०३ कर्षणम्

अथ तृतीयोऽध्यायः

कर्षणम्

अतः परं प्रवक्ष्यामि परं कर्षणलक्षणम् ।
मासे तु वृश्चिके कुर्यात्पूर्वपक्षे विशेषतः ॥ १ ॥
ग्रामस्य यजमानस्य चानुकूले दिने चरेत् ।
तद्दिनान्नवमे पूर्वं सप्तमे पञ्चमेऽह्नि वा ॥ २ ॥
अङ्कुरानर्पयित्वा तु पुण्याहं वाचयेत्क्रमात् ।
अङ्कुरार्पणकादूर्ध्वं युगं लाङ्गलमाहरेत् ॥ ३ ॥
ब्राह्मणो यजमानश्चेत् युगं वैणवमाहरेत् ।
चम्पकं क्षत्रियस्योक्तं वैश्यः पुन्नागमाहरेत् ॥ ४ ॥
तृतीयोऽध्यायः

[[१८]]

शूद्र उदुम्बरमाहृत्य अवक्रं सम्यगाहरेत् ।
ब्राह्मणानां हितार्थाय लाङ्गलं खादिरं हरेत् ॥ ५ ॥
असनं क्षत्रियस्योक्तं वैश्यानां चम्पकं तथा ।
शूद्राणाञ्चैव शैरीषं सारयुक्तमनिन्दितम् ॥ ६ ॥
गिरिजं वा वनस्थं वा तीर्थस्थं वा समाहरेत् ।
अग्रं पादं विदित्वा तु मुखं पृष्ठं तथैव च ॥ ७ ॥
तद्वृक्षस्यैव मूले तु तृणगुल्मं व्यपोह्य च ।
वृक्षस्य दक्षिणे भागे स्थित्वा चैवोत्तरामुखः ॥ ८ ॥
वृक्षाधिपं समभ्यर्च्य पुष्पगन्धादिभिः क्रमात् ।
‘वृक्षाधिपञ्च तुहणं विष्णुभक्तं गदाधरम् ॥ ९ ॥
इत्येवमर्चयेद्विद्वान् चतुर्मूर्तिविधानतः ।
तस्मिन् वृक्षे स्थितान् देवान् सर्वान् सम्यक् प्रणम्य च ॥ १० ॥
भुञ्जन्तां बलिमित्युक्त्वा अष्टदिक्षु यथाक्रमम् ।
बलिं प्रक्षिप्य मन्त्रज्ञः पश्चात्तांश्च विसृज्य च ॥ ११ ॥
आदाय परशुं काले वैष्णवं मन्त्रमुच्चरन् ।
स्वयं छित्वा चतुर्दिक्षु पूर्वादिषु यथाक्रमम् ॥ १२ ॥
पश्चात्तक्षकमाहूय छेदयित्वा शनैः शनैः ।
मोचयित्वा त्वगादीनि सारभूतं समाहरेत् ॥ १३ ॥
पश्चाद्धारकमाहूय शिरसा धारयेद्बुधः ।
बालागारं शनैर्नीत्वा प्रमुखे चोत्तरेऽपि वा ॥ १४ ॥
मण्डलान्युपलिप्यैव तत्तद्दारु न्यसेद्बुधः ।
हलायामं पञ्चतालं क्षिणिर्द्वादशतालयुक् ॥ १५ ॥

[[१९]]

