अथ एकादशोऽध्यायः
शूलस्थापनविधिः - मुहूर्तविचारः
अतः परं प्रवक्ष्यामि शूलस्थापनमुत्तमम् ।
अयने चोत्तरे श्रेष्ठं दक्षिणे चापदि स्मृतम् ॥ १ ॥
मासानां फाल्गुनः श्रेष्ठश्चैत्रो वैशाख एव वा ।
मार्गशीर्षमाघौ द्वौ निन्दितौ ब्रह्मणा पुरा ॥ २ ॥
शेषेष्वपि च कर्तव्यं त्वरितेनेति मे मतिः ।
त्रिषूत्तरेषु रोहिण्यां हस्ते स्वात्यां पुनर्वसौ ॥ ३ ॥
रेवत्यां श्रवणे चैव वारुणे वायुदैवते ।
युग्माश्च तिथयस्सर्वाः प्रशस्ता विष्टिवर्जिताः ॥ ४ ॥
चरराशिं विवर्ज्यैव स्थिरराशौ समाहरेत् ।
ग्रामस्य यजमानस्य चानुकूले दिने चरेत् ॥ ५ ॥
एकादशोऽध्यायः
[[१०६]]
शूलस्थापनप्रयोगः
तस्मात्तु दिवसात्पूर्वं नवमे वाऽथ सप्तमे ।
पञ्चमेऽहनि वा कुर्याद्विधिना चाङ्कुरार्पणम् ॥ ६ ॥
अङ्कुरार्पणकादूर्ध्वं द्रव्याण्यपि समाहरेत् ।
आलयात्पुरतो वाऽपि दक्षिणे वा प्रपां चरेत् ॥ ७ ॥
यागशालां तत्र कुर्याद्द्वादशस्तम्भसंयुताम् ।
आर्द्रपर्णैरलङ्कृत्य दर्भमालासमन्विताम् ।
यथाशक्ति त्वलङ्कारं कारयेत्तु विचक्षणः ॥ ८ ॥
तस्यालयस्योत्तरतः प्रपां कुर्याद्विलक्षणाम् ।
चतुर्दिशं चतुर्हस्तं चतुस्स्तम्भसमन्विताम् ।
कूटं प्रपां वा कुर्वीत आर्द्रपर्णैस्समायुताम् ॥ ९ ॥
पञ्चवर्णैरलङ्कुर्याद्भूमिं पैष्ट्या च सर्वतः ।
कुण्डं श्रामणकं कुर्यात्तन्मध्ये विधिपूर्वकम् ॥ १० ॥
आघारं विधिवत्कृत्वा मेदिन्याद्यैर्हुनेत्क्रमात् ।
पर्यग्निञ्चैव कृत्वा तु गर्भगेहादिषु क्रमात् ॥ ११ ॥
शूलस्य च तथा कृत्वा पश्चादग्निं विसृज्य च ।
पञ्चगव्यैस्समभ्युक्ष्य पुण्याहमपि वाचयेत् ॥ १२ ॥
पश्चादग्निं समासाद्य परिषिच्य च पावकम् ।
‘ये ते शतादि’ मन्त्रान्तं हुत्वा तत्र यथाक्रमम् ॥ १३ ॥
अन्तहोमञ्च कृत्वा तु ॠत्विजश्चापि पूजयेत् ।
मध्ये तु यागशालायां शयनं सम्प्रकल्पयेत् ॥ १४ ॥
[[१०७]]
शय्यायाः पूर्वभागे तु सभ्यं कृत्वाऽग्निमादरात् ।
सभ्याग्नेः पूर्वतः कुर्यात्कुण्डमाहवनीयकम् ॥ १५ ॥
दक्षिणेऽन्वाहार्यकुण्डं गार्हपत्यञ्च वारुणे ।
उत्तरे चावसत्थ्याग्निं शास्त्रोक्तविधिना चरेत् ॥ १६ ॥
कुण्डान्येवं प्रकल्प्यैव आघारं विधिवच्चरेत् ।
आघारान्ते च जुहुयात् वैष्णवं तत्र तत्र तु ॥ १७ ॥
तरुणालयगं देवमर्चयित्वा विधानतः ।
तस्मिन् काले तु विधिवत्कुम्भपूजनमाचरेत् ॥ १८ ॥
तं च देवस्याभिमुखे धान्यपीठे च विन्यसेत् ।
देवमावाहयेत्तस्मिन् विष्णुसूक्तं समुच्चरन् ॥ १९ ॥
देवं श्वभ्रे ततो न्यस्येत् कुम्भं तद्दक्षिणे न्यसेत् ।
(देवं कुम्भं समादाय विमानाभिमुखे ततः)
कुम्भस्य दक्षिणे भागे धान्यराशिं प्रकल्प्य च ॥ २० ॥
