अथ सप्तमोऽध्यायः
आवरणलक्षणम् - प्रथमावरणम्
ॠषय ऊचः
अतः परं ब्रूह्यस्माकं प्रथमावरणे विधिम् ।
आयामं विस्तृतिञ्चैव गोपुराणां विशेषतः ॥ १ ॥
इन्द्रादिदेवानुद्दिश्य आलयस्य च लक्षणम् ।
विष्वक्नेनालयस्यापि वैनतेयालयस्य च ॥ २ ॥
सूर्यालयस्य विघ्नेशमन्दिरस्य च लक्षणम् ।
स्नपनालयं समुद्दिश्य स्थापनं लक्षणं तथा ॥ ३ ॥
चक्रादिदेवानुद्दिश्य स्थानं यूथाधिपस्य च ।
एतेषां लक्षणञ्चैव क्रियामार्गञ्च विस्तरात् ।
त्वत्प्रसादादशेषेण श्रोतुमिच्छामहे वयम् ॥ ४ ॥
भृगुरुवाच
युष्माभिश्चोदितं सर्वं प्रवक्ष्याम्यनुपूर्वशः ।
आलयं मण्डपञ्चैव प्राकारं गोपुरं तथा ॥ ५ ॥
यावत्प्रमाणमुत्सेधः तावद्भूमौ तु खानयेत् ।
शोधयित्वा तु विधिना समीकृत्य विचक्षणः ॥ ६ ॥
तदर्धं वालुकैः पूर्य जलेन सहितं शनैः ।
तदर्धं वापि कुर्वीत यथाविभवमादरात् ॥ ७ ॥
उत्सेधात्तु चतुर्भागं भित्तिमूलघनं विदुः ।
उत्सेधाध्यर्धमुद्दिष्टा भूमेर्भित्तिरुदाहृता ॥ ८ ॥
[[७१]]
भूमेरूर्ध्वं चतुर्भित्तिरेकहस्तप्रमाणतः ।
द्विहस्तं वा त्रिहस्तं वा भित्तिं सम्यक्समाचरेत् ॥ ९ ॥
तस्योपरि विधानेन उपानादि क्रमात् चरेत् ।
मानाधिकारे यत्प्रोक्तमलङ्कारञ्च सर्वशः ॥ १० ॥
तेन मार्गेण कर्तव्यं समाप्तेष्टकया सह ।
विपरीतं न कुर्वीत यदि कुर्यान्न सिद्ध्यति ॥ ११ ॥
प्रासादस्य तु विष्कम्भं चतुर्भागं विभज्य च ।
एकमाद्यस्य विस्तारः दक्षिणे पश्चिमेऽपि च ॥ १२ ॥
उत्तरे च तथा कुर्यादुपानसममुच्यते ।
उपानस्यैव विस्तारं चतुर्भागं विभज्य च ॥ १३ ॥
एकभागं व्यपोह्यैव त्रिभागञ्चोत्तमं भवेत्
मध्यमन्तु द्विभागं स्यादधमञ्चैकभागकम् ॥ १४ ॥
उत्सेधात्तु चतुर्भागमथवा चाष्टभागकम् ।
एवं स्थलं प्रकुर्वीत दक्षिणे पश्चिमेऽपि वा ॥ १५ ॥
उत्तरे चाथवा कुर्यात्पादं पङ्क्तिञ्च कारयेत् ।
पादं युक्त्या प्रकुर्वीत भित्तिपादेन संयुतम् ॥ १६ ॥
उत्तमा शैलजा भित्तिर्मध्यमा त्विष्टकामयी ।
मृण्मयी त्वधमा प्रोक्ता इति शास्त्रस्य निश्चयः ॥ १७ ॥
उत्तमं शैलजं प्रोक्तं मध्यमं दारुसारजम् ।
अधमञ्च मृदा कुर्यात्तृणजन्यैरथापि वा ॥ १८ ॥
पादास्ते चतुरश्रास्स्युः सर्वे वृत्ता अथापि वा ।
त्रिहस्तं नाहमुद्दिष्टं द्विहस्तं वापि कारयेत् ॥ १९ ॥
