०२ समूर्ताराधनस्य श्रौतत्वकथनम्

अथ द्वितीयोऽध्यायः

समूर्ताराधनस्य श्रौतत्वकथनम्

अतः परं प्रवक्ष्यामि हरेर्विस्तरतोऽर्चनम् ।
एतद्भवन्तः शृण्वन्तु सर्वमेकाग्रचेतसा ॥ १ ॥
गृहे पुरुषपूजायाः विधानमृषिसत्तमाः ।
सूत्रे सङ्क्षेपतः प्रोक्तमृषिणा ब्रह्मवादिना ॥ २ ॥
वैखानसेन विपुलं नोक्तमालयपूजनम् ।
आलयार्चा गृहार्चा चेत्युभयं श्रुतिचोदितम् ॥ ३ ॥
तेनात्र सकलं नोक्तं ग्रन्थविस्तरभीरुणा ।
उक्तशेषमनुक्तञ्च सर्वमत्र वदामि वः ।
श्रृण्वन्तु मुनयस्सर्वे विष्णोरर्चां जगत्पतेः ॥ ४ ॥
(आलयार्चाविधानानि शान्तिकादीनि वै क्रमात्)

कर्मभूमिप्रशंसा

भूगोलादि निदानन्तु वक्ष्ये शृणुत तापसाः ।
जम्बूप्लक्षकुशद्वीपाः तथा च क्रौञ्चशाल्मली ॥ ५ ॥
गोमेदपुष्करद्वीपौ सप्तद्वीपा च मेदिनी ।
एते द्वीपास्समुद्रैस्तु सप्त सप्तभिरावृताः ॥ ६ ॥
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैस्समम् ।
द्वीपाद्द्वीपा द्विगुणिताः समुद्राश्च समुद्रतः ॥ ७ ॥
बाह्ये हिरण्मयी भूमिः द्विगुणा तु समन्ततः ।
लोकालोकाचलः शैलो योजनायतमुच्छ्रितः ॥ ८ ॥

[[६]]

उच्छ्रयेणापि च तथा सहस्रेण द्विजोत्तमाः ।
ततस्तमः समावृत्य तं शैलं सर्वतस्समम् ॥ ९ ॥
पञ्चाशत्कोटिविस्तारा सेयमुर्वी द्विजोत्तमाः ।
सहैवाण्डकपालेन सद्वीपाब्धिमहीधरा ॥ १० ॥
आधारभूता सर्वेषां भूतानाञ्च मही स्मृता ।
भूर्भुवस्स्वर्महर्लोकाः जनोलोकस्तथा महः ॥ ११ ॥
सत्यलोकश्च सप्तैते लोकाः प्रोक्ताः मनीषिभिः ।
तलश्च वितलश्चैव प्रतलो धातकीतलः ॥ १२ ॥
विद्रावकतलश्चैव सम्फुलाङ्गतलस्तथा ।
महातलस्तु पातालाः सप्तैते समुदाहृताः ॥ १३ ॥
लोकालोकाचलेनैते वृता लोकाश्चतुर्दश ।
अम्भोग्निमरुदाकाशैः अहङ्कारेण वै बहिः ॥ १४ ॥
वृतं दशगुणैरण्डं भूतादिमहता तथा ।
महदव्यक्त सञ्ज्ञेन प्रधानेन तथाऽऽवृतम् ॥ १५ ॥
एतद्ब्रह्माण्डमित्युक्तमृषिभिस्तत्त्वदर्शिभिः ।
अण्डानान्तु सहस्राणामर्बुदान्ययुतानि च ॥ १६ ॥
एतान्यण्डान्यनन्तानि विष्णोरन्तर्गतानि वै ।
तस्य विश्वात्मनो विष्णोः पूजास्थानं निबोधत ॥ १७ ॥
जम्बूद्वीपस्समस्तानामेतेषां मध्यमे स्थितः ।
तस्य मध्ये महामेरुरस्ति काञ्चनपर्वतः ॥ १८ ॥
चतुरशीतिसाहस्रयोजनायामसंयुतः ।
परिषोडशसाहस्रयुक्तस्तन्मूलविस्तरः ॥ १९ ॥

