अथ दशमोऽध्यायः
दारुसङ्ग्रहणम् - मुहूर्तविचारः
अतः परं प्रवक्ष्यामि शूलसंस्थापने विधिम् ।
अयने चोत्तरे श्रेष्ठं दक्षिणे चापदि स्मृतम् ॥ १ ॥
मासानां फाल्गुनः श्रेष्ठः माधवः शुचिशुक्लभाक् ।
मार्गशीर्षमाघौ द्वौ निन्दितौ ब्रह्मणा पुरा ॥ २ ॥
शेषेष्वपि च कर्तव्यं त्वरितेनेति मे मतिः ।
ग्रामस्य यजमानस्य चानुकूले दिने चरेत् ।
गुरुमाहूय तत्काले नमस्कुर्याच्च देववत् ॥ ३ ॥
शूलस्थापनकार्यारम्भः
यजमानो गुरुश्चैव श्वः कार्यं प्राप्य निश्चितम् ।
आहूय तक्षकञ्चात्र शिल्पशास्त्रविचक्षणम् ।
उपायज्ञं युवानञ्च सम्भारान् परिगृह्य च ॥ ४ ॥
कुठारं परशुञ्चान्यान् सह वैवधिकेन च ।
यजमानो गुरुश्चैव निमित्तानि च लक्षयेत् ॥ ५ ॥
शुभे निमित्ते गच्छेच्च निवर्तेताशुभे सति ।
आचार्यो यजमानेन सह बालालयं विशेत् ॥ ६ ॥
[[१०१]]
तत्र स्थितञ्च देवेशं प्रणम्यैवानुमान्य च ।
देवदेवं समभ्यर्च्य पायसादीन् निवेदयेत् ॥ ७ ॥
दक्षिणाञ्च ततो दत्वा देवदेवं प्रणम्य च ।
चक्रामितादिसंयुक्तं सर्वद्रव्यसमायुतम् ॥ ८ ॥
यानेष्वारोप्य देवेशं चक्रवीशामितांस्तथा ।
वाहनानामलाभे तु ब्राह्मणैरेव वाहयेत् ॥ ९ ॥
अलाभे शैषिकादीनां तैर्विनैव व्रजेद्गुरुः ।
देवस्याभिमुखे स्थित्वा यजमानयुतो गुरुः ॥ १० ॥
प्रणम्य देवदेवशं ‘जितन्त’ इति चोच्चरन् ।
जपंश्च शाकुनं सूक्तं ब्रह्मघोषसमन्वितम् ॥ ११ ॥
स्तोत्रध्वनिसमायुक्तं सर्ववाद्यसमन्वितम् ।
प्रदक्षिणं ततः कुर्याद्देवेशं मनसा स्मरन् ।
पूर्वं पूर्वमुखो गत्वा उत्तरं वा यथार्हकम् ॥ १२ ॥
उक्ततरवः
गिरिस्थं वा वनस्थं वा तरुं कञ्चित् समाहरेत् ।
तरूणामपि सर्वेषां खदिरः सम्प्रशस्यते ॥ १३ ॥
असनस्तदलाभे तु चम्पकस्साल एव वा ।
अच्चो? वाऽर्जुनको वापि शिरीषो बर्बरोऽथ वा ॥ १४ ॥
शाखोपशाखासंयुक्तो रमणीयः सुशोभनः ।
वृक्षमूले तु परितः तुलसीकुशसंयुतः ॥ १५ ॥
विष्णुक्रान्तेन वा वीतः स्थलपद्मयुतः शुभः ।
श्वेतभूमिस्थितो वृक्षः वैष्णवः समुदाहृतः ॥ १६ ॥
दशमोऽध्यायः
[[१०२]]
अग्राह्यतरवः
छिन्नाग्रं भेदसंयुक्तमन्तः सुषिरसंयुतम् ।
बहुपक्षिसुखावासं बहुव्यालमृगाकुलम् ॥ १७ ॥
कृमिकीटपतङ्गाद्यैः वल्लीभिः वेष्टितं तथा ।
सीमान्तस्थं श्मशानस्थं देवस्यायतने स्थितम् ॥ १८ ॥
ईदृग्गुणसमायुक्तं वृक्षन्तु परिवर्जयेत् ।
शास्त्रोक्तं वृक्षमाज्ञाय गृह्णीयाद्विधिपूर्वकम् ॥ १९ ॥
तरुसंस्कारः
पूर्वस्मिन्नेव दिवसे रात्रौ होमं समाचरेत् ।
तस्य वृक्षस्य परितो मण्डलान्युपलिप्य च ॥ २० ॥
पञ्चवर्णैरलङ्कृत्य धान्यानि च समास्तरेत् ।
वृक्षस्य पश्चिमे स्थाप्याः चक्रवीशामिताः क्रमात् ॥ २१ ॥
वृक्षस्य चोत्तरे भागे कुण्डमौपासनं चरेत् ।
वृक्षस्य दक्षिणे भागे सर्वद्रव्याणि सन्न्यसेत् ॥ २२ ॥
स्नात्वा स्नानविधानेन गुरुराघारमाचरेत् ।
वैष्णवं विष्णुसूक्तञ्ञ्च हुत्वा मन्त्रविदत्वरः ॥ २३ ॥
वृक्षस्य पूर्वभागे तु ऐशान्यां रुद्रमर्चयेत् ।
ईशानेन्द्रान्तरे भूतान् ऐन्द्रे चेन्द्रं समर्चयेत् ॥ २४ ॥
याम्ये यमं समभ्यर्च्य मातॄरभ्यर्च्य वारुणे ।