सप्तमोऽध्यायः
[[७२]]
एवं कर्तुमशक्तश्चेदेकहस्तमथापि वा ।
एवं नाहं प्रकुर्वीत युक्त्या बोधिकया युतम् ॥ २० ॥
हस्तद्वयं तथाऽऽयामं बोधिकानां विधीयते ।
अध्यर्धं वापि कुर्वीत एकहस्तमथापि वा ॥ २१ ॥
तालद्वयन्तु विस्तारमध्यर्धं वापि कारयेत् ।
तालं वापि च कुर्वीत विस्तारस्य समं घनम् ॥ २२ ॥
शेषं युक्त्या प्रकुर्वीत बोधिकानां विशेषतः ।
बोधिकानां समं कुर्याद्विस्तारञ्चोत्तरासु च ॥ २३ ॥
तन्मानञ्च समं प्रोक्तं पादहीनमथापि वा ।
उत्तरोपरिपार्श्वे तु अनुमार्गञ्च कारयेत् ॥ २४ ॥
विस्तरञ्च घनञ्चैव भागमात्रं प्रचक्षते ।
तस्योपरि तुलाधारबोधिकाः परिकल्पयेत् ॥ २५ ॥
तुलां पश्चात्प्रकुर्वीत तालमात्रप्रमाणतः ।
यथालाभघनं कुर्याद्यथावित्तानुसारतः ॥ २६ ॥
एवमेव प्रकुर्वीत शेषं युक्त्या समाचरेत् ।
एवं दक्षिणतः कुर्यात्पश्चिमे चोत्तरेऽपि च ॥ २७ ॥
अत ऊर्ध्वं प्रवक्ष्यामि देवस्याभिमुखं प्रति ? ।
पुरस्ताद्द्विगुणं प्रोक्तं पादं युक्त्या प्रकल्पयेत् ॥ २८ ॥
पूर्वोक्तेन विधानेन बोधिकादि क्रमाच्चरेत् ।
पादमर्धं त्रिपादं वा समं वा मुखमण्डपम् ॥ २९ ॥
मुखमण्डपपूर्वे तु सोपानानि च कारयेत् ।
आयामं पुरतश्चैव चतुर्भागं विभज्य च ॥ ३० ॥
[[७३]]
एकभागन्तु सोपानमुन्नतं हस्तमुच्यते ।
पादांश्च चतुरः कुर्याद्दक्षिणोत्तरयोः क्रमात् ॥ ३१ ॥
पञ्चभिर्वा चतुर्भिर्वा त्रिभिर्वापि पदञ्चरेत् ।
सिंहपादेन संयुक्तं सोपानं सम्यगाचरेत् ॥ ३२ ॥
परिवारदेवताकल्पनम्
मण्डपस्य तु मध्ये तु गरुडं सम्प्रकल्पयेत् ।
तस्य पश्चिमपङ्क्तेस्तु उत्तरे शैषिकं चरेत् ॥ ३३ ॥
द्वारस्य दक्षिणे पार्श्वे इन्द्रस्थानं प्रकल्पयेत् ।
आग्नेय्यां स्थानमग्नेश्च यमं याम्ये प्रकल्पयेत् ॥ ३४ ॥
र्नैॠत्यां र्निॠतेः स्थानं वारुण्यां वरुणालयम् ।
वायुस्थानञ्च वायव्यां सौम्ये सोमं प्रकल्पयेत् ॥ ३५ ॥
ईशानञ्च तथैशान्ये स्थापयेच्च विधानतः ।
ईशानमिन्द्रमग्निञ्च स्थापयेत्पश्चिमामुखान् ॥ ३६ ॥
उत्तराभिमुखं कुर्याद्यमं याम्ये समर्चयेत् ।
र्निॠतिं वरुणञ्चैव वायुं वै प्राङ्मुखांश्चरेत् ॥ ३७ ॥
दक्षिणाभिमुखं सौम्ये सोमं संस्थाप्य चार्चयेत् ।
दक्षिणाभिमुखं शान्तमासीनं सम्यगाचरेत् ॥ ३८ ॥