[[७]]

द्वात्रिंशदूर्ध्वविस्तारः कर्णिकाकारवत् स्थितः ।
निषधो हेमकूटश्च हिमवांश्चास्य दक्षिणे ॥ २० ॥
नीलः श्वेतस्तथा श्रृङ्गी चोत्तरे सीमपर्वताः ।
आनीलनिषधाऽऽयामो माल्यवांस्तस्य पूर्वतः ॥ २१ ॥
गन्धमादनसञ्ज्ञश्च तथा तस्यैव पश्चिमे ।
पूर्वापरौ वारिनिधी प्रविश्यान्ये व्यवस्थिताः ॥ २२ ॥
मध्ये द्विलक्षसम्मानौ दशहीनास्त्वतः परे ।
द्विसहस्रोच्छया एते तावद्विस्तारिणः स्मृताः ॥ २३ ॥
हरिवर्षं किम्पुरुषं भारतञ्चेति दक्षिणे ।
रम्यं हिरण्मयञ्चैव कुरवश्चोत्तराः स्मृताः ॥ २४ ॥
नवसाहस्रमेकैकमेतेषां प्रमितिर्द्विजाः ।
मेरोश्चतुर्दिशं वर्षं नवसाहस्रमेकतः ॥ २५ ॥
इलावृतमिति ज्ञेयं विष्कम्भाचलभूषितम् ।
तत्पूर्वपश्चिमे वर्षः भद्राह्वः केतुमालकः ॥ २६ ॥
नवखण्डमिति प्राहुः जम्बूद्वीपं विचक्षणाः ।
एतेषु भारतं श्रेष्ठं पुरुषार्थप्रसाधकम् ॥ २७ ॥
इतोऽन्या भूमयः सर्वाः भोगाय परिकल्पिताः ।
कर्मभूमिरियं प्रोक्ता स्वर्गं सम्प्राप्तुमिच्छताम् ॥ २८ ॥
क्रियते दानमत्रैव तपश्चात्र प्रतप्यते ।
यज्ञेषु यज्ञपुरुषो विष्णुरत्रेज्यते द्विजैः ॥ २९ ॥
अत्रैव विष्णुं ध्यायन्तो मुक्तिं यान्ति मुमुक्षवः ।
अत्रैव सकलीकृत्य विष्णुमाराधयन्ति ये ॥ ३० ॥
द्वितीयोऽध्यायः

[[८]]

ते लब्धसर्वकामाश्च ततो मुक्तिं समाप्नुयुः ।
तस्मादत्रैव यत्नेन समाराध्यो जनार्दनः ॥ ३१ ॥
अत्रापि भारते वर्षे नवस्तव्यान् निबोधत ।
निर्वातमतिवातञ्च व्याधिभूयिष्ठमेव च ॥ ३२ ॥
सदा धर्मं सदा रूक्षं सशीतं ब्रह्मवर्जितम् ।
अमित्रैरावृतं देशं शबरादिभिरर्दितम् ॥ ३३ ॥
नि……………………….समाकुलम् ।
राक्षसैरसुरैर्भूतैर्यक्षैरपि पिशाचकैः ॥ ३४ ॥
सदाश्रितं निराक्रन्दम् इरिणालावनं तथा ।
नित्यं युद्धपराक्रान्तं स्वादुतोयविवर्जितम् ॥ ३५ ॥
कृष्णसारैः कपोतैश्च कोकिलैः शुकशारिकैः ।
एतैर्हीनञ्च सन्त्यज्य देशं रम्यं समाश्रयेत् ॥ ३६ ॥
वास्तुविन्यासविधिना सुकृतेषु च वास्तुषु ।
उक्तेष्वेव प्रदेशेषु कुर्वीतालयकल्पनम् ॥ ३७ ॥
आचार्यलक्षणम्