पश्चाच्छूलं समादाय धान्यपीठे न्यसेद्धरेः ।
श्रीभूमी तु समुद्दिश्य शूले उक्ते स्थले न्यसेत् ॥ २१ ॥
मार्कण्डेयं समुद्दिश्य न्यसेच्छूलं तदा पृथक् ।
अन्येषामपि चोद्दिष्टदेवानामेवमाचरेत् ॥ २२ ॥
तैलेनाभ्यज्य शूलानि शास्त्रोक्तविधिना बुधः ।
दर्भानुपरि संस्तीर्य तथा पुष्पैरथाक्षतैः ॥ २३ ॥
कलशैस्स्नापयेद्देवमन्यान् द्वादशभिः क्रमात् ।
कुम्भं शूलानि च प्रोक्ष्य प्रतिद्रव्यं विशेषतः ॥ २४ ॥
एकादशोऽध्यायः
[[१०८]]
अग्न्यालयाद्दक्षिणतः शयनं सम्प्रकल्पयेत् ।
शूलान्युद्दिश्य यत्नेन धान्यराशिं प्रकल्प्य च ॥ २५ ॥
देवेशशूलमादाय शयने सम्प्रवेशयेत् ।
शयने शायितं शूलं पाद्याद्यर्घ्यान्तमर्चयेत् ॥ २६ ॥
ताम्बूलञ्च निवेद्यैव पुण्याहं वाचयेत्ततः ।
बद्ध्वा ततः प्रतिसरं शयने शाययेद्धरिम् ॥ २७ ॥
शाययित्वा तथा शूलमुत्तराच्छादनं चरेत् ।
पश्चाद्धोतारमाहूय पूजयित्वा विधानतः ॥ २८ ॥
हौत्रं प्रशंस्य विधिना देवानावाहयेत्क्रमात् ।
चतुर्मूर्तिविधानेन सर्वत्रावाहनं चरेत् ॥ २९ ॥
आवाहनक्रमेणैव चतुर्थ्यन्तक्रमेण च ।
जुष्टाकारं ततः कुर्यात्क्रमेणाहुतीर्यजेत् ॥ ३० ॥
हुत्वा तु सर्वदैवत्यं पारमात्मिकसंयुतम् ।
जुहुयात्पौरुषं सूक्तं प्राच्यामाहवनीयके ॥ ३१ ॥
अन्वाहार्ये च जुहुयाद्विष्णुसूक्तमतः परम् ।
गार्हपत्ये च जुहुयात् ब्राह्मं वैष्णवमेव च ॥ ३२ ॥
आवसत्थ्ये च जुहुयाद्रुद्रसूक्तं विशेषतः ।
देवेशं मनसा ध्यात्वा प्रत्येकञ्चैकविंशतिम् ॥ ३३ ॥
व्याहृत्यन्तञ्च हुत्वा तु रात्रिशेषं व्यपोहयेत् ।
गर्भालयपदविन्यासः
पुनः प्रभाते धर्मात्मा यजमानयुतो गुरुः ॥ ३४ ॥
[[१०९]]
स्नात्वा स्नानविधानेन सूक्तानि च जपेत्क्रमात् ।
गर्भालयं सम्प्रविश्य पदानि परिकल्पयेत् ॥ ३५ ॥
गर्भालये पदकल्पनं
सप्तभिर्दशभिः सूत्रैः कृतैः प्रागुत्तरैः क्रमात् ।
षट्पञ्चाशद्युतशतद्वयभक्तपदेषु वै ॥ ३६ ॥
मध्ये पदानि दश षट् ब्रह्मस्थानं प्रचक्षते ।
ब्रह्मस्थानस्य परितो दैविको भाग उच्यते ॥ ३७ ॥
भागादिकाशीतिभागा बहिरावरणत्रिके ।
तद्बाह्ये मानुषं स्थानं नवतिः षट् पदानि तु ॥ ३८ ॥
स्यातां द्व्येकावृती चैव नारपैशाचनामनी ।
षष्टिः पदानां पैशाचे भित्तिमाश्रित्य सूत्रिताः ॥ ३९ ॥
दैविकञ्च त्रिधा कृत्वा द्विभागं प्राग्व्यपोह्य च ।
पश्चिमे स्थानकं कुर्यादथ भागद्वयेऽपि वा ॥ ४० ॥
दैविकेनैव संयुक्ते मानुषे चासनं भवेत् ।
देवमानुषभागाभ्यामन्तरे शयनं चरेत् ॥ ४१ ॥
रत्नन्यासः
रत्नन्यासविधावत्र स्थाननिर्णय उच्यते ।
रत्नन्यासं तले कुर्यात् गर्भगेहे विचक्षणः ॥ ४२ ॥
द्वादशाङ्गुलविस्तीर्णां भागोन्नतियुतां तथा ।
