अथ षष्ठोऽध्यायः
विमानभेदाः
अतः परं प्रवक्ष्यामि विमानानि विशिष्य वै ।
संस्थानानि च यान्यत्र प्रोक्तानि ब्रह्मणा पुरा ॥ १ ॥
तानि चात्र समासेन शृणुध्वं ब्रह्मवित्तमाः ।
द्वात्रिंशतिस्तु विज्ञेयाः प्रकाराः परिकीर्तिताः ॥ २ ॥
नलीनकन्तु प्रथमं प्रलीनकमतः परम् ।
स्वस्तिकञ्च पृथङ्मानं दिशास्वस्तिकमेव च ॥ ३ ॥
नन्द्यावर्तञ्च श्रीवृत्तं पर्वताकृतिकं तथा ।
अष्टौ महापद्ममिति देवानां परिकीर्तिताः ॥ ४ ॥
नन्दीविशालं विज्ञेयं स्वस्तिकञ्च ततः परम् ।
पूर्वरङ्गविशालञ्च एकपादं तथैव च ॥ ५ ॥
विमानं गणिकाशालं कुबेरच्छन्दमेव च ।
वापीप्रसादकञ्चैव ततः प्रकृतिरुच्यते ॥ ६ ॥
तोयं विमानं विज्ञेयमुत्पलाकारमेव च ।
सिंहच्छन्दविमानञ्च सोमच्छन्दमतः परम् ॥ ७ ॥
मेनाकारन्तु विज्ञेयं शालीकरणमेव च ।
कर्णिकाकारमेवात्र श्रियोऽलङ्कारमेव च ॥ ८ ॥
कुम्भाकारं ततश्चापि गोधामुखमतः परम् ।
पिञ्छावतंसकञ्चैव चतुः स्फुटमिति स्मृतम् ॥ ९ ॥
हस्तिपृष्ठविमानञ्च नागच्छन्दमतः परम् ।
देवानुद्दिश्य वर्णानां विमानान्युदितानि वै ॥ १० ॥
[[४५]]
(१.) विमानानां लक्षणम् - नलीनकविमानलक्षणम्
अतः परं प्रवक्ष्यामि विमानानान्तु लक्षणम् ।
प्रथमं नलीनकस्योक्तमलङ्कारं प्रवक्ष्यते ॥ ११ ॥
मूलक्रिया सुविज्ञेया चतुरश्रा प्रलीनके ।
तस्मात्त्रयाणां भागानां मध्ये गर्भगृहं विदुः ॥ १२ ॥
कर्तव्याऽलङ्कृतिस्तत्र वृत्तञ्च परिकीर्तितम् ।
अर्धं गर्भगृहस्यापि करपिण्डीत्रिपादके ॥ १३ ॥
खण्डहर्म्यस्य विस्तारो गर्भविस्तार एव च ।
अर्धं सोपानविस्तारो गर्भार्धं परकीर्तितम् ॥ १४ ॥
अधस्तादूर्ध्वतः स्तम्भाः संस्थानानि पृथक् पृथक् ।
पूर्वाग्रं शैलचतुरमर्धस्तम्भं समाचरेत् ॥ १५ ॥
तस्यैव पादबन्धन्तु द्विविधं परिकीर्तितम् ।
उत्तरं तस्य कर्तव्यं पार्श्वे खण्डोत्तरं तथा ॥ १६ ॥
अधस्तादूर्ध्वतस्तस्य सोपनानि पृथक् पृथक् ।
ज्ञेयन्तु भित्तिसोपानं सखण्डार्धं ततस्ततः ॥ १७ ॥
पार्श्वे च तस्य कर्तव्यौ भित्तिखण्डेन संयुतौ ।
सोपानानि षडेव स्युः तत्र हर्म्यं समाचरेत् ॥ १८ ॥
दर्शनं पिण्डिपादञ्च ऊर्ध्वं तस्य समाचरेत् ।
द्विकर्णिकायाः कर्तव्या धराश्चाकारवत्तथा ॥ १९ ॥
शिरसस्तस्य संस्थानमायामं वृत्तमिष्यते ।
शिरसोऽपि मुखे नासी गर्भार्धन्तु प्रमाणतः ॥ २० ॥
षष्ठोऽध्यायः
[[४६]]
निर्गमं तावदेवास्य मुखे तस्य विभूषितम् ।
विचित्रं हस्तिमुण्डञ्च धराग्रं परिकीर्तितम् ॥ २१ ॥
वेदिका द्विविधा ज्ञेया जालका त्रिविधा भवेत् ।
पुष्टिका अपि सप्त स्युरष्टौ तु मुखपिण्डकाः ॥ २२ ॥
नासी मृणालिका चैव मुष्टिबन्धं तथैव च ।
वेदिका जालका चापि मल्लबन्धं पृथक् पृथक् ॥ २३ ॥
अधस्तादूर्ध्वतश्चापि स्वे स्थाने सन्निवेशयेत् ।
व्यालभूमिश्च कर्तव्या स्वस्थानेषु समन्ततः ।
धरास्तत्र तु कर्तव्या एका वा बहुशोऽपि वा ॥ २४ ॥
(२.) प्रलीनकविमानलक्षणं
द्वितीयं प्रलीनकं ज्ञेयं संस्थानं तस्य वक्ष्यते ।
मूलकर्म तु विज्ञेयं चतुरश्रं प्रलीनके ॥ २५ ॥
अष्टानान्तु विभागानां मध्ये गर्भगृहं भवेत् ।
तस्यापि चैव संस्थानं चतुरश्रन्तु पूजितम् ॥ २६ ॥
गर्भार्धं करपिण्डी स्यात् गर्भस्य परिवेष्टनम् ।
करपिण्डीप्रमाणेन जालपादं द्विपार्श्वयोः ॥ २७ ॥
द्विपादं खण्डहर्म्यादिविस्तारात् परिकीर्तितम् ।
तस्य गर्भस्य विस्तारं हीनं वा परिकीर्तितम् ॥ २८ ॥
प्रमाणशाला कर्तव्या एतदुक्तप्रमाणतः ।
भित्तिशाला तयोस्तावत् गर्भार्धन्तु प्रकीर्तितम् ॥ २९ ॥
तत्र सोपानविस्तारं तावन्मानं समाचरेत् ।
तस्यायामन्तु विज्ञेयं तस्यैव द्विगुणं भवेत् ॥ ३० ॥
[[४७]]
………………..चतुरश्रमग्रभूतलमिष्यते ।
पूर्वाग्रैश्चैव विज्ञेयमधस्स्तम्भः प्रकीर्तितः ॥ ३१ ॥
उत्तरास्त्रिविधाः प्रोक्ताः तस्यैव तु समन्ततः ।