आरम्भकाले धर्मात्मा यजमानस्समाहितः ।
वैखानसेन सूत्रेण निषेकादिक्रियान्वितान् ॥ ३८ ॥
विप्रान् वेदविदश्शुद्धान् मन्त्रकल्पविचक्षणान् ।
विधिज्ञानाहिताग्नींश्च नारायणपरायणान् ॥ ३९ ॥
भूम्याद्येकादशज्ञांश्च भगवत्कर्मतत्परान् ।
सुमनस्कान् सुपूर्णाङ्गान् दयाध्यात्मगुणान्वितान् ॥ ४० ॥

[[९]]

आहूयामन्त्र्य विधिना वरयेत्तु स्वदैववत् ।
हीनदीर्घातिरिक्ताङ्गान् कुब्जान्वै वामनानपि ॥ ४१ ॥
उन्मादापस्मृतियुतान् पापरोगनिपीडितान् ।
कुनखान् श्यावदन्तांश्च विद्धशेफांश्च षण्डकान् ॥ ४२ ॥
शिपिविष्टान् व्यसनिनः क्रुद्धान् मत्सरिणस्तथा ।
गुरुराजद्विजप्राज्ञदेववेदादिनिन्दकान् ॥ ४३ ॥
अयाज्ययाजकांश्चैव कुलाटास्तमितोदितान् ।
अनग्नीन् निन्दितानन्यानतिवृद्धातिबालकान् ॥ ४४ ॥
एवं विधान् परित्यज्य पूर्वोक्तानाहरेद्बुधः ।
तत्र ज्ञानोत्कटं शुद्धं वैष्णवं शान्तमानसम् ॥ ४५ ॥
उदितोदितं सुपुष्टाङ्गं ज्ञात्वा तं वरयेद्गुरुम् ।
सम्पूज्य यजमानस्तं वस्त्राभरणकुण्डलैः ॥ ४६ ॥
निवेद्य तस्मै स्वां शक्तिं तेनोक्तं विधिनाऽऽचरेत् ।
यजमानो गुरुञ्चैव सम्प्रणम्य जगत्पतिं

देवालयं समुद्दिश्य भूमिं सम्यक् परीक्षयेत् ॥ ४७ ॥
उक्तभूमिः

ग्रामे वा नगरे वापि पत्तने खर्वटेऽपि वा ।
दण्डके कुटिके वापि नदीतीरे मनोरमे ॥ ४८ ॥
तटाकस्याथ तीरे वा वेलायां सागरस्य वा ।
शैलाग्रे शैलपार्श्वे वा वनपार्श्वे वनान्तरे ॥ ४९ ॥
स्थानं यत्रैव विस्तीर्णं तत्रापि च मनोरमे ।
युक्तं स्थानं समालोक्य गुह्णीयाच्छार्ङ्गधन्वने ॥ ५० ॥
द्वितीयोऽध्यायः

[[१०]]