युगं द्वादशतालञ्च नाहं वै विंशदङ्गुलम् ।
चतुस्तालमृषिं गृह्य प्रादेशमपवीरकम् ॥ १६ ॥
षट्प्रादेशं प्रतोदं स्याद्धनं युक्त्या प्रगृह्य च ।
द्विप्रादेशञ्च हुलिकं मुकुलाकृतिमाचरेत् ॥ १७ ॥
अष्टाश्रं तस्य मूलञ्च शेषं युक्त्यैव कारयेत् ।
श्वेतवर्णावपि वृषौ ब्राह्मणस्य विशेषतः ॥ १८ ॥
रक्तवर्णौ क्षत्रियस्य पीतौ वैश्यस्य कीर्तितौ ।
शूद्रस्य कृष्णवर्णौ तु मिश्रवर्णावथापि वा ॥ १९ ॥
एवं सङ्गृह्य चैवात्र पूर्वेद्युरधिवासयेत् ।
स्वर्णशृङ्गौ रौप्यखुरौ वस्त्रेणाबध्य यत्नतः ॥ २० ॥
ब्राह्मणो यजमानश्चेत् पाशं मौञ्जीमयं हरेत् ।
क्षत्रियो धातकीवाल्कं वैश्यः कैतकमाहरेत् ॥ २१ ॥
शूद्रो मौञ्जीमयं गृह्य त्रिवृतं सम्यगाहरेत् ।
वैणवीं याष्टिमाहृत्य आयसीं वा समाहरेत् ॥ २२ ॥
पादौ प्रक्षाल्य चाचम्य देवेशं मनसा स्मरन् ।
युगलाङ्गलमाहृत्य वृषभौ तु समानयेत् ॥ २३ ॥
पश्चिमे भूमिभागे तु प्राङ्मुखः प्रयतात्मवान् ।
कलशे तोयमादाय वारुणं मन्त्रमुच्चरन् ॥ २४ ॥
स्रावयेत्कलशात्तोयं पाणिभ्यामुद्धृतात्तदा ।
र्नैॠत्यादिक्रमेणैव प्रादक्षिण्यवशेन तु ॥ २५ ॥
सीमां विनिर्णयेत्तत्र ‘धारा’स्विति च मन्त्रतः ।
पश्चिमे भूमिभागे तु वृषभौ च समर्चयेत् ॥ २६ ॥
तृतीयोऽध्यायः

[[२०]]

युगपाशं समादाय प्राङ्मुखः प्रयतात्मवान् ।
रुद्रमन्यं समुच्चार्य वृषभौ बन्धयेद्युगे ॥ २७ ॥
‘युगं युगेति’ च जपन् युगे लाङ्गलमर्पयेत् ।
‘तत्पुरुषाये’ च ॠषिं वामहस्तेन चाहरेत् ॥ २८ ॥
दक्षिणे यष्टिमादाय प्रणवं मनसा स्मरन् ।
आत्मरक्षां ततः कृत्वा ‘विष्णुर्मां रक्ष’ तूच्चरन् ॥ २९ ॥
‘हलकृष्टा दिव’ मिति जपमन्त्रं समाहितः ।
पश्चिमादि समारभ्य कर्षयेन्मेदिनीं शनैः ॥ ३० ॥
प्रदक्षिणवशेनैव कर्षयित्वा तु सर्वशः ।
द्वितीयं कर्षणं कृत्वा दक्षिणोत्तरयोः क्रमात् ॥ ३१ ॥
तृतीयं कर्षणं कुर्यात् प्राक्पश्चिममशेषतः ।
चतुर्थं कर्षयेद्विद्वान् दक्षिणोत्तरयोः क्रमात् ।
एवं कृष्टेऽत्र गाः नित्यं वासयेत् फाल्गुनादधः ॥ ३२ ॥
द्वितीयं कर्षणम्

अत ऊर्ध्वं प्रवक्ष्यामि द्वितीयं कर्षणं क्रमात् ।
फाल्गुने मासि सम्प्राप्ते पूर्वपक्षे विशेषतः ॥ ३३ ॥
ग्रामस्य यजमानस्य चानुकूले दिने चरेत् ।
पूर्वोक्तगुणसम्पन्नानुक्तदोषविवर्जितान् ॥ ३४ ॥
वैखानसान् समाहूय यजमानस्समर्चयेत् ।
‘श्वः कर्तास्मी’ ति गुरुणा पूर्वेद्युः स्वगृहे तथा ॥ ३५ ॥
अङ्कणे च प्रपां कृत्वा पिष्टैः कुर्यादलङ्कृतिम् ।
धान्यराशिं प्रपूर्यैव त्रिवेदिसहितां क्रमात् ॥ ३६ ॥

