०८ शिलासङ्ग्रहणविधिः

अथ अष्टमोऽध्यायः

शिलासङ्ग्रहणविधिः

अतः ऊर्ध्वं प्रवक्ष्यामि शिलासङ्ग्रहणे विधिम् ।
अयने चोत्तरे कुर्याद्दक्षिणे वा त्वरान्वितः ॥ १ ॥
मार्गशीर्षमाघौ द्वौ निन्दितौ ब्रह्मणा पुरा ।
शेषेष्वपि च कर्तव्यं त्वरितेनेति मे मतिः ॥ २ ॥
ग्रामस्य यजमानस्य चानुकूले दिने चरेत् ।
यजमानोऽथ तत्काले गुरुमाहूय पूजयेत् ॥ ३ ॥
यजमानो गुरुश्चैव निमित्तानि च लक्षयेत् ।
श्वः कर्ताऽस्मीति सङ्कल्प्य यजमानयुतो गुरुः ॥ ४ ॥
शुद्धं बहुज्ञं शास्त्रज्ञमरोगं मुक्तसंशयम् ।
बलवन्तमुपायज्ञमानयेच्छिल्पिनं तदा ॥ ५ ॥
अष्टमोऽध्यायः

[[८४]]

सम्पूज्य वस्त्राभरणैः तेन कर्माणि कारयेत् ।
आहृत्य सर्वान् सम्भारान् व्रजेच्छिल्पिजनैः सह ॥ ६ ॥
प्राङ्मुखोदङ्मुखो वापि मार्गेण सह साधनैः ।
गमने च तथा धीमान् निमित्तान्युपलक्षयेत् ॥ ७ ॥
निमित्तदर्शनम्

‘गच्छाहर भरेक्षस्व गृहाणे’ मेह्यशोभनाः ।
‘जीवस्व रम मोदस्व जय शाधि प्रभो कुरु ॥ ८ ॥
इत्याद्यर्थयुता वाचो यास्ताः सर्वाः शुभप्रदाः ।
राजानं वृषभं कन्यां गजं रथतुरङ्गमौ ॥ ९ ॥
पूर्णकुम्भं सुरां वेश्यां भामिनीं शोभनं विदुः ।
वायसो वामगः श्रेष्ठः कुर्वन् वै सुस्वरं भृशम् ॥ १० ॥
कार्यसिद्धिकरं विद्धि दक्षिणे विघ्नकारणम् ।
गौली दक्षिणतः श्रेष्ठा पश्चाद्वामे श्रृता यदि ॥ ११ ॥
प्रातः पैङ्गलिकं श्रेयः वामस्रोतो भवेद्यदि ।
एवमादीनि चान्यानि निमित्तानि च लक्षयेत् ॥ १२ ॥
शिलासङ्ग्रहणप्रकारः

हेमकूटश्च निषधो हिमवान् नीलपर्वतः ।
मन्दरो माल्यवांश्चैव त्रिकूटो मलयाचलः ॥ १३ ॥
गन्धमादनमेरू च दशैते पर्वताः स्मृताः ।
एतेषु प्रतिमाः शस्ताः निर्मिताः परिकीर्तिताः ॥ १४ ॥
सह्यविन्ध्यमहेन्द्राश्च कैलासश्च तथैव च ।
किष्किन्धश्च तथा पञ्च प्रशस्ता गिरयः स्मृताः ॥ १५ ॥

[[८५]]

