अथ पञ्चमोऽध्यायः
गर्भप्रक्षेपणम्
अतः परं प्रवक्ष्यामि गर्भप्रक्षेपणं परम् ।
राष्ट्रं ग्रामञ्च नगरं पत्तनञ्चैव खर्वटम् ॥ १ ॥
कुटिका दण्डकञ्चैव सेनामुखमतः परम् ।
सभास्थानं सेतुबन्धः शाला चाराम एव च ॥ २ ॥
सस्यक्षेत्रं तटाकश्च नद्यास्तीरं तथैव च ।
एतेषु स्थानमुद्दिष्टमिति होवाच पूर्वजः ॥ ३ ॥
गर्भस्थानानि वै सप्त देवागारप्रकल्पने ।
भूमौ च पट्टिकायाञ्च मस्तके च विशेषतः ॥ ४ ॥
कूटकोष्ठान्तरे चैव प्राकारे गोपुरे तथा ।
पाकालये विधातव्यमथवा स्नपनालये ॥ ५ ॥
नलिनकादिविमानेषु स्थानेष्वेषु निधापयेत् ।
राष्ट्रमुद्दिश्य यत्नेन अग्रहारेषु सन्न्यसेत् ॥ ६ ॥
ग्राममुद्दिश्य यत्नेन अग्रहारेषु सन्न्यसेत् ।
नगरे पश्चिमे प्रोक्तं पत्तने चैव मध्यतः ॥ ७ ॥
खर्वटे पश्चिमे प्रोक्तं कुटिके चैव मध्यतः ।
दण्डके मध्यमे प्रोक्तं मध्ये सेनामुखे न्यसेत् ॥ ८ ॥
सभास्थाने तथा मध्ये सेतुबन्धे च मध्यतः ।
शालायां मध्यमे प्रोक्तमारामे चापि मध्यतः ॥ ९ ॥
सस्यक्षेत्रे मनोरम्ये तटाके चापि मध्यतः ।
नद्यास्तीरे प्रकुर्वीत यथायोग्यं यथाविधि ॥ १० ॥
[[३५]]
विमाने चैव यत्नेन गर्भं सम्यङ्निधापयेत् ।
भूमिभागे विधातव्यं भूमेः सम्बन्धमिच्छता ॥ ११ ॥
ॠद्ध्यर्थं पट्टिकायान्तु स्थित्यर्थं मस्तके न्यसेत् ।
द्वारे च दक्षिणे भागे भित्तिभागे तु भाजिते ॥ १२ ॥
भागे चोत्तरतो गर्भभित्तिमध्ये निधापयेत् ।
प्राकारे चैव चैन्द्रे तु गोपुरे दक्षिणे तले ॥ १३ ॥
पाकालये तु मध्ये तु मध्ये वै स्नपनालये ।
आरम्भकालात्पूर्वस्मिन् फेलां ताम्रमयीं हरेत् ॥ १४ ॥
षण्णवतियवायामविस्तृता चोत्तमा भवेत् ।
चतुष्पष्टियवायाम विस्तृता मध्यमा स्मृता ॥ १५ ॥
चत्वारिंशद्यवायामविस्तृता चाधमा मता ।
तदर्धमुन्नतां कुर्यात्पादहीनोत्तरच्छदाम् ॥ १६ ॥
श्लक्ष्णामेवं विधाकारां भेदच्छिद्रविवर्जिताम् ।
पञ्चविंशत्पदैर्युक्तामथवा नवभिः पदैः ॥ १७ ॥
त्रिषूत्तरेषु रोहिण्यां स्वात्याञ्चैव पुनर्वसौ ।
चित्रायां मृगशीर्षे च अनूराधे तथैव च॥ १८ ॥
नक्षत्रेष्वेषु हस्ते च गर्भप्रक्षेपणञ्चरेत् ।
तेषां शुभांशगे चन्द्रे स्थिरराशौ तु कारयेत् ॥ १९ ॥
ग्रामस्य यजमानस्य चानुकूले दिने चरेत् ।
तस्मात्तु दिवसात्पूर्वं नवमे वाथ सप्तमे ॥ २० ॥
पञ्चमेऽहनि वा कुर्याद्विधिना चाङ्कुरार्पणम् ।
अङ्कुरार्पणकादूर्ध्वं द्रव्याण्यपि समाहरेत् ॥ २१ ॥
पञ्चमोऽध्यायः
[[३६]]
जले तु निक्षिपेत्फेलां पञ्चगव्येन शोधिताम् ।
