०४ आद्येष्टकान्यासः

अथ चतुर्थोऽध्यायः

आद्येष्टकान्यासः

अतः परं प्रवक्ष्यामि वास्तुनः प्रथमेष्टकाम् ।
अयनञ्चोत्तरं श्रेष्ठं दक्षिणन्त्वापदि स्मृतम् ॥ १ ॥
मासानां फाल्गुनं श्रेष्ठं चैत्रं वैशाखमेव च ।
मार्गशीर्षमाघौ द्वौ निन्दितौ ब्रह्मणा पुरा ॥ २ ॥
शेषेष्वपि च कर्तव्यं त्वरितेनेति मे मतिः ।
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ॥ ३ ॥
न हि प्रतीक्षते मृत्युः कर्तव्यो धर्मसङ्ग्रहः ।
तस्मात्सर्वप्रयत्नेन देवकार्यं समाचरेत् ॥ ४ ॥
त्रिषूत्तरेषु रोहिण्यां हस्ते स्वात्यां पुनर्वसौ ।
श्रवणे वारुणे चैव मैत्रे सौम्ये तथैव च ॥ ५ ॥
शुभर्क्षे देवकार्याणि समारभ्य समापयेत् ।
तथा युग्माश्च तिथयः प्रशस्ता विष्टिवर्जिताः ॥ ६ ॥
गुरुशुक्रबुधेन्दूनां वाराश्चैव सुशोभनाः ।
चरराशिं वर्जयित्वा स्थिरराशौ तु कारयेत् ॥ ७ ॥
ग्रामस्य यजमानस्य चानुकूले दिने चरेत् ।
तस्मात्तु दिवसात्पूर्वं नवमे वाथ सप्तमे ॥ ८ ॥
पञ्चमेऽहनि वा कुर्याद्विधिना चाङ्कुरार्पणम् ।
अङ्कुरार्पणकादूर्ध्वं द्रव्याणामत्र सङ्ग्रहः ॥ ९ ॥
पूर्वं भूमिं खनित्वा तु यावत्तोयस्य दर्शनम् ।
शिलान्तं वा जलान्तं वा शोधयित्वा समन्ततः ॥ १० ॥

[[३०]]

वालुकैः पूरयित्वा तु जलेन सहितं शनैः ।
समां भूमिं तथा कुर्याद्यावत्सीमान्तनिर्णयः ॥ ११ ॥
चतस्र इष्टकाः ग्राह्याः शिला वाथ विशेषतः ।
वक्ष्यमाणेन विधिना शिलासङ्ग्रहणं चरेत् ॥ १२ ॥
जर्जरीश्च? समाहृत्य इष्टका वाथ सम्भरेत् ।
हस्तं हस्तद्वयं वापि त्रिहस्तं वा यथार्हतः ॥ १३ ॥
आयतं चतुरश्रं वा घनं युक्त्या तु कारयेत् ।
तालं तालद्वयं वापि त्रितालं वा समाहरेत् ॥ १४ ॥
उन्नतं भागमुद्दिष्टमिष्टकानामितीरितम् ।
मुखं पृष्ठं तथा ज्ञात्वा अग्रं पादं तथैव च ॥ १५ ॥
विधिं विदित्वा धर्मात्मा शिल्पिभिः कृतनिश्चयः ।
जलाधिवासं कुर्वीत पञ्चाहं त्रियहन्तु वा ॥ १६ ॥
एकाहं वापि कुर्वीत वारुणं मन्त्रमुच्चरन् ।
(अथवा नाडिकाः पञ्च वासयित्वा समुद्धरेत्) ।
प्रपाञ्च तत्र कुर्वीत पूर्वस्मिन् दक्षिणेऽथवा ॥ १७ ॥
प्राच्यामाहवनीयन्तु अन्वाहार्यन्तु दक्षिणे ।
गार्हपत्यं प्रतीच्यान्तु आवसत्थ्यमथोत्तरे ॥ १८ ॥
मध्ये सभ्यञ्च कुर्यात्तु किञ्चित्पूर्वसमाश्रिते ।
नादेयैः सर्वयत्नेन शीतैः क्लिन्नैश्च वालुकैः ॥ १९ ॥
औपासनविधानेन कुर्यादाहवनीयकम् ।
धनूरूपञ्च याम्ये तु कुण्डं स्याद्वारुणे तथा ॥ २० ॥

[[३१]]