इन्द्रादीनाञ्च सर्वेषां विष्वक्सेनेन चैव हि ।
आलयं सम्प्रकुर्वीत प्रथमावरणेऽपि वा ॥ ३९ ॥
प्रासादार्धसमुत्सेधः परिवारालयो भवेत् ।
प्राकारस्य कपोतस्य मण्डपस्याथवोन्नतिः ॥ ४० ॥
गोपुरेशानयोर्मध्ये भास्करं सम्यगर्चयेत् ।
सप्तमोऽध्यायः
[[७४]]
परिवारनिर्माणद्रव्यव्यवस्था
शिलया निर्मिते देवे शिलया परिवारकान् ॥ ४१ ॥
मृद्भिः मृदा च कुर्वीत दारुणा दारुभिस्तु वा ।
भास्करं गरुडञ्चैव रौद्रीं विकटमेव च ॥ ४२ ॥
स्कन्दञ्च कलिपत्नीञ्च शैलजञ्चेन्न दोषकृत् ।
परिवाराणाम् अवस्थानियतिः
स्थानकं दैवतं यत्र परिवारांस्तथा चरेत् ॥ ४३ ॥
आसीने च तथाऽऽसीनान् शयाने शयितान् न च ।
आसनं न तु कुर्वीत कुर्यात् स्थानकमार्गतः ॥ ४४ ॥
स्थानके चासने वापि शयने वा विशेषतः ।
शैषिकस्य तु सर्वत्र आसनञ्च न दोषकृत् ॥ ४५ ॥
सर्वानालयपालांस्तु द्वारपालान् विशेषतः ।
तत्तद्रूपान् प्रकुर्वीत चित्रमार्गेण तत्र वै ॥ ४६ ॥
चित्रार्धं वा प्रकुर्वीत चित्राभासमथापि वा ।
प्रासादात्पादहीनस्तु गोपुरोच्छाय उच्यते ॥ ४७ ॥
गोपुरात्तु बहिः पार्श्वे दक्षिणे विघ्नमर्चयेत् ।
वामे तु नागराजञ्च आलयस्थं समर्चयेत् ॥ ४८ ॥
एवमेव प्रकारेण प्रथमावरणे चरेत् ।
द्वितीयावरणकल्पनं
द्वितीयावरणं कुर्यात्पूर्वोक्तेन विधानतः ॥ ४९ ॥
[[७५]]
खननं पूरणञ्चैव भूमेर्भित्त्यादि पूर्ववत् ।
प्रथमावरणं यावत्तावन्मानं द्वितीयकम् ॥ ५० ॥
पुरस्ताद्द्विगुणं प्रोक्तं तन्मध्ये स्नपनालयम् ।
पादाधिकं वा कुर्वीत अध्यर्धं वापि कारयेत् ॥ ५१ ॥
द्विगुणं वापि कुर्वीत यथाविभवविस्तरम् ।
प्रासादस्यार्धमुद्दिष्टं प्राकारस्योन्नतं बुधैः ॥ ५२ ॥
प्राकारे पट्टिकां कुर्यात्कपोतं वापि कारयेत् ।
गोपुरं तु द्वितीये तु प्रासादसममुन्नतम् ॥ ५३ ॥
त्रिपादं वापि कुर्वीत तदर्धं वापि कारयेत् ।
मानाधिकारोक्तपथा गोपुरं सम्यगाचरेत् ॥ ५४ ॥
द्वितीयावरणे कुर्यात्कपोतं वापि कारयेत् ।
गोपुरं …………. गृहान् सर्वान् विधानतः ॥ ५५ ॥
द्वितीयावरणे कुर्यात्पूर्वोक्तेन विधानतः ।
भौममैन्द्रे प्रकुर्वित आग्नेय्यान्तु शनैश्चरम् ॥ ५६ ॥
याम्ये बृहस्पतिं कुर्यार्न्नैॠ त्यान्तु शनैश्चरम् ।
वारुण्यां शुक्र उद्दिष्टः जाह्नवी वायुगोचरे ॥ ५७ ॥