शेषाः शैला इति प्रोक्ताः प्रतिमास्तेषु कारयेत् ।
विशेषेण तु कर्तव्याः प्रतिमा भूगताश्मना ॥ १६ ॥
गिरिजा भूमिजाश्चैव वारिजाश्च तथा शिलाः ।
भूमिजानान्तु सर्वासामधस्तान्मुखमुच्यते ॥ १७ ॥
पर्वतोपरि जातानां मुखमूर्ध्वमुदाहृतम् ।
तत्पार्श्वे तु प्रजातानां तन्मुखं मुखमुच्यते ॥ १८ ॥
पादेषु तस्य जातानां पर्वतप्रेक्षणं मुखम् ।
समुद्रान्तर्निविष्टानां मुखमूर्ध्वमुदाहृतम् ॥ १९ ॥
पाषाणानां नदीजानां जलागमनतो मुखम् ।
यतोऽस्ति गौरवं तस्य ततश्शिर उदाहृतम् ॥ २० ॥
साकृतीनां शिलानान्तु तदाकृतिशिरः ? शिरः ।
पूर्वग्रीवा तु जयदा शान्तिदा दक्षिणानना ॥ २१ ॥
श्रीकरा पश्चिमग्रीवा शुभदा चोत्तरानना ।
कोणन्तु वर्जयेत्तत्र शिलासङ्ग्रहणे सदा ॥ २२ ॥
उत्तमा भूमिजा प्रोक्ता मध्यमा गिरिजा भवेत् ।
अधमा वारिजा प्रोक्ता इति शास्त्रस्य निश्चयः ॥ २३ ॥
शिलासु लिङ्गभेदः

स्त्रीपुन्नपुंसकत्वेन त्रिविधा तु शिला भवेत् ।
विशालां वर्णबहुलां स्त्रियं विद्याच्च तां शिलाम् ॥ २४ ॥
एकवर्णां गुरुं स्निग्धां विवरैः ग्रन्थिभिर्विना ।
व्यक्तशब्दां घनाञ्चैव तां विद्यात्पुंशिलामिति ।
शरावोदकसंरावां? कर्कशां क्लीबजातिकाम् ॥ २५ ॥
अष्टमोऽध्यायः

[[८६]]

वर्ज्यशिलाः

नदीतीरे ह्रदतटे लवणोदाप्लुते स्थले ॥ २६ ॥
ग्राममध्ये श्मशाने च शिला याश्च चतुष्पथे ।
अमेध्यभूमौ जाताश्च वर्जनीयाः स्मृताः सदा ॥ २७ ॥
प्रायशो विषवृक्षाश्च यत्र व्याघ्राहिसूकराः ।
सन्ति यस्मिन् वने तत्र न ग्राह्यास्तु शिलाः स्मृताः ॥ २८ ॥
वल्मीकसङ्कटे देशे वर्जनीयास्तथोषरे ।
पतङ्गकृमिकीटानामावासस्थाश्च गर्हिताः ॥ २९ ॥
वायुसूर्याग्निभिर्दग्धा किरातगणदूषिताः ।
एताः शिला वर्जनीयाः ग्राह्याश्च शृणुत द्विजाः ॥ ३० ॥
शिलाभेदविस्तरः - ग्राह्यशिलाश्च

सुपृष्टजलसङ्कीर्णजलाशयसमावृता ।
वारुणी सा शिला ज्ञेया प्रतिमा वारुणी तथा ॥ ३१ ॥
निर्मिता शान्तिदा चापि भवेत् शुभविधायिनी ।
उत्तरे तोयसंवीता पश्चिमे क्षीरवृक्षयुक् ॥ ३२ ॥
व्रीहिपाकवृतावाच्या सतृणा पूर्वभागतः ।
तादृशी तु शिला ग्राह्या प्रतिमाकरणे शुभा ॥ ३३ ॥
माहेन्द्री प्रतिमा सा तु पुष्टिदा राज्यभोगदा ।
पलाशाः खदिरा आम्रा यस्या आग्नेयदिक् स्थिताः ॥ ३४ ॥
तित्तिर्यश्च कपोताश्च गृध्राश्चैव घनाघनाः ।
भ्रमराश्च मयूराश्च दृश्यन्ते यत्र सन्ततम् ॥ ३५ ॥

[[८७]]