तस्यैव बन्धसोपानं सर्वतः परिकीर्तितम् ॥ ३२ ॥
प्रियदर्शनकर्णञ्च वृद्धिस्स्तम्भश्च ऊर्ध्वतः ।
पवित्रफलकामूलं हस्तिमण्डं तथैव च ॥ ३३ ॥
धरास्तस्य तु कर्तव्यास्सर्वतः सुमनोरमाः ।
वेदिका द्विविधा ज्ञेया जालका हस्तिचक्षुषा ॥ ३४ ॥
हर्म्यमेकन्तु कर्तव्यं सोपाने द्वे समाचरेत् ।
शिरसोऽपि मुखे नासीविस्तारः परिकीर्तितः ॥ ३५ ॥
गर्भस्य तु चतुर्भागस्तेषु चैको भवेत्ततः ।
पृष्ठमेकमपीडञ्च नासी तस्य प्रकीर्तिता ॥ ३६ ॥
हस्तिहस्तन्तु कर्तव्यं नासीष्वेषु समन्ततः ।
वेदिका जालकाश्चापि स्वस्थानेषु निवेशयेत् ।
एका वा बहुशो वापि धरास्तस्य प्रकीर्तिताः ॥ ३७ ॥
(३.) श्रियः स्थानविमानलक्षणं
तृतीयं तु श्रियः स्थानमलङ्कारस्तु वक्ष्यते ।
श्रियः स्थानस्य मूलन्तु चतुरश्रायतं भवेत् ॥ ३८ ॥
अष्टानामपि भागानां मध्ये गर्भगृहं भवेत् ।
अर्धं गर्भगृहस्यापि करपिण्डी त्रिपार्श्वतः ॥ ३९ ॥
तत्रैव जालपादन्तु त्रिपादं कारयेत्ततः ।
ज्ञेयन्तु गर्भसंस्थानं चतुरश्रं सुपूजितम् ॥ ४० ॥
षष्ठोऽध्यायः
[[४८]]
तस्यैव खण्डहर्म्याणि वेष्टितानि समन्ततः ।
खण्डहर्म्यस्य विस्तारमर्धं गर्भगृहस्य तु ॥ ४१ ॥
प्रमाणं हर्म्यसोपानं विस्तारस्तावदेव तु ।
तस्यैव शिरसो ज्ञेयं चतुरश्रं सुपूजितम् ॥ ४२ ॥
गर्भस्यापि मुखे नासीविस्तारः परिकीर्तितः ।
गर्भस्य चाष्टभागस्तु निर्गमस्तावदेव तु ॥ ४३ ॥
भद्रस्तम्भं प्रवक्ष्यामि तच्छृणुध्वं पृथक् पृथक् ।
अष्टाश्रञ्चतुरश्रञ्च ॠजुतालमिहोच्यते ॥ ४४ ॥
चतुष्पादमिति ज्ञेयमधस्तस्य प्रमाणतः ।
तत्रैव त्रिविधाः प्रोक्ता उद्धाराः परिकीर्तिताः ॥ ४५ ॥
एवन्तु बालसोपानं तस्य पृष्ठे समाचरेत् ।
प्रियदर्शनं स्निग्धवृत्तं हस्तिहस्तञ्च ऊर्ध्वतः ॥ ४६ ॥
धरागृहं तत्कर्तव्यं हस्तिमुण्डं समन्ततः ।
तस्यैव वेदिका ज्ञेया पुष्पखण्डमिहोच्यते ॥ ४७ ॥
तस्यैव जालकं ज्ञेयं हस्तिचक्षुस्समन्ततः ।
अभितः करपिण्ड्यास्तु नासीद्वे तु समाचरेत् ॥ ४८ ॥
जालकास्तत्र कर्तव्याः स्वस्थानेषु पृथक् पृथक् ।
अधस्तादूर्ध्वतस्तस्य नास्य एकोनविंशतिः ॥ ४९ ॥
नासी कपोतशालास्तु वेदिका जालकं तथा ।
…………………………………………॥
मृणालिकाश्च कर्तव्या अत ऊर्ध्वं समन्ततः ।
भूमिस्तु तत्र कर्तव्या एका वा बहुशोऽपि वा ॥ ५० ॥
[[४९]]
(४.) दिशाश्र (स्वस्तिक) विमानलक्षणं
दिशाश्रस्य च संस्थानमलङ्कारश्च वक्ष्यते ।
दिशाश्रमूलकरणं चतुरश्रं प्रकीर्तितम् ॥ ५१ ॥
स्वभागेष्वष्टभागेषु मध्ये गर्भगृहं ततः ।
तस्य गर्भस्य संस्थानं वृत्तं तु परिकीर्तितम् ॥ ५२ ॥
अर्धं गर्भगृहस्यापि करपिण्डी समन्ततः ।
अर्धस्यार्धन्तु कर्तव्यं जालपादं द्विपार्श्वयोः ॥ ५३ ॥
एतेनैव प्रमाणेन खण्डहर्म्याणि कारयेत् ।
अथ पृष्ठे च मूले च जालपादं प्रकीर्तितम् ॥ ५४ ॥
विस्तारस्तस्य विज्ञेयः गर्भार्धन्तु प्रमाणतः ।
तत्र द्विपार्श्वजालन्तु तावदेव प्रमाणतः ॥ ५५ ॥
सोपानं हर्म्यसोपानं विस्तारस्तावदेव तु ।
अत ऊर्ध्वं ततस्तस्य संस्थानानि पृथक् पृथक् ॥ ५६ ॥
अष्टाश्रं चतुरश्रञ्च ॠजुतालमिति स्थितिः ।
प्रियदर्शनं पिण्डपादं स्निग्धं वृत्तञ्च ऊर्ध्वतः ॥ ५७ ॥
उत्तरास्त्रिविधास्तत्र समस्ताः परिकीर्तिताः ।
तस्य चैव तु कर्तव्यं वृत्तसोपानमेव च ॥ ५८ ॥
चतुर्विधाश्च कर्तव्या धराग्राश्च समन्ततः ।
वेदिका द्विविधा ज्ञेया जालकं त्रिविधं भवेत् ॥ ५९ ॥
शिरस्तस्य तु विज्ञेयं वृत्तन्तु परिकीर्तितम् ।
तस्योपरि तु कर्तव्या नास्यश्चात्र चतुर्दश ॥ ६० ॥
षष्ठोऽध्यायः
[[५०]]
विस्तारस्तस्य कर्तव्यो गर्भार्धन्तु प्रमाणतः ।
खण्डहर्म्यान्तरे तत्र सभां कोणेषु सर्वतः ॥ ६१ ॥
अथ वा तत्र कर्तव्या नास्य एकादश स्मृताः ।
…………………………………………. ॥ ६२ ॥
नास्यः कपोतशालाश्च स्वस्थाने सन्निवेशयेत् ।
एका वा बहुशो वापि धरास्तस्य प्रकीर्तिताः ॥ ६३ ॥