[[२१]]

पुष्पाक्षतसमायुक्तं दर्भानुपरि संस्तरेत् ।
दारुजं लोहजं वापि बिम्बं कृत्वा सलक्षणम् ॥ ३७ ॥
अथवा याचितं बिम्बं तस्मिन् देवं समर्चयेत् ।
तस्याः प्रपाया मध्ये तु देवदेवं समर्चयेत् ॥ ३८ ॥
वीशञ्चाभिमुखेऽभ्यर्च्य दक्षिणे चक्रमर्चयेत् ।
अमितञ्चोत्तरे स्थाप्य अर्चयित्वा विधानतः ॥ ३९ ॥
‘आयातु भगवा’ नुक्त्वा देवस्यावाहनं चरेत्

सप्तविंशतिभेदेन अर्चयित्वा निवेदयेत् ॥ ४० ॥
‘सर्वजित्सर्व’ उच्चार्य चक्रमावाह्य यत्नतः ।
‘वैनतेयो महावीर्यः काश्यपोऽग्निसमप्रभः ॥ ४१ ॥
एवमुच्चार्य वीशन्तु अर्चयित्वा निवेदयेत् ।
‘आयातु भगवान् दिव्यो दान्तश्शान्तो जनप्रियः’ ॥ ४२ ॥
एवमुक्त्वा तथा शान्तमर्चयित्वा निवेदयेत् ।
पुण्याहं वाचायित्वा तु देवमुद्दिश्य चादरात् ॥ ४३ ॥
कृत्वा शय्याधिवासञ्च रात्रिशेषं व्यपोह्य च ।
पुनः प्रभाते स्नात्वा तु देवदेवं समर्चयेत् ॥ ४४ ॥
चक्रादीनर्चयित्वा तु यजमानयुतो गुरुः ।
भुक्त्वा तु पायसान्नं वै बान्धवैस्सह धर्मवित् ॥ ४५ ॥
रूपयौवनसम्पन्नां योषितं चारुदर्शनम् ।
एकां विशुद्धामानीय वस्रादिभिरलङ्कृताम् ॥ ४६ ॥
पद्मं दक्षिणहस्तेऽस्याः वामे दीपञ्च दापयेत् ।
ध्वजतूर्यादिकान् सर्वान् पुरस्कृत्य विधानतः ॥ ४७ ॥
तृतीयोऽध्यायः

[[२२]]

अष्टमङ्गलसंयुक्तं धूपदीपसमन्वितम् ।
भक्तैः परिवृतो गच्छेच्चक्रमग्रे तु सन्नयेत् ॥ ४८ ॥
वीशं पश्चात्समादाय अमितञ्च ततः परम् ।
यानैर्वा रथरङ्गैर्वा ब्रह्मचारिभिरेव वा ॥ ४९ ॥
वाहयित्वाऽथ तत्काले स्वस्तिसूक्तसमन्वितम् ।
भूमिं सम्यक् प्रविश्यैव यजमानयुतो गुरुः ॥ ५० ॥
स्थाने तु र्नैॠ ते स्थित्वा देवदेवमनुस्मरन् ।
भामिनीमग्रतः कृत्वा सर्वालङ्कारसंयुताम् ॥ ५१ ॥
आचार्यः कुम्भमादाय पुष्पाक्षतविभूषितम् ।
‘प्रीयतां मेदिनी’त्युक्त्वा स्रावयेतु प्रदक्षिणम् ॥ ५२ ॥
चक्रादिभिस्ततो गच्छेत्कुर्वन्नेव प्रदक्षिणम् ।
स्थानस्य पश्चिमे कुम्भं धान्यपीठे निवेश्य च ॥ ५३ ॥
अर्चयित्वा विधानेन हविस्सम्यङ्निवेदयेत् ।
अण्डजादीनि चास्तीर्य कृत्वा कौतुकबन्धनम् ॥ ५४ ॥
पुण्याहं वाचयित्वा तु वृषभौ तु सुबन्धयेत् ।
दद्यात् तृणानि बहुलं रात्रिशेषं व्यपोहयेत् ॥ ५५ ॥
ततः प्रभाते स्नात्वा तु यजमानयुतो गुरुः ।
कर्षकं पूजयित्वा तु वस्त्राभरणकुण्डलैः ॥ ५६ ॥
‘नमो वरुणे’ ति मन्त्रेण अमितं सम्प्रणम्य च ।
पूर्वोक्तेन विधानेन कर्षणं सम्यगाचरेत् ॥ ५७ ॥
तां भूमिं प्रोक्षणैः प्रोक्ष्य पश्चाद्बीजानि चाहरेत् ।
शालिव्रीहियवान् मुद्गान् तिलान् माषान् प्रियङ्गुकान् ॥ ५८ ॥