तोयमन्तर्गतं स्तोकं तामाग्नेयीं विनिर्दिशेत् ।
आग्नेयी प्रतिमा प्रोक्ता आयुरारोग्यपुष्टिदा ॥ ३६ ॥
पीलुश्लेष्मातकाकीर्णा विभीतकवृता च भूः ।
महावृक्षाश्च परितः पक्षिणे मृगतृष्णकः ॥ ३७ ॥
भारुण्डाश्चैव दृश्यन्ते पांसुकूलकमाश्रिताः ।
सृगाला यत्र दृश्यन्ते तथैव मृगपक्षिणः ॥ ३८ ॥
अन्यैश्च बहुभिर्वृक्षैः जीमूतादिभिरावृता ।
भूमिस्सा वायवी प्रोक्ता हेया तत्र शिला मता ॥ ३९ ॥
गृह्यते यदि सा तत्र कर्तुः स्यादाभिचारिकम् ।
भयदा द्वेषदा चैव तस्मात्तां परिवर्जयेत् ॥ ४० ॥
ब्राह्मणादिजातिभेदेन वर्णभेदः, शैलप्रतिमासु? ।
ब्राह्मणस्य भवेच्छुक्ला रक्ता भूः क्षत्रियस्य च ।
वैश्यस्य पीता भूमिस्तु कृष्णा शूद्रस्य कीर्त्यते ॥ ४१ ॥
तद्भूमिजा च तद्वर्णा वर्णानां प्रतिमा स्मृता ।
कुन्देन्दुक्षीरसदृशी शङ्खमुक्तानिभा तथा ॥ ४२ ॥
मुक्ताभा स्फटिकाभा च श्वेतपद्मदलप्रभा ।
कुमुदाभा च या तत्र मृणालीसदृशप्रभा ॥ ४३ ॥
ब्राह्मणस्य समाख्याता प्रतिमा वर्णतः शुभा ।
वारुणी प्रतिमा नाम सर्वकामशुभप्रदा ॥ ४४ ॥
एतेषु वर्णेषूक्तेषु शुक्लो विप्रस्य चोत्तमः ।
मध्यमौ मध्यमः प्रोक्तः कृष्णस्त्वधम उच्यते ॥ ४५ ॥
अष्टमोऽध्यायः

[[८८]]

फलञ्च तद्वदेव स्यातुत्तमे मध्यमेऽधमे ।
येन वर्णेन देवेशः कृतो यत्र भवेत्ततः ॥ ४६ ॥
जनस्तद्वर्णयुक्तस्तु वर्धते नात्र संशयः ।
वैदूर्यपद्मरागाभा पद्मोत्पलदलप्रभा ॥ ४७ ॥
चची? कुन्दुरुसङ्काशा सिन्दूरसदृशी तथा ।
दाडिमीपुष्पसदृशी कुसुम्भसदृशप्रभा ॥ ४८ ॥
एषा रक्ता च रक्ताभा क्षत्रिया वर्णतः स्मृता ।
माहेन्द्री नाम विज्ञेया नृपाणां प्रतिमोत्तमा ॥ ४९ ॥
पुष्परागप्रभा चैव तथा मरकतप्रभा ।
हरिद्रापीतवर्णाभा रोचनाभा तथैव च ॥ ५० ॥
एषा पीता च पीताभा वैश्यानां वर्णतः स्मृता ।
आग्नेयी सा समुद्दिष्टा वैश्यानाञ्च सुखप्रदा ॥ ५१ ॥
कृष्णा माषाञ्जननिभा नीलश्यामा तथैव च ।
कृष्णा? रूक्षप्रभा चैव वारुणीं ता विदुर्बुधाः ॥ ५२ ॥
कृष्णाभा कृष्णवर्णा च विज्ञेया शूद्रसौख्यदा ।
लक्षणेन सुसम्पूर्णा भिन्नाञ्जनचयोपमा ॥ ५३ ॥
प्रतिमाकरणे शिलादोषाः

रक्तैश्च बिन्दुभिः कीर्णा विस्फुलिङ्गावृता तथा ।
बिन्दुभिर्व्यतिकीर्णा च शुक्लपीतप्रभा तथा ॥ ५४ ॥
एवं भूता तु प्रतिमा सर्वलोका शुभप्रदा ।
(विस्फुलिङ्गैश्च रक्तैश्च क्षत्रियाणां जयावाहा)

…………………………………………. ॥ ५५ ॥

[[८९]]