(५.) नन्द्यावर्तविमानलक्षणं
श्रुणुद्ध्वं पञ्चमस्यात्र नन्द्यावर्तस्य लक्षणम् ।
चतुरश्रं मूलकरणं नन्द्यावर्तस्य वक्ष्यते ॥ ६४ ॥
अष्टानामपि भागानामेको गर्भगृहस्य तु ।
तस्य गर्भस्य संस्थानं वृत्तं स्यात्परिकीर्तितम् ॥ ६५ ॥
अर्धं गर्भगृहस्यापि करपिण्डी समन्ततः ।
एतेनैव प्रमाणेन जालपादं भवेत्ततः ॥ ६६ ॥
चतुर्दिशन्तु कर्तव्यं खण्डहर्म्यं ततस्तथा ।
विस्ताराद्गर्भविस्तारं भवेत्तस्य समन्ततः ॥ ६७ ॥
प्रमाणहर्म्याश्चत्वारः कर्तव्याः पार्श्वतस्ततः ।
तस्य पूर्वञ्च पृष्ठञ्च खण्डहर्म्यं महद्भवेत् ॥ ६८ ॥
विस्तारस्तस्य विज्ञेयो गर्भविस्तार एव च ।
विस्तारस्तस्य सोपानमेतस्यार्धप्रमाणतः ॥ ६९ ॥
धरास्सोपानयोग्यास्तु अन्तरन्तु प्रमाणतः ।
सोपानार्धन्तु कर्तव्यं समन्तात्परिकीर्तितम् ॥ ७० ॥
[[५१]]
तत्र प्रमाणहर्म्यस्य निर्गमं तावदेव तु ।
तत्र शेषाश्च कर्तव्या खण्डहर्म्याश्च सर्वतः ॥ ७१ ॥
तस्य पूर्वञ्च पृष्ठञ्च खण्डहर्म्यं महद्भवेत् ।
सोपानं हर्म्यसोपानं द्वे द्वे तस्य समन्ततः ॥ ७२ ॥
अधस्तादूर्ध्वतस्तस्य स्तम्भास्ते च पृथक् पृथक् ।
अष्टाश्रं चतुरश्रं वा पूर्वाश्चत्वार एव च ॥ ७३ ॥
उत्तरे तत्र कर्तव्यौ पार्श्वे खण्डोत्तरौ तथा ।
तत्र सोपानसंस्थानं हस्तिसोपानमुच्यते ॥ ७४ ॥
प्रियदर्शनं षोडशाश्रं शलाकापिण्डिरूर्ध्वतः ।
विचित्रमत्र खण्डञ्च हस्तितुण्डधरस्तथा ॥ ७५ ॥
वेदिका द्विविधा ज्ञेया जालकं त्रिविधं भवेत् ।
वृत्तञ्च तस्य कर्तव्यं शिरसश्च समन्ततः ॥ ७६ ॥
तत्र गर्भचतुर्भागं तेषु चैकप्रमाणतः ।
चतुर्दिशं तु कर्तव्या नास्यस्तस्योपरि स्मृताः ॥ ७७ ॥
करपिण्डी खण्डहर्म्यस्यान्तरे तु समन्ततः ।
गर्भविस्तारतः कुर्यादर्धाकारं चतुर्विधम् ॥ ७८ ॥
तत्र प्रदक्षिणं कुर्यात् तुण्डहर्म्याणि सर्वतः ।
कोणेषु तत्र कर्तव्यास्सभा बाह्यान्तरेषु च ॥ ७९ ॥
जालपादास्तु कर्तव्या स्वस्थानेषु समन्ततः ।
षट्पञ्चाशद्भवेन्नास्यः सर्वतः परिकीर्तिताः ॥ ८० ॥
मृणाली मुष्टिबन्धश्च मल्लबन्धस्तथैव च ।
……………………………………… ॥ ८१ ॥
षष्ठोऽध्यायः
[[५२]]
अधस्तादूर्ध्वतस्तस्य स्वे स्थाने सन्निवेशयेत् ।
धरास्तस्य तु कर्तव्या एका वा बहुशोऽपि वा ॥ ८२ ॥
(६.) श्रीवृत्तविमानलक्षणं
श्रीवृत्तमूलकरणं मण्डलन्तु प्रशस्यते ।
अष्टभागेषु मध्ये द्वौ कुर्याद्गर्भगृहं ततः ॥ ८३ ॥
तस्य गर्भगृहस्यापि संस्थानं वृत्तमेव च ।
करपिण्डी च कर्तव्या अर्धं गर्भगृहस्य तु ॥ ८४ ॥
हीनन्तु गर्भविस्तारं खण्डहर्म्यं समन्ततः ।
चूडाहर्म्यस्य विस्तारो गर्भविस्तार एव च ॥ ८५ ॥
गर्भस्यैवाष्टभागे तु एकभागाधिकं भवेत् ।
आयामाच्चूडहर्म्याणि कोणाश्च परिकीर्तिताः ॥ ८६ ॥
सोपानं हर्म्यसोपानं शेषं तस्य समाचरेत् ।
अधस्तादूर्ध्वतस्तस्य स्तम्भाश्च परिकीर्तिताः ॥ ८७ ॥
एकान्तं हस्तिहस्तञ्च ॠजुतालमिति स्मृतम् ।
उद्धारास्त्रिविधाः प्रोक्ताः तस्यैव तु समन्ततः ॥ ८८ ॥
प्रियदर्शनं पिण्डपादं स्निग्धवृत्तञ्च ऊर्ध्वतः ।
सोपानं तत्र विज्ञेयं समखण्डमिति स्मृतम् ॥ ८९ ॥
विचित्रं मत्तखण्डञ्च हस्तितुण्डं कराग्रतः ।
जालकं हस्तिचक्षुश्च पुष्पखण्डन्तु वेदिका ॥ ९० ॥
शिरसश्चापि विज्ञेयं वृत्तं तस्य प्रशस्यते ।
कपोतं तस्य कर्तव्यं गर्भस्य परिवेष्टनम् ॥ ९१ ॥
[[५३]]
अधः कोणेषु कर्तव्याश्चत्वारो मण्डलाकराः ।
………………………………………… ॥ ९२ ॥
अर्धाकाराश्चतुर्धाराः कपोतवृत्तैस्तथोत्तरे ? ।
अष्टौ खरमुखाश्चात्र समन्तात्परिकीर्तिताः ॥ ९३ ॥
(७.) पर्वताकृतिविमानलक्षणं
सप्तमं पर्वताकारः विभागस्तु प्रकीर्त्यते ।
पर्वताकृतिमूलन्तु आयामं वृत्तमिष्यते ॥ ९४ ॥
अष्टानामपि भागानां मध्ये गर्भगृहं विदुः ।
तस्य गर्भगृहस्यापि संस्थानं वृत्तमेव च ॥ ९५ ॥
करपिण्ड्यास्तु विस्तारो हीनगर्भगृहं भवेत् ।