[[२३]]

गोधूमांश्चणकांस्तिल्वान् मसूरान् सर्षपांस्तथा ।
निष्पावांश्च कुलुत्थांश्च षष्टिकांश्च यवांस्तथा ॥ ५९ ॥
श्वेतसर्षपसंयुक्तान् सारभूतान् समाहरेत् ।
वेणुपात्रे तु सन्यस्य सोमं तत्रैव पूजयेत् ॥ ६० ॥
‘इमे बीजे’ ति मन्त्रेण बीजानि त्वभिमन्त्रयेत् ।
‘प्ररोह बीजा’ नित्युक्त्वा वापनं सर्वतश्चरेत् ॥ ६१ ॥
पश्चात्कर्षकमाहूय कर्षयित्वा शनैश्शनैः ।
‘दुहतां दिव’ मित्युक्त्वा जलं सम्यक् प्रदापयेत् ॥ ६२ ॥
प्रदक्षिणं ततः कृत्वा रक्षां सर्वत्र कारयेत् ।
चक्रामितौ समादाय तूर्यघोषसमायुतम् ॥ ६३ ॥
स्वगृहं सम्प्रविश्यैव गुरवे दक्षिणां ददेत् ।
सस्यं पक्वं समालोक्य अनुकूलदिनं भजेत् ॥ ६४ ॥
तद्दिनादेव पूर्वेद्युः चक्रादींस्तत्र सन्नयेत् ।
सन्यस्य पूर्ववत् स्थाप्य पूर्ववत्सम्यगर्चयेत् ॥ ६५ ॥
रात्रौ गवामनेकेषामधिवासनमाचरेत् ।
पुनः प्रभाते धर्मात्मा यजमानयुतो गुरुः ॥ ६६ ॥
स्नात्वा स्नानविधानेन गाः सर्वाः सम्प्रणम्य च ।
पश्चिमे न्यस्तचक्रादिदेवान् सम्यक् प्रणम्य च ॥ ६७ ॥
गोदानसूक्तमुच्चार्य गोभ्यः सम्यक् निवेदयेत् ।
‘गावो ही’ ति जपन्मन्त्रं शुद्धादीनां जपं चरेत् ॥ ६८ ॥
‘गोगणैरभिसङ्कान्तां भूमिं सम्यक् प्रविश्य च ।
‘इमां सिञ्चामि’ मन्त्रेण प्रोक्षयित्वा तु सर्वतः ॥ ६९ ॥
तृतीयोऽध्यायः

[[२४]]