चतुरश्रां वर्तुलां वा समां कृत्वा शिलां बुधः ॥ ४३ ॥
ध्रुवस्थाने न्यसेत्तत्र गर्भगेहतले समम् ।
एवं शिलातले कृत्वा पञ्चविंशत्पदानि वै ॥ ४४ ॥
एकादशोऽध्यायः
[[११०]]
मध्ये तु ब्रह्मभागः स्यात्तद्बाह्ये मङ्गलाष्टकम् ।
तद्बाह्ये तु दिगीशानां साध्यादीनां पदं ततः ॥ ४५ ॥
एवं पदानि सङ्कल्प्य रत्नन्यासं समाचरेत् ।
गर्भालयं तु संशोध्य प्रोक्षणैः प्रोक्षणञ्चरेत् ॥ ४६ ॥
रत्नानि धातु बीजानि मङ्गलानि विशेषतः ।
आहृत्य प्रोक्ष्य सौवर्णे राजते कांस्य एव वा ॥ ४७ ॥
पात्रे सम्भृत्य यत्नेन धान्यराशिं प्रपूर्य च ।
तद्राश्युपरि संस्तीर्य तण्ङुलास्तण्डुलोपरि ॥ ४८ ॥
पद्ममष्टदलं कृत्वा पात्रं तस्योपरि न्यसेत् ।
उत्तराभिमुखो भूत्वा आचार्यः सुसमाहितः ॥ ४९ ॥
ब्राह्ममासनमास्थाय पीठे वाऽपि पदं चरेत् ।
रत्नादीन् सर्वसम्भारान् ‘तमेके’ त्यभिमन्त्रयेत् ॥ ५० ॥
पूर्वोक्तेनैव मन्त्रेण ब्रह्मस्थाने गजं क्षिपेत्
‘शतधारं’ मनुं जप्त्वा तत्रैव गरुडं क्षिपेत् ॥ ५१ ॥
ब्रह्मस्थाने ब्रह्ममणिं ‘ब्रह्मा देवादि’ मुच्चरन् ।
‘इन्द्रं प्रणवन्त’ मिति ऐन्द्रे वज्रमणिं ततः ॥ ५२ ॥
‘आग्नावग्निरि’ त्याग्नेय्यां मौक्तिकं प्रक्षिपेत्ततः ।
‘यमो दाधार’ इत्युक्त्वा याम्ये वैदूर्यकं न्यसेत् ॥ ५३ ॥
‘वसवः प्रथमः’ प्रोच्य र्नैॠत्यां शङ्खजं न्यसेत् ।
‘ये ते शत’ मिति स्फटिकं वारुण्यां दिशि निक्षिपेत् ॥ ५४ ॥
‘मरुतः परमा’ त्मेति तथा वायव्यां पुष्यकं न्यसेत् ।
‘सोमं राजान’ मित्युक्त्वा चन्द्रकान्तन्तु सौम्यके ॥ ५५ ॥
[[१११]]
‘ईशानः सर्व’ मन्त्रेण चैशान्यां नीलमाक्षिपेत् ।
एवं क्रमेण निक्षिप्य पदेष्वैन्द्रादिषु क्रमात् ॥ ५६ ॥
‘शन्नो निधत्ता’ मित्युक्त्वा वासुकेरमृताश्मकम् ।
ब्रह्मभागे न्यसेद्विद्वान् साध्यादिभ्यस्ततः परम् ॥ ५७ ॥
‘धाता धातॄणा’ मिति च सन्ध्येभ्यो लोहिताश्मकम् ।
‘विश्वे देवस्य’ इत्युक्त्वा विश्वेभ्यश्चोत्पलं मणिम् ॥ ५८ ॥
‘अधिब्रह्मे’ ति च न्यसेत्सिद्धानान्तु प्रवालकम् ।
‘इमां मूर्धन्यौ’ इत्युक्त्वा गन्धर्वेभ्यो मनश्शिलाम् ॥ ५९ ॥
‘अप्सरस्सु’ ब्रुवन् विद्वानप्सरोभ्योऽथ शुक्तिजम् ।
‘यं काद्रवेया’ इत्युक्त्वा नागेभ्यो विमलं मणिम् ॥ ६० ॥
‘अर्यम्णः कुम्भी’ति तथा अर्यम्णे च प्रवालकम् ।
‘तत्त्रीण्येषे’ति च ददेद्भूतेभ्यो नीलमुत्तमम् ॥ ६१ ॥
इन्द्राग्न्योरन्तरालादि पदेष्वेवं न्यसेत्क्रमात् ।
सौवर्णं गैरिकञ्चैव हरितालं मनश्शिलाम् ॥ ६२ ॥
अञ्जनञ्चैव श्यामञ्च कासीसं पारदं तथा ।
सौराष्ट्रकं तथा चैव गोरोचनमतः परम् ॥ ६३ ॥
मध्ये ब्रह्मणमारभ्य ईशानान्तमनुक्रमात् ।