विस्ताराच्चूडहर्म्यन्तु करपिण्ड्याधिकं भवेत् ॥ ९६ ॥
प्रमाणं हर्म्यसोपानं शेषं तत्र समाचरेत् ।
अथ स्तम्भस्य संस्थानं शैलमष्टाश्रमेव च ॥ ९७ ॥
ज्ञेयन्तु वृत्तसोपानं तस्यैव परिकीर्तितम् ।
धरास्तत्र तु कर्तव्याः त्रिविधाश्च भवन्ति ताः ॥ ९८ ॥
अत ऊर्ध्वं पिण्डिपादं हस्तिहस्तमिति स्मृतम् ।
…………………………………………. ॥ ९९ ॥
चतुर्विधन्तु कर्तव्यं धराग्रं तत्र सर्वतः ।
तत्रैव चायतं वृत्तं शिरसः परिकीर्तितम् ॥ १०० ॥
चतुर्दिशन्तु कर्तव्या नास्यस्तत्रोपरि स्थिताः ।
सोपानं हर्म्यशिरसस्तथा तत्र प्रकीर्तितम् ॥ १०१ ॥
षष्ठोऽध्यायः
[[५४]]
अष्टधा तत्र कर्तव्याः स्वस्थानेषु समन्ततः ।
नासीमृणालिका चैव मुष्टिगण्डं तथैव च ॥ १०२ ॥
वेदिका जालकास्तत्र मल्लबन्धं पृथक् पृथक् ।
कपोतं सगलञ्चास्य पथेपारस्ततस्ततः ? ॥ १०३ ॥
अधस्तादूर्ध्वतस्तस्य स्वस्थाने सन्निवेशयेत् ।
धरास्तस्य तु कर्तव्या एका वा बहुशोऽपि वा ॥ १०४ ॥
(८.) महापद्मविमानलक्षणम्
अष्टमं तत्र विज्ञेयं महापद्ममिहोच्यते ।
त्रयाणामपि भागानां मध्ये गर्भगृहं विदुः ॥ १०५ ॥
तत्र वा गर्भसंस्थानं समवृत्तं विशिष्यते ।
करपिण्डी च कर्तव्या अर्धं गर्भगृहस्य तु ॥ १०६ ॥
सोपानं चूडहर्म्यञ्च शेषांस्तत्र समाचरेत्
एकान्तं शैलचतुरश्रमृजुं तलमिहोच्यते ? ॥ १०७ ॥
अथ स्तम्भस्य संस्थानमुत्तरं त्रिविधं भवेत् ।
समखण्डञ्च कर्तव्यं सोपानं तत्र कर्मतः ॥ १०८ ॥
स्निग्धेन कोणवृत्तञ्च हस्तिहस्तञ्च ऊर्ध्वतः ।
विचित्रमत्तखण्डञ्च धराग्रं परिकीर्तितम् ॥ १०९ ॥
वेदिका तत्र विज्ञेया पुष्पखण्डमिति स्मृता ।
जालका हस्तिचक्षुश्च शङ्खमण्डनमेव च ॥ ११० ॥
तस्यैव शिरसो ज्ञेयमष्टांशं परिकीर्तितम् ।
तस्योपरि च कर्तव्या नास्यः षट् परिकीर्तिताः ॥ १११ ॥
[[५५]]
करपिण्ड्याश्च परितः नास्यो द्वादश कीर्तिताः ।
दक्षिणे पार्श्वतः कुर्यात् अर्धाकारन्तु पूजितम् ॥ ११२ ॥
तस्य नास्यश्चतुर्विंशत्तत्रैव परिकीर्तिताः ।
नासी कपोतशाला च वेदिका जालकं तथा ॥ ११३ ॥
स्वेषु स्थानेषु कर्तव्या अधस्तादूर्ध्वतस्ततः ।
जालरूपाश्च कर्तव्याः स्वस्थानेषु समन्ततः ॥ ११४ ॥
न कुर्याद्वास्तुबाह्ये च उत्पातञ्चास्य सर्वतः ।
……………………………………….. ॥ ११५ ॥
भूमिरेतस्य कर्तव्या एका वा बहुशोऽपि वा ।
देवतानान्तु सर्वेषां पूजितं तद्विशेषतः ॥ ११६ ॥
(९.) नन्दीविशालविमानलक्षणं
नन्दीविशालं नवमं तच्छृणुध्वं समाहिताः ।
नन्दीविशालमूलन्तु चतुरश्रायतं भवेत् ॥ ११७ ॥
द्वौ भागावष्टभागेषु मध्ये गर्भगृहं ततः ।
संस्थानं तत्र कर्तव्यमायतं वृत्तमिष्यते ॥ ११८ ॥
तस्य गर्भस्य विस्तारं जालपादं समन्ततः ।
तस्य गर्भस्य विस्तारात् पश्चिमागारमुच्यते ॥ ११९ ॥
एतस्य चाष्टभागेन दक्षिणागारमुच्यते ।
तस्यैव चाष्टभागेन मुखबन्धं च इष्यते ॥ १२० ॥
एतत्तु चाष्टभागेन वेश्म प्राक् परिकीर्तितम् ।
समं प्रदक्षिणं कुर्याच्चतुर्थे च समन्ततः ॥ १२१ ॥
षष्ठोऽध्यायः
[[५६]]
बाह्यञ्चाभ्यन्तरञ्चैव सोपानं तस्य सञ्चरेत् ।
तस्यैव चोत्तरं वेश्म वृत्तं सम्परिकीर्तितम् ॥ १२२ ॥
अधस्तस्य धराः प्रोक्ताः एकां द्वे वा समाचरेत् ।
…………………………………………….॥ १२३ ॥
द्विजानां क्षत्रियाणाञ्च विट्छूद्राणाञ्च सर्वशः ।
नन्दीविशालं विज्ञेयं पूजितन्तु विशेषतः ॥ १२४ ॥
(१०.) स्वस्तिकविमानलक्षणं
दशमं स्वस्तिकं प्रोक्तं तस्य लक्षणमुच्यते ।
स्वस्तिके मूलकारणं चतुरश्रायतं भवेत् ॥ १२५ ॥
अष्टानामपि भागानां मध्ये गर्भगृहं विदुः ।
अर्धं गर्भगुहस्यापि करपिण्डी समन्ततः ॥ १२६ ॥
अर्धहर्म्यस्य विस्तारो गर्भस्य द्विगुणो भवेत् ।
कूटागारमपि द्वौ तु आयामात्परिकीर्तितौ ॥ १२७ ॥
गर्भस्य द्विगुणौ ज्ञेयौ विस्तारात्तावदेव तु ।
तस्यैव भुक्तिलेखास्तु ? एको द्वौ वा त्रयस्तथा ॥ १२८ ॥