लिखित्वा चैव दिग्भागं फेलायाञ्च चतुर्दिशम् ॥ २२ ॥
ब्रह्मस्थाने ब्रह्ममणिञ्चैन्द्रे वज्रमणिं न्यसेत् ।
अग्नौ मौक्तिकमुद्दिष्टं याम्ये वैदूर्यमुच्यते ॥ २३ ॥
र्नैॠते शङ्खजं दद्याद्वारुणे स्फटिकं न्यसेत् ।
वायौ पुष्यमणिञ्चैव चन्द्रकान्तं तथोत्तरे ॥ २४ ॥
ऐशान्यां विन्यसेन्नीलमेवं नवपदे न्यसेत् ।
बाह्ये तु षोडशपदेष्वैन्द्रे सौवर्णमेव च ॥ २५ ॥
अग्नीन्द्रयोस्तथा मध्ये हरितालमुदाहृतम् ।
आग्नेये वै तथा स्थाने शुक्तिजं प्रक्षिपेद्बूधः ॥ २६ ॥
यमाग्न्योर्मध्यमे स्थाने न्यसेच्चैव मनश्शिलाम् ।
विन्यसेत्तु यमस्थाने आयसन्तु विशेषतः ॥ २७ ॥
यमर्नैॠतयोर्मध्ये प्रक्षिपेत्पारदं परम् ।
र्नैॠते तु तथा स्थाने अमृताश्मकमुच्यते ॥ २८ ॥
नीलवारुणयोर्मध्ये प्रक्षिपेच्छ्यामकं तथा ।
वरुणस्य तथा स्थाने रजतं तत्र विन्यसेत् ॥ २९ ॥
वरुणोदानयोर्मध्ये प्रक्षिपेदञ्जनं तथा ।
उदानस्य तथा स्थाने पुष्यकान्तञ्च विन्यसेत् ॥ ३० ॥
उदानसोमयोर्मध्ये कुरुविन्दं विशेषतः ।
सोमस्य तु तथा स्थाने प्रक्षिपेत्ताम्रकं बुधः ॥ ३१ ॥
ईशानसोमयोर्मध्ये सौराष्ट्रञ्चैव विन्यसेत् ।
ईशाने विमलं तत्र विन्यसेत्तत्पदक्रमात् ॥ ३२ ॥
[[३७]]
तथेन्द्रेशानयोर्मध्ये गोरोचनमुदाहृतम् ।
एवं तु विन्यसेद्विद्विान् पञ्चविंशत्पदेषु वै ॥ ३३ ॥
शालिव्रीहियवा मुद्गतिलमाषप्रियङ्गवः ।
गोधूमाश्चणकास्तिल्वा मसूराश्चातसी तथा ॥ ३४ ॥
कुलुत्थसर्षपाद्यास्तु षष्टिर्निष्पाव एव च ।
बाह्ये षोडशबीजानि क्रमादैन्द्रादि विन्यसेत् ॥ ३५ ॥
मध्ये वै सर्वबीजानि निक्षिपेत्क्रमविद्बुधः ।
समुद्रे चैव वल्मीके नदीतीरे च पर्वते ॥ ३६ ॥
सस्यक्षेत्रे गजदन्ते गोविषाणे कुलीरके ।
स्थानेष्वष्टमृदश्चैव ऐशान्यादिषु विन्यसेत् ॥ ३७ ॥
नीलोत्पलञ्च कल्हारमुत्पलं पद्ममेव च ।
एतेषाञ्चैव मूलानि चतुर्दिक्षु निधापयेत् ॥ ३८ ॥
यज्ञोपवीतं मौञ्जीञ्च दण्डं वै कुण्डिकां तथा ।
वेदं कूर्चं स्रुवञ्चैव आज्यस्थालीं तथैव च ॥ ३९ ॥
अन्यानि यज्ञपात्राणि विप्रो गर्भे निधापयेत् ।
हारञ्च मकुटञ्चैव कुण्डले चाङ्गदे तथा ॥ ४० ॥
वलयं हस्तबन्धञ्च क्षौमं वै मेखलायुतम् ।
धनुश्चर्मासिखड्गांश्च प्रासं सवलयं तथा ॥ ४१ ॥
शङ्खचक्रगदापाशान् रथं तुरगसंयुतम् ।
भेरीञ्चाङ्कुशसंयुक्तं प्रतोदं योक्तमेव च ॥ ४२ ॥
छत्रं पताकासंयुक्तमष्टमङ्गलसंयुतम् ।
सौवर्णं कूर्मरूपञ्च वज्रञ्चाशनिमेव च ॥ ४३ ॥
पञ्चमोऽध्यायः
[[३८]]
क्षत्रियाणां जयार्थं वै सर्वानेतान् सुसन्न्यसेत् ।