‘ब्रह्मा देवा’ दिभिर्मन्त्रैः न्यसेद्विद्वान् पृथक् पृथक् ॥ ६४ ॥
ततस्सर्वाणि बीजानि सर्वगन्धयुतानि च ।
तथा कुलुत्थमाषौ च मुद्गं गोधूमकं पुनः ॥ ६५ ॥
तिलतिल्वौ समादाय यववंशयवौ तथा ।
नीवारञ्च प्रियङ्गुञ्च गोधूमयवकौ तथा ॥ ६६ ॥
एकादशोऽध्यायः
[[११२]]
बीजानीत्थं पूर्वमुक्तमन्त्रैर्मध्यादि विन्यसेत् ।
‘भूयाम वृत्या’ इत्युक्त्वा ऐन्द्रे श्रीवत्समर्पयेत् ॥ ६७ ॥
‘नमस्सुलोम’ मन्त्रेण आग्नेय्यां सन्न्यसेद्घटम् ।
‘स एकोऽभू’ दिति जपन् याम्ये भेरीं तथा न्यसेत् ॥ ६८ ॥
आदर्शञ्चैव र्नैॠत्यां ‘देवस्य त्वे’ ति मन्त्रतः ।
वारुणे मत्स्ययुग्मन्तु ‘अतो देवादि’ ना न्यसेत् ॥ ६९ ॥
‘क्ष्मामेका’ मिति मन्त्रेण वायुस्थानेऽङ्कुशं न्यसेत् ।
‘तन्मा यशोऽग्र’ इत्युक्त्वा शङ्खं सौम्ये तथा न्यसेत् ॥ ७० ॥
‘ब्रह्मा देवाना’ मिति न्यसेदावर्तञ्च त्रियम्बके ।
ब्रह्माभिमुखमेवन्तु मध्यमावरणे न्यसेत् ॥ ७१ ॥
अष्टमङ्गलविन्यास एवमैन्द्रादिषु स्मृतः ।
गदां शङ्खमसिं चक्रं शरं श्वभ्रे च दक्षिणे ॥ ७२ ॥
‘भूमाननोऽग्र’ इत्युक्त्वा सन्न्यसेत्तु पृथक् पृथक् ।
वामभागे तथा शङ्खं शार्ङ्गं खेटकमेव च ॥ ७३ ॥
‘तन्मा यशोऽग्र’ इत्युक्त्वा सन्न्यसेत्तु पृथक् पृथक् ।
ब्राह्मणानां हितार्थन्तु स्रुक्स्रुवौ च कमण्डलु ॥ ७४ ॥
अन्यानि यज्ञभाण्डानि सुवर्णेन कृतानि वै ।
‘ब्रह्म प्रतिष्ठा’ इत्युक्त्वा स्थापयेद्ब्रह्मभागके ॥ ७५ ॥
वर्णानाञ्चैव सर्वेषां तच्चिह्नानि पृथक् ददेत् ।
‘प्रजापतिं प्रथम’ मिति मध्ये कूर्मन्तु विन्यसेत् ॥ ७६ ॥
[[११३]]
आसनपीठे रत्नन्यासः
एवं स्थानक उद्दिष्टमासने तु प्रवक्ष्यते ।
सिंहासनस्य मध्ये तु पूर्वोक्तां सन्न्यसेच्छिलाम् ।
रत्नन्यासं तथा कुर्यादासने शूलमर्पयेत् ॥ ७७ ॥
शयनपीठे रत्नन्यासः
शयने देवदेवस्य पादपार्श्वे शिलां न्यसेत् ।
पादस्पर्शे भवेद्यत्र तत्र रत्नानि सन्न्यसेत् ॥ ७८ ॥
स्थानके चासने वाऽपि यथार्हं शयने यथा ।
शूलं स्पृशति रत्नानि यथा संस्थापयेत्तथा ॥ ७९ ॥
यथायुक्ति प्रकुर्वीत रत्नन्यासं यथा समन्त्रकम् ।
रत्नानि प्राणवद्ध्यात्वा तथा धातूनि धातुवत् ॥ ८० ॥
बीजानि चेन्द्रियाणीव न्यसेत्तस्मात्त्रयं बुधाः ।
श्रीरूपञ्च श्रियः स्थाने पञ्चरत्नैस्समन्वितम् ॥ ८१ ॥
महीरूपं महीस्थाने रत्नपञ्चकसंयुतम् ।
मुनीनामृद्धिमन्विच्छन् अक्षमालां कमण्डलु ॥ ८२ ॥
सुवर्णेनैव कृत्वा तु मुन्योर्वै स्थानयोः क्षिपेत् ।
तत्तन्मन्त्रं समुच्चार्य रत्नन्यासं समाचरेत् ॥ ८३ ॥
तत्काले यजमानस्तु विधिना पूजयेद्गुरुम् ।