सौम्ये सोमं प्रकुर्वीत ऐशान्यां सूर्यमेव च
यमाग्न्योर्मध्ये स्थाने श्रीदेवीं सम्यगर्चयेत् ॥ ५८ ॥
यमर्नैॠतयोर्मध्ये रोहिणीमपि पूजयेत् ।
नीलवारुणयोर्मध्ये धात्रीञ्चैव समर्चयेत् ॥ ५९ ॥
वरुणोदानोर्मध्ये ज्येष्ठां सम्यक्सुपूजयेत् ।
धनदोदानयोर्मध्ये ॠषीनपि सुपूजयेत् ॥ ६० ॥
सप्तमोऽध्यायः
[[७६]]
धनदेशानयोर्मध्ये भूम्यादीन् स्थापयेत्क्रमात् ।
सुरेन्द्रेशानयोर्मध्ये धिषणां सम्यगर्चयेत् ॥ ६१ ॥
किञ्चिद्दक्षिणमाश्रित्य ऐन्द्रद्वारस्य दक्षिणे ।
सुब्रह्मण्यं समुद्दिश्य आलयं परिकल्पयेत् ॥ ६२ ॥
यमाग्न्योरन्तरे चैव दुर्गाञ्चैव समर्चयेत् ।
त्रिहस्तमालयं कुर्यात्सर्वालङ्कारसंयुतम् ॥ ६३ ॥
स्नानालयः
स्नानालयं प्रकुर्वित द्वितीयावरणे तथा ।
गोपुरस्य प्राग्दिशि तु चतुर्हस्तं व्यपोह्य च ।
पञ्चषट्सप्तहस्तान् वा अष्टहस्तानथापि वा ॥ ६४ ॥
त्रिविधानि मण्डपानि
मण्डपञ्च त्रिधा प्रोक्तं सर्वालङ्कारसंयुतम् ।
उत्तमं मध्यमञ्चैव कनिष्ठं त्रिविधं भवेत् ॥ ६५ ॥
श्रीवत्सं स्वस्तिकञ्चैव पद्मकञ्च प्रकीर्तितम् ।
श्रीवत्समुत्तमं प्रोक्तं मध्यमं स्वस्तिकं भवेत् ।
अधमं पद्मकञ्चैव शान्तिकादिक्रमाच्चरेत् ॥ ६६ ॥
श्रीवत्समण्डपलक्षणं
श्रीवत्सस्य क्रमं पूर्वं वक्ष्यामि श्रुणुतर्षयः ।
षट्त्रिंशद्धस्तमुद्दिष्टं चतुरश्रं समन्ततः ॥ ६७ ॥
पादानान्तु शतं प्रोक्तमुत्तमं स्नपनालये ।
पादान्तरं चतुर्हस्तं स्तम्भमानेन संयुतम् ॥ ६८ ॥
[[७७]]
मध्ये कूटञ्च कृत्वा तु षोडशस्तम्भसंयुतम् ।
हस्तद्वयं तलोत्सेधमेकहस्तमथापि वा ॥ ६९ ॥
तन्मध्ये श्वभ्रमुद्दिष्टं तोयमार्गसमायुतम् ।
पादायामं घनञ्चैव पादाधारसमायुतम् ॥ ७० ॥
बोधिका चोत्तरा चैव अनुमार्गसमायुता ।
इष्टकाधारकञ्चैव अन्यद्वा दारुसंस्क्रियाम् ॥ ७१ ॥
आचार्यः शिल्पिभिः सार्धं युक्तियुक्तञ्च कारयेत् ।
यथा सौन्दर्यकं कुर्यान्मतिमान् शिल्पिसम्मतम् ॥ ७२ ॥
बाह्यपादं विवर्ज्यैव मध्यपादञ्च सर्वशः ।
पादानाञ्च चतुप्षष्टिमुन्नतानां समारभेत् ॥ ७३ ॥
पादानाञ्च चतुर्भागं हीनं बाह्ये च पादयोः ।
बाह्यपादञ्च षट्त्रिंशद्भित्तिमाश्रित्य कारयेत् ॥ ७४ ॥
भित्तिं विना कारयेद्वा युक्त्या परमया युतः ।
एवमेव प्रकारेण शेषं सर्वं समाचरेत् ॥ ७५ ॥