त्रिकोणञ्चोत्तरे कुर्यादग्निकुण्डं सलक्षणम् ।
सभ्यस्थानीयमथ वा मध्ये श्रामणकं चरेत् ॥ २१ ॥
वास्तुकल्पोक्तविधिना वास्त्वग्निं परिकल्पयेत् ।
सूत्रोक्तेन विधानेन आघारं सम्यगाचरेत् ॥ २२ ॥
आघारान्ते च जुहुयात्सूक्तं सर्वत्र वैष्णवम् ।
होतव्यं पौरुषं सूक्तमैन्द्रमाहवनीयके ॥ २३ ॥
आग्नेयं वैष्णवं सूक्तं याम्यं र्नैॠतसंयुतम् ।
दक्षिणाग्नौ तु जुहुयात्तत्तद्देवमनुस्मरन् ॥ २४ ॥
वारुणे वैष्णवं हुत्वा वारुणं वायुदैवतम् ।
सौम्ये तु सर्वदैवत्यं सौम्यमैशान्यसंयुतम् ॥ २५ ॥
मध्ये तु सर्वदैवत्यं जुहुयात्तु विधानतः ।
सभ्यस्य दक्षिणे पार्श्वे पृथिव्यामुपलिप्य च ॥ २६ ॥
यथालाभायतं कुर्याच्चतुरश्रन्तु मण्डलम् ।
पञ्चवर्णैरलङ्कृत्य धान्यान्यत्र समास्तरेत् ॥ २७ ॥
तण्डुलानुपरि न्यस्य चतुरश्रं समन्ततः ।
तस्योपरि विधानेन वासांसि च समास्तरेत् ॥ २८ ॥
शिलाश्चतस्र आहृत्य वारुणं मन्त्रमुच्चरन् ।
तोयेनाप्लुत्य यत्नेन वैष्णवं मन्त्रमुच्चरन् ॥ २९ ॥
इष्टकास्सम्प्रगृह्यैव वस्त्राणामुपरि न्यसेत् ।
पूर्वस्यामुत्तराग्रं स्यात्प्रागग्रं दक्षिणे न्यसेत् ॥ ३० ॥
पश्चिमस्यामुत्तराग्रं प्रागग्रञ्चोत्तरे न्यसेत् ।
ऐन्द्रादि पुरुषादीन्वै अर्घ्यान्तन्तु समर्चयेत् ॥ ३१ ॥
चतुर्थोऽध्यायः

[[३२]]

मध्ये रत्नं सुसन्न्यस्य ब्रह्माणमपि पूजयेत् ।
वस्त्रेणाच्छाद्य यत्नेन प्रत्येकं वै नवेन तु ॥ ३२ ॥
दर्भानुपरि विन्यस्य पुष्पाक्षतसमन्वितान् ।
पश्चात्तु परिषिच्याग्निम् अदितेन्वादिभिः क्रमात् ॥ ३३ ॥
पूर्वोक्तेनैव मन्त्रेण प्रत्येकञ्चैकविंशतिम् ।
जुहुयात्तु विधानेन तं तं देवमनुस्मरन् ॥ ३४ ॥
एवं कृत्वा प्रभाते तु यजमानयुतो गुरुः ।
स्नात्वा स्नानविधानेन सूक्तानि च जपेत्क्रमात् ॥ ३५ ॥
शालां प्रदक्षिणीकृत्य यजमानस्समाहितः ।
आचार्यं पूजयित्वा तु वस्त्राभरणकुण्डलैः ॥ ३६ ॥
स्थापनार्थञ्च चतुरः उक्तलक्षणसंयुतान् ।
स्थापकान् पूजयित्वा तु वस्त्रमाल्यानुलेपनैः ॥ ३७ ॥
इष्टका धारयित्वा तु कुर्याद् ग्रामप्रदक्षिणम् ।
सर्वालङ्कारसंयुक्तं सर्ववाद्यसमन्वितम् ॥ ३८ ॥
ग्रामं प्रदक्षिणीकृत्य पश्चात् स्थानं समाविशेत् ।
आचार्यः शिल्पिभिस्सार्धं सूत्रं सम्यक् प्रसार्य च ॥ ३९ ॥
द्वारं सम्यग्विदित्वा तु प्राग्द्वारादि यथाक्रमम् ।
द्वारस्य दक्षिणे भागे इष्टकास्ताः समर्पयेत् ॥ ४० ॥
दक्षिणस्य कवाटस्य मूलं ज्ञात्वा तु युक्तितः ।
द्वारस्य दक्षिणे भागे केषाञ्चित्पक्ष उच्यते ॥ ४१ ॥
‘इषेत्वोर्जे’ त्वेति जपन् ऐन्द्रे चैवोत्तराग्रकम् ।
‘अग्निमीले’ इति मन्त्रेण प्रागग्रञ्चैव दक्षिणे ॥ ४२ ॥

[[३३]]

‘अग्न आयाहि’ मन्त्रेण वारुणे चोत्तराग्रकम् ।
‘शन्नो देवी’ ति मन्त्रेण प्रागग्रञ्चोत्तरे न्यसेत् ॥ ४३ ॥
वैष्णवं मन्त्रमुञ्चार्य मध्ये रत्नानि सन्न्यसेत् ।
पश्चाच्छिल्पिनमाहूय पूजयित्वा विशेषतः ॥ ४४ ॥
शिल्पशास्त्रोक्तविधिना शिल्पिना सम्यगाचरेत् ।
नलिनकादिविमानेषु यजमानेच्छया गुरुः ॥ ४५ ॥
पञ्चहस्तं समारभ्य यथाशक्ति समाचरेत् ।
द्वितलं त्रितलं वापि कारयेत्तु विधानतः ॥ ४६ ॥
एवं विदित्वा त्वाचार्यः शिल्पिना कारयेत् क्रमात् ।
शास्त्रं शास्त्रविदाचार्यः चक्षुषी जगतो मते ॥ ४७ ॥
तस्मात्सर्वप्रयत्नेन आचार्यः शिल्पिना सह ।
कारयेच्च विमानं वै सर्वालङ्कारसंयुतम् ॥ ४८ ॥
विष्णोरालयमुद्दिश्य यः कुर्यात्प्रथमेष्टकाम् ।
कार्ये सिद्धेऽप्यसिद्धे वा साकल्येन फलं लभेत् ॥ ४९ ॥
सर्वजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।
विष्णोरालयविन्यासप्रारम्भादेव नश्यति ॥ ५० ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे आद्येष्टकाविधिर्नाम चतुर्थोऽध्यायः ॥
चतुर्थोऽध्यायः

[[३४]]