ॠत्विजश्च सुसम्पूज्य नमस्कृत्य च दैववत् ॥ ८४ ॥
शूलस्थापनम्
मुहूर्ते समनुप्राप्ते शयानं बेरमादरात् ।
देवदेवं समुद्धृत्य पाद्याद्यैरभिपूजयेत् ॥ ८५ ॥
एकादशोऽध्यायः
[[११४]]
सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतम् ।
धारयन् शिरसा कुम्भमाचार्यः पुरतो व्रजेत् ॥ ८६ ॥
देवस्य च तथा देव्योः मुन्योः शूलानि कौतुकम् ।
आदाय धृत्वा हस्ताभ्यां व्रजेयुः स्थापका अनु ॥ ८७ ॥
आचार्यः स्थापकाश्चैव प्रदक्षिणविधानतः ।
यथाक्रमं समाहृत्य तिष्टेयुश्च यथाक्रमम् ॥ ८८ ॥
कुम्भेन सह शूलानि न्यस्य गर्भगृहान्तिके ।
मुहूर्ते समनुप्राप्ते विष्णुसूक्तं समुच्चरन् ॥ ८९ ॥
ध्रुवसूक्तञ्च जप्त्वा वै स्थापयेयुरनुक्रमात् ।
देवस्य कुड्ययोर्मध्ये देव्योः स्थानं प्रकीर्तितम् ॥ ९० ॥
कुड्यकौतुकयोर्मध्ये मुन्योः स्थानमुदीर्यते ।
तत्तन्मन्त्रं समुच्चार्य तत्तच्छूलं सुसन्न्यसेत् ॥ ९१ ॥
आवाहनं
कुम्भं कौतुकमादाय बालागारं प्रविश्य वै ।
ब्रह्मस्थाने प्रतिष्ठाप्य आवाहनमथाचरेत् ॥ ९२ ॥
पुण्याहं वाच्य तत्काले यथोक्तविधिना गुरुः ।
अर्चयित्वा यथान्याय्यं हविर्भिस्सन्निवेदयेत् ॥ ९३ ॥
पश्चाच्छिल्पिनमाहूय शिल्पशास्त्रविचक्षणम् ।
तं पूजयित्वा विधिना दृढीकरणमाचरेत् ॥ ९४ ॥
तत्काले रज्जुबन्धञ्च अष्टबन्धं क्रमेण वै ।
कारयेत्तु विधानेन आचार्यः शिल्पिभिः क्रमात् ॥ ९५ ॥
[[११५]]
पश्चात् स्थानं प्रकुर्वीत यागशालां व्रजेद्बुधः ।
पश्चादग्निं समासाद्य विष्णुसूक्तं हुनेद्गुरुः ॥ ९६ ॥
जुहुयात्पौरुषं सूक्तं सर्वशान्त्यै विशेषतः ।
अन्तहोमञ्च हुत्वा तु ततो विप्रांश्च भोजयेत् ॥ ९७ ॥
सुवर्णपशुभूम्यादीन् गुरवे दक्षिणां ददेत् ।
शिलाशूलस्थापनविशेषः मुहूर्तविचारः
अत ऊर्ध्वं प्रवक्ष्यामि शैलजस्थापनं क्रमात् ॥ ९८ ॥
अयने चोत्तरे श्रेष्ठं दक्षिणे चापदि स्मृतम् ।
मासानां फाल्गुनः श्रेष्ठः माधवः शुचिशुक्लभाक् ॥ ९९ ॥
मार्गशीर्षमाघौ द्वौ निन्दितौ ब्रह्मणा पुरा ।
शेषेष्वपि च कर्तव्यं त्वरितेनेति मे मतिः ॥ १०० ॥
ग्रामस्य यजमानस्य चानुकूले दिने चरेत् ।
शिलाशूलस्थापनप्रयोगः
तस्मात्तु दिवसात्पूर्वं नवमे वाऽथ सप्तमे ॥ १०१ ॥
पञ्चमेऽहनि वा कुर्याद्विधिना चाङ्कुरार्पणम् ।
अङ्कुरारोपणादूर्ध्वं द्रव्याणि च समाहरेत् ॥ १०२ ॥
आलयात्पुरतो वाऽपि दक्षिणे वा मनोरमे ।
मण्डपं वाऽथ कूटं वा प्रपां वाऽपि च कारयेत् ॥ १०३ ॥
यथा सौन्दर्यकं कुर्याद्यथा विभवविस्तरम् ।
सर्वालङ्कारसंयुक्तं चतुर्द्वारसमन्वितम् ॥ १०४ ॥
एकादशोऽध्यायः
[[११६]]
द्वारतोरणसंयुक्तं दर्भमालासमन्वितम् ।
एवं शालाञ्च कृत्वा तु स्थलं सम्यक् प्रकल्प्य च ॥ १०५ ॥