तद्दिने चैव सायन्तु चरुमाहृत्य यत्नतः ।
पूर्वं देवं समभ्यर्च्य बालस्थानगतं हरिम् ॥ ७० ॥
तां भूमिं समनुप्राप्य नवतन्तून् प्रसार्य च ।
प्रागग्रानुत्तराग्रांश्च चतुष्षष्टिपदं चरेत् ॥ ७१ ॥
ईशञ्चैव तु पर्जन्यं जयन्तञ्च विशेषतः ।
अर्चयेत्तु क्रमेणैव महेन्द्रादित्यसत्यकान् ॥ ७२ ॥
भृशान्तरिक्षावग्निञ्च प्राच्यां वै बाह्यसन्धिषु ।
पूजयित्वा विधानेन बलिं तत्र समर्पयेत् ॥ ७३ ॥
उष्णांशुपूषवितथान् गृहक्षतमतः परम् ।
यमं तथैव गन्धर्वं भृङ्गराजमृषिं तथा ॥ ७४ ॥
निॠतिं दौवारिकं सुग्रीवं पुष्पदन्तं सरित्पतिम् ।
असुरं शोषणं रोगं जवनञ्च विशेषतः ॥ ७५ ॥
नागं मुख्यञ्च भल्लाटं सोममर्गलमेव च ।
अदितिं सूरिदेवञ्च विधिनैव विचक्षणः ॥ ७६ ॥
आग्नेयादि तथैशान्तं बाह्ये सन्धिषु चार्चयेत् ।
क्रमेण तु बलिं दद्यात् स्वनामपदपूर्वकम् ॥ ७७ ॥
ब्रह्माऽर्यमा दण्डधरः पाशभृद्धनदस्तथा ।
मध्ये पदे चतुर्दिक्षु पञ्चैतान् पूजयेत् क्रमात् ॥ ७८ ॥
सवितारञ्च सावित्रमाग्नेयं कोणमाश्रितौ ।
इन्द्रञ्चेन्द्रजयञ्चैव र्नैॠतं कौणमाश्रितौ ॥ ७९ ॥
रुद्रं रुद्रजयञ्चैव वायव्यं कौणमाश्रितौ ।
आपञ्चैवापवत्सञ्च ऐशान्यं कोणमाश्रितौ ।
एते चाष्टौ तु कोणेषु द्वौ द्वौ पूज्यौ पृथक् पृथक् ॥ ८० ॥

[[२५]]

ब्रह्मा नवपदं भुक्ते मध्ये तत्परितश्च वै ।
अर्यमाद्याश्च चत्वारः पृथक् षट्पदभोजिनः ॥ ८१ ॥
सवित्राद्यास्तथैवाष्टौ भुञ्जते द्वे पृथक् पृथक् ।
देवा द्वात्रिंशदीशाद्याः एकैकपदभोजिनः ॥ ८२ ॥
चतुष्षष्टिपदे पञ्चचत्वारिंशच्च देवताः ।
अन्तः सूत्राधिदेवांस्तान् स्थापयित्वा बलिं ददेत् ॥ ८३ ॥
सन्धौ सन्धौ बलिभुजः सन्धिष्वेतान् प्रकल्पयेत् ।
चरकी देवतारिश्च पूतना पापराक्षसी ॥ ८४ ॥
प्रागादि चोत्तरान्तस्थाः बाह्ये तासां बलिं ददेत् ।
गर्भालयं समुद्दिश्य पञ्च सूत्राणि कल्पयेत् ॥ ८५ ॥
प्रागन्तञ्चोत्तरान्तञ्च सूत्रयुक्तं पदं चरेत् ।
नागं भूतञ्च यक्षञ्च दुर्गां घोटमुखीं तथा ॥ ८६ ॥
धात्रीञ्च वापुषञ्चैव राक्षसञ्च ततः परम् ।
जयं कक्षं मुरुण्डञ्च शिवं प्राणं कविं तथा ॥ ८७ ॥
चक्रञ्च पुरुहूतञ्च विद्याञ्च यशसं तथा ।
भद्रां वेदभृतञ्चैव तापसं सिन्धुषामपि ॥ ८८ ॥
विद्याञ्चैव ततोऽभ्यर्चेदनन्तं पाञ्चभौतिकम् ।
प्रागुदक्सूत्रसन्धिस्थान् पञ्च पञ्च पदार्थिनः ॥ ८९ ॥
शिवं विश्वं तथा मित्रमत्रिञ्चैवार्चयेत्क्रमात् ।
बिम्बस्य पृष्ठतश्चापि प्रादक्षिण्यक्रमेण तु ॥ ९० ॥
कुस्तुरुण्डाय गर्भाय वरुणाय धनाय च ।
कालायेति च मन्त्रज्ञो दक्षिणे सम्यगर्चयेत् ॥ ९१ ॥
तृतीयोऽध्यायः