पश्चिमागारविस्तारो गर्भादध्यर्धमिष्यते ।
भूमिः पादस्य कर्तव्या एका वा बहुशोऽपि वा ॥ १२९ ॥
स्वस्तिकन्तु तथा ज्ञेयं विभागात्परिकीर्तितम् ।
एतदुक्तं भवेत्तत्र विशालं शूद्रपूजितम् ॥ १३० ॥
(११.) पूर्वरङ्गविशालविमानलक्षणम्
एकादशं प्रवक्ष्यामि पूर्वरङ्गं विशालतः ।
पूर्वरङ्गविशालञ्च चतुरश्रं भवेत्ततः ॥ १३१ ॥
[[५७]]
अष्टभागेषु मध्ये तु कुर्याद्गर्भगृहं ततः ।
तस्य गर्भगृहस्यार्धं करपिण्डी समन्ततः ॥ १३२ ॥
शेषाश्च तत्र कर्तव्याः सभाष्टौ द्विस्समन्ततः ।
अष्टाश्रं तत्र कर्तव्यं शिरसः परिकीर्तितम् ॥ १३३ ॥
अधस्तादूर्ध्वतस्तस्य अष्टसोपानमिष्यते ।
तत्र द्विसप्ततिं कुर्यान्नासीः क्षुद्राश्च सर्वशः ॥ १३४ ॥
धरास्सप्त तु कर्तव्या एका वा बहुशोऽपि वा ।
द्विजानां क्षत्रियाणाञ्च पूजनीयं विशेषतः ॥ १३५ ॥
(१२.) एकपादविमानलक्षणं
द्वादशं तत्र वक्ष्यामि एकपादन्तु सर्वतः ।
त्रयाणामपि भागानां मध्ये गर्भगृहं विदुः ॥ १३६ ॥
तस्य गर्भगृहस्यार्धं करपिण्डी समन्ततः ।
खण्डहर्म्याश्च आकाराः ? शेषास्तत्र समाचरेत् ॥ १३७ ॥
तस्य शिरसो विज्ञेयं मण्डपन्तु प्रशस्यते ।
तस्य षोडशनास्यस्तु सर्वत्र परिकीर्तयेत् ॥ १३८ ॥
तस्यैव वेष्टसोपानं हस्तमेकन्तु तस्य वै ।
अधस्तात्तस्य विस्तारो द्वादशाङ्गुलमिष्यते ॥ १३९ ॥
अधस्तत्र धराः प्रोक्ता एका वा द्वे समाचरेत् ।
…………………………………………. ॥ १४० ॥
एकपादमिति प्रोक्तं विभागात्परिकीर्तितम् ।
द्विजानां क्षत्रियाणाञ्च पूजनीयं विशेषतः ॥ १४१ ॥
षष्ठोऽध्यायः
[[५८]]
(१३.)गणिकाशालविमानलक्षणं
त्रयोदशं तत् शृणुध्वं गणिकाशाललक्षणम् ।
गणिकाशालमूलन्तु चतुरश्रायतं भवेत् ॥ १४२ ॥
अष्टानामपि भागानां मध्ये गर्भगृहं ततः ।
तस्य गर्भगृहस्यार्धं करपिण्डी समन्ततः ॥ १४३ ॥
अपि वा आयतं तत्र गर्भस्य द्विगुणं भवेत् ।
कर्तव्यं तस्य विस्तारं खण्डहर्म्यं समन्ततः ॥ १४४ ॥
सोपानमुखशालाञ्च चूडाहर्म्याणि सर्वशः ।
एतानि तत्र कर्तव्यं शेषस्थानेषु सर्वतः ॥ १४५ ॥
तस्य गर्भस्य शिरसः शालास्तत्र प्रकीर्तिताः ।
तस्यैव मुखनासी च गर्भञ्च परिकीर्तितम् ॥ १४६ ॥
करपिण्डीमुखनासीनां प्रमाणं परिकीर्तितम् ।
गर्भस्य तु चतुर्भागं त्रिभागं तत्र चेष्यते ॥ १४७ ॥
हारञ्च मुखपट्टीञ्च स्वे स्थाने सन्निवेशयेत् ।
एका वा बहुशो वापि धरास्तत्र प्रकीर्तिताः ॥ १४८ ॥
एकेनैव विभागेन कर्तव्यं प्रयतेन हि ।
एतच्चतुर्णां वर्णानां पूजनीयं विशेषतः ॥ १४९ ॥
(१४.) कुबेरच्छन्दविमानलक्षणं
चतुर्दशं भवेत्तत्र कुबेरच्छन्दसञ्ज्ञितम् ।
कुबेरच्छन्दमूलन्तु अधस्तादायतं भवेत् ॥ १५० ॥
त्रयाणामपि भागानां मध्ये गर्भगृहं विदुः ।
अर्धं गर्भगृहस्यापि करपिण्डी समन्ततः ॥ १५१ ॥
[[५९]]
चूलीहर्म्यञ्च हारञ्च शेषं तत्र समाचरेत् ।
अभ्यन्तरं वा सोपानमधस्ताद्विनिवेशयेत् ॥ १५२ ॥
ततस्तस्यैव शिरसः शालकाद्याः प्रकीर्तिताः ।
कोणाश्च तत्र कर्तव्याः समास्तत्र समन्ततः ॥ १५३ ॥
तस्य नास्यश्चतुर्विंशत् ज्ञातव्यास्तु पृथक् पृथक् ।
……………………………………………..॥ १५४ ॥
धरास्तस्य तु विज्ञेया एका वा बहुशोऽपि वा ।
द्विजानां क्षत्रियाणाञ्च पूजनीयं विशेषतः ॥ १५५ ॥
(१५.) वापीविमानलक्षणम्
पञ्चदशं भवेत्तत्र वापी नाम ततः परम् ।
वापीप्रसादमूलन्तु मण्डलं वै समन्ततः ॥ १५६ ॥
त्रयाणामपि भागानां मध्ये गर्भगृहं भवेत् ।
तस्य गर्भगृहस्यार्धं करपिण्डी समन्ततः ॥ १५७ ॥
सोपानं खण्डहर्म्यञ्च शेषांस्तत्र समाचरेत् ।
शिरसस्तत्र कर्तव्यं कर्म वः परिकीर्तितम् ॥ १५८ ॥
तत्रैव मुखपट्टीस्तु अष्टौ कुर्यात्समन्ततः ।
अल्पपट्टीस्तु कर्तव्याः कीर्तितास्तत्र षोडश ॥ १५९ ॥
ततस्तस्य तु कार्याणि सोपानानि चतुर्दिशम् ।
चतुर्दिशन्तु कर्तव्यञ्चार्धाकारं विशेषतः ॥ १६० ॥