तुलां कृत्वा यथान्यायं वैश्यानां स्थापयेद्धिताम् ॥ ४४ ॥
हलं हैरण्मयं कृत्वा युगं वै बीजभाजनम् ।
पशूंश्चैव तथा कृत्वा शूद्राणां स्थापयेत्क्रमात् ॥ ४५ ॥
ग्रामगर्भं यदि स्याच्चेत्तप्तचामीकरं चरेत् ।
श्रीरूपं कूर्मरूपञ्च मेघरूपं तथैव च ॥ ४६ ॥
गजञ्च गरुडञ्चैव वृषभं हंसमेव च ।
शङ्खचक्रासिशार्ङ्गांश्च शरं खेटकमेव च ॥ ४७ ॥
पञ्चवर्णैरलङ्कृत्य धान्यराशिं प्रपूर्य च ।
तण्डुलानुपरि न्यस्य दर्भानुपरि विन्यसेत् ॥ ४८ ॥
फेलां तत्रैव विन्यस्य वस्त्रयुग्मेन वेष्टयेत् ।
तस्य दक्षिणदिग्भागे वेदिं कृत्वोपलिप्य च ॥ ४९ ॥
वर्णानुद्दिश्य विहितद्रव्याणाञ्च विशेषतः ।
ब्रह्मस्थाने निधातव्यद्रव्याणाञ्चोपकुर्वताम् ॥ ५० ॥
उपवीतादिकानान्तु पूर्वेद्युर्ग्रहणं चरेत् ।
विलिख्य नाम प्रत्येकं लक्ष्यीकृत्याप्रमादतः ॥ ५१ ॥
असाङ्कर्येण द्रव्याणि प्रत्येकं निक्षिपेद्बुधः ।
पूर्वस्मिन्नेव दिवसे रात्रौ होमं समाचरेत् ॥ ५२ ॥
यत्रैव स्थापयेद्गर्भं तत उत्तरपार्श्वतः ।
सूत्रोक्तेनैव मार्गेण भूमियज्ञं समाचरेत् ॥ ५३ ॥
पुण्याहं वाचयित्वा तु गर्भस्थाने विशेषतः ।
कुण्डमौपासनं कृत्वा गर्भस्थानस्य दक्षिणे ॥ ५४ ॥
[[३९]]
आघारं विधिवत्कृत्वा अदितेन्वादिभिः क्रमात् ।
समिधां क्षेपणं कृत्वा पालाशीनां विशेषतः ॥ ५५ ॥
गव्यं घृतं समादाय विष्णुसूक्तेन होमयेत् ।
हुत्वा तु पौरुषं सूक्त ‘मतो देवादि’ वैष्णवम् ॥ ५६ ॥
ब्राह्मं रौद्रञ्च हुत्वा तु यद्देवाद्यैः समन्वितम् ।
जयाद्यैरपि हुत्वा तु ऐन्द्रमाग्नेयसंयुतम् ॥ ५७ ॥
याम्यं र्नैॠतसंयुक्तं वारुणं वायुदैवतम् ।
सौम्यमीशानदैवत्यं हुत्वा तत्र यथाक्रमम् ॥ ५८ ॥
जुहुयाद्भूमिदैवत्यं पाञ्चभौतिकसंयुतम् ।
व्याहृत्यन्तं तु हुत्वा तु तद्दैवत्यं पृथक् पृथक् ॥ ५९ ॥
अग्निकुण्डस्य पूर्वे तु मण्डलान्युपलिप्य च ।
पीठं धान्येन कृत्वा तु तण्डुलैश्च समास्तरेत् ॥ ६० ॥
सौवर्णं राजतं ताम्रं पात्रं कांस्यमयं तथा ।
रत्नधातुसमायुक्तं बीजमूलसमायुतम् ॥ ६१ ॥
उपवीतादिसंयुक्तं मृद्भिश्चैव समायुतम् ।
प्रतिद्रव्यं विशेषेण पृथक्पात्रं समाहरेत् ॥ ६२ ॥
वस्त्रेण वेष्टयित्वा तु पुष्पाक्षतसमायुतम् ।
अधिवासञ्च कृत्वा तु रात्रिशेषं व्यपोहयेत् ॥ ६३ ॥
पुनः प्रभाते धर्मात्मा यजमानयुतो गुरुः ।
स्नात्वा स्नानविधानेन तर्पयित्वा च देवताः ॥ ६४ ॥
जप्त्वा द्वादश सूक्तानि देवदेवं प्रणम्य च ।
ततस्त्वग्निं समासाद्य परिस्तीर्य च पावकम् ॥ ६५ ॥