नारायणस्य देवस्य श्वेता भूमिरुदाहृता ।
पीतवर्णेन युक्ता च तुलसीकुशसंयुता ॥ ५१ ॥
ब्राह्मीं रक्तां विजानीयात् कृष्णां रौद्रीञ्च लक्षयेत् ।
प्रागुदक्प्रवणां विष्णोः पश्चिमप्रवणां कवेः ॥ ५२ ॥
दक्षिणप्रवणां शम्भोःपृथगेवं समाहरेत् ।
ग्राममध्ये हरेः स्थानमुत्तमं समुदाहृतम् ॥ ५३ ॥
पश्चिमे मध्यमं विद्यादधमञ्चैन्द्र उच्यते ।
सहस्रादधिके ग्रामे विप्राणां तत्र मध्यमे ॥ ५४ ॥
पञ्चमूर्तिं समुद्दिश्य विमानं परिकल्पयेत् ।
द्वितलं त्रितलं वापि विमानं कारयेद्बुधः ॥ ५५ ॥
एवं कर्तुमशक्तश्चेत् पश्चिमे वाऽपि कारयेत् ।
एकमूर्तिक्रमेणापि द्वितलोक्त विधानतः ॥ ५६ ॥
आदिभूमिं घनं कुर्यात् द्वितलञ्चासनं भवेत् ।
अभ्यन्तरासु वीथीषु ग्रामाधिक्यमुखं चरेत् ॥ ५७ ॥
पश्चिमे प्राङ्मुखं कुर्यात् प्राच्यां वै पश्चिमामुखम् ।
उत्तराभिमुखं कुर्याद्याम्ये ग्रामविवृद्धये ॥ ५८ ॥
अनन्तोत्सङ्ग आसीनं शयानं स्थानकं हरिम् ।
आसीनं पश्चिमे कुर्यादुत्तरे शयनं भवेत् ॥ ५९ ॥
सर्वत्र शयनं श्रेष्ठं ग्रामाभिमुखमुच्यते ।
विदिशासु च सर्वासु दक्षिणां दृष्टिमाचरेत् ॥ ६० ॥
पश्चिमे यत्र कुर्वीत मध्यवीथ्यास्तथोत्तरे ।
वीर्यार्थी विजयार्थी च मध्यवीथ्यास्तु दक्षिणे ॥ ६१ ॥

[[११]]

पञ्चहस्तं समारभ्य यावच्छक्तिसमन्वितम् ।
विहितं सम्परिज्ञाय मूलस्थानं प्रकल्पयेत् ॥ ६२ ॥
महाभूतस्य यत्पीठं वीथ्यन्तरगतं भवेत् ।
ग्रामवास्तु तथा कुर्यात् विपरीते विनश्यति ॥ ६३ ॥
एवं स्थानं प्रकल्प्यैव विमानं परिकल्पयेत् ।
अथ वा कल्पयेद्विद्वान् गृहभागं विसृज्य च ॥ ६४ ॥
पैशाचं संव्यपोह्यैव पश्चिमे सुमनोरमे ।
ग्रामं सम्यक् प्रकल्प्यैव यथावित्तानुसारतः ॥ ६५ ॥
ब्रह्मस्थाने तु कुर्याच्च चतुर्भागं विभज्य च ।
वायव्ये तु चतुर्भागे किञ्चिद्वायव्यमाश्रिते ॥ ६६ ॥
पञ्चमूर्तिक्रमेणैव विमानं परिकल्पयेत् ।
विभज्य राशीन् मेषादीन् ग्रामे तत्र क्रमेण वै ॥ ६७ ॥
स्थिरराशौ प्रकुर्वीत विष्णोरालयमुत्तमम् ।
प्राग्द्वारं तु प्रशस्तं स्याद्विष्णुमुद्दिश्य सर्वतः ॥ ६८ ॥
विदिग्द्वारं न कुर्वीत कस्मिंश्चित् देवतालये ।
मध्यमं पश्चिमद्वारमधमं दक्षिणोत्तरम् ॥ ६९ ॥
देवतादृष्टिनियमः

ग्रामप्रेक्षं हरिं कुर्याद्धरं कुर्यात्पराङ्मुखम् ।
देवानन्यांश्च सर्वान्वै ग्रामप्रेक्षांस्तु कारयेत् ॥ ७० ॥
दृष्ट्या तु शुभदो विष्णुः हरो दृष्ट्या विनाशकृत् ।
शूद्राणाञ्चैव वासेषु पश्चिमे तु हरेर्विदुः ॥ ७१ ॥
द्वितीयोऽध्यायः

[[१२]]

नगरे पश्चिमे प्रोक्तं दक्षिणे चोत्तरेऽपि वा ।
खर्वटे पश्चिमे कुर्यात् दण्डकेषु तथैव च ॥ ७२ ॥
कुटिके पश्चिमे कुर्यात् दण्डकेषु तथैव च ।
नदीतीरेऽद्रिदेशे वा भूमिर्यत्र मनोहरा ॥ ७३ ॥
द्वारं यत्रैव रम्यं स्यात् आलयं तत्र कारयेत् ।
एवं भूमिं प्रकल्प्यैव विमानारम्भमाचरेत् ॥ ७४ ॥
सामृतहारककल्पकथनं

