ्च समुद्धृत्य प्रसार्य मकुटोपरि ॥ ४९ ॥
पीतवर्णमथ श्वेतमनन्तं परिकल्पयेत् ।
नाभ्यम्बुजे समासीनं ब्रह्माणञ्च प्रकल्पयेत् ॥ ५० ॥
बिम्बस्य च चतुर्भागमायतं कारयेद्विधिम् ।
हिरण्यवर्णं ब्रह्माणं जटामकुटभूषितम् ॥ ५१ ॥
सर्वाभरणसंयुक्तं पुष्पाम्बरसमन्वितम् ।
चतुर्बाहुं पद्मभवं धातारं चतुराननम् ॥ ५२ ॥
कमण्डलुं वामहस्ते दक्षिणे चाक्षमालिकाम् ।
सव्यमालोक्यवत्कुर्यात् वामं कट्यवलम्बितम् ॥ ५३ ॥
द्वादशोऽध्यायः
[[१२८]]
ऊर्ध्वे पञ्चायुधानि स्युः भित्तिपार्श्वे विशेषतः ।
कौमोदकीं तथा शार्ङ्गमसिं स्त्रीरूपमाचरेत् ॥ ५४ ॥
चक्रं पुरुषवत्कुर्याच्छङ्खं भूताकृतिं चरेत् ।
रक्तां कौमोदकीं कुर्यात्पीतं शार्ङ्गमुदाहृतम् ॥ ५५ ॥
श्वेतवर्णमसिं कुर्याच्चक्रमग्निनिभं भवेत् ।
किरीटमकुटोपेतं स्तनबन्धसमन्वितम् ॥ ५६ ॥
तलप्रहारसमयद्रुतवेगसमन्वितम् ।
एवं रूपाणि कार्याणि आयुधानि विशेषतः ॥ ५७ ॥
उभौ कवचसंयुक्तौ शङ्खचक्रौ विशेषतः ।
सर्वाभरणसंयुक्तावुग्ररूपौ च कारयेत् ॥ ५८ ॥
वामपार्श्वे तथा कुर्यान्मधुं कैटभमेव च ।
समुद्रोद्धूतवेगेन जानुमात्रं समुद्रगौ ॥ ५९ ॥
मधुश्च रक्तवर्णः स्यात्कैटभः श्यामलो मतः ।
रक्तकेशौ दण्डवृक्षायुधसन्धारिणावुभौ ॥ ६० ॥
वक्रदंष्ट्रौ त्रासहासयुतौ परमदारुणौ ।
सर्वाभरणसंयुक्तं भीमरूपं भयानकम् ॥ ६१ ॥
गरुडं दक्षिणे पार्श्वे प्राञ्जलिं सुस्थितं सितम् ।
वामपार्श्वे तथा शान्तं तद्वर्णेनैव कारयेत् ॥ ६२ ॥
इलापुण्यौ तथा कुर्यात्पूजकस्थानमाश्रितौ ।
पुण्यञ्च दक्षिणे कुर्याद्वामे क्षोणीञ्च कारयेत् ॥ ६३ ॥
[[१२९]]
नवतालक्रमेणैव एकजानुविधानतः ।
पुष्पाञ्जलिसमायुक्तौ रक्तश्यामनिभावुभौ ॥ ६४ ॥
एवं योगं समाख्यातं वीरञ्चैव प्रवक्ष्यते ।
वीरशयनं
चतुर्बाहुयुतं कुर्याच्छङ्खचक्रसमन्वितम् ॥ ६५ ॥
सव्यं शिरस्युपहितं
वामं हस्तं प्रसारितम् ।
उभौ देव्यौ पादयुग्मं
मर्दयन्त्यौ शनैः शनैः ॥ ६६ ॥
मार्कण्डेयञ्च माञ्चैव कुर्यादावाञ्च पूजकौ ।
एवं तु वीरशयनं सुखञ्चैव प्रवक्ष्यते ॥ ६७ ॥
भोगशयनं
द्विभुजं देवदेवशं सव्यञ्चैवोपधानकम् ।
प्रसारितं वामहस्तं मया पुण्येन चार्चितम् ॥ ६८ ॥
शिरोभागे श्रियं कुर्यात्पूर्वोक्तं मकुटं चरेत् ।
वामपार्श्वे महीं कुर्यात्सुखं तच्छयनं विदुः ॥ ६९ ॥
दक्षिणे वक्रतुण्डञ्च वामे कात्यायनीं तथा ।
विधिं मधुं कैटभञ्च तथा चोक्तायुधानि च ।
लिखेद्वा परिवारांस्तु प्रतिमेऽर्चकयोश्चरेत् ॥ ७० ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे स्थानकादिविधिर्नाम द्वादशोऽध्यायः ॥
द्वादशोऽध्यायः
[[१३०]]