अलङ्कुर्यात्ततः सम्यक् पैष्ट्या भूमिं समन्ततः ।
तन्मध्ये स्थण्डिलं कुर्यात् चतुरश्रं समन्ततः ॥ १०६ ॥
चतुर्हस्तप्रमाणेन हस्तमात्रोन्नतेन च ।
मनोरमं कारयित्वा दृढीकरणमाचरेत् ॥ १०७ ॥
अथवा कारयेद्विद्वान् बिम्बाध्यर्धप्रमाणतः ।
स्थापनादिवसात्पूर्वं पञ्चाहे त्रियहेऽपि वा ॥ १०८ ॥
जलेऽधिवासनं कुर्याद्वस्त्रैराच्छादनं चरेत् ।
महारूपं यदि स्याच्चेदालये त्वाधिवासनम् ॥ १०९ ॥
आलयाद्दक्षिणे चैव उत्तरे वा मनोरमे ।
बिम्बाध्यर्धप्रमाणेन अवटञ्चैव खानयेत् ॥ ११० ॥
बिम्बदघ्नञ्च निम्नं स्याद्बिम्बानाञ्च पृथक् पृथक् ।
अवटञ्चैव कृत्वा तु पुष्पाक्षतसमायुतम् ॥ १११ ॥
कुशोदकसमायुक्तं जलेन परिपूरयेत् ।
एवं कृत्वा विधानेन शाययेद्बिम्बमुत्तमम् ॥ ११२ ॥
खातं क्षीरोदधिं स्मृत्वा शाययीत विचक्षणः ।
सम्यग्जलैः प्रपूर्यैव सर्वालङ्कारसंयुतम् ॥ ११३ ॥
पञ्चगव्ये कुशोदे च एवमेवाधिवासयेत् ।
पूर्वस्मिन्नेव दिवसे अग्निकुण्डानि कल्पयेत् ॥ ११४ ॥
उत्तरे तु विमानस्य कुण्डं श्रामणकं चरेत् ।
सूत्रोक्तेन विधानेन भूमियज्ञं यजेत्क्रमात् ॥ ११५ ॥
[[११७]]
पर्यग्निञ्चैव कृत्वा तु प्रोक्षयेत्पञ्चगव्यकैः ।
(पुण्याहं वाचयित्वा तु गर्भगेहस्य मध्यतः)
यागशाला - होमकल्पनम्
प्राच्यामाहवनीयञ्च अन्वाहार्यञ्च दक्षिणे ॥ ११६ ॥
गार्हपत्यं प्रतीच्यान्तु आवसत्थ्यं तथोत्तरे ।
मध्ये सभ्यञ्च कृत्वा तु पूर्वोक्तेन विधानतः ॥ ११७ ॥
सभ्यस्य दक्षिणे कुण्डं पौण्डरीकं समाचरेत् ।
प्राच्यामाहवनीयस्य श्वभ्रं कुर्वीत यत्नतः ॥ ११८ ॥
श्वभ्रस्य परितः पङ्क्तिं कारयेच्च विधानतः ।
तरुणालयमासाद्य देवदेवं प्रणम्य च ॥ ११९ ॥
सप्तविंशतिभिर्भेदैरर्चयेच्च यथाविधि ।
शूलस्थानवत्कुर्यात्कुम्भपूजां क्रमाद्बुधः ॥ १२० ॥
बालालयस्य चाग्नेय्यां शयनं सम्प्रकल्पयेत् ।
अण्डजादीनि चास्तीर्य शयनानि विधानतः ॥ १२१ ॥
अलाभे त्वण्डजादीनां वस्त्राण्यास्तीर्य च क्रमात् ।
दर्भानुपरि विन्यस्य पुष्पाक्षतसमन्वितम् ॥ १२२ ॥
पश्चाद्देवेशमादाय विष्णुसूक्तं समुच्चरन् ।
प्राङ्मुखं पश्चिमास्यं वा स्थापयित्वा विधानतः ॥ १२३ ॥
अर्घ्यान्तमर्चयित्वा तु पुण्याहं वाचयेत्ततः ।
बद्ध्वा प्रतिसरं पश्चात् शाययेत्तु विचक्षणः ॥ १२४ ॥
‘यद्वैष्णवं’ समुच्चार्य शयनं हि विधीयते ।
पूर्वस्यामेव रात्रौ तु प्रभाते वा विशेषतः ॥ १२५ ॥
एकादशोऽध्यायः
[[११८]]
शय्यास्थं देवमादाय स्थण्डिले चैव सन्न्यसेत् ।
स्थण्डिलोपरि सर्वत्र धान्यानि च समास्तरेत् ॥ १२६ ॥
वस्त्रैराच्छाद्य यत्नेन दर्भानुपरि संस्तरेत् ।