पञ्चमोऽध्यायः
[[४०]]
हुत्वा तु पौरुषं सूक्तं विष्णुसूक्तमतः परम् ।
इन्द्रादिलोकपालानां हुत्वा तत्र यथाक्रमम् ॥ ६६ ॥
यजमानो गुरुञ्चैव वस्त्राभरणकुण्डलैः ।
हैमपुष्पैश्च माल्यैश्च अर्घ्यपाद्यादिभिस्तथा ॥ ६७ ॥
पूजयित्वा विशेषेण नमस्कुर्यात्ततो गुरुः ।
कुण्डस्य दक्षिणे भागे मण्डलान्युपलिप्य च ॥ ६८ ॥
दर्भानुपरि सन्न्यस्य पुष्पाक्षतसमायुतान् ।
आसनं ब्राह्ममास्थाय फेलां तां प्राङ्मुखीं न्यसेत् ॥ ६९ ॥
हरिणीञ्च समाराध्य फेलायामुपरि क्रमात् ।
‘नमो वरुण’ इत्युक्त्वा स्पृशन् रत्नादिकं जपेत् ॥ ७० ॥
‘ब्रह्म प्रतिष्ठे’ त्युक्त्वा तु ब्रह्माणं मनसा स्मरन् ।
ब्रह्मस्थानं समुद्दिश्य उक्तान् सर्वान् सुसन्न्यसेत् ॥ ७१ ॥
उपवीतादिसर्वाणि वार्णानुद्दिश्य यानि वै ।
ब्राह्मं मन्त्रं समुच्चार्य ब्रह्मस्थाने निधापयेत् ।
‘इन्द्रं प्रणवन्तमि’ त्युक्त्वा इन्द्रस्थाने सुसन्न्यसेत् ॥ ७२ ॥
ऐन्द्राद्यैशान्यपर्यन्तं तत्तन्मन्त्रमुदीरयन् ।
रत्नं धातुसमायुक्तं बीजं मृच्चाष्टमङ्गलान् ॥ ७३ ॥
एकैकं मन्त्रमुच्चार्य सन्न्यसेच्च यथाक्रमम् ।
वेदानाञ्चाप्यध्ययनं तत्तद्दिक्षु समाचरेत् ॥ ७४ ॥
ॠग्वेदं पूर्वतो जप्त्वा यजुर्वेदन्तु दक्षिणे ।
पश्चिमे सामवेदञ्चार्थवेदं तथोत्तरे ॥ ७५ ॥
[[४१]]
एवं दिवा प्रकुर्वीत कृच्छान्नं भोजयेत्ततः ।
अन्नादींश्चैव कृत्वा तु ब्राह्मणादींश्च तर्पयेत् ॥ ७६ ॥
सायं सन्ध्यामुपास्यैव यजमानयुतो गुरुः ।
ततस्त्वग्निं समासाद्य पूर्ववद्धोममाचरेत् ॥ ७७ ॥
रात्रौ निधापयेद्गर्भं मुहूर्ते तु विचक्षणः ।
शिरसा धारयेत्फेलां स्थानं सम्यक् प्रवेशयेत् ॥ ७८ ॥
उभाभ्याञ्चैव हस्ताभ्यामादाय प्रयतः क्रमात् ।
ध्रुवसूक्तं जपित्वा तु विष्णुसूक्तमतः परम् ॥ ७९ ॥
देवेशं मनसा ध्यात्वा स्थापयेद्गर्भभाजनम् ।
ग्रामगर्भं यदि स्याच्चेत् ब्राह्ममन्त्रपुरस्सरम् ॥ ८० ॥
अन्येषु चैव स्थानेषु विष्णुसूक्तं समुच्चरेत् ।
सुधया पूरयित्वा तु शिल्पिना सुदृढं चरेत् ॥ ८१ ॥
पश्चादग्निं समासाद्य महाशान्तिं हुनेत्क्रमात् ।
स्विष्टाकारञ्च हुत्वा तु अन्तहोमं ततश्चरेत् ॥ ८२ ॥
यत्रैव स्थापयेद्गर्भं तत्र सम्पत्करं भवेत् ।
ग्रामशान्तिकरञ्चैव वेदानामपि बंृहणम् ॥ ८३ ॥
क्षेत्राभिवृद्धिरधिका धनधान्याभिवर्धनम् ।
(सन्ततीनां कुलस्यापि यानवाहनसम्पदाम्
पत्नीभृत्यमनुष्याणां पशूनामृद्धिमादिशेत्)
तस्मात्सर्वप्रयत्नेन स्थापयेद्गर्भभाजनम् ॥ ८४ ॥