सामृतो हारकश्चैव द्विविधो मार्ग उच्यते ।
मूलस्थानं समुद्दिश्य स्थानं यत्रैव निश्चितम् ॥ ७५ ॥
तत्स्थानाद्वायुभागे वा सौम्ये वैशानगोचरे ।
बालस्थानं प्रकल्प्यैव बिम्बं सम्यक् समाहरेत् ॥ ७६ ॥
विमानस्यानुरूपञ्च ध्रुवं निर्णीय पूर्वतः ।
ध्रुवानुरूपमानेन कौतुकं कारयेद्बुधः ॥ ७७ ॥
विमानादिषु सर्वत्र मानं मानाङ्गुलेन वै ।
यष्टिर्येन प्रमाणेन ग्राममुद्दिश्य चाहृता ॥ ७८ ॥
तद्यष्टिमानं ज्ञात्वा तु अङ्गुलीभिर्विभज्य च ।
द्विशतं वसुभिर्हीनमङ्गुलानान्तु सङ्ख्यया ॥ ७९ ॥
तदङ्गुल्यश्चतुर्विंशत् हस्तमित्यवबुद्ध्यते ।
पञ्चहस्तं समारभ्य यावच्छक्तिसमन्वितम् ॥ ८० ॥
विमानरूपं ज्ञात्वा तु बालस्थानं प्रकल्पयेत् ।
तदर्धं मध्यमं प्रोक्तं तस्यार्धमधमं विदुः ॥ ८१ ॥

[[१३]]

तदङ्गुल्यश्चतुर्विंशदुत्तमं कौतुकं भवेत् ।
बिम्बं सलक्षणं कृत्वा दशतालक्रमेण वै ॥ ८२ ॥
अर्चायामं त्रिधा कृत्वा तत्रैकं पीठमाचरेत् ।
एवं बिम्बञ्च कृत्वा तु यजमानयुतो गुरुः ॥ ८३ ॥
ग्रामस्य यजमानस्य चानुकूले शुभे दिने ।
अङ्कुरानर्पयित्वा तु स्थापनारम्भमाचरेत् ॥ ८४ ॥
बालालयस्योत्तरतो वास्तुहोमं समाचरेत् ।
पर्यग्निञ्चैव कृत्वा तु पुण्याहं वाचयेत्क्रमात्॥ ८५ ॥
ये ते शतादिभिर्हुत्वा व्याहृत्यन्तं पृथक् पृथक् ।
अन्तहोमञ्च कृत्वा तु सूत्रोक्तेन विधानतः ॥ ८६ ॥
बालालयस्य पुरतो यागशालां प्रकल्पयेत् ।
मध्ये शयनवेदिश्च प्राच्यामाहवनीयकम् ॥ ८७ ॥
दक्षिणेऽन्वाहार्यकन्तु गार्हपत्यन्तु वारुणे ।
उत्तरे चावसत्थ्यञ्च पूर्वादिषु यथाक्रमम् ॥ ८८ ॥
सूत्रोक्तेन विधानेन कुण्डेष्वाघारमाचरेत् ।
आघारान्ते तु होतव्यं वैष्णवं तत्र तत्र तु ॥ ८९ ॥
प्राच्यां शयनवेद्यास्तु श्वभ्रं सग्यक् प्रकल्प्य च ।
तत्प्राच्यां दण्डवेदिञ्च कुर्याद्वै व्रीहितण्डुलैः ॥ ९० ॥
क्षीरं घृतं मधु तथा सर्षपञ्चाक्षतोदकम् ।
गन्धोदकं कुशोदञ्चेत्युदकानि च सन्न्यसेत् ॥ ९१ ॥
शन्नोदेवीरग्न आयाह्यग्निमील इति ब्रुवन् ।
पूतस्तस्येति चोक्त्वा तु इमा ओषधय इत्यपि ॥ ९२ ॥
द्वितीयोऽध्यायः