कूटं विनापि वा कुर्यान्मण्डपं वा समाचरेत् ।
पादानाञ्चैव सर्वेषामुन्नतं सममेव च ॥ ७६ ॥
मण्डपं वा प्रपां वापि कारयित्वा विचक्षणः ।
देवस्याभिमुखे कुर्यात् श्रीवत्सं मण्डपोत्तमम् ।
ऐशान्ये वा प्रकुर्वीत पूर्वोक्तेनैव वर्त्मना ॥ ७७ ॥
स्वस्तिकमण्डपलक्षणम्
अत ऊर्ध्वं प्रवक्ष्यामि लक्षणं स्वस्तिकस्य तु ।
पूर्वोक्तेन विधानेन कर्षणादीनि कारयेत् ॥ ७८ ॥
सप्तमोऽध्यायः
[[७८]]
उपानादिक्रमं सर्वं पूर्ववच्च समाचरेत् ।
हस्तमेकाधिकञ्चैव चतुरश्रं तथैव च ॥ ७९ ॥
पादानाञ्च चतुष्षष्टिं स्वस्तिके च निवेशयेत् ।
पादान्तरं त्रिहस्तन्तु पादभागेन संयुतम् ॥ ८० ॥
स्नानालयन्तु प्राग्द्वारम् आदिगोपुरमानतः ।
पादाधिकं वा कुर्वीत पादयोरन्तरं तथा ॥ ८१ ॥
पादयोरन्तरं कुर्यादुत्तरद्वारमुन्नतम् ।
तदर्धं वा प्रकुर्वीत शालालङ्कारसंयुतम् ॥ ८२ ॥
ऐन्द्रे द्वारं विवर्ज्यैव भित्तिं सर्वत्र कारयेत् ।
भित्तिबाह्ये तु पादांश्च यथायुक्ति समाचरेत् ॥ ८३ ॥
दक्षिणे च तथा कृत्वा मध्ये भित्तिं न कारयेत् ।
अथवा कारयेद्विद्वान् त्रिपङ्क्त्या सममेव च ॥ ८४ ॥
भित्तिं विवर्ज्य यत्नेन स्तम्भञ्चैव यथार्हतः ।
पश्चिमे च तथा कुर्यादुत्तरे भित्तिमाचरेत् ॥ ८५ ॥
भित्तिहीने तु कुर्वीत पादं सम्यग्यथार्हतः ।
पादोपरि च कुर्वीत उत्तराश्च सलक्षणाः ॥ ८६ ॥
मध्ये पादेषु सर्वत्र बोधिकास्सम्यगर्पयेत् ।
बोधिकादीनि सर्वाणि पूर्वोक्तेनैव वर्त्मना ॥ ८७ ॥
कारयित्वा यथान्यायं सर्वालङ्कारसंयुतम् ।
मध्ये कूटसमायुक्तं षोडशस्तम्भसंयुतम् ॥ ८८ ॥
[[७९]]
यथायुक्तिं प्रकुर्वीत शिल्पिभिश्शास्त्रवित्तमैः ।
कूटं विना वापि कुर्यान्मण्डपक्रमतः क्रमात् ।
मानाधिकारे यत्प्रोक्तमलङ्कारन्तु कारयेत् ॥ ८९ ॥
पद्मकमण्डपलक्षणम्
अत ऊर्ध्वं प्रवक्ष्यामि पद्मकस्य च लक्षणम् ।
पञ्चाधिकशतं हस्तं चतुरश्रं समन्ततः ॥ ९० ॥
पादाः षट्त्रिंशदुद्दिष्टाः प्रत्येकन्तु विशेषतः ।
पादान्तरं त्रिहस्तन्तु पादभागेन संयुतम् ॥ ९१ ॥
चतुर्द्वारसमायुक्तं द्वारमानेन संयुतम् ।
अथवा दक्षिणे चैव उत्तरे च विशेषतः ॥ ९२ ॥
शालाद्वारं प्रकुर्वीत शालालङ्कारसंयुतम् ।
प्राग्द्वारं कारयेत्तद्वत्पश्चिमद्वारमेव च ॥ ९३ ॥