भूमिरेतस्य कर्तव्या एका वा बहुशोऽपि वा ।
द्विजानां क्षत्रियाणाञ्च पूजितं तद्विशेषतः ॥ १६१ ॥
षष्ठोऽध्यायः
[[६०]]
(१६.) प्रकृतिविमानलक्षणं
षोडशः प्रकृतिस्तत्र तच्छृणुध्वं समाहिताः ।
प्रकृतेर्मूलकरणं चतुरश्रायतं भवेत् ॥ १६२ ॥
द्वौ भागावष्टभागेषु मध्ये गर्भगृहं विदुः ।
खण्डहर्म्यस्य विस्तारः गर्भार्धन्तु प्रमाणतः ॥ १६३ ॥
खण्डहर्म्यस्य गर्भस्य अन्तरन्तु समन्ततः ।
सोपानं हर्म्यसोपानं तत्र शेषं समाचरेत् ॥ १६४ ॥
शिरसश्च भवेत्तस्य शालाः पञ्च प्रकीर्तिताः ।
तस्य मध्ये तु नासीस्याद्गर्भार्धन्तु प्रमाणतः ॥ १६५ ॥
तस्य नास्यश्चतुर्विंशत्कुर्यात्तत्र पृथक् पृथक् ।
………………………………………… ॥ १६६ ॥
भूमिरेतस्य कर्तव्या एका वा बहुशोऽपि वा ।
क्षत्रियस्य द्विजस्यापि पूजितं तद्विशेषतः ॥ १६७ ॥
(१७.) तोयविमानलक्षणं
तोयं विमानं विज्ञेयं सप्तदशमिहोच्यते ।
तोयविमानमूलन्तु मण्डलं वै समन्ततः ॥ १३८ ॥
द्वौ भागावष्टभागेषु मध्ये गर्भगृहं विदुः ।
अर्धं गर्भगृहस्यापि करपिण्डी समन्ततः ॥ १३९ ॥
तस्य बाह्ये तु कर्तव्यं जालपादं समन्ततः ।
सोपानं हर्म्यसोपानं तत्र शेषं समाचरेत् ॥ १४० ॥
शिरसस्तस्य विज्ञेयं मण्डलन्तु प्रशस्यते ।
तत्रैव कर्णनास्यौ द्वे पताकासदृशे ततः ॥ १७१ ॥
[[६१]]
अन्तरेषु च कर्तव्याः
क्षुद्रनास्यस्समन्ततः ।
पार्श्वयोः करपिण्डी च
नास्यौ द्वौ तु समुन्नते ॥ १७२ ॥
अष्टौ तथाऽल्पनास्यस्तु अधस्तादूर्ध्वतस्ततः ।
हाराः कपोतशालाश्च नास्यौ तस्योपरि स्थिते ॥ १७३ ॥
धरास्तस्य तु विज्ञेया एका वा बहुशोऽपि वा ।
प्रशस्ताः क्षत्रियाणाञ्च भावबन्धविशेषतः ॥ १७४ ॥
(१८.) उत्पलपत्रविमानलक्षणं
ज्ञेयमुत्पलपत्रन्तु अष्टादशमतः परम् ।
उत्पलपत्रमूलन्तु चतुरश्रं भवेत्ततः ॥ १७५ ॥
अत ऊर्ध्वन्तु वृत्तं स्यात्सर्वतः परिकीर्तितम् ।
अष्टानामपि भागानां मध्ये गर्भगृहं विदुः ॥ १७६ ॥
अस्य गर्भगृहस्यार्धं करपिण्डी समन्ततः ।
तस्य बाह्ये तु कर्तव्यं जालपातं समन्ततः ॥ १७७ ॥
अर्धहारञ्च हर्म्यञ्च सभागर्भसमं भवेत् ।
शैलान्तरेषु कर्तव्या हारास्तत्र समन्ततः ॥ १७८ ॥
सोपानहर्म्ये द्वे स्यातां सोपानं तत्समं भवेत् ।
शिरसस्तस्य कर्तव्यं मण्डलन्तु प्रशस्यते ॥ १७९ ॥
कर्तव्या विंशतिर्नास्यः अधस्तादूर्ध्वतस्ततः ।
भूमिस्तु तत्र कर्तव्या एका वा बहुशोऽपि वा ॥ १८० ॥
षष्ठोऽध्यायः
[[६२]]
एवमुत्पलपत्रं तद्विभागाः परिकीर्तिताः ।
उत्पलन्तु द्विजातीनां पूजितं तद्विशेषतः ॥ १८१ ॥
(१९.) सिंहच्छन्दविमानलक्षणम्
एकोनविंशतिकञ्चैव सिंहच्छन्दमिति स्मृतम् ।
सिंहच्छन्दस्य मूलन्तु अन्तराश्रं ? भवेत्ततः ॥ १८२ ॥
तस्योपरि च कर्तव्यं चतुरश्रायतं भवेत् ।
अष्टभागस्य मध्ये द्वौ कुर्याद्गर्भगृहं ततः ॥ १८३ ॥
अथ गर्भगृहस्यापि करपिण्डी तु पार्श्वतः ।
करपिण्ड्यास्तु विस्तारो गर्भविस्तार एव च ॥ १८४ ॥
पश्चिमाज्जलपातन्तु अर्धं गर्भगृहस्य च ।
तस्य हर्म्यं भवेत् द्वे वा सोपानञ्च समाचरेत् ॥ १८५ ॥
शिरसस्तस्य विज्ञेयाः सभास्तत्र प्रकीर्तिताः ।
निर्गमं तत्र तावत्स्यात्समन्ताच्च विभूषितम् ॥ १८६ ॥
द्वौ कर्णौ तत्र कर्तव्यौ सभास्तत्र विशेषतः ।
त्रयाणामपि भागानां मध्ये गर्भगृहं विदुः ॥ १८७ ॥
उपाङ्गाद्द्वादशज्ञेया……तत्र प्रकीर्तिताः ।
एका वा बहुशो वापि धरास्तत्र प्रकीर्तिताः ॥ १८८ ॥
एवमुक्तप्रकारेण कर्तव्यं तद्विशेषतः ।
उत्तमन्तु द्विजातीनां पूजनीयं विशेषतः ॥ १८९ ॥
(२०.) सोमच्छन्दविमानलक्षणं
सोमच्छन्दस्य मूलन्तु चतुरश्रं भवेत्ततः ।
अर्धं गर्भगृहस्यापि करपिण्डी समन्ततः ॥ १९० ॥
[[६३]]
खण्डहर्म्यस्य सोपानं शेषं तत्र समाचरेत् ।
शिरसस्तस्य विज्ञेयं मण्डलन्तु प्रशस्यते ॥ १९१ ॥
तस्य मध्ये तु नासी
स्याद्गर्भार्धन्तु प्रमाणतः ।
निर्गमं तत्र तावत्स्यात्