[[२६]]

दहनाय च विघण्टाय पवनाय मुदाय च ।
गोलकाय च मन्त्रेण पश्चिमे सम्यगर्चयेत् ॥ ९२ ॥
महिषघ्नाय वेत्राय वेत्रसाराय चेत्यपि ।
कपोतकाय वै तुल्यवादिने चेति चोत्तरे ॥ ९३ ॥
फुल्लाय फुल्लरूपाय विघ्नायविघ्नकारिणे ।
सर्वोद्वहायेति मन्त्री प्राच्यां सम्यक् प्रपूजयेत् ॥ ९४ ॥
किष्किन्धाय च तीर्थाय मोहनायाथ दण्डिने ।
यूथकायेति मन्त्रेण अङ्कणेऽतोऽन्तकाय च ॥ ९५ ॥
स्पर्धघ्नाय च निघ्नाय सुखदाय हिताय च ।
अङ्गणस्य च मध्ये तु अर्चयित्वा बलिं ददेत् ॥ ९६ ॥
‘योजः पुरे’ति शिष्टानां सर्वेषाञ्च बलिं ददेत् ।
पिशाचेभ्यश्च भूतेभ्यः गणेभ्यश्च बलिं ददेत् ॥ ९७ ॥
‘सर्वं व्यपैतु’ जप्त्वा तु जलैः सर्वत्र सेचयेत् ।
‘पूर्वं स्थिते’ ति मन्त्रेण सर्वान् देवान् प्रणम्य च ॥ ९८ ॥
पुष्पाञ्जलिसमायुक्तं तिललाजसमायुतम् ।
पृक्तं कृत्वा विशेषेण भक्ष्ययुक्तञ्च संहरेत् ॥ ९९ ॥
‘चरमं चरे’ ति चोक्त्वा तु बलिं बाह्ये च कारयेत् ।
‘अस्तु स्वस्ती’ च जपन् जलैरास्राव्य सर्वतः ॥ १०० ॥
शान्तं पश्चात्प्रणम्यैव गत्वा तु स्वगृहं तथा ।
वीशं चक्रञ्च तत्काले प्रणम्यैवानुमान्य च ॥ १०१ ॥
यजमानो गुरुश्चैव भुञ्जीत सह बान्धवैः ।
भगवच्चरितं पुण्यं श्रुत्वा रात्रिं व्यपोह्य च ॥ १०२ ॥

[[२७]]