………………………………………… ।
स्फोटाश्च बिन्दवो निम्नाः सर्वे दोषा विगर्हिताः ॥ ५६ ॥
शिलादोषस्वरूपं

सिरायान्तु स्वयं नश्येत् विवरे पुत्रनाशनम् ।
स्वजनो वर्तुले नश्येत् स्थापको ग्रन्थिभिस्तथा ॥ ५७ ॥
स्फोटा हन्यात्तु कर्तारं निम्नो हन्यान्नराधिपम् ।
तस्मात्सर्वप्रयत्नेन दोषानेतान् विवर्जयेत् ॥ ५८ ॥
अशक्यं कर्म शास्त्रोक्तं कर्तुं तदमरैरपि ।
का वा तत्र मनुष्याणां करणे शक्तिराप्यते ॥ ५९ ॥
युगभेदेन शिलासु वर्णभेदः

हेमकूटाद्यलाभे तु भूमिजां वा समाहरेत् ।
कृतत्रेताद्वापरेषु कलौ चैव यथाक्रमम् ॥ ६० ॥
शुक्लादयस्समुद्दिष्टा वर्णा वर्णक्रमेण वै ।
शैलजप्रतिमानाञ्च मृद्बिम्बानां तथाऽत्र तु ॥ ६१ ॥
युगवर्णो हि भगवान् भवेद्विष्णुस्सनातनः ।
शिलानामुक्तवर्णानामलाभे चाञ्जनप्रभा ॥ ६२ ॥
शिला प्रशस्यते नित्यं सर्वकामफलप्रदा ।
वर्णसंस्कारे शिलावर्णप्रामुख्यं

यो वर्णो यच्छिलायास्तु बाह्ये तद्वर्णमर्पयेत् ॥ ६३ ॥
विपरीतं न कुर्वीत यदि कुर्यान्न सिद्ध्यति ।
एवं बिम्बं विधानेन कृत्वा सम्यक् सुलक्षणम् ॥ ६४ ॥
अष्टमोऽध्यायः

[[९०]]

स्थापयित्वा विधानेन नित्यं सम्यक् समर्चयेत् ।
अनुलोमं प्रकुर्वीत प्रतिलोमं न कारयेत् ॥ ६५ ॥
शिलासङ्ग्रहणं

शिलासङ्ग्रहदेशे तु तत्रैवोत्तरपार्श्वतः ।
सम्भृत्य चैव सम्भारान् पूर्वेद्युः होममाचरेत् ॥ ६६ ॥
कुण्डं श्रामणकं कृत्वा आघारं विधिवद्यजेत् ।
हुत्वा मेदिन्यादिमन्त्रैः पर्यग्निं तत्र कारयेत् ॥ ६७ ॥
पुण्याहं वाचयित्वा तु प्रोक्षणैः प्रोक्षणं चरेत् ।
‘ये ते शता’ दिभिर्मन्त्रैः हुत्वाऽग्निञ्च विसर्जयेत् ॥ ६८ ॥
तस्य दक्षिणपार्श्वे तु कुर्यादौपासनं क्रमात् ।
आघारं विधिवत्कृत्वा अदितेन्वादिभिः क्रमात् ॥ ६९ ॥
परिस्तीर्य विधानज्ञो वैष्णवं जुहुयात्क्रमात् ।
हुत्वा तु पौरुषं सूक्तं विष्णुसूक्तमतः परम् ॥ ७० ॥
जयादींश्चैव हुत्वा तु ऐन्द्रञ्च विधिपूर्वकम् ।
यावान् वै प्रतिमायामः प्रक्षालनमथाचरेत् ॥ ७१ ॥
विष्णुमभ्यर्च्य तत्रैव सप्तविंशतिविग्रहैः ।
दिग्देवानर्चयित्वा तु अर्घ्यान्तञ्च यथाक्रमम् ॥ ७२ ॥
वसन्तादिबलिं दत्वा क्रूरभूतबलिं ददेत् ।
वस्त्रैराच्छाद्य परितो देवेशं सम्प्रणम्य च ॥ ७३ ॥
सन्न्यसेत्तु परश्वादीन् वस्त्रस्योपरि च क्रमात् ।
तस्य पश्चिमभागे तु दर्भैरास्तरणं चरेत् ॥ ७४ ॥

