०१ पूजास्वरूपकथनम्

xlii

श्रियै नमः

श्री श्रीनिवासाय नमः

श्रीमते विखनसे नमः

श्रीमद्भ्यः भृगुमरीच्यत्रिकश्यपेभ्यो नमः

श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तासु संहितासु

॥ खिलाधिकारः ॥

अथ प्रथमोऽध्यायः

नारायणः पिता यस्य माता चापि हरिप्रिया ।
भृग्वादिमुनयः शिष्याः तस्मै विखनसे नमः ॥
ॠषिप्रश्नोत्तरम्

ॠषयः

ब्रह्मपुत्र मुनिश्रेष्ठ त्वमेव ब्रह्मणः प्रियः ।
त्वमेव सर्ववेत्ताऽसि त्वमेव वदतां वरः ॥ १ ॥
श्रुतं श्राव्यञ्च विश्वस्मिन् वेद्यञ्च विदितं त्वया ।
कर्तव्यञ्च कृतं कृत्स्नं परमात्मरतात्मना ॥ २ ॥
यमाहुरमितं नित्यं परमात्मानमच्युतम् ।
अणीयांसमणोर्नित्यं महीयांसं महत्तरात् ॥ ३ ॥
जगच्छरीरिणं देवं सर्वस्याधारमीश्वरम् ।
आविश्य चाखिलं सर्गस्थितिनाशनकारणम् ॥ ४ ॥
वेदेषु वेद्यं सर्वेषु याज्यं यज्ञेषु सर्वदा ।
नारायणं त्वं तत्त्वेन वेत्ताऽसि परमार्थवित् ॥ ५ ॥

[[२]]

त्वत्तो लब्धप्रसादा हि विष्णुं सर्वजगद्गुरुम् ।
शक्नुवन्ति महात्मानः सम्यक् ज्ञातुं महर्षयः ॥ ६ ॥
तस्मात्त्वां परिपृच्छामः सर्वभूतहितोद्यतम् ।
यस्य स्मृतिर्मुमुक्षूणां सर्वकर्माणि नाशयेत् ।
बुभुक्षूणां सकामानां सर्वान् कामांश्च साधयेत् ॥ ७ ॥
यत्स्मृतिं निष्कृतिं यज्ञे प्रच्युतेराह वै श्रुतिः।
तं यज्ञपूरुषं नित्यं सर्वदेवमयं हरिम् ॥ ८ ॥
केनोपायेन कैर्मन्त्रैः कथमाराध्यः किं फलम् ।
प्राप्नुवन्ति महात्मानः भवार्णवतितीर्षवः ॥ ९ ॥
विष्ण्वर्चनं विखनसा यत्स्वसूत्रे समीरितम् ।
आचक्ष्व सर्वं ब्रह्मर्षे तदेतन्नः सविस्तरम् ॥ १० ॥
भृगुरुवाच

युष्माभिः परिपृष्टं यत्तत्सर्वमृषिसत्तमाः ।
साधूक्तं सर्ववेदानां सारो युष्माभिरर्थितः ॥ ११ ॥
अस्यार्थस्य तु जिज्ञासा सुराणामपि दुर्लभा ।
बहुजन्मार्जितैः पुण्यैः तपोभिरपि दुष्करैः ॥ १२ ॥
सदक्षिणैः क्रतुशतैः जपैर्दानैर्व्रतैस्तथा ।
नेदृशी भगवद्भक्तिर्लभ्यतेऽव्यभिचारिणी ॥ १३ ॥
तद्युक्तमेव युष्माकं श्रोतुमेतन्मयाऽनघाः ।
सावधानेन मनसा शृणुध्वं यत्प्रवक्ष्यते ॥ १४ ॥
त्रिविधमाराधनं

नारायणस्य भूतानामात्मनः परमात्मनः ।
लीलया जगदुत्पत्तिस्थितिसंहारकारिणः ॥ १५ ॥

[[३]]