स्थानगर्भं विना यत्र क्षेत्रं तत्तु विनश्यति ।
ग्रामे वा नगरे वापि पत्तने खर्वटेऽपि वा ॥ ८५ ॥
पञ्चमोऽध्यायः
[[४२]]
देवालये सभास्थाने मण्डपेऽन्यत्र वार्चने ।
शून्ये तु द्वादशाब्दान्ते गर्भशक्तिर्विनश्यति ॥ ८६ ॥
सदोषन्तु विमानञ्चेत् पुनस्संस्कारमर्हति ।
कर्षणादिक्रमं सर्वं पूर्वोक्तेन विधानतः ॥ ८७ ॥
कृत्वा तु स्थापयेद्गर्भं बिम्बं कृत्वा सलक्षणम् ।
पूर्वोक्तेन विधानेन स्थापयेद्देवमव्ययम् ॥ ८८ ॥
स्नपनं विधिवत्कृत्वा अन्नाद्यञ्च स्वशक्तितः ।
दत्वा तु वेदविद्भ्यश्च दक्षिणां शक्तितो ददेत् ॥ ८९ ॥
ग्रामं शून्यं यदि भवेत्तद्ग्रामे सर्वमाचरेत् ।
तृणगुल्मादि संशोध्य अस्थिपाषाणसञ्चयम् ॥ ९० ॥
कर्षणं पूर्ववत् कृत्वा पदं पूर्ववदाचरेत् ।
वास्तुहोमञ्च कृत्वा तु ग्रहशान्तिञ्च कारयेत् ॥ ९१ ॥
ग्राममध्ये प्रपां कृत्वा पञ्चाग्नीन् साधयेत् क्रमात् ।
प्राच्यामाहवनीयन्तु अन्वाहार्यन्तु दक्षिणे ॥ ९२ ॥
गार्हपत्यं प्रतीच्यान्तु आवसत्थ्यं तथोत्तरे ।
मध्ये सभ्यञ्च कृत्वा तु सितैः क्लिन्नैश्च वालुकैः ॥ ९३ ॥
सूत्रोक्तेन विधानेन कुण्डेष्वाघारमाचरेत् ।
जुहुयात् पौरुषं सूक्तं प्राच्यामाहवनीयके ॥ ९४ ॥
अन्वाहार्ये सुहोतव्यं विष्णुसूक्तं विशेषतः ।
गार्हपत्ये सुहोतव्यं ब्राह्मं वारुणसंयुतम् ॥ ९५ ॥
रुद्रसूक्तञ्च जुहुयादावसत्थ्ये विशेषतः ।
अष्टाविंशतिकं हुत्वा व्याहृत्यन्तं पृथक् पृथक् ॥ ९६ ॥
[[४३]]
सभ्ये तु सर्वदैवत्यं जुहुयान्मन्त्रविद्वरः ।
पुण्याहं वाचयित्वा तु प्रोक्षणैः प्रोक्षणं चरेत् ॥ ९७ ॥
अन्नाद्यञ्चैव दद्यात्तु ब्राह्मणेभ्यः स्वशक्तितः ।
पूर्वोक्तेन विधानेन स्थापयेद्गर्भमुत्तमम् ॥ ९८ ॥
अन्तहोमञ्च हुत्वा तु गुरवे दक्षिणां ददेत् ।
एवमेव विधानेन नगरादिषु कारयेत् ॥ ९९ ॥
अन्यथा तु महान् दोषो भविष्यति न संशयः ।
तस्मात्सर्वप्रयत्नेन गर्भयुक्तं समाचरेत् ॥ १०० ॥
धनधान्यसमृद्धिस्स्याद्वेदानामपि बृंहणम् ।
सन्ततीनां कुलस्यापि यानवाहनभूमिभिः ॥ १०१ ॥
पत्नीभृत्यमनुष्याणां पशूनामृद्धिमादिशेत् ।
पुत्राभिवृद्धिदञ्चैव सस्यानामभिवृद्धिदम् ॥ १०२ ॥
क्षेत्रवृद्धिप्रदञ्चैव सस्यानामभिवृद्धिदं
राष्ट्राभिवृद्धिदञ्चापि राज्ञाञ्च बलवर्धनम् ।
यत्रैव स्थापितं गर्भं तत्स्थानस्य समृद्धिदम् ॥ १०३ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां
खिलाधिकारे गर्भप्रक्षेपणविधिर्नाम पञ्चमोऽध्यायः ॥
पञ्चमोऽध्यायः
[[४४]]