०९ समाप्तेष्टकाविधिः - मुहूर्तविचारः

अथ नवमोऽध्यायः

समाप्तेष्टकाविधिः - मुहूर्तविचारः

अतः ऊर्ध्वं प्रवक्ष्यामि समाप्तेत्विष्टकाविधिम् ।
अयने चोत्तरे कुर्याद्दक्षिणे वा त्वरान्वितः ॥ १ ॥
मार्गशीर्षमाघौ द्वौ निन्दितौ ब्रह्मणा पुरा ।
शेषेष्वपि च कर्तव्यं त्वरितेनेति मे मतिः ॥ २ ॥
त्रिषूत्तरेषु रोहिण्यां हस्ते स्वात्यां पुनर्वसौ ।
श्रवणे चैव रेवत्यामाप्ये वा वसुदैवते ॥ ३ ॥
यजमानानुकूलेषु दिनेष्वेतेषु शस्यते ।
युग्माश्च तिथयस्सर्वाः प्रशस्ता विष्टिवर्जिताः ॥ ४ ॥
गुरुशुक्रबुधेन्दूनां वाराश्शस्ता भवन्ति हि ।
चरराशिं विवर्ज्यैव स्थिरराशिञ्च सङ्ग्रहेत् ॥ ५ ॥
ग्रामस्य यजमानस्य चानुकूले दिने चरेत् ।
तस्मात्तु दिवसात्पूर्वं नवमे वाथ सप्तमे ॥ ६ ॥
पञ्चमेऽहनि वा कुर्याद्विधिना चाङ्कुरार्पणम् ।
अङ्कुरार्पणकादूर्ध्वं द्रव्यसङ्ग्रहणं चरेत् ॥ ७ ॥
स्थूप्यर्थं दारुसङ्ग्रहणं कलशविधिः

दारु खादिरमाहृत्य ॠजुसारं समाहितः ।
विष्कम्भार्धमथायामं त्रिपादं सममेव वा ॥ ८ ॥
ज्ञात्वा विमानस्य मानं स्थूपिमर्हां तु कारयेत् ।
आयामात्तु चतुर्भागं नाहं मूले प्रकीर्तितम् ॥ ९ ॥

[[९८]]

तन्मानात्तु चतुर्भागं नाहमग्रे प्रकीर्तितम् ।
मूलादग्रं क्रमान्न्यूनं निम्नं सुषिरवर्जितम् ॥ १० ॥
यथा मनोरमं स्थूपिं कारयेच्छिल्पिना दृढाम् ।
एवं स्थूपिं समाहृत्य अगाधे प्रक्षिपेज्जले ॥ ११ ॥
सौवर्णं राजतं ताम्रमायसं वा यथार्हतः ।
लौहं वापि यथाशक्ति गृह्णीयात्कलशं शुभम् ॥ १२ ॥
क्षत्रियो यजमानश्चेत्सौवर्णं वाथ राजतम् ।
अन्ये वर्णाः यथाशक्ति ताम्रजं वा समाहरेत् ॥ १३ ॥
स्थूपिप्रमाणं

विमानार्हन्तु कलशं सर्वयत्नेन चाहरेत् ।
आयामञ्च परीणाहं युक्तियुक्तं च कारयेत् ॥ १४ ॥
उक्तानामप्यलाभे तु सुधया कलशं चरेत् ।
सुधया सह संयुक्तमायमं वापि योजयेत् ॥ १५ ॥
पाशाग्रे पिण्डसंयुक्तं शर्कराभिर्मृदाऽथ वा ।
शोषयित्वा तु तत्पिण्डं सम्यक्पाशं समाहरेत् ॥ १६ ॥
विमानाग्रे तुलां कृत्वा मध्ये सुषिरसंयुताम् ।
संयोज्य सुषिरे दण्डं ब्रह्मस्थानगतं यथा ॥ १७ ॥
तथा सम्यग्विदित्वा तु तत्स्थाने स्थूपिमर्पयेत् ।
एवं स्थानं विनिर्दिश्य पश्चात्कार्यं समारभेत् ॥ १८ ॥
इष्टकालक्षणादि - शिलेष्टकासंस्कारः

शिला वा इष्टका वापि नव वा पञ्च वाऽऽहरेत् ।
शोधयित्वा विशेषेण कुर्यादप्यधिवासनम् ॥ १९ ॥

[[९९]]

आद्येष्टकायां यः प्रोक्तस्तेनैव विधिना चरेत् ।
यागशालां तथा कृत्वा अग्निकुण्डांश्च कारयेत् ॥ २० ॥
आघारं विधिवत्कृत्वा पूर्वोक्तं होममाचरेत् ।
धान्यराशिं समास्तीर्य दर्भानुपरि संस्तरेत् ॥ २१ ॥
सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतम् ।
शिलेष्टकास्सुसङ्गृह्य शिरसोद्धृत्य यत्नतः ॥ २२ ॥
ग्रामे वा नगरे वापि पत्तने खर्वटेऽपि वा ।
प्रदक्षिणं ततः कृत्वा यागशालां प्रवेशयेत् ॥ २३ ॥
अधिवासं ततः कृत्वा बद्ध्वा प्रतिसरं तथा ।
प्रत्येकञ्चैव वस्त्रैश्च वेष्टयेद्यत्नतो गुरुः ॥ २४ ॥
पूर्वोक्तेनैव विधिना रात्रौ होमं समाचरेत् ।
पूर्वोक्तेन विधानेन होमं कृत्वा विचक्षणः ॥ २५ ॥
पुनः प्रभाते धर्मात्मा यजमानयुतो गुरुः ।
स्नात्वा स्नानविधानेन पश्चात्कार्यं समाचरेत् ॥ २६ ॥
शिलेष्टकास्थापनं स्थूपिप्रतिष्ठा

मुहूर्ते समनुप्राप्ते सर्ववाद्यैश्च घोषयेत् ।
शिलेष्टकाः सम्प्रगृह्य विमाने रोपयेत्तदा ॥ २७ ॥
प्राङ्मुखोदङ्मुखो वापि पाणिभ्यां सम्प्रगृह्य च ।
शिलेष्टकाः हृदि विभुं देवेशं मनसा स्मरन् ॥ २८ ॥
चतुर्वेदादिमन्त्रैस्तु दिक्ष्वैन्द्रादिषु सन्न्यसेत् ।
विष्णुसूक्तं जपित्वा तु मध्ये स्थूपिं न्यसेत्ततः ॥ २९ ॥
नवमोऽध्यायः

[[१००]]

काले शिल्पिनमाहूय पूजयित्वा विशेषतः ।
सुधेष्टकादिभिः सम्यक् दृढीकरणमाचरेत्॥ ३० ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे समाप्तेष्टकाविधिर्नाम नवमोऽध्यायः ॥