[[१४]]

‘अभित्वा शूर’ चत्वारि क्रमान्मन्त्रान् समुच्चरन् ।
कलशैः स्नापयेद्देवं सोपस्नानैस्तु सप्तभिः ॥ ९३ ॥
पश्चात् प्लोतेन संशोध्य शयनं सम्प्रकल्पयेत् ।
शय्यावेद्यां तथा पञ्च अण्डजादीन् समास्तरेत् ॥ ९४ ॥
अलाभे त्वण्डजादीनां प्रत्येकं वस्त्रमास्तरेत् ।
कुम्भं संसाध्य तत्काले देवदेवमनुस्मरन् ॥ ९५ ॥
कुम्भञ्चैव सुसन्यस्य प्रणवेन सुसंस्कृतम् ।
वेदाहमेतमुच्चार्य शयने शाययेद्धरिम् ॥ ९६ ॥
तत्कुम्भं पूर्वतो न्यस्य सर्वालङ्गारसंयुतम् ।
पाद्यादिभिः प्रपूज्यैव पुण्याहं वाचयेत्ततः ॥ ९७ ॥
प्रतिसरबन्धनं कुर्यात् ‘स्वस्तिदा’ इति मन्त्रतः ।
यद्वैष्णवं समुच्चार्य शयने शाययेद्धरिम् ॥ ९८ ॥
हौत्रप्रशंसनं कुर्यादन्वाहार्ये विशेषतः ।
चतुर्मूर्तिविधानेन देवानावहयेत्क्रमात् ॥ ९९ ॥
आवाहनक्रमेणैव जुष्टाकारमथाचरेत् ।
जुष्टाकारक्रमेणैव आहुतीर्विधिवद्यजेत् ॥ १०० ॥
हुत्वा तु सर्वदैवत्यं देवदेवमनुस्मरन् ।
आहवनीये तत्काले पुरुषसूक्तं च होमयेत् ॥ १०१ ॥
विष्णुसूक्तञ्च हुत्वा तु गार्हपत्ये विशेषतः ।
एकाक्षरादीन् जुहुयात् आवसत्थ्ये यथाक्रमम् ॥ १०२ ॥
एवं कृत्वा तु तद्रात्रौ रात्रिशेषं व्यपोह्य च ।
पुनः प्रभाते स्नात्वा तु यजमानयुतो गुरुः ॥ १०३ ॥

[[१५]]

बालालयं समासाद्य वह्निं प्रज्वाल्य चादरात् ।
वैष्णवं मूलहोमान्ते अन्तहोमञ्च होमयेत् ॥ १०४ ॥
मुहूर्ते समनुप्राप्ते उद्धृत्य शयनाद्धरिम् ।
पाद्याद्यर्घ्यान्तमभ्यर्च्य पूजयित्वा यथाक्रमम् ॥ १०५ ॥
सर्वालङ्गारसंयुक्तं सर्ववाद्यसमायुतम् ।
देवमादाय यत्नेन बालागारं प्रवेशयेत् ॥ १०६ ॥
जप्त्वा तु वैष्णवं सूक्तं स्थापयित्वा विचक्षणः ।
पुण्याहं वाचयित्वा तु प्रोक्षणेन समन्वितम् ॥ १०७ ॥
आराध्य विधिवन्मन्त्रैः हविस्सम्यङ्निवेदयेत् ।
पश्चान्नित्यं समभ्यर्च्य विमानं कारयेद्बुधः ॥ १०८ ॥
एवं कर्तुमशक्तश्चेत् हारकं मार्गमाचरेत् ।
बिम्बं याचितमादाय भूपरीक्षादिकं चरेत् ॥ १०९ ॥
विमानं विधिवत्कृत्वा ध्रुवबिम्बञ्च कारयेत् ।
कौतुकञ्चैव कृत्वा तु पश्चात् स्थापनमाचरेत् ॥ ११० ॥
पञ्चमूर्तिप्रतिष्ठायां विशेषः