विष्णुसूक्तं समुच्चार्य तत्र देवं निवेशयेत् ॥ १२७ ॥
यदि बेरं महारूपं यन्त्रैरेवाथ योजयेत् ।
येन केन प्रकारेण योजयेदथ बुद्धिमान् ॥ १२८ ॥
शयानं देवमासाद्य सर्ववाद्यसमायुतम् ।
प्रदक्षिणं ततः कृत्वा स्थापयेत् श्वभ्रमध्यमे ॥ १२९ ॥
आघारं विधिवत्कुर्यादग्निमानम्य चादरात् ।
आघारान्ते सुहोतव्यं वैष्णवं तत्र तत्र तु ॥ १३० ॥
कुम्भैः द्वादशभिश्चैव उपस्नानसमन्वितैः ।
तत्तद्द्रव्यसमायुक्तैः स्थापयेत्पुरुषोत्तमम् ॥ १३१ ॥
दक्षिणे पौण्डरीकस्य शयनं सम्प्रकल्पयेत् ।
पूर्वोक्तेन विधानेन देवेशं शाययेत् ततः ॥ १३२ ॥
पुण्याहं वाचयित्वा तु बद्ध्वा प्रतिसरं ततः ।
शयने शाययेद्देवं वस्त्रञ्चोपरि संस्तरेत् ॥ १३३ ॥
पश्चादग्निं समासाद्य परिषिच्य च पावकम् ।
हुत्वा तु पौरुषं सूक्तं प्राच्यामाहवनीयके ॥ १३४ ॥
विष्णुसूक्तञ्च हुत्वा तु त्रातारादींश्च वै हुनेत् ।
अन्वाहार्ये सुहोतव्यं जयादिकमनुक्रमात् ॥ १३५ ॥
गार्हपत्ये विशेषेण जुहुयाद्वैष्णवं शतम् ।
रुद्रसूक्तञ्च जुहुयादावसत्थ्ये विशेषतः ॥ १३६ ॥
[[११९]]
हौत्रमुच्चार्य सभ्ये तु होता हौत्रक्रमेण च ।
सभ्ये तु सर्वन्दैवत्यं जुहुयादुक्तमार्गतः ॥ १३७ ॥
अब्जाग्निमध्ये जुहुयात्पारमात्मिकमेव च ।
जयादीन् जुहुयाच्चापि व्याहृत्यन्तं पृथक् पृथक् ॥ १३८ ॥
आग्नेय्यां र्नैॠते स्थाने वायव्ये चेशकोणके ।
कुण्डमौपासनं कृत्वा आघारं विधिवद्यजेत् ॥ १३९ ॥
ऐन्द्राद्यैशान्यपर्यन्तं दिग्दैवत्यञ्च हूयताम् ।
प्रत्येकं विंशतिर्होमः व्याहृत्यन्तं पृथक् पृथक् ॥ १४० ॥
एवं रात्रौ प्रकुर्वीत रात्रिशेषं व्यपोह्य च ।
पुनः प्रभाते धर्मात्मा यजमानयुतो गुरुः ॥ १४१ ॥
स्नात्वा स्नानविधानेन सूक्तानि च जपेत्क्रमात् ।
उद्धृत्य शयनाद्देवं पाद्याद्यैरभिपूजयेत् ॥ १४२ ॥
अन्तहोमञ्च जुहुयादैन्द्रादिषु यथाक्रमम् ।
ततः कौतुकमादाय तरुणालयमाव्रजेत् ॥ १४३ ॥
स्थापयेत् ब्रह्मभागे तु विष्णुसूक्तं समुच्चरन् ।
यागस्थानं समासाद्य अग्निमासाद्य सर्वतः ॥ १४४ ॥
वैष्णवं विष्णुसूक्तञ्च पञ्चाग्निषु यथाक्रमम् ।
जुहुयात्तु विधानेन सर्वशान्तिर्भविष्यति ॥ १४५ ॥
अन्तहोमञ्च हुत्वा तु प्रागादिषु यथाक्रमम् ।
सर्वान् देवान् विसृज्यैव आदित्यं सम्प्रणम्य च ॥ १४६ ॥
एकादशोऽध्यायः
[[१२०]]
गर्भालयं प्रविश्याथ कल्पयित्वा पदानि तु ।
दैविकञ्च त्रिधा कृत्वा प्राच्यां द्वौ तु व्यपोह्य च ।
पश्चिमे चैकभागे तु स्थानकं स्थापयेदथ ॥ १४७ ॥
द्वितीये वा स्थापयेत्तु…………………. ।
देवस्य कुड्ययोर्मध्ये देव्योः स्थानमुदीर्यते ।
कुड्यकौतुकयोर्मध्ये मुन्योः स्थानमुदाहृतम् ॥ १४८ ॥