[[९१]]

आसीनो यजमानस्तु तस्योपरि विधानतः ।
देवेशं मनसा ध्यात्वा इमं मन्त्रमुदीरयेत् ॥ ७५ ॥
‘ओं नमस्सकलेशाय सर्वभूतात्मने नमः ।
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः’ ॥ ७६ ॥
शताष्टवारं जप्त्वैवं प्रसन्नाय तवान्तिकम् ।
स्वप्ने सर्वाणि कार्याणि हृदिस्थानीह शंस मे ॥ ७७ ॥
इति सम्प्रार्थ्य देवेशमेकाग्रमनसा शुचिः ।
मन्त्रं शताष्टवारञ्च जप्त्वा शयनमाविशेत् ॥ ७८ ॥
शयने स्वप्ननिमित्तदर्शनफलं

ज्वलन्तञ्च श्रिया युक्तं यदा पश्यति पर्वतम् ।
प्रवृद्धशिखरं तत्र काञ्चनद्रुमसंयुतम् ॥ ७९ ॥
फुल्लपुष्पसमायुक्तपल्लवद्रुमशोभितम् ।
तदा स्वप्नं सुखं विन्द्यात् क्रिया भवति पुष्टिदा ॥ ८० ॥
विपरीतो यदि स्वप्नः महाशान्तिः सुहूयताम् ।
एवं कृत्वा तु तद्रात्रौ रात्रिशेषं व्यपोहयेत् ॥ ८१ ॥
प्रभातकृत्यम्

पुनः प्रभाते धर्मात्मा यजमानयुतो गुरुः ।
स्नात्वा स्नानविधानेन स्वस्तिसूक्तं समुच्चरन् ॥ ८२ ॥
प्रदिक्षणं ततः कृत्वा यज्ञालयमुपाव्रजेत् ।
आसनं ब्रह्ममास्थाय अग्निमानम्य चादरात् ॥ ८३ ॥
कूर्चेन तोयमादाय परिषिच्य च पावकम् ।
साग्रं पालाशसमिधं घृताक्तं परिगृह्य च ॥ ८४ ॥
अष्टमोऽध्यायः

[[९२]]

वैष्णवं मन्त्रमुच्चार्य जुहुयादग्निमध्यमे ।
विष्णुसूक्तञ्च हुत्वा तु जयादींश्च ततः परम् ॥ ८५ ॥
यद्देवादींस्ततो हुत्वा ब्राह्मं रौद्रं तथैव च ।
व्याहृत्यन्तञ्च हुत्वा तु अग्निं सम्यक् प्रणम्य च ॥ ८६ ॥
अन्तहोमं ततो हुत्वा पश्चादग्निं विसर्जयेत् ।
पश्चाद्देवान्विसृज्यैव आदित्यं सम्प्रणम्य च ॥ ८७ ॥
हुलिकादि च सङ्गृह्य प्राङ्मुखः प्रयतात्मवान् ।
सुवर्णेनैव कृत्वा तु घनयुक्तमनिन्दितम् ॥ ८८ ॥
विष्णुसूक्तेन देवस्य दिक्षु प्रागादि ताडयेत् ।
अन्येषामपि देवानां तत्तन्मन्त्रेण ताडयेत् ॥ ८९ ॥
पश्चाच्छिल्पिनमाहूय पूजयित्वा विशेषतः ।
शिल्पिना छेदयेत्तान्तु ऊहापोहविधानतः ॥ ९० ॥
छेदने भेदने वाथ मण्डलान्यशुभानि चेत् ।
दृश्यन्ते तां शिलां विद्यात्सगर्भं दोषदूषिताम् ॥ ९१ ॥
शिलाच्छेदे दोषलक्षणज्ञानं