पञ्चमूर्तिप्रतिष्ठा चेत् गर्भागारे पदं चरेत् ।
ऊर्ध्वं तलं समुद्दिश्य मानुषे स्थापयेत् क्रमात् ॥ १११ ॥
ब्राह्मे तु विष्णुमूर्तिञ्च स्थापयित्वा विचक्षणः ।
अर्धमण्डपमध्ये तु पुरुषमूर्तिं समर्चयेत् ॥ ११२ ॥
सत्यं दक्षिणतः पार्श्वे पश्चिमेऽप्यच्युतं तथा ।
उत्तरे चानिरुद्धञ्च स्थापयित्वा समर्चयेत् ॥ ११३ ॥
द्वितीयोऽध्यायः

[[१६]]

परितः प्रावरणं कुर्याद्यथायोगं विचक्षणः ।
स्थापयित्वा विधानेन नित्यं विधिवदर्चयेत् ॥ ११४ ॥
भूपरीक्षादिनात्पूर्वं शिल्पशास्त्रविशारदम् ।
रूपयौवनसम्पन्नं……………………. ॥ ११५ ॥
ज्ञात्वा तु हस्तकौशल्यमाहरेच्छिल्पिनं बुधः ।
भूपरीक्षादिनात्पूर्वं यजमानयुतो गुरुः ॥ ११६ ॥
शास्त्रं सम्यग्विदित्वा तु ज्ञात्वैव गुरुलाघवम् ।
नवधा मार्गमालक्ष्य शक्त्या युक्त्या समाचरेत् ॥ ११७ ॥
यद्दिने भूपरीक्षा स्यात् तत्पूर्वे देवमर्चयेत् ।
पूर्वेद्युः पररात्रौ तु देवदेवं समर्चयेत् ॥ ११८ ॥
पश्चाद्देवं प्रणम्यैव यजमानयुतो गुरुः ।
निमित्तं सम्यगालोक्य शुभञ्चेत्कार्यमारभेत् ॥ ११९ ॥
अशुभं यदि दृश्येत शान्तिं तत्रैव कारयेत् ।
तद्दिनन्तु परित्यज्य दिनेऽन्यस्मिन् समारभेत् ॥ १२० ॥
ततः प्रभाते धर्मात्मा स्नात्वा स्नानविधानतः ।
अर्चयित्वा यथान्यायं यजमानयुतो गुरुः ॥ १२१ ॥
देवदेवं प्रणम्यैव ‘प्रीयतां भगवा’निति ।
देवदेवमनुज्ञाप्य प्रदक्षिणमथाचरेत् ॥ १२२ ॥
सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतम् ।
ब्रह्मध्वनिस्तोत्रयुतं जयशब्दसमायुतम् ॥ १२३ ॥
शास्त्रोक्तां भूमिमाहृत्य तृणगुल्मं व्यपोह्य च ।
गर्भालयं समुद्दिश्य मण्डपेन समायुतम् ॥ १२४ ॥

[[१७]]

प्रथमावरणञ्चैव गोपुरेण समन्वितम् ।
द्वितीयावरणञ्चैव तृतीयावरणं तथा ॥ १२५ ॥
गोपुरं तत्तदुद्दिश्य यावच्छक्तिसमन्वितम् ।
पञ्चहस्तादिभेदेन विमानं तत्र कल्पयेत् ॥ १२६ ॥
पञ्चहस्तप्रमाणं यत्तद्विष्णोरधमाधमम् ।
त्रिहस्तमन्यदेवानामधमाधममुच्यते ॥ १२७ ॥
तस्यानुसारिणीं भूमिं विदित्वा यत्नतः क्रमात् ।
एवमेव विधानेन वैष्णवीं भूमिमाहरेत् ।
देवानन्यान्समुद्दिश्य तत्तदर्हं समाचरेत् ॥ १२८ ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे भूपरीक्षाविधानं नाम द्वितीयोऽध्यायः ॥