पुनः प्रभाते धर्मात्मा यजमानयुतो गुरुः ।
स्नात्वा स्नानविधानेन गत्वा तां भूमिमादरात् ॥ १०३ ॥
सूत्रोक्तेन विधानेन भूमियज्ञं समाचरेत् ।
पर्यग्निञ्चैव कृत्वा तु प्रोक्षणैः प्रोक्ष्य सर्वतः ॥ १०४ ॥
गर्भालयप्रदेशे तु पौण्डरीकन्तु कारयेत् ।
आघारं विधिवत्कृत्वा अदितेन्वादिभिः क्रमात् ॥ १०५ ॥
परिषेकन्तु कृत्वा तु कूर्चयुक्तेन वारिणा ।
जुहुयात्पौरुषं सूक्तं विष्णुसूक्तमतः परम् ॥ १०६ ॥
एकाक्षरादिसूक्तञ्च गोसूक्तं तदनन्तरम् ।
वैष्णवञ्च स्विष्टकृतं सर्वशान्तिर्भविष्यति ॥ १०७ ॥
अग्निं विसर्जयित्वा तु देवदेवं प्रणम्य च ।
अर्चयेद्वास्तुपुरुषं विधिनैव समाहितः ॥ १०८ ॥
द्वात्रिंशत्प्रस्थसम्पूर्णं नवं कुम्भं प्रगृह्य च ।
सूत्रेण वेष्टयित्वालङ्कृत्य चाङ्कुरपल्लवैः ॥ १०९ ॥
नादेयं जलमादाय पूरयित्वा विधानतः ।
वरुणं पाशभृतं वीरमुदकपमिति ब्रुवन् ॥ ११० ॥
अर्चयेद्वरुणं कुम्भे चतुर्मूर्तिविधानतः ।
अधिवासं ततः कृत्वा रात्रिशेषं व्यपोह्य च ॥ १११ ॥
पुनः प्रभाते धर्मात्वा यजमानयुतो गुरुः ।
गर्भालयोद्दिष्टभूमिं समासाद्य प्रयत्नतः ॥ ११२ ॥
तत्रैव ब्रह्मणो भागे अवटञ्चैव खानयेत् ।
एकहस्तप्रमाणेन विस्तारञ्च चतुर्दिशम् ॥ ११३ ॥
तृतीयोऽध्यायः

[[२८]]

हस्तप्रमाणेन निम्नं खानयेत्तु विचक्षणः ।
‘त्वां खना’मीति मन्त्रेण प्राङ्मुखस्त्वेव खानयेत् ॥ ११४ ॥
अवटाद्बहिरुत्क्षिप्य मृदं तामभिमन्त्रयेत् ।
‘पांसून् प्रेष्यामि’ मन्त्रेण मृदं खातां पुनः क्षिपेत् ॥ ११५ ॥
अधिकेऽभ्युदयः प्रोक्तः हीने चाशुभमुच्यते ।
परीक्ष्य तु ततः पश्चात् कुम्भं तत्रैव सन्नयेत् ॥ ११६ ॥
उत्फुल्लं पद्ममादाय तत्काले गुरुरत्वरः ।
‘यस्सखा’ इति मन्त्रेण विष्वक्सेनं समर्चयेत् ॥ ११७ ॥
‘त्वं सर्वे’ ति जपन्मन्त्रं विष्वक्सेनं प्रणम्य च ।
‘सुक्रमा’ इति च तत्काले कुम्भं स्पृष्टाऽभिमन्त्रयेत् ॥ ११८ ॥
‘सर्वा वरुण’ मन्त्रेण कुम्भमादाय वै बुधः ।
‘पातु मां वरुणो रक्त’ इति खातं प्रपूरयेत् ॥ ११९ ॥
पद्ममादाय हस्ताभ्या ‘मायातु भगवा’निति ।
अवटस्थे जले क्षिप्त्वा निमित्तञ्चैव लक्षयेत् ॥ १२० ॥
दक्षिणावर्तकं स्याच्चेत्सर्वसम्पत्करं भवेत् ।
वामावर्तं यदि भवेत् प्रायश्चित्तं हुनेत्क्रमात् ॥ १२१ ॥
जुहुयात्पौरुषं सूक्तं विष्णुसूक्तमतः परम् ।
जयाद्यैरपि हुत्वा तु यद्देवाद्यैस्ततः परम् ॥ १२२ ॥
व्याहृतीभिश्च हुत्वा तु अन्तहोमञ्च कारयेत् ।
सर्वदोषोपशमनं सर्वकर्मसमृद्धिदम् ।
तस्मात्सर्वप्रयत्नेन अम्भस्यब्जञ्च शोधयेत् ॥ १२३ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे कर्षणविधिर्नाम तृतीयोऽध्यायः ॥

[[२९]]