कृष्णन्तु मण्डलं यत्र कृष्णाहिस्तत्र लक्ष्यते ।
कपिले मण्डले प्रोक्ता मूषिका कपिलाकृतिः ॥ ९२ ॥
अरुणे मण्डले तत्र कृकलासस्तु गर्भगः ।
गुडवर्णे तु पाषाणगर्भं भवति तद्वपुः ॥ ९३ ॥
कपोतकर्बुरं यत्र दृश्यन्ते मण्डलानि तु ।
गृहगौली भवेत्तत्र गर्भस्था मुनिसत्तमाः ॥ ९४ ॥

[[९३]]

आपः कृपाणसदृशे मण्डलेऽन्तर्गताः स्मृताः ।
पद्मवर्णे भवन्त्येव वालुका गर्भभाविताः ॥ ९५ ॥
विचित्रे मण्डले तत्र वृश्चिकस्समुदाहृतः ।
नीलपीतनिभे चैव मण्डले शलभाः स्मृताः ॥ ९६ ॥
मण्डले मधुवर्णे तु खद्योतमभिनिर्दिशेत् ।
एकं वा बहु वा यत्र दृश्यन्ते मण्डलानि वै ॥ ९७ ॥
यावन्ति मण्डलान्यत्र गर्भास्तत्र भवन्ति वै ।
गर्भदोषे महान् दोषो भवत्येव न संशयः ॥ ९८ ॥
तस्माच्छान्तिं प्रकुर्वीत गर्भोक्तां गर्भदर्शने ।
गर्भदोषफलं

गर्भदर्शनदोषन्तु शृणुध्वमृषिपुङ्गवाः ॥ ९९ ॥
प्लवगो रोगदः प्रोक्तो गोधा दारिद्र्यकारणम् ।
सर्पो दृश्येत यदि तु भार्या नश्यति निश्चयः ॥ १०० ॥
दर्शने मूषिकायास्तु भविष्यत्यनपत्यता ।
अल्पायुः कृकलासे तु दृष्टे भवति गर्भगे ॥ १०१ ॥
पाषाणगर्भो दृश्येत भवेदेव कुलक्षयः ।
तस्माद्यत्नात्परीक्षेत शिला वृक्षांस्तथैव च ॥ १०२ ॥
मोहात्सगर्भशिलया क्रियते प्रतिमा यदि ।
तन्मण्डलाधिपस्यैव राज्ञः स्यादाभिचारिकम् ॥ १०३ ॥
उन्मूलितो भवेद्वंशः तस्माद्गर्भं विशोधयेत् ।
येन केन प्रकारेण ऊहापोहौ प्रयोजयेत् ॥ १०४ ॥
अष्टमोऽध्यायः

[[९४]]

शिलाऽऽनयनम्

आहरेत प्रयत्नेन तत्तन्मान समायुताम् ।
अङ्कयेच्चापि सर्वत्र अङ्गोपाङ्गविनिर्णयम् ॥ १०५ ॥
एवं सङ्कल्प्य तं बिम्बमारोप्य शकटे ततः ।
सर्ववाद्यसमायुक्तं देवालयमुपाव्रजेत् ॥ १०६ ॥
आलयात्पुरतो वापि उत्तरे वा मनोरमे ।
शिलां तत्र तु विन्यस्य प्रतिमां कारयेत्ततः ॥ १०७ ॥
बिम्बनिर्माणप्रकारः

नवयौवनसम्पन्नं शिल्पशास्त्रविचक्षणम् ।
आहूय पूजयित्वा तु वस्त्राभरणकुण्डलैः ॥ १०८ ॥
कारयेल्लक्षणोपेतां प्रतिमां शिल्पिना बुधः ।
वर्णयुक्ता यदि भवेदङ्गेषूपाङ्गेषु सर्वतः ॥ १०९ ॥
यवहीनपरीणाहां कुर्याच्छिल्पी विचक्षणः ।
आयामं प्रतिमानान्तु पादाधिकमथापि वा ॥ ११० ॥
कुर्वीताद्यार्धाधिकं वा द्वारमानं त्रिधा भवेत् ।
गर्भगेहस्य विस्तारो यावान् बिम्बस्तथा भवेत् ॥ १११ ॥
पादहीनस्तथाऽर्धं वा गर्भगेहस्य मानतः ।
अथवा कारयेद्विद्वान् द्वारमानं विचक्षणः ॥ ११२ ॥
यजमानसमं वाऽपि