द्वारमानेन वै कुर्याद्द्वारालङ्कारसंयुतम् ।
तन्मध्ये तु चतुःस्तम्भस्थलं कृत्वाऽतिसुन्दरम् ॥ ९४ ॥
हस्तोत्सेधं तथा कुर्यान्मध्ये श्वभ्रञ्च कारयेत्
श्वभ्रादुत्तरतो गच्छेज्जलं संस्रावमार्गतः ॥ ९५ ॥
द्वारं भित्तेस्तु कुर्वीत जलस्थानन्तु कारयेत् ।
एवं पद्मकमुद्दिष्टं सर्वालङ्कारसंयुतम् ॥ ९६ ॥
मण्डपे वैलक्षणकल्पनम्
भित्तौ स्तम्भे तले चैव बोधिकासूत्तरासु च ।
क्वचित्क्वचित्प्रदेशे तु कुर्याच्छ्रीवत्सलाञ्छनम् ॥ ९७ ॥
सप्तमोऽध्यायः
[[८०]]
स्वस्तिके पूर्णकुम्भञ्च पद्मके पद्मकं तथा ।
आलयस्य तलस्यैव मण्डपस्य तलस्य च ॥ ९८ ॥
कुर्याद्गोलकमानेन त्रियङ्गुलमथापि वा ।
भागप्रमाणं वा कुर्याद्यथाविभवविस्तरम् ॥ ९९ ॥
एवमेव विधानेन प्रथमावरणे भवेत् ।
द्वितीयावरणे कुर्यात्स्नपनालयमण्डपम् ॥ १०० ॥
प्रथमावरणे द्रव्यसञ्चयस्थानानि
अत ऊर्ध्वं प्रवक्ष्यामि द्रव्यसञ्चयमण्डपम् ।
रत्नजातञ्च यत्सर्वं मकुटादिपरिच्छदम् ॥ १०१ ॥
सौवर्णञ्चापि यत्सर्वं राजतं बहुमूल्यकम् ।
स्थापयेद्गर्भगेहे तु मण्डपे वा सुरक्षिते ॥ १०२ ॥
अर्चनार्हाणि सर्वाणि लोहजानि तु सर्वतः ।
शङ्खशुक्त्यादिवस्तूनि मण्डपे तु तथा न्यसेत् ॥ १०३ ॥
यमपावकयोर्मध्ये प्रथमावरणे ततः ।
शय्यास्थानं प्रकुर्वीत सर्वालङ्कारसंयुतम् ॥ १०४ ॥
यमस्य पश्चिमे भागे पानीयस्थानमुच्यते ।
आलयस्य तु याम्ये च मूर्तिहोमं समाचरेत् ॥ १०५ ॥
तोयेश नीलयोर्मध्ये प्रतिमां लौकिकीं न्यसेत् ।
तोयेशवायुमध्ये तु पुष्पसञ्चयमन्दिरम् ॥ १०६ ॥
उदानसोमयोर्मध्ये अङ्कुरार्पणशालिका ।
आलयस्योत्तरे पार्श्वे श्वभ्रं स्नानाय कारयेत् ॥ १०७ ॥
[[८१]]
सोमस्य पश्चिमे भागे वितानादिपरिच्छदम् ।
मध्ये च सोमामितयोर्न्यसेदन्यान् परिच्छदान् ॥ १०८ ॥
प्रक्षालनञ्च कृत्वा तु स्थापयेत्तान् यथार्हकम् ।
ईशानसोमयोर्मध्ये वस्त्रादीनि विनिक्षिपेत् ॥ १०९ ॥
शचीशेशानयोर्मध्ये भास्करस्योत्तरेऽपि च ।
दुन्दुभीनपि सन्न्यस्येत् शङ्खादीन् वाद्यसाधनान् ॥ ११० ॥
एवमाद्यावृतौ कुर्यात् द्रव्यन्यासार्थमालयान् ।
द्वितीयावरणे द्रव्यसञ्चयस्थानानि
अत ऊर्ध्वं प्रवक्ष्यामि द्वितीयावरणे विधिम् ॥ १११ ॥
नित्यं नृत्तं प्रकुर्वीत सन्निधौ स्नपनालये ।
स्नपनोक्तं दिनं हित्वा सर्वकालेषु यत्नतः ॥ ११२ ॥