देवदेवशितुर्विष्णोः लक्ष्मीशस्य जगत्पतेः ।
उपायस्त्रिविधः प्रोक्तः पूजायाः शृणुत द्विजाः ॥ १६ ॥
मानसी होमपूजा च बेरपूजेति सा त्रिधा ।
हृदये हृदयेशानं जगदीशं परात्परम् ॥ १७ ॥
ध्यात्वा तु हृदयान्तस्थं हेमवर्णमजं विभुम् ।
कृत्वैकाग्रं मनस्सम्यक् कृतस्नानजपादिकः ॥ १८ ॥
रश्मिमालासहस्राढ्यं मण्डलं विपुलं रवेः ।
तदन्तः शीतलाभिस्तु रश्मिभिः सोममण्डलम् ॥ १९ ॥
ततः स्फुलिङ्गकलिलज्वालाभिर्वह्निमण्डलम् ।
सस्य मध्ये सुखासीनं तप्तहाटकसन्निभम् ॥ २० ॥
चतुरङ्गुलमात्राङ्गं शुकपत्रनिभाम्बरम् ।
हारकेयूरकटककटिसूत्रोपशोभितम् ॥ २१ ॥
कौस्तुभोद्भासितोरस्कं श्रीवत्साङ्कितवक्षसम् ।
उद्दामकाञ्चीविलसन्मुक्तवीरोपशोभितम्॥ २२ ॥
रक्तनेत्रधरं रक्तपाणिपादनखं शुभं

शङ्खचक्रधरं देवं चतुर्बाहुधरं परम् ॥ २३ ॥
तद्गतेनैव मनसा नैरन्तर्येण चिन्तयेत् ।
ध्वात्वैवमर्चयेद्देवं सा पूजा मानसी स्मृता ॥ २४ ॥
अग्नीनाधाय विधिवदध्वरेषु द्विजातिभिः ।
इज्यते यज्ञपुरुषः सर्वदेवमयो हरिः ॥ २५ ॥
यो यज्ञरूपी तस्यार्चा होमपूजेति कथ्यते ।
कृत्वा यत्प्रतिमां विष्णोः यथालक्षणमादरात् ॥ २६ ॥
प्रथमोऽध्यायः

[[४]]

संस्थाप्य तान्तु विधिना देवागारेऽथ वेश्मनि ।
नित्यमाराधनं भक्त्या सा पूजा बेरपूजनम् ॥ २७ ॥
आलये बेरपूजा च ग्राममध्ये प्रकल्पिता ।
सा तत्र वासिनां सर्वमग्निहोत्रं द्विजन्मनाम् ॥ २८ ॥
शुष्केन्धनं यथाऽनग्नौ न प्रज्वलति कर्हिचित् ।
तद्वन्मोघो द्विजोऽनग्निः इत्याहुर्वेदपारगाः ॥ २९ ॥
अग्निहोत्रमनग्नीनां धाता प्राहालयं हरेः ।
अग्निहोत्री लभते स्वर्गं नेत्याह च श्रुतिः ॥ ३० ॥
सङ्गतिर्देवपूजा च दानं यज्ञ इति स्मृतिः ।
यज्ञेष्वेतेषु विधिवद्बेरपूजा विशिष्यते ॥ ३१ ॥
यजमाने मृतेऽप्येषा शाश्वतं भुवि तिष्ठति ।
तस्याग्निहोत्रस्याधानं वक्ष्यामि शृणुत द्विजाः ॥ ३२ ॥
ॠग्यजुस्सामसु वराः तत्तत्कर्मानुरूपतः ।
सौम्याः फलकरा मन्त्राः विष्णोराराधने स्मृताः ॥ ३३ ॥
(शान्तिकं पौष्टिकञ्चापि निष्कृतिश्चाभिचारिकम् ।
एवं चतुर्था सम्प्रोक्तं पुरा तु हरिपूजनम् ।
पूजनोपायमन्त्रैस्तु मार्गभेदश्चतुर्विधः ॥
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां

खिलाधिकारे मानसहोमबेरेषु पूजास्वरूपकथनं नाम प्रथमोऽध्यायः॥

[[५]]