रत्नन्यासञ्च कृत्वा तु पूर्वोक्तविधिनैव च ।
शयनाद्देवमादाय युक्तियुक्तः समाहितः ॥ १४९ ॥
गर्भालयं प्रविश्याथ विष्णुसूक्तं समुच्चरन् ।
जप्त्वा तु पौरुषं सूक्तं देवं संस्थाप्य शैलजम् ॥ १५० ॥
देव्यौ च स्थापयेत्पश्चात् मुनी चैव ततः परम् ।
तत्तन्मन्त्रञ्च जप्त्वा तु स्थापयेत्तु विचक्षणः ॥ १५१ ॥
बीजाक्षराणि सन्न्यस्येच्छैलजे तु विशेषतः ।
आसीनमपि देवेशं किञ्चिन्मानुषमाश्रिते ॥ १५२ ॥
आसनोपरि रत्नानां न्यासं तत्र समाचरेत् ।
पश्चाच्छिल्पिनमाहूय पूजयित्वा विशेषतः ॥ १५३ ॥
शिल्पशास्त्रोक्तविधिना कारयेत्सुदृढं ततः ।
शर्करादि क्रमात्कृत्वा पश्चाद्वर्णं सुयोजयेत् ॥ १५४ ॥
वर्णहीनं ध्रुवं कुर्याद्विनश्यति न संशयः ।
पूर्वं पीठं सुसन्न्यस्य रत्नन्यासं समाचरेत् ॥ १५५ ॥
रत्नं पीठोपरि न्यस्येत्पूर्वोक्तविधिना ततः ।
अन्तः सुषिरसंयुक्ते तले रत्नान्यथार्पयेत् ॥ १५६ ॥
[[१२१]]
सहजं यदि पीठं स्यात्तले रत्नानि चार्पयेत् ।
येन केन प्रकारेण योजयित्वाऽथ शिल्पिना ॥ १५७ ॥
दृष्टिं सौम्याञ्च कृत्वा तु देवदेवस्य यत्नतः ।
शर्करादिक्रमं कृत्वा पटं सम्यक् सुयोजयेत् ॥ १५८ ॥
अथवा कारयेद्विद्वान् शर्करोपरि वर्णकैः ।
शैलजञ्च ध्रुवस्थाने वर्णहीनं न कारयेत् ॥ १५९ ॥
एकत्रैव विमानस्य एका चेच्छैलजा पुरा ? ।
मानोन्मानप्रमाणेन व्यक्तं सर्वत्र कारयेत् ॥ १६० ॥
ब्रह्मस्थाने प्रतिष्ठाप्य नित्यं सम्यक् समर्चयेत् ।
बेरस्य दक्षिणे पार्श्वे उत्सवार्थन्तु कौतुकम् ॥ १६१ ॥
नवधा मार्गमालोक्य कौतुकन्तु सुसम्भरेत् ।
अर्चयित्वा यथाशक्ति त्रिकालन्तु विशेषतः ॥ १६२ ॥
एकबेरप्रतिष्ठा चेत् त्रिकालं स्नापनं चरेत् ।
तैलेनाभ्यञ्जनं कृत्वा पश्चात्स्नापनमाचरेत् ॥ १६३ ॥
पञ्चविंशतिभिर्भेदैरर्चयेच्च यथाक्रमम् ।
एकबेरन्तु यत्रैव स्नानं तत्रैव कारयेत् ॥ १६४ ॥
सन्न्यसेत्कलशांस्तत्र प्रमुखे चोत्तरेऽपि वा ।
स्नपनोक्तविधानेन कलशन्यासमाचरेत् ॥ १६५ ॥
मध्ये शुद्धोदकं न्यस्य उदधान्यां विशेषतः ।
आदाय कलशान् सर्वान् गर्भगेहं प्रविश्य च ॥ १६६ ॥
देवस्य दक्षिणे भागे स्थित्वा चैवोत्तरामुखः ।
स्नपनोक्तैस्तथा मन्त्रैः मृदाद्यैरभिषेचयेत् ॥ १६७ ॥
एकादशोऽध्यायः
[[१२२]]
अन्ते हारिद्रचूर्णेन स्नापयित्वा ततः परम् ।
शुद्धोदैरभिषिञ्चेत्तु शोधयित्वा विशेषतः ॥ १६८ ॥
प्लोतेन विमृजेत्पश्चात् वस्त्रालङ्कारमाचरेत् ।
अलङ्कारैरलङ्कृत्य पञ्चविंशतिविग्रहैः ।
अर्चयित्वा यथाशास्त्रं देवेशं प्रणमेत्ततः ॥ १६९ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे शूलस्थापनविधिर्नाम एकादशोऽध्यायः ॥