स्नपनालये तु पङ्क्तीशपश्चिमे चक्रमर्चयेत् ।
चक्रस्य पूर्वभागे तु ध्वजदेवं समर्चयेत् ॥ ११३ ॥
ध्वजस्य पूर्वभागे तु शङ्खञ्चैव समर्चयेत् ।
स्नानालयस्य च प्राच्यां भूतपीठं प्रकल्पयेत् ॥ ११४ ॥
इन्द्राग्न्योर्मध्यमे स्थाने पचनालय उच्यते ।
कूपं कुर्यात्तथैशान्ये किञ्चित्सौम्यसमाश्रिते ॥ ११५ ॥
द्वितीयावृतिमाश्रित्य पारिषद्यालयं चरेत् ।
तृतीयावरणे पारिषद्यस्थानं
द्वितीयावृतिविष्कम्भात् तृतीयं पादतोऽधिकम् ॥ ११६ ॥
सप्तमोऽध्यायः
[[८२]]
अध्यर्धं द्विगुणं वापि कारयेदधिकं बुधः ।
पादाधिकसमुत्सेधः प्राकारः सर्वथोच्यते ॥ ११७ ॥
गोपुराद्गोपुरं कुर्यादध्यर्धं द्विगुणाधिकम् ।
पादाधिकं वा कुर्वीत सर्वालङ्कारसंयुतम् ॥ ११८ ॥
कर्म नैमित्तिकं कुर्यादाग्नेय्यान्तु विशेषतः ।
विप्राणां भोजनस्थानम् आग्नेय्यां पश्चिमे भवेत् ॥ ११९ ॥
ऐशान्यां वा प्रकुर्वीत भोजनस्थानमुत्तमम् ।
यमाग्न्योरन्तरे कुर्याद्गोष्ठागारं प्रयत्नतः ॥ १२० ॥
तस्य पश्चिमभागे तु धान्यागारं प्रकल्पयेत् ।
याम्यादि सौम्यपर्यन्तमारामं परितश्चरेत् ॥ १२१ ॥
सौम्यादीशानपर्यन्तं तटाकं परिकल्पयेत् ।
द्वारनियमः
प्रथमावरणे द्वारं यथोक्तं परिकल्पयेत् ॥ १२२ ॥
द्वितीये च तृतीये च व्यत्यये नास्ति दूषणम् ।
प्राच्यां दक्षिणतो वापि पश्चिमे चोत्तरेऽपि वा ॥ १२३ ॥
पर्वते शैलशृङ्गे वा नद्याश्चैव समीपतः ।
स्थानं पौराणिकं यत्र तत्समीपे च वर्जयेत् ॥ १२४ ॥
स्थाने यथोक्ते चालब्धे व्यत्ययेऽपि न दोषकृत् ।
स्थानं यत्रासङ्कुचितं तत्रैव परिकल्पयेत् ॥ १२५ ॥
कर्तुर्यत्र हितं स्थानं रोचते तद्विशिष्यते ।
पौराणिके चार्षके वा क्षेत्रे पर्वतमूर्धनि ॥ १२६ ॥
[[८३]]
नदीतीरेऽपि वा कुर्यात् सुस्थानं यत्र लभ्यते ।
अयुक्तञ्चाप्यविधिकमप्रमाणञ्च यद्भवेत् ॥ १२७ ॥
न दोषाय भवेत्तद्वै साधु चापि भविष्यति ।
यथा स्याज्जनसञ्चारः तथा द्वारं प्रकल्पयेत् ॥ १२८ ॥
यत्रैव स्थानविस्तारः तत्र स्यात् स्नपनालयः ।
सर्वालङ्कारसंयुक्तं मण्डपञ्चात्र कारयेत् ।
वापीकूपतटाकांश्च आरामाद्यांश्च कारयेत् ॥ १२९ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे मण्डपादीनां लक्षणकथनं नाम सप्तमोऽध्यायः ॥