कर्तव्यं सर्वतः समम् ॥ १९२ ॥
तदर्धं कर्णनास्यौ द्वे विस्तारात्परिकीर्तिते ।
नास्यौ द्वे पूर्वतस्ते च पूर्वोक्तेन प्रमाणतः ॥ १९३ ॥
भूमिरेतस्य विज्ञेया एका वा बहुशोऽपि वा ।
देवतानां द्विजातीनां राज्ञाञ्चैव सुपूजितम् ॥ १९४ ॥
(२१.) मेनाकारविमानलक्षणम्
एकविंशतिकञ्चैव मेनाकारं पृथक् स्मृतम् ।
मेनाकारस्य मूलन्तु चतुरश्रायतं भवेत् ॥ १९५ ॥
विस्ताराद्द्विगुणस्तस्य त्वायामः परिकीर्तितः ।
त्रयाणामपि भागानां मध्ये गर्भगृहं विदुः ॥ १९६ ॥
तस्य गर्भगृहस्यार्धं करपिण्डी समन्ततः ।
समानं हर्म्यसोपानं शेषं पार्श्वं समाचरेत् ॥ १९७ ॥
मूले द्वे खण्डहर्म्ये तु पिण्ड्यश्चार्धप्रमाणतः ।
तेन चैव प्रमाणेन निर्गमं तत्समं चरेत् ॥ १९८ ॥
पिण्ड्या अर्धन्तु कर्तव्या नासी पूर्वोक्तमानतः ।
…………………………………………. ॥ १९९ ॥
षष्ठोऽध्यायः
[[६४]]
धरास्तस्य तु विज्ञेया एका वा बहुशोऽपि वा ।
क्षत्रियस्य द्विजस्यापि पूजनीयं विशेषतः ॥ २०० ॥
(२२.) शालीकरणविमानलक्षणं
द्वाविंशकन्तु विज्ञेयं शालीकरणमन्दिरम् ।
शालीकरणमूलन्तु चतुरश्रं सुपूजितम् ॥ २०१ ॥
द्वौ भागावष्टभागेषु मध्ये गर्भगृहं भवेत् ।
गर्भस्यार्धन्तु विज्ञेया करपिण्डी समन्ततः ॥ २०२ ॥
एकदण्डप्रमाणेन पूर्वदण्डप्रमाणतः ।
सोपानं जालपादञ्च खण्डहर्म्याणि कारयेत् ॥ २०३ ॥
शिरसस्तस्य विज्ञेयाः सभास्तत्र प्रकीर्तिताः ।
………………………………………. ॥ २०४ ॥
एका वा बहुशो वापि धरास्तत्र प्रकीर्तिताः ।
उत्तमं तद्द्विजातीनां पूजितं तद्विशेषतः ॥ २०५ ॥
(२३.) कर्णिकाकारविमानलक्षणं
त्रयोविंशतिकञ्चात्र कर्णिकाकारमुच्चते ।
कर्णिकाकारमूलन्तु चतुरश्रं भवेत्ततः ॥ २०६ ॥
त्रयाणामपि भागानां मध्ये गर्भगृहं विदुः ।
ज्ञेयानि तत्र चत्वारि सोपानानि समन्ततः ॥ २०७ ॥
एकन्तु बन्न्धनं कुर्यात्तस्यैव तु मुखे ततः ।
……………………………………. ॥ २०८ ॥
भूमिरस्य तु विज्ञेया एका वा बहुशोऽपि वा ।
द्विजानां क्षत्रियाणाञ्च विशेषात्पूजितं भवेत् ॥ २०९ ॥
[[६५]]
(२४.) श्रियोऽलङ्कारविमानलक्षणं
चतुर्विंशतिकं तत्र श्रियोऽलङ्कारमुच्यते ।
श्रियोऽलङ्कारमूलन्तु चन्द्राकृतिरिति स्मृतम् ॥ २१० ॥
अष्टभागेषु मध्ये तु एकं गर्भगृहं विदुः ।
अर्धं गर्भगृहस्यापि करपिण्डीं समाचरेत् ॥ २११ ॥
तत्रैव कम्पदेशस्तु गर्भस्य द्विगुणो भवेत् ।
सोपानं खण्डहर्म्यञ्च शेषं तत्र समाचरेत् ॥ २१२ ॥
सभास्तस्य तु विज्ञेयाः शिरसः परिकीर्तिताः ।
चतस्रो बन्धनाशाला आर्धागारं तथैव च ॥ २१३ ॥
धरास्तस्य तु विज्ञेया एका वा बहुशोऽपि वा ।
द्विजानां क्षत्रियाणाञ्च विशेषात्पूजितं भवेत् ॥ २१४ ॥
(२५.) कुम्भाकृतिविमानलक्षणम्
पञ्चविंशतिकं विस्तारं तत्समन्तु समाचरेत् ॥ २१५ ॥
अभ्यन्तरन्तु कर्तव्यं सोपानं तस्य सर्वतः ।
तत्र सर्वस्य शिरसो वृत्तन्तु परिकीर्तितम् ॥ २१६ ॥
चतुर्दिशन्तु कर्तव्या नास्यस्तस्य स्वलङ्कृताः ।
ज्ञेयस्तु नासीविस्तारो गर्भविस्तारभागशः ॥ २१७ ॥
चतुर्भागस्य भागन्तु सर्वतः परिमाणतः ।
निर्गमं तावदेव स्यात्समानं वा विधीयते ॥ २१८ ॥
संस्थानं तस्य विज्ञेयं पूर्णकुम्भाकृतिस्ततः ।
……………………………………… ॥ २१९ ॥
षष्ठोऽध्यायः
[[६६]]
धरास्तस्य तु विज्ञेया एका वा बहुशोऽपि वा ।
चातुर्वर्ण्यस्य सामान्यमेतत्तु परिकीर्तितम् ॥ २२० ॥
(२६.) गोधामुखविमानलक्षणं
षड्विंशकन्तु विज्ञेयं गोधामुखनिकेतनम् ।
गोधामुखस्य मूलन्तु चतुरश्रायतं भवेत् ॥ २२१ ॥
त्रयाणामपि भागानां मध्ये गर्भगृहं विदुः ।
तस्य गर्भगृहस्यार्धं करपिण्डी तु पार्श्वतः ॥ २२२ ॥
सोपानं हर्म्यसोपानं शेषं तत्र समाचरेत् ।
तस्य पृष्ठस्य शाला च गर्भस्य द्विगुणं भवेत् ॥ २२३ ॥
आयामार्धन्तु विस्तारः तस्यैव परिकीर्तितः ।
गर्भशालान्तरं तत्र अर्धागारं सुपूजितम् ॥ २२४ ॥