सोमं सौम्ये समभ्यर्च्य वीरं सोमस्य पूर्वतः ॥ २५ ॥
तत्स्थाने पूर्वतोऽभ्यर्चेत् अर्घ्यान्तञ्च यथाक्रमम् ।
वृक्षे वृक्षेन्द्रमभ्यर्चेत्पुष्पगन्धानुलेपनैः ॥ २६ ॥
[[१०३]]
चक्रामितौ समभ्यर्चेत्सप्तविंशतिविग्रहैः ।
अन्नं प्रभूतमाहृत्य पुष्पाक्षतसमन्वितम् ॥ २७ ॥
लाजापूपसमायुक्तं तिलशाकसमन्वितम् ।
बलिमाहृत्य तत्काले कूर्चयुक्तेन वारिणा ॥ २८ ॥
रुद्रादीनां बलिं क्षिप्त्वा तत्तद्दिक्षु यथाक्रमम् ।
वनस्पतिभ्यः पूर्वे तु कुमारीभ्यस्तु दक्षिणे ॥ २९ ॥
पश्चिमे वृक्षराजेभ्यः सर्वकामेभ्य उत्तरे ।
बलिमेवञ्च दत्वा तु पश्चादग्निं प्रणम्य च ॥ ३० ॥
परिषेकं जलैः कृत्वा समिद्भिर्जुहुयात्ततः ।
दारुसङ्ग्रहणहोमः
अग्नये वनराजाय सोमाय च यमाय च ॥ ३१ ॥
शङ्खाय स्थूललक्षाय व्याधाय मृगरूपिणे ।
वनस्पतिभ्यो यक्षेभ्यो वल्लीभ्यः कुसुमाय च ॥ ३२ ॥
शलाटवे बृहत्वचे पुण्यायामिततेजसे ।
सूर्याय सूर्यरूपाय शृङ्गिणे भूतरूपिणे ॥ ३३ ॥
नागहस्ताय दिव्याय त्रिहस्तायेति वै हुनेत् ।
विघ्नाय विघ्नरूपाय पिनाकाय प्रसारिणे ॥ ३४ ॥
मुरुण्डाय च न्यर्णाय नागेभ्यश्च ततः परम् ।
भूतराजेभ्यश्चारणेभ्यः दिवाचरेभ्य इत्यपि ॥ ३५ ॥
नक्तञ्चरेभ्यः सन्ध्याभ्यः सन्ध्याचरेभ्य इत्यपि ।
अप्सरोभ्यश्च यक्षीभ्यः कुमारीभ्यश्च हूयताम् ॥ ३६ ॥
दशमोऽध्यायः
[[१०४]]
आसुरीभ्यो राक्षसीभ्यः पिशाचीभ्यो वनाय च ।
वृक्षाय वनचारिभ्यो वृक्षदेवेभ्य इत्यपि ॥ ३७ ॥
स्थानदेवेभ्य इत्युक्त्वा विद्याधरेभ्य इत्यपि ।
रूपिभ्यो मिथुनेभ्यश्च मुखेभ्यश्चापि हूयताम् ॥ ३८ ॥
व्याहृत्यन्तञ्च हुत्वा तु अग्निमानम्य चादरात् ।
वृक्षे कृत्वा तु पर्यग्निं ‘निर्दग्ध’ मिति मन्त्रतः ॥ ३९ ॥
पुण्याहं वाच्य बध्नीयात्ततः प्रतिसरं क्रमात् ।
यूथाधिपस्य चक्रस्य ‘रक्षस्वे’ ति समुच्चरन् ॥ ४० ॥
वृक्षाहरणं
ततः प्रभाते धर्मात्मा स्नात्वा स्नानविधानतः ।
वृक्षस्य दक्षिणे पार्श्वे स्थित्वा परशुमाहरेत् ॥ ४१ ॥
पूर्वतस्ताडयेद्विद्वान् ऐन्द्रं मन्त्रं समुच्चरन् ।
‘यमो दाधार’ इत्युक्त्वा दक्षिणे चापि ताडयेत् ॥ ४२ ॥
‘ये ते शत’ मिति प्रोच्य वारुणे ताडयेत्ततः ।
‘सोमं राजान’ मित्युक्त्वा उत्तरे चापि ताडयेत्ततः ॥ ४३ ॥
‘अतो देवादि’ जप्त्वा तु अन्तरे ताडयेत्ततः ।
शिल्पिनञ्च समाहूय पूजयित्वा स्वशक्तितः ॥ ४४ ॥
परश्वादीनि सङ्गृह्य च्छेदयेत्तु शनैः शनैः ।
तरोः पश्चिमदिक्पातस्त्वत्यन्तं शुभजो भवेत् ॥ ४५ ॥
ततस्त्वगादीन् व्यपोह्य सारं भागं समाहरेत् ।
अग्रं पादं पृष्ठं लक्षयित्वा यथोचितम् ॥ ४६ ॥
[[१०५]]
यथार्हं सारसंयुक्तभागान् सम्यक् समाहरेत् ।
तत्र दक्षिणभागार्हं योजयेद्दक्षिणे तथा ॥ ४७ ॥
वामं वामे योजयेच्च वंशदण्डन्तु मध्यमे ।
एवमाहृत्य यत्नेन करीषेनानुलेपयेत् ॥ ४८ ॥
निवेशयित्वा वैवधके सर्वमाहृत्य यत्नतः ।
अन्तहोमं ततो हुत्वा पश्चाद्देवान् विसृज्य च ।
देवागारं समानीय तानि गुप्ते विनिक्षिपेत् ॥ ४९ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे दारुसङ्ग्रहणविधिर्नाम दशमोऽध्यायः ॥