मूलबिम्बसमन्तु वा ।
देवानां पुंशिला प्रोक्ता

देवीनां स्त्रीशिला स्मृता ॥ ११३ ॥

[[९५]]

नपुंसकशिला ग्राह्या प्रतिमाकरणेन वै ।
शिलाजं ध्रुवबेरं स्यादलाभे दारुपार्थिवे ॥ ११४ ॥
मानोन्मानप्रमाणैस्तु युक्तमुत्तममुच्यते ।
पादाधिकाश्रयोपेतं मध्यमन्तु शिलामयम् ॥ ११५ ॥
सर्वाङ्गाश्रयसंयुक्तमेकाश्रयमिहाधमम् ।
पीठप्रमाणम्

पद्मपीठन्तु सहजमासने स्थानकेऽपि वा ॥ ११६ ॥
बेरायामस्य षड्भागादेकभागेन कारयेत् ।
ध्रुवबेरस्य पादस्य प्रतिदिक्चतुरङ्गुलम् ॥ ११७ ॥
विस्तार ऊर्ध्ववेद्याः स्यात् पद्मपत्रयुजस्ततः ।
एवं स्थानकमुद्दिष्टमासने तु प्रवक्ष्यते ॥ ११८ ॥
द्वारं कृत्वा तु षङ्भागं त्रिभागं पीठमुच्यते ।
अर्धयुक्तं त्रिभागं वा मध्यमं कारयेद्बुधः ॥ ११९ ॥
द्विभागमधमं पीठमेवमुच्छ्राय उच्यते ।
बेरायामस्य चोच्छ्रायं बेरपीठस्य कल्पयेत् ॥ १२० ॥
दैविकञ्च त्रिधा कृत्वा पूर्वभागं व्यपोह्य च

स्थानकादीनां स्थानभेदः

पश्चिमे स्थानकं कुर्यान्मध्यमे वा विधानतः ॥ १२१ ॥
किञ्चिन्मानुषमाश्रित्य दैविके चासनं चरेत् ।
पश्चिमे ब्रह्मभागे तु पद्मपीठं प्रकल्पयेत् ॥ १२२ ॥
अष्टमोऽध्यायः

[[९६]]

प्रसारितस्य पादस्य शास्त्रोक्तविधिना बुधैः ।
शिलामयं विमानञ्चेदासनञ्च शिलामयम् ॥ १२३ ॥
कुर्यादेवं विधानेन पश्चात् स्थानकमाचरेत् ।
दारुपरीक्षा

अत ऊर्ध्वं प्रवक्ष्यामि विशेषांस्तरुषु क्रमात् ॥ १२४ ॥
आसनं खदिरञ्चैव चम्पकञ्चार्जुनं तथा ।
ध्वजं बर्बरञ्चैव मङ्कणञ्च नमेरुकम् ॥ १२५ ॥
युगञ्च लाङ्गलञ्चैव बहुपुष्पं तमालकम् ।
गण्डीयं कुकरञ्चैव मधूकं वकुलं तथा ॥ १२६ ॥
पाटलं पनसञ्चैव तिन्त्रिणीसारमेव वा ।
अश्वत्थं चूत….धातकीं वाऽऽहरेद्बुधः ॥ १२७ ॥
प्रतिमार्थं तरुं कञ्चित् कञ्चित् स्थूणार्थमेव च ।
कवाटार्थञ्च कूटार्थमन्यार्थञ्चाहरेत्क्रमात् ॥ १२८ ॥
एतेषां सारमाहृत्य युक्त्या सर्वं समाचरेत् ।
शिष्टं त्वाष्टप्रयोगेण कारयेत्तु विचक्षणः ॥ १२९ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे शिलासङ्ग्रहणविधिर्नाम अष्टमोऽध्यायः ॥

[[९७]]