शिरसस्तु भवेच्छाला सर्वतः परिकीर्तिता ।
तस्य मध्ये तु नासी स्याद्गर्भार्धन्तु प्रमीयते ॥ २२५ ॥
धरास्तस्य तु विज्ञेया एका वा बहुशोऽपि वा ।
एतद्द्विजाना विज्ञेयं सर्वतस्तु सुपूजितम्॥ २२६ ॥
(२७.) पिञ्छावतंसकविमानलक्षणम्
पिञ्छावतंसकं गेहं सप्तविंशतिकं भवेत् ।
पिञ्छावतंसमूलन्तु चतुरश्रं भवेत्ततः ॥ २२७ ॥
द्वौ भागवष्टभागे तु मध्ये गर्भगुहं विदुः ।
तस्य गर्भगुहस्यार्धं करपिण्डी समन्ततः ॥ २२८ ॥
तस्य गर्भस्य विस्तारं जालपादं समन्ततः ।
खण्डहर्म्यस्य विस्तारं तत्र शेषं समाचरेत् ॥ २२९ ॥
[[६७]]
चतुर्भागन्तु कर्तव्यं सोपानं वै विशेषतः ।
खण्डहर्म्यान्तरे तत्र सभाः कोणेषु योजयेत् ॥ २३० ॥
तस्यैव चान्तरे ज्ञेयाः हाराः सर्वत्र शोभनाः ।
अष्टौ खरमुखाः पट्टी कृर्यात्तत्र पृथक् पृथक् ॥ २३१ ॥
एका वा बहुशो वापि धरास्तत्र प्रकीर्तिताः ।
उत्तरत्र द्विजातीनां पूजितं तद्विशेषतः ॥ २३२ ॥
(२८.) चतुःस्फुटविमानलक्षणम्
अष्टाविंशतिकं तत्र चतुःस्फुटमिति स्मृतम् ।
चतुरश्रं मूलकरणं चतुःस्फुटमिहोच्यते ॥ २३३ ॥
अष्टानामपि भागानां मध्ये गर्भगृहं विदुः ।
अर्धं गर्भगृहस्यापि करपिण्डी समन्ततः ॥ २३४ ॥
करपिण्ड्यास्तु विस्तारः………….. ।
…………………………………… ॥ २३५ ॥
…………………………………… ।
…………………………………… ॥ २३६ ॥
…………………………………… ।
…………………………………… ॥ २३७ ॥
(२९.) हस्त्याकारविमानलक्षणं
हस्त्याकारविमानन्तु एकोनत्रिंशकं भवेत् ।
हस्त्याकारविमानन्तु चतुरश्रं समन्ततः ॥ २३८ ॥
अष्टभागेषु मध्ये द्वौ कुर्याद्गर्भगृहं ततः ।
ऊनं तु गर्भविस्तारात्करपिण्डी तु पार्श्वतः ॥ २३९ ॥
षष्ठोऽध्यायः
[[६८]]
सोपानं जालपादञ्च शेषं तत्र समाचरेत् ।
विस्तारात् गर्भविस्तारं शाला च पुरतस्ततः ॥ २४० ॥
गर्भपृष्ठन्तु विज्ञेयं वृत्तं तस्य समाचरेत् ।
शिरसस्तस्य विज्ञेयास्सभास्तत्र समन्ततः ॥ २४१ ॥
धरास्तस्य तु विज्ञेया एका वा बहुशोऽपि वा ।
नेतरत्र द्विजातीनां पूजितन्तु विशेषतः ॥ २४२ ॥
(३०.) नागच्छन्दविमानलक्षणं
त्रिंशकन्तु भवेत्तत्र नागच्छन्दमतः परम् ।
नागच्छन्दस्य मूलन्तु चतुरश्रं भवेत्ततः ॥ २४३ ॥
तदर्धं गर्भविस्तारं मध्ये कुर्यात्समन्ततः ।
गर्भस्य तु चतुर्भागं तेषु चैकेन योजयेत् ॥ २४४ ॥
विस्तारात्करपिण्डी स्याद्विशेषेण विधीयते ।
शेषास्तत्र तु कर्तव्या जालपादः प्रमाणतः ॥ २४५ ॥
प्रमाणं हर्म्यशिरसो विज्ञेयञ्चापि तत्वतः ।
……………………………………. ॥ २४६ ॥
धरास्तस्य तु विज्ञेया एका वा बहुशोऽपि वा ।
देवतानां द्विजातीनां क्षत्रियाणाञ्च पूजितम् ॥ २४७ ॥
(३१.) वृषभच्छन्दविमानलक्षणम्
एकत्रिंशकमप्याहुः वृषभच्छन्दमुत्तमम् ।
वृषभच्छन्दमूलन्तु चतुरश्रायतं भवेत् ॥ २४८ ॥
[[६९]]
त्रयाणामपि भागानां मध्ये गर्भगृहं विदुः ।
अर्धं गर्भगृहस्यापि करपिण्डी समन्ततः ॥ २४९ ॥
गर्भस्य युक्त्या कुर्याद्वै बन्धशाला महागुणाः ।
प्रमाणं तस्य विज्ञेयं गर्भमात्रं प्रशस्यते ॥ २५० ॥
विज्ञेयौ समहर्म्यौ द्वौ सोपानं तस्य पार्श्वयोः ।
शिरसस्तस्य विज्ञेयं मण्डनं परिकीर्तितम् ॥ २५१ ॥
धरास्तस्य तु विज्ञेया एका वा बहुशोऽपि वा ।
उत्तरत्र द्विजातीनां पूजितं तु विशेषतः ॥ २५२ ॥
(३२.) कूटाकारविमानलक्षणं
द्वात्रिंशकन्तु विज्ञेयं कूटाकारमिति स्मृतम् ।
कूटाकारस्य मूलन्तु चतुरश्रायतं भवेत् ॥ २५३ ॥
त्रयाणामपि भागानां मध्ये गर्भगृहं विदुः ।
अस्य गर्भगृहस्यार्धं करपिण्डी समन्ततः ॥ २५४ ॥
सोपानं खण्डहर्म्यञ्च शेषेषु विहिते स्मृते ।
शिरसस्तस्य विज्ञेयाः समाः कूटसमन्विताः ॥ २५५ ॥
भूमिरस्य तु विज्ञेया एका वा बहुशोऽपि वा ।
उत्तरत्र द्विजातीनां पूजितं तद्विशेषतः ॥ २५६ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे द्वात्रिंशद्विमानानां लक्षणं नाम षष्ठोऽध्यायः ॥
षष्ठोऽध्